कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः २८

विकिस्रोतः तः
← प्रश्नः २७ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः २८
हिरण्यकेशिः/सत्याषाढः
प्रश्नः २९ →

28.1
अथातः पैतृमेधिकम् ॥ १ ॥
पुरुषाहुतिर्ह्यस्य प्रियतमेति विज्ञायते ॥ २॥
आहिताग्नेर्मरणसꣳशये प्राचीनाविती दहनदेशं जोषयते ॥ ३॥
दक्षिणाप्रत्यक्प्रवणमनिरिणमसुषिरमनूषरमभङ्गुरमनूपहतमविस्रग्धार्यमनुपच्छन्नं प्रवणम् ॥ ४ ॥
यस्माद्दक्षिणाप्रतीच्या अपो निःसृत्योदीच्य एत्य महानदीमुपेत्य प्राच्यः संपद्यन्ते ॥ ५॥
समं वा स(सु)भूमिं बहुलौषधिं वनस्यावनं क्षेत्रस्य(स्या) क्षेत्रीमीरणस्यानिरिणमित्येके ॥ ६ ॥
यस्मादारात्क्षीरिणो वृक्षाः कण्टकिनश्च ॥ ७ ॥
तदौषधिः (धयः) ॥ ८॥
तस्मिꣳस्त्रिधोल्लिख्योद्धृ(द्ध )त्यावोक्ष्य गार्हपत्यमाथत्वाऽऽहवनीयं ज्वलन्तमुद्धरति ॥ ९॥
अन्तरा दारुचितेरवकाशꣳ शिष्ट्वाऽग्नीनुपवपति पुरस्तादाहवनीयं पश्चाद्गार्हपत्यं दक्षिणतोऽन्वाहार्यपचनं पुरस्तात्सभ्यावसथ्यावौपासनं च ॥२८.१.१०॥
तेष्वजस्रेषु जुह्वद्वसति ॥ ११ ॥
प्राणा वा एतदाहिताग्नेर्यदग्नयस्त एनꣳ सुसमिद्धाः पालयन्त्यगदो ह भवतीति विज्ञायते ॥ १२ ॥
तस्यैतदग्निहोत्रोच्छेषणं निदधाति ॥ १३ ॥
ग्रामे वाऽस्यैतेन कल्पेन जुहुयात् ॥ १४ ॥
यदि जीवेत्पिबेदग्निहोत्रोच्छेषणम् ॥ १५ ॥
यदि मरणसꣳशये ब्रह्मविदाप्नोति परं भृगुर्वैवारुणिरित्येतावनुवाकौ ब्रह्मविदो दक्षिणे कर्णे जपति ॥ इतरस्या आयुषः प्राणꣳ संतन्विति ॥१६॥
यदि प्रेति प्रेतेऽमात्याः प्राचीनावीतिनो केशान् प्रकीर्य पाꣳसूनावपन्ते ॥ १७ ॥
तं जघनेन गार्हपत्यं दक्षिणाशिरसं दर्भेषु संवेशयन्ति सर्वस्य प्रतिशीवरीति ॥ १८ ॥
सर्वेषु संवेशनेषु दक्षिणाशिराः ॥ १९॥
पूर्वया द्वारोपनिर्हृत्यान्तराऽग्ने(ग्नी) निपात्यान्वारब्धे मृत आहवनीये स्रुवाहुतिं जुहोति परे युवाꣳसमित्येवं गार्हपत्येऽन्वाहार्यपचने सभ्यावसथ्ययोरौपासने च ॥ २८.१.२० ॥
अथास्य दक्षिणेन विहारं परिश्रिते प्रेतस्य केशश्मश्रुलोमनखानि वापयित्वा स्नापयित्वा ग्राम्येणालंकृत्य शुक्लसूत्रेणाङ्गुष्ठौ बद्ध्वा नलदमालामाबध्य ॥ २१ ॥ (ख० १)।
औदुम्बर्यामासन्द्यां कृष्णाजिनं दक्षिणाग्रीवमधरलोमाऽऽस्तीर्य तस्मिन्नेवमुत्तानं निपात्य पत्तोदशेनाहतेन वाससा प्रोर्णोतीदं त्वा वस्त्रमिति ॥ २२॥ अथास्यै(स्ये)तरदपादत्तेऽपैतदूहेति ॥ २३ ॥
