कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः २७

विकिस्रोतः तः
← प्रश्नः २६ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः २७
हिरण्यकेशिः/सत्याषाढः
प्रश्नः २८ →

27.1
पाणिग्रहणादधि ग्रहमेधिनोर्व्रतम् ॥ १॥
कालयोर्भोजनम् ॥ २॥
अतृप्तिश्चान्नस्य ॥ ३॥
पर्वसु चोभयोरुपवासः ॥ ४ ॥
औपवस्तमेव कालान्तरे भोजनम् ॥ ५॥
तृप्तिश्चान्नस्य ॥ ६॥
यञ्चैतयोः प्रिय99 स्यात्तदेतस्मिन्नहनि भुञ्जीयाताम् ॥ ७॥
अधश्च शयीयाताम् ॥ ८ ॥
मैथुनवर्जनं च ॥ ९॥
श्वोभूते स्थालीपाकः ॥ २७.१.१० ॥
तस्योपचारः ॥ ११ ॥
नित्यं लोका उपदिशन्ति ॥ १२ ॥
यस्मिन्देशेऽग्निमुपसमाधास्यत्स्या(न्स्या )त्तत्र प्राचीरुदीचीस्तिस्रस्तिस्रो लेखा लिखित्वाऽवोक्ष्योत्सिच्यैतदुदकशेषमुत्तरेण पूर्वेण वाऽन्यदुपनिदध्यात् ॥ १३ ॥
नित्यमुदधानान्यद्भिररिक्तानि स्युर्गृहमेधिनोर्व्रतम् ॥ १४ ॥
अहन्यसंवेशनम् ।। १५ ॥
ऋतौ तु संनिपातो दारेणानुव्रतम् ॥ १६॥
अन्तराले वि(ऽपि)दार एव ॥ १७ ॥
ब्राह्मणवचनाच्च संवेशनम् ॥ १८ ॥
स्त्रीवाससैव संनिपातः स्यात् ॥ १९ ॥
यावत्संनिपातं चैव सहचर्या ॥ २७.१.२० ॥
ततो नाना ॥ २१ ॥
उदकोपस्पर्शनम् ।। २२ ॥
अपि वा लेपान्प्रक्षाल्य पादौ चाऽऽचम्य प्रोक्षणमङ्गानाम् ।। २३ ।।
सर्ववर्णाना99 स्वधर्मानुष्ठाने परमपरिमित99 सुखम् ॥ २४ ॥
ततः परिवृत्तौ कर्मशेषेण जाति99 रूपं बलं मेधां प्रज्ञां द्रव्याणि स्वधर्मानुष्ठानमिति प्रतिपद्यते तच्चक्रवदुभयोर्लोकयोः सुख एव वर्तते ॥ २५ ॥
यथौषधिवनस्पतीनां बीजस्य क्षेत्रकर्मविशेषे फलवृद्धिरेवम् ॥ २६ ॥
एतेन दोषफलवृद्धिर्निरुक्ता ॥ २७ ॥
स्तेनोऽभिशस्तो ब्राह्मणो राजन्यो वैश्यो वा परस्मिँल्लोकेऽपरिमिते निरये वृत्ते जायते चाण्डालो ब्राह्मणः पौल्कसो राजन्यो वैणो वैश्यः ॥२८॥
एवमेतेन वर्णपरिध्व99सा दोषफलैः कर्मभिर्दोषफलासु योनिषु जायन्ते वर्णपरिध्व 99सायाम् ॥ २९ ॥
चाण्डालोपस्पर्शने संभाषायां दर्शने च दोषस्तत्र प्रायश्चित्तम् ॥ २७.१.३०॥ अवगाहनमपामुपस्पर्शने संभाषायां ब्राह्मणसंभाषा दर्शने ज्योतिषां दर्शनम् ॥ ३१ ।। (ख० १)।