तत्पुत्रो भ्राता वाऽन्यो वा प्रत्यासन्नबन्धुः ॥ २४ ॥
प्रतीतः परिधायाजरसोवसीताथाप उपस्पृश्य ॥ २५॥
अपरेणाऽऽहवनीयं प्रतीचीस्तिस्र उलपराजीꣳ (जी)स्तीर्त्वा परापूयावहनानां व्रीहीणामन्वाहार्यपचने तूष्णीमुपचरितं चरुꣳ श्रपयति ॥ २६ ॥
गार्हपत्ये च मैत्रावरुणीमामिक्षाम् ॥ २७॥
यदि सोमयाजी भवति ॥ २८ ॥
पालाशं काष्ठमग्न्यागारतृणैर्गार्हपत्य आदीप्य तेनोल्मुकेन प्रथमा गच्छन्त्यजमनुनयन्ति ॥२९॥
राजगवीꣳ सव्ये यदि बद्धामग्नीनग्निभाण्डमग्निहोत्रोच्छेषणमिति ॥२८.१.३०॥
येन चान्येनार्थी भवति ॥ ३१ ॥
न हीनमन्वाहरेयुः ॥ ३२ ॥
अथैतमाददते ॥ ३३॥
अनसा वहन्तीत्येके ॥ ३४ ॥
कृष्णगवꣳ स्यादिति शाट्यायनकम् ॥ ३५॥
इमौ युनज्मीत्येष योजन आम्नातः ॥ ३६ ॥
आदीयमानमनुमन्त्रयते पूषा त्वेतश्चावयत्विति ॥ ३७॥
तुरीयमध्वनो गत्वा निधाय दक्षिणतो लोष्टानवरुज्य तेषु चरुं प्रतिष्ठाप्यैकवाससो दक्षिणान्केशपक्षानुद्ग्रथ्य सव्यान्विस्रस्य दक्षिणानूरूनाघ्नाना सिग्भिरवधून्वन्तस्त्रिः प्रसव्यं परियन्त्यप नः शोशुचदघमिति ॥ ३८ ॥
सव्यानुद्ग्रथ्य दक्षिणान्विस्रस्य सव्यानुरूनाघ्नाना अनभिधून्वन्तस्त्रिः प्रतिपर्यन्त्यप नः शोशुचदघमिति ॥ ३९ ॥
मेक्षणेन लोष्टेषु चरोस्त्रिः प्रयौति ॥ २८.१.४० ॥ (ख० २)।
परीत्य परीत्य प्रयौतीत्येके ॥ ४१ ॥
आदीयमानमनुमन्त्रयते पूषे मा आशा इति ॥ ४२ ॥
तुरीयमध्वनो गत्वा निधाय पूर्ववत्कृत्वाऽऽदीयमानमनुमन्त्रयत आयुर्विश्वायुरिति ॥ ४३ ॥
तुरीयमध्वनो गत्वा निधाय पूर्ववत्कृत्वा तृतीयेन सह चरुं प्रक्षुणुयात् ॥ ४४ ॥
अथास्य कपालानि सुसंभिन्नानि संभिनत्ति यथैषूदकं न तिष्ठेत् ॥ ४५ ॥
तूष्णीं चतुर्थमादाय गत्वा जघनेन दहनदेशं निधायोदञ्चः समुत्क्रामन्तीत्येषा वै देवमनुष्याणाꣳ शान्ता दिक्तामेवैनाननूत्क्रामयन्तीति विज्ञायते ॥ ४६ ॥
प्रत्येत्य हरिण्या पलाशशाखया शमीशाखया वा श्मशानायतनꣳ संमार्य्ट्रपेत वीतेति ॥४७॥
दक्षिणतः शाखामुदसिxत्वाऽप उपस्पृश्योद्धत्यावोक्ष्य मध्ये हिरण्यशकलं निधाय तस्मिन्दक्षिणाग्रान्दर्भान्सꣳस्तीर्य तेषु दक्षिणाग्रैर्याज्ञिकैः काष्ठैर्दारुचितिं चित्वाऽग्नीनुपवपति पुरस्तादाहवनीयं पश्चाद्गार्हपत्यं दक्षिणतोऽन्वाहार्यपचनं पुरस्तात्सभ्यावसथ्यावौपासनं च दक्षिणाप्रागग्रैर्दभैरग्निं दारुचितिं च परिस्तीर्य दक्षिणतः पश्चाद्वा दर्भान्सꣳस्तीर्य चितेर्दक्षिणतो दक्षिणाप्राञ्च्येकैकशः पात्राणि प्रयुनक्ति ।। ४८ ॥