आर्याः प्रयता वैश्वदेवेऽन्न99 स99स्कर्तारः स्युः ॥ ३२ ॥
भाषां कासं क्षवथुमित्यभिमुखोऽन्नं वर्जयेत् ।। ३३ ॥
केशानङ्गं वासश्चाऽऽलभ्याप उपस्पृशेत् ॥३४॥
आर्याधिष्ठिता वा शूद्राः स99स्कर्तारः स्युः ॥ ३५ ॥
तेषा99 स एवाऽऽचमनकल्पः ॥ ३६ ॥
अधिकमहरहः केशश्मश्रुलोमनखवापनम् ॥३७॥
उदकोस्पर्शनं च सह वाससा ॥ ३८ ॥
अपि वाऽष्टमीष्वेव पर्वसु वा वपेरन् ॥ ३९ ।।
परोक्षमन्न99 स99स्कृतमन्नमग्नावधिश्रित्याद्भिरवो( द्भिः प्रो)क्षेत्तदे(द्दे)व पवित्रमित्याचक्षते ॥ २७.१.४० ॥
सिद्धेऽन्ने तिष्ठन्भूतमिति स्वामिने प्रब्रूयात् ॥ ४१ ॥
तत्सुभूतमिति प्रतिवचनः ॥ ४२ ॥
गृहमेधिनो यदशनीयस्य होमा बलयश्च स्वर्गंपुष्टिसंयुक्ताः ॥ ४३ ॥
तेषामुपयोगे द्वादशाहं ब्रह्मचर्यमधःशय्या क्षारलवणमधुमांसवर्जनं च ॥ ४४ ॥
उत्तमस्यैकरात्रमुपवासः ॥ ४५ ॥
बलीनां तस्य तस्य देशसंस्कारो हस्तेन परिमृज्यावोक्ष्य न्युप्य पश्चात्परिषेचनम् ॥ ४६ ॥
औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्र99 हस्तेनैता आहुतीर्जुहुयात् ॥ ४७ ॥
एवं बलीनां देशे देशे समवेताना99 सकृत्सकृदन्ते परिषेचनम् ।। ४८ ॥
सति सूपे स99सृष्टेन कार्याः ॥ ४९ ॥
अपरेणाग्नि99 सप्तमाष्टमाभ्यामुदगपवर्गम् ॥२७.१.५०॥
उदधानसंनिधौ नवमेन ॥ ५१ ॥
मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् ।। ५२ ॥
उत्तरपूर्वार्धेऽगारस्योत्तरैश्चतुर्भिः॥ ५३ ।।
शय्यादेशे कामलिङ्गेन ॥ ५४ ॥
देहल्यामन्तरिक्षलिङ्गेन ॥ ५५ ॥
उत्तरेणापिधान्याम् ॥ ५६ ॥
उत्तरैर्ब्रह्मसदने ॥ ५७ ॥
दक्षिणतः पितृलिङ्गे प्राचीनावीत्यवाचीनपाणिर्दद्यात् ॥५८॥
रौद्र उत्तरो यथादेवतम् ।। ५९ ॥
तयोर्नाना परिषेचनं धर्मभेदात् ॥ २७.१.६०॥
नक्तमेवोत्तमेन वैहायसः ॥ ६१ ॥
एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च ॥ ६२ ॥
अग्रं च देयम् ॥ ६३ ॥
अतिथीनेवाग्रे भोजयेत् ॥ ६४ ॥
कुमारान्रोगसंयुक्तांश्चान्तर्वत्नीः ॥६५॥
काले स्वामिनावन्नार्थिनं न प्रत्याचक्षीयाताम् ॥ ६६ ॥