रज्जूरपकृष्याऽऽसन्दीमपविध्यन्ति ॥ ४९ ॥
रज्जुषु चैव कृष्णाजिने चोत्तानः शेते ॥ २८.१.५० ॥
एकपवित्रेण प्रोक्षणीः सꣳस्कृत्य मृतं पात्राणि दारुचितिं च प्रोक्ष्याथाऽऽज्यानि गृह्णाति दर्शपूर्णमासवत्तूष्णीम् ॥ ५१ ॥
अग्निहोत्रोच्छेषणमन्येन दध्ना सꣳसृज्य पात्राणि पूरयति यान्यासेचनवन्त्यभ्युक्षतीतराण्यारिक्तता इति विज्ञायते ॥ ५२ ॥ (ख० ३)॥
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे(पितृमेधापरपर्याये)ऽष्टाविंशप्रश्ने प्रथमः पटलः॥१॥

28.2
अथ द्वितीयः पटलः।
अथैनमुदरे विदार्य निरान्त्रं निष्पुरीषं कृत्वाऽवटे पुरीषमवधायान्त्राणि प्रक्षाल्य प्रत्यवधाय सर्पिषा पूरयतीति शाट्यायनि(न)कम् ॥ १॥
अपि वा निष्पुरीषं कुर्यात् । यदि कुर्यात्प्रजा हास्य क्षोधुका भवन्तीति विज्ञायते ॥ २॥
अत्र राजगवि(वी)मुपाकरोति भुवनस्य पत इति । जरतीं मूर्खां तज्जघन्यां कृष्णां कृष्णाक्षीं कृष्णवाहिं(लां) कृष्णखुराम् ॥ ३॥
अपि वाऽक्षिबालखुरामेव कृष्णाꣳ स्यात् ॥ ४ ॥
तां ज्ञातयोऽन्वारभन्ते ॥ ५॥
अथात्यन्तप्रदेशो धून्वनेऽन्वारम्भणे संगाहने सꣳसर्पण उदकोपस्पर्शन आरोहण इति सर्वत्र कनिष्ठप्रथमा अनुपूर्वा इतरे स्त्रियोऽग्रे ॥६॥
ता घ्नन्त्युत्सृजन्ति वा ॥ ७॥
यद्युत्सृजन्त्यपश्याम युवतिमाचरन्ती[ मि ]त्येताभिस्तिसृभिस्त्रिः प्रसव्यं राजगवीमग्निं दारुचितिं च परिणीय ये जीवा इत्यभिमन्त्र्य माता रुद्राणामिति द्वाभ्यामुत्सृजन्ति ॥ ८ ॥ ( ख० ४)।
यदि घ्नन्ति तत्संप्रेष्यत्यपिधाय मुखं दक्षिणापदीं प्रत्यक्शिरसीं घ्नन्तीति ॥९॥
निहन्यमानायाः सव्यानि जानून्यनुनिघ्नन्तः पाꣳसूनवमृजन्ति पुरुषस्य सयावरीति ॥ २८.२.१० ॥
अथाऽऽह विस्रꣳसय( ते )ति ॥ ११॥
विस्रंस्यमानामनुमन्त्रयते पुरुषस्य सयावरी वि ते प्राणमसि स्रसमिति ॥ १२॥
[ततः] संप्रेष्यत्यङ्गादङ्गादनस्थिकानि पिशितान्युत्खिद्याप्रक्वाथयन्तोऽप्रच्यावयन्त उल्मुकैः श्रपयतात्प्रज्ञातहृदयं निधत्तात्प्रज्ञातौ वृक्या( क्यौ) प्रज्ञातमेव प्रज्ञातां वपां प्रज्ञातꣳ सपादवालशीर्षचर्मेति ॥ १३ ॥
अत्र पत्नीमुपनिपातयतीयं नारीति ॥ १४ ॥
तामविद्ध एकधनेनोत्थापयत्यन्यो वा ब्राह्मण उदीर्ष्व नारीति ॥ १५ ॥
अत्र पत्नी सहस्रं वरं ददाति ॥ १६॥
प्रेतस्य हस्तौ संमार्ष्टि ॥ १७ ॥
सुवर्णेन ब्राह्मणस्य सुवर्णꣳ हस्तादिति ॥ १८ ॥
धनुषा राजन्यस्य धनुर्हस्तादिति ॥ १९॥
मणिना वैश्यस्य मणिꣳ हस्तादिति ॥ २८.२.२० ॥
अथैनं चितावुपर्यध्यूहति ॥ २१॥
अत्र वा पत्न्या संवेशनादि क्रियते ॥ २२॥
अथास्य प्राणायतनेषु हिरण्यशल्कान्प्रत्यस्यति ॥ २३॥
आज्यबिन्दून्वा ॥ २४ ॥
पात्राणि चिनोति ।। २५॥
सर्वाण्यनुलोमानि ध्रुवावर्जम् ॥ २६ ॥
तस्य दक्षिणहस्ते स्यंवा जुहुं(हूं) च निदधाति ॥२७॥
सव्यमुपभृतम् ॥ २८॥
उरसि ध्रुवामरणी च ॥ २९ ।। (ख०५)।
मुखेऽग्निहोत्रहवणीम् ॥ २८.२.३०॥
नासिकयोः स्रुवौ ॥ ३१॥
अक्ष्णोर्हिरण्यशकलावाज्यस्थालीं पृषदाज्यस्थालीं स्रुवौ वा कर्णयोः प्राशित्रहरणे भित्त्वा ॥३२॥
हन्वोरुलूखलमुसले ॥ ३३ ॥
दत्सु ग्राव्णः ॥ ३४॥
यदि ग्रावाणो भवन्ति ॥ ३५॥
शिरसि कपालानि ।। ३६ ॥
ललाट एककपालम् ।। ३७ ।।
उदरे पिष्टसंयमनीं पात्रीम् ॥ ३८॥
नाभ्यामाज्यस्थालीं पृषदाज्यस्थालीं च ॥ ३९॥
पार्श्वयोः शूर्पे छित्त्वा वैकम् ।। २८.२.४० ॥
अक्ष्ण(वङ्क्षण)योः सांनाय्यकुम्भ्यौ ॥४१॥
अण्डयोर्दृषदुपले ॥ ४२ ॥
शिश्नेऽश्मानꣳ शम्यां च ॥ ४३ ॥
षष्ठ[प्रतिष्ठयोः] अग्निहोत्रस्थालीमन्वाहार्यस्थालीं च ॥ ४४ ॥
पत्त उपावहरणीयं कूर्चं वेदम् ॥ ४५ ॥
शिखायाꣳ शिरस्त उपसादनीयम् ॥ ४६ ॥
इडापात्रं च ॥४७॥
इममग्ने चमसमिति मध्ये चमसम् ।। ४८॥
अवशिष्टान्यन्तरा सक्थीनि ॥ ४९॥
एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गं लोकमेतेति विज्ञायते ॥ २८.२.५० ॥
उल्मुकैर्व्युष्टान्य(के वियूष्काण्य)वदानानि श्रपयित्वा हृदयेऽस्य हृदयं निदधाति ॥ ५१ ॥
दक्षिणहस्ते दक्षिणं वृक्यं सव्ये सव्यं श्यामशबलाभ्यां त्विति ॥ ५२॥
हस्तयोरेव मैत्रावरुणीमामिक्षां मित्रावरुणाभ्यां त्वेति ॥ ५३॥
वपयाऽस्य मुखं प्रोर्णोति मेदसा शिरसं प्रोर्णोति (णुष्व) मेदसः पीवसा चेति (ख० ६)। अथैनꣳ सपादवालशीर्षचर्मणोत्तरलोम्ना प्रोर्णोत्यग्नेर्वर्मेति
॥ ५४॥
अथैनमुपोषति मैनमग्ने विदह इति पुरस्तादाहवनीयेन ॥ ५५ ॥
शृतं यदेति पश्चाद्गार्हपत्येन ॥५६॥
तूष्णीं दक्षिणतोऽन्वाहार्यपचनेन ॥ ५७ ॥
पुरस्तात्सभ्यावसथ्याभ्यामौपासनेन च ॥ ५८ ॥
अथैनमुपतिष्ठते सूर्यं ते चक्षुरिति ॥ ५९ ॥
विज्ञानमुपैति यद्यूर्ध्वं धूम उदा(दि)याद्युतिलोको भवतीति विज्ञायते । यद्यन्तरिक्षमन्तरिक्षलोकः । यदि पृथिवीं पृथिवीलोकः॥ २८.२.६० ॥