अभावे तृणानि भूमिरुदकं कल्याणी वागित्येतानि वै सतोऽगारे न क्षीयन्ते कदाचनेति ॥ ६७ ॥
एवंवृत्तावनन्तलोको भवतः ॥ ६८ ॥
ब्राह्मणायानधीयानायाऽऽसनमुदकं भोजनमिति देयं न प्रत्युत्तिष्ठेत् ॥ ६९ ॥
अभिवादनायैवोत्तिष्ठेदि(द)त्यभिवाद्यश्चेत् ॥ २७.१.७० ॥
राजन्यवैश्यौ च ।। ७१ ॥ (ख० २)
शूद्रमभ्यागतं कर्मणि नियुञ्ज्यादथास्मै ( दद्यात् ) ॥ ७२॥
दासा वा स्वामिकुलादाहृत्यातिथिवच्छूद्रं भोजयेयुः ॥ ७३ ॥
नित्यमुत्तरं वासः कार्यम् ।। ७४ ।।
अपि वा सूत्रमेवोपवीतार्थे ।। ७५ ।।
यत्र भुज्यते तत्समू(मु)ह्य निर्हृत्यावोक्ष्य तं देशममत्रेभ्यो लेपान्संकृष्याद्भिः संमृज्य शुचौ देशे रुद्राय निनयेदेवं वास्तु शिवं भवति ॥ ७६ ॥
ब्राह्मण आचार्यः स्मर्यते तु ॥ ७७ ॥
आपदि ब्राह्मणेन राजन्ये वैश्ये वाऽध्ययनम् ॥ ७८ ॥
अनुगमनं च पश्चात् ।। ७९ ॥
अ(त)त ऊर्ध्वं ब्राह्मण एवाग्रगतौ स्यात् ।। २७.१.८० ॥
सर्वविद्यानामप्युपनिषदानु(मु)पाकृत्यानध्ययनं तदहः ॥ ८१ ॥
अधीत्य नाभिक्रमण99 सद्यः ॥ ८२।।
यदि त्वरेत गुरोः समीक्षाया99 स्वाध्यायमधीत्य कामं गच्छेदेवमुभयोः शिवं भवति ।। ८३ ।।
समावृत्तं चेदाचार्योऽभ्यागच्छेत्तमभिमुखोऽभ्यागम्योपसंगृह्य न बीभत्समान उदकमुपस्पृशेत्सान्त्वयित्वा पूजयेत् ।। ८४ ॥
यथोपदेशम् ।। ८५॥
आसने भोजने भक्ष्ये शय्यायां वाससि वा संनिहिते हीनतरवृत्तिः स्यात् ।। ८६ ॥
तिष्ठन्सव्येन पाणिना दक्षिणं बाहुमुपसंगृह्याऽऽचार्यमाचामयेत् ॥ ८७॥
अन्यं वा समुदेतम् ॥ ८८ ॥
स्थानासनचङ्क्रमणस्मितेष्वनुचिकीर्षन् ॥ ८९ ॥
संनिहितोच्चै मूत्रपुरीषवातकर्मोर्भाषाहासष्ठीवनदन्तस्कवननिःशृङ्खणभ्रूक्षेपतालनिष्ट्यानीति ॥२७.१.९०॥
दारे प्रजायां चोपस्पर्शनभाषविस्रम्भपूर्वाः परिवर्जयेत् ॥९१॥
वाक्येन वाक्यस्य प्रतीघातमाचार्यस्य वर्जयेत् ॥ ९२ ।।
श्रेयसां च ॥ ९३ ॥
ब्राह्मणदेवतासर्वभूतपरीवादाक्रोशा99श्च वर्जयेत् ॥ ९४ ॥
विद्यया च विद्यानाम् ॥९५ ॥
यया विद्यया न विरोचेत पुनराचार्यं गत्वा नियमेन साधयेत् ॥ ९६ ॥
न चास्य समीपे जप्याग्निपरिमृजने कुर्यात् ।। ९७ ॥ .