जघनेन चितिमजमबलेन शुल्बेन संबध्नाति ॥ ६१ ॥
अजोभागमित्युद्र( द्द्र )वन्तमनुमन्त्रयते ॥ ६२ ॥
अत्रैव तद्धविश्चमसेन जुहोति-अग्नये रयिमते स्वाहति ॥ ६३॥
नव च स्रुवाहुतीर्य एतस्य पयो गोप्तार इति ॥ ६४ ॥
अत्रोभयं प्रहरति । येन जुहोति ॥ ६५॥
अपरेणाग्निं प्राङ्मुख उपविश्याथैनं याम्येन सूक्तेन नवर्चेन पराचाऽनुशꣳसति प्रकेतुनेति ॥ ६६ ॥
जघनेन दहनदेशमुदीचीस्तिस्रः कर्षूः खात्वाऽश्मभिः सिकताभिश्चावकीर्यायुग्भिरुदुकुम्भैरपः परिप्लाव्य तासु ज्ञातयः संगाहन्तेऽश्मन्वतीरेवतीरिति ॥ ६७ ॥ ( ख० ७)।
जघनेन कर्षूः पलाशशाखे शमीशाखे वा निघ्नन्ति ॥ ६८॥
अथैनं(ने) दर्भमयेन शुल्बेन संबध्यन्ते( ते )ऽन्तरेण प्रसर्पन्ति यद्वै देवस्य सवितुः पवित्रमिति ॥ ६९ ॥
जघन्यः शाखे व्युदस्यति या राष्ट्रात्पन्नादिति ॥ २८.२.७० ॥
उद्वयं तमसस्परीत्यादित्यमुपस्थायानवेक्षमाणा आ(अ) पोऽवगाहन्ते--धाता पुनातु सविता पुनात्विति ।। ७१ ॥
केशान्प्रकीर्य पाꣳसूनोप्यैकवाससो दक्षिणामुखाः सकृदुन्मज्ज्योत्तीर्य सव्यं जान्वाच्य वास: पीडयित्वोपविशन्त्येवं त्रिस्तत्प्रत्यह( य)ꣳ गोत्रनामधेयं तिलमिश्रमुदकं त्रिरुत्सिच्याहरहरञ्जलिनैकोत्तरवृद्धिरैकादशाहात् । अप्रतीक्षा ग्राममेत्य यत्प्रिय आहुस्तत्कुर्वन्ति ।। ७२ ॥
अशनानध्ययनाधः शय्योदकोपस्पर्शनान्यकालमनूचीनेषु द्व्यहं त्र्यहꣳ षडहं द्वादशाहं वा गुरुष्वशनवर्जꣳ संवत्सरं मातरि पितर्याचार्य इत्येके ॥ ७३ ॥
अनशनानध्ययनवर्जं यावज्जीवं प्रेतवत्कृतो(पत्न्यु)देकापस्पर्शनमेके ॥ ७४॥
भुक्तमधः शय्या ब्रह्मचर्यं क्षारलवणमधुमांसवर्जनं च ॥ ७५ ॥ (ख. ८)॥
इति सत्याषाढहिरण्यकेशिश्रौत्रसूत्रे (पितृमेधापरपर्याये)ऽष्टाविंशप्रश्ने द्वितीयः पटलः ॥२॥

28.3
अथ तृतीयः पटलः ।
अपरेद्युस्तृतीयस्यां पञ्चम्याꣳ सप्तम्यां वाऽस्थीनि संचिन्वन्ति ॥ १॥
क्षीरोसिक्तेनोदकेनौदुम्बरशाखया प्रक्वाथयञ्छरीराण्यवोक्ष्य यं ते अग्निममन्थामेति पञ्चभिः ।। २॥
अत एवाङ्गारान्दक्षिणतो निर्वर्त्य तिस्रः स्रुवाहुतीर्जुहोत्यवसृजेति प्रतिमन्त्रम् ॥ ३॥
अयुग्भिरुदकुम्भैरवोक्षितमवोक्ष्यायुजः स्त्रियः संचिन्वन्ति ॥४॥
यस्याः पुनः प्रजननं न स्यात्सा सव्ये हस्ते नीललोहिताभ्यां सूत्राभ्यां बृहतीफलमाबध्य सव्येन पदाऽश्मानमास्थाय सव्येन पाणिना प्रथमानन्वीक्षमाणाऽस्थीन्यादत्त उत्तिष्ठत इति दद्भ्यः शिरसो वा ॥ ५॥