उपाकरणाद्योत्सर्जनादध्यापयितुर्नियमो न नखलोमापाकरणं श्राद्धं मा99सं मैथुनमिति वर्जयेत् ।। ९८॥
ऋत्वे वा जायाम् ॥ ९९ ॥
यथागम99 शिष्येभ्यो विद्यासंप्रदाने वर्तमाने नियमेषु च युक्तः स्यात्तथा गृहमेध एवं वर्तमानः पूर्वापरान्संबन्धानात्मानं च क्षेमे युनक्ति ॥ २७.१.१००॥
मनसा वाचा प्राणेन चक्षुस्त्वक्शिश्नोदरालं(र)म्भणान्यास्रावान्परिमृजानोऽमृतत्वाय कल्पते ॥ ।। १०१ ॥ (ख० ३)।
येन कृतावसथः स्यादतिथिर्न तं प्रत्युत्तिष्ठेदनु(नू )त्तिष्ठेद्वा पुरस्तादभिवादितः ॥ १०२ ।।
शेषभोज्यतिथीना99 स्यात् ॥ १०३ ॥
न रसान्गृहे भुञ्जीतानवशेष्य(ष)मतिथिभ्यः॥१०४॥
नाऽऽत्मार्थमभिरूपमन्नं पाचयेत् ॥ १०५ ॥
विशेषेणापुमान् ॥ १०६ ॥
गोमधुपर्कार्हो वेदाध्यायः समुदेतः ॥ १०७ ॥
आचार्य ऋत्विक् स्नातकः श्वशुरो राजा वा धर्मयुक्तः॥ १०८॥
आचार्यायर्त्विजे स्नातकाय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्यो गोर्मधुपर्कश्च ॥ १०९ ॥
दधिमधुस99सृष्टं मधुपर्कः पयो वा मधुस99सृष्टम् ॥ २७.१.११० ॥
अभाव उदकम् ॥ १११ ॥
षडङ्गो वेदः ॥ ११२ ॥
छन्दःकल्पो व्याकरणं ज्योतिषं निरुक्तं शीक्षा छन्दोविचितिरिति ॥ ११३॥
शब्दार्थारम्भणानां तु कर्मणा99 समाम्नायसमाप्तौ वेदशब्दस्तत्र संख्या विप्रतिषिद्धा ॥ ११४ ॥
अङ्गानां च प्रधानैरव्यपदेश इति न्यायवित्समयः ॥ ११५॥
अतिथिं निराकृत्य यत्रगते भोजने स्मरेत्ततो विरम्योपोष्य श्वोभूते यथामनसं तर्पयित्वा स99 साधयेत् ॥ ११६ ।।
यानवन्तमा यानात् ॥ ११७ ॥
यावन्नानुजानीयादितरः ।। ११८ ॥
अप्रतीहा(भा)या99 सीम्नो निवर्तेत ।। ११९ ॥
सर्वान्वैश्वदेवे भागिनः कुर्वीताऽऽश्वचाण्डालेभ्यः ॥ २७.१.१२० ॥
नानर्हद्योिन ददातीत्येके ॥ १२१ ॥
उपेतः स्त्रीणामनुपेतस्य चोच्छिष्टं वर्जयेत् ॥ १२२ ॥
सर्वाण्युदकपूर्वाणि दानानि ॥ १२३ ॥
यथाश्रुति विहारे च ॥ १२४ ॥
ये च भृत्या नित्यास्तेषामनुपरोधैन संविभागो विहितः ॥ १२५॥
काममात्मानं भार्यां पुत्रं वोपरुन्ध्यान्नत्वेव दासं कर्मकार(क)रम् ॥ १२६ ॥
तथा चाऽऽत्मन उपरोधं कुर्वीत यथा कर्मसु समर्थः स्यात् ।। १२७॥
अष्टौ ग्रासा मुनेर्भक्ष्याः षोडशारण्यवासिनः ।
द्वात्रिंशतं गृहस्थस्यापरिमितं ब्रह्मचारिणः ॥
आहिताग्निरनड्वांश्च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिध्यन्ति नैषां सिद्धिरनश्नताम् । इति ॥ १२८ ॥ ( ख० ४) ॥
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे( धर्मसूत्रापरपर्याये) सप्तविंशप्रश्ने प्रथमः पटलः ॥ १॥

27.2
अथ द्वितीयः पटलः ।
जात्याचारसꣳशये धर्मार्थमागतमग्निमुपसमाधाय जातिमाचारं च पृच्छेत् ॥ १॥
साधुतां चेत्प्रतिजानीतेऽग्निरुपद्रष्टा वायुरुपश्रोताऽऽदित्योऽनुख्याता साधुतां प्रतिजानीते साध्वस्मा अस्तु वितथ एष एनस इत्युक्त्वा शास्तुं प्रतिपद्यत ॥ २ ॥
अग्निरिव ज्वलन्नतिथिरभ्यागच्छति ॥ ३ ॥
धर्मेण वेदानामेकाꣳ शाखामधीत्य श्रोत्रियो भवति ।। ४ ।।
स्वधर्मयुक्तं कुटुम्बिनमभ्यागच्छन्धर्मपुरस्कारो नान्नप्रयोजनः सोऽतिथिर्भवति ॥ ५॥
तस्य पूजायाꣳ शान्तिः स्वर्गश्च ॥ ६॥
तमभिमुखोऽभ्यागम्य यथावयः समेत्योपस्थाप्याथ तमाहारयेत् ॥ ७॥
न बहुपादमासनं भवतीत्येके ॥ ८॥
अथास्य पादौ प्रक्षालयेच्छूद्रमिथुनावित्येके ॥ ९॥
अन्यतरोऽभिषेचने स्यात् ॥ २७.२.१०॥
अथास्योदकमाहारयेन्मृन्मयेनेत्येके ॥ ११ ॥
नोदकमाहारयेदसमावृत्तः ॥ १२॥
अध्ययनसांवृत्तिश्चात्राधिका ॥ १३॥
नास्तमित आदित्य उदकानयनं विद्यते ॥ १४ ॥
सान्त्वयित्वा भोजयेच्छक्तिविषयेणाद्भिरवरार्ध्येन ॥ १५॥
आवसथं दद्यादुपरिशय्यामास्तरणोपधानं सावस्तरणमभ्यञ्जनं च ॥ १६ ॥
अन्नसꣳस्कर्तारमाहूय व्रीहीन् यवान्वा तदर्थान्निर्वपेत् ॥ १७॥
उद्धृतान्यन्नान्यवेक्षतेदं भूया(य:३) इदं भूया(यः३) इति ॥ १८ ॥
भूय उद्धरेत्येव ब्रूयात् ॥ १९ ॥
द्विषन्द्विषतो वा नान्नमद्याद्दोषेण वा मीमाꣳसमानस्य मीमाꣳसितस्य वा ।। २७.२.२० ॥
पाप्मानꣳ हि स तस्य भक्षयतीति ब्राह्मणम् ॥ २१ ॥ (ख. ५)।
स एष प्राजापत्यः कुटिम्बिनो यज्ञो नित्यं प्रततः । २२ ॥
योऽतिथीनामग्निः स आहवनीयो यः कुटुम्बे स गार्हपत्यो यस्मिन्पच्यते सोऽन्वाहार्यपचनः ॥ २३ ॥
ऊर्जं पुष्टिं प्रजां पशूनिष्टापूर्तमिति गृहाणामश्नाति य: पूर्वोऽतिथेरश्नाति ।। २४ ॥
पयसोपसिक्तमन्नमग्निष्टोमसंमितं मधुनाऽतिरात्रसंमितं माꣳसेन द्वादशाहसंमितमुदकेन प्रजावृद्धिरायुषश्च ॥ २५ ॥
प्रिया अप्रियाश्चातिथयः स्वर्गं लोकं गमयन्तीति |॥ २६ ॥
यत्प्रातर्मध्यंदिन सायमिति ददाति सवनान्येव तानि ॥ २७ ॥
यदनुतिष्ठत्युदवस्यत्येव तत् ॥ २८ ॥
यत्सान्त(न्त्व)यित्वा भोजयति सा दक्षिणा प्रशꣳसा ।। २९॥