तद्वाससि कुम्भे वा निदधाति ॥ ६ ॥
इदं त एकमिति द्वितय्या(तीयाs)ꣳसाभ्यां बाहुभ्यां वा ॥ ७॥
पर उ त एकमिति तृतीया पार्श्वाभ्यां श्रोणीभ्यां वा ॥ ८॥
तृतीयेन ज्योतिषेति चतुर्थ्यूरुभ्यां जङ्घाभ्यां वा ॥ ९॥
संवेशन इति पञ्चमी पद्भ्याम् ॥ २८.३.१० ॥
एवमेवायुजाकारꣳ सु[सं]चितꣳ संचिन्वन्ति ॥११॥
भस्माभिसमूह्य सꣳहत्य शरीराकृतिं कृत्वा शरीराण्यादायोत्तिष्ठप्रेहीति ॥ १२ ॥
शम्यां पलाशमूले वा कुम्भं निधाय जघनेन कुम्भं कर्षादि समानमा स्नानात् ॥ १३ ॥
मृदा स्नातीत्येके ॥ १४ ॥ (ख० ९)।
अथातो हविर्याजिनो(यज्ञियं)निवपनम् । यं कामयेतानन्तलोकः स्यादिति ॥ १५ ॥
समस्या उद्धतेऽवोक्षिते सिकतोपोप्ते परिश्रिते वाग्यतोऽनन्वीक्षमाणो दर्भेष्वस्थीनि निवपति -- पृथिव्यास्त्वा अक्षित्या अपामोषधीनाꣳ रसेन स्वर्गे लोके निवपाम्यसाविति ॥ १६ ॥
अनन्तलोको ह भवतीति विज्ञायते ॥ १७ ॥
अथ यदि पुनर्धक्ष्यन्तः स्युः ( हृदयं निदधाति )। अग्निहोत्रहवणीं कृष्णाजिनꣳ शम्यां दृषदुपले च नानुप्रहरेयुः ॥ १८ ॥
अत एवाङ्गारान्दक्षिणतो निर्वर्त्य तिस्रो रात्रीरिद्ध्वा दहनवदवकाशं जोषयित्वाऽग्निमुपसमाधाय संपरिस्तीर्यापरेणाग्निं दक्षिणाग्रान्दर्भान्सꣳस्तीर्य तेषु कृष्णाजिने शम्यायां दृषदुपलाभ्यां मवाञ्जनꣳ शरीराणि सुसंपिष्टानि पेषयित्वाऽऽ ज्यकुम्भे समुदायित्वाऽग्निहोत्रहवण्या जुहोत्यस्मात्त्वमधि जातोऽसीति ॥ १९ ॥
एतयैषान्तमग्निहोत्रहवणीं कृष्णाजिनꣳ शम्यां . दृषदुपले चानुप्रहरेयुः ॥ २८.३.२० ॥
न चात ऊर्ध्वꣳ श्मशानकर्म कर्तुमाद्रियेत ॥ २१॥
कृति(ती)र्वाऽस्य दहने वपेच्छर्कराभिर्वा परिचिनुयात् ॥ २२ ॥
तमभ्येवाऽऽदित्यस्तपति तमाभि वातो वाति तमाप स्पृशन्ते ॥ एवं श्रुतिरनुक्रान्ता ॥ २३ ॥
स नैवाऽऽदित्यस्य सकाशाविद्यते न वायोर्नापाꣳ सꣳसर्जनात् ॥ २४ ॥
एवꣳ हि कौषीतकिर्विदांचकार तꣳ हैवं चक्रिरे। एवमुहाहैवमाश्मरथ्यं चक्रुः ।। २५ ॥
तस्यो हैवै (ते) ( अ ) हीना(हायना व्युच्छन्ती) व्युच्छन्त्यस्मै वस्यसी वस्यसी व्युच्छति प्रजा हास्य श्रेयसी भवति यमेवं निदधातीति विज्ञायते ॥ २६ ॥ ( ख० १०)।
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे (पितृमेधापरपर्याये)ऽष्टाविंशप्रश्ने तृतीयः पटलः ॥ ३॥

28.4
अथ चतुर्थः पटलः ।