यत्सꣳसाधयति ते विष्णुक्रमाः ॥ २७.२.३० ॥
यदुपावर्तते सोऽवभृथ इति हि ब्राह्मणम् ॥३१॥
आहिताग्निं चेदतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्य क्वावात्सीरिति व्रात्योदकं व्रात्य तर्पयꣳस्त्विति ॥ ३२ ॥
पुराऽग्निहोत्रस्य होमादुपाꣳशु जपेद्व्रात्य यथा से प्रियं तथाऽस्त्विति व्रात्य यथा ते वशस्तथाsस्त्विति व्रात्य यथा ते कामस्तथाऽस्त्विति व्रात्य यथा ते निकामस्तपाऽस्त्विति ॥ ३३ ॥
यदि सायमहुतेऽग्निहोत्रेऽतिथिरभ्यागच्छेत्स्वयमेनमभ्युदेत्य ब्रूयात् । व्रात्य(त्या) तिसृज होष्यामीत्यतिसृष्टेन होतव्यम् । अनतिसृष्टश्चेज्जुहुयादो( हो )षं ब्राह्मणमाह ॥ ३४ ॥
एकरात्रं चेदतिथीन्वासयेत्पार्थिवाँल्लोकानभिजयति द्वितीययाऽन्तरिक्ष्याꣳस्तृतीयया दिव्याꣳश्चतुर्थ्या परावतो लोकानपरिमिताभिरपरिमिताꣳल्लोकानभिजयतीति ब्राह्मणम् ॥ ३५ ॥
असमुदेतश्चेदतिथिरभ्यागच्छेदासनमुदकं भोजनं श्रोत्रियाय ददामीति दद्यादेवमस्य समृद्धं भवति ।। ३६ ॥ (ख० ६)॥
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे (धर्मसूत्रापरपर्याये) सप्तविंशप्रश्ने द्वितीयः पटलः ॥२॥

27.3
अथ तृतीयः पटलः ।
संवर्णापूर्वशास्त्रविहितायां यथर्तु गच्छतः पुत्रास्तेषां कर्मभिः संबन्धः ॥१॥
दायेन चाव्यतिक्रमश्चोभयोः ॥ २॥
पूर्ववत्यामसꣳस्कृतायां वर्णान्तरे च मैथुने दोषः ॥ ३ ॥
तत्रापि दोषवान्पुत्र एवोत्पादि(दयि)तुः पुत्र एवेति ब्राह्मणम् ॥ ४ ॥
उत्पादयितुः पुत्र इति ब्राह्मणम् ॥ ५ ॥
इदानीमेवाहमीर्ष्यामि स्त्रीणां जनको नो पुरा यदा यमस्य सादने जनयितुः पुत्रमब्रुवन् । रेतोधाः पुत्रं नयति परेत्य यमसादने तस्माद्भार्याꣳ रक्षन्ति बिभ्यन्तः पररेतसः । अप्रमत्ता रक्षथ तन्तुमेतं मा वः क्षेत्रे परबीजानि वाप्सुर्जनयितुः पुत्रो भवति सांपराये मोघं वेत्ता कुरुते तन्तुमेतमिति ॥ ६॥
दृष्टो धर्मव्यतिक्रमः साहसं च पूर्वेषाम् ॥ ७ ॥
तेषां तेजोविशेषेण प्रत्यवायो न विद्यते ॥ ८॥
तदन्वीक्ष्य प्रयुञ्जानः सीदत्यवरः ॥ ९ ॥
दानं च क्रयधर्मश्चापत्यस्य च न विद्यते ॥ २७.३.१०॥
विवाहे दुहितृमते दानं काम्यं धर्मार्थꣳ श्रूयते तस्माद्दुहितृमतेऽधिरथꣳ शतं देयं तन्मिथुया कुर्यादिति तस्यां क्रयशब्दः सꣳस्तुतिमात्रं धर्मार्थꣳ संबन्धः ॥ ११ ॥