नवम्यां व्युष्टायां यज्ञोपवीत्यन्तरा ग्रामꣳ स्मशानं चाग्निमुपसमाधाय संपरिस्तीर्यापरेणाग्निं लोहितं चर्माऽऽनडुइं प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य तद्वेतसमालिनो ज्ञातीनारोपयत्यारोहतेति ॥१॥
अथैताननुपूर्वान् [प्र]कल्पयति--यथाहानिति ॥ २ ॥
प्रतिलोमकृताया वारुण्या स्रुचा द्वे चतुर्गृहीतेन जुहोति--न हि ते अग्न इति ॥ ३॥
दश च स्रुवाहुतीरप नः शोशुचदघमिति ॥ ४ ॥
हुत्वा हुत्वा पात्र्यां संपातमवनयति ॥ ५ ॥
तत्रोभयं प्रहरति येन जुहोति ॥६॥
उत्तरेणाग्निं लोहितोऽनड्वान्प्राङ्मुखोऽवस्थितो भवति ॥ ७॥
तं ज्ञातयोऽन्वारभन्तेऽनड्वाहमन्वारभामह इति ॥ ८॥
प्राञ्चो गच्छन्तीमे जीवा इति ॥ ९॥
जघन्यो वेतसशाखया चावकाभिश्च पदानि संलोभयन्नेति मृत्योः पदमिति ॥ २८.४.१० ॥
अथैभ्योऽध्वर्युर्दक्षिणतोऽश्मानं परिधिं दधातीमं जीवेभ्यः परिधिं दधामीति ॥ ११ ॥
स्त्रीणामञ्जलिषु संपातानवनयतीमा नारीरिति ॥ १२ ॥
तैर्मुखानि विमृज्यन्ते ॥ १३ ।।
यदाञ्जनं त्रैककुदमिति त्रैककुदेनाञ्जनेनाञ्जते ॥ १४ ॥
यदि त्रैककुदं नाधिगच्छेद्येनैव केन चाञ्जनेनाञ्जीरन् (ख. ११)॥ १५ ॥
पृथिव्यामोषधीस्तम्बं प्रतिष्ठापयति यथा त्वमिति ॥ १६ ॥
प्रत्येत्य ग्रहानुत्तरपूर्वदेशेऽगारस्याग्निमुपसमाधाय संपरिस्तीर्यानुलोमकृतया वारु (र) ण्या स्रुचा द्वे चतुर्गृहीते जुहोत्यानन्दाय प्रमोदायेति ॥ १७॥
अत्रोभयं प्रहरति येन जुहोति ॥ १८ ॥
अजमेतदहः पचति यवौदनं च ॥ १९॥
अजोऽसीतित्यजस्य प्राश्नन्ति ॥ २८.४.२० ॥
यवोऽसीति यवौदनं च ॥ २१ ॥
अत्राऽऽसन्दीस्तल्पानित्यधिरोहयन्ति ॥ २२ ॥
नापितकर्माणि च कारयन्ते ॥ २३ ॥
एष प्रथमोऽलंकारः ॥ २३ ॥
सोऽयमेवं विहितमे(ए) वानाहिताग्नेः पात्रचयेष्टकावर्ज्यम् ॥ २४॥
औपासनेनानाहिताग्निं दहन्ति ॥ २५ ॥
निर्मन्थे(न्थ्ये)न पत्नीम् ॥ २६॥
उत्तपनेनेतरान् ॥ २७ ॥
अथैकेषां कुम्भान्तं निधानमनाहिताग्नेस्त्रियाश्च निवपनान्तं हविर्याजिनः पुनर्दहनान्तं सोमयाजिनश्चयनान्तमग्निचित इति ॥ २८ ॥
नासंनय्यतामामिक्षाम् ॥ २९ ॥
उत्सर्गो राजगव्या अपशुबन्धयाजिनः ॥ २८.४.३० ॥
स्त्रियाश्च ॥ ३१ ॥
दहनकल्पेन कल्पेरन्ननुपेतान्कन्याश्च ॥ ३२ ॥
पुनर्दहनमन्त्रेणैव दहेयुः ॥ ३३ ॥
स्त्रियाश्चैवम् ।। ३४ ॥
पुंलिङ्गवपनवर्जमित्येक इत्येके ॥ १२ ॥ ३५ ॥
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे(पितृमेधापरपर्याये) ऽष्टाविंशप्रश्ने चतुर्थः पटलः ।
समाप्तोऽष्टाविंशः प्रश्नः॥