एकधनेन ज्येष्ठं तोषयित्वा जीवन्पुत्रेभ्यो दायं विभजेत्समं क्लीबमुन्मत्तं पतितं च परिहाप्य ॥ १२॥
पुत्राभावे सपिण्डो यः प्रत्यासन्नः ॥ १३ ॥
तदभाव आचार्य आचार्याभावेऽन्तेवासी हृत्वा तदर्थेषु धर्मकृत्येषु वोपयोजयेत् ॥ १४ ॥
दुहिता वा ॥ १५ ॥
सर्वाभावे राजा दायꣳ हरेत् ॥१६॥
ज्येष्ठो दायाद इत्येके ॥ १७॥
देशविशेषे सुवर्णं कृष्णा गावः कृष्णं भौमं ज्येष्ठस्य ॥ १८ ॥
रथः पितुः परिभाण्डं च गृहे ॥१९॥
अलंकारो भार्याया जातिधनं चेत्येके ॥२७.३.२०॥
तच्छास्त्रैर्विप्रतिषिद्धम् ॥ २१ ॥
मनुः पुत्रेभ्यो दायं व्यभजदित्यविशेषेण श्रूयते ॥ २२ ॥
अथापि तस्माज्ज्येष्ठं पुत्रं धनेन निरवसाययन्तीत्येकवच्छ्रूयते ॥ २३ ॥
तथाऽपि नित्यानुवादमविधिमाहुर्न्यायविदो यथा तस्मादजावयः पशूनाꣳ सह चरन्तीति तस्मात्स्नातकस्य मुखꣳ रेफायतीव तस्माद्बस्त(श्च ) श्रोत्रियश्च स्त्रीकामतमाविति ॥ २४ ॥
सर्वे हि धर्मयुक्ता भागिनः ॥ २५ ॥
यस्त्वधर्मेण द्रव्याणि प्रतिपादयेज्येष्ठोऽपि तमभागं कुर्यात् ॥ २६ ॥ (ख. ७)।
जायापत्योर्न विभागो विद्यते पाणिग्रहणाद्धि सहत्वं कर्मसु ।। २७ ।।
तथा पुण्यक्रियासु(फलेषु) ॥२८॥
द्रव्यपरिग्रहेषु च ॥ २९॥
न हि भर्तृविप्रवासे स्त्रियो( स्त्रिया) नैमित्तिके दाने स्तेयमित्युपदिशन्ति ॥ २७.३.३० ॥
एतेन देशकुलधर्मा व्याख्याताः ॥ ३१ ॥
मातुश्च योनिसंबन्धेभ्यः पितुश्चाऽऽसप्तमात्पुरुषाद्यावता वा संबन्धो ज्ञायते तेषां प्रेतेषूदकोपस्पर्शनं गर्भान्वर्जयित्वा परिसंवत्सरान् ॥ ३२॥
मातापितरावेव तेषु ॥ ३३ ॥
हर्तारश्च ॥ ३४ ॥
भार्यायां परमगुरुसꣳस्थायां चाऽऽकालमभोजनम् ।। ३५॥
आतुरव्यञ्जनानि कुर्वते ॥ ३६ ॥
केशान्प्रकीर्य पाꣳसूनोप्यैकवाससः सकृदवगाह्य तत्संस्थमुदकमुत्सिच्योत्तीर्योपविशन्ति ॥ ३७ ॥
एवं त्रिः ॥ ३८॥
अप्रतीक्षा ग्राममुपयन्ति यत्तत्र स्त्रिय आहुस्तत्कुर्वन्ति ॥ ३९ ॥
इतरेषु चैक एतदेवोपदिशन्ति ॥ २७.३.४० ॥
एतस्मिन्कालेऽमात्याः केशश्मश्रूणि वापयन्ते ॥ ४१ ॥
न समावृत्ता वापयेरन् ॥ ४२ ॥
न विहारिण इत्येके ॥ ४३ ॥
अनशनानध्ययनोदचःशय्योदकस्पर्शनान्याकालमनूचानेषु द्व्यहं त्र्यहं षडहं द्वादशाहं वा गुरुष्वम(न)शनं(न)वर्जं संवत्सरं मातापितर्याचार्य इत्येके ॥ ४४॥
ब्राह्मणाञ्छुचीन्मन्त्रवतः सर्वकृत्येषु भोजयेत् ॥४५॥
देशतः कालतः शौचतः सम्यक्प्रतिगृ(ग्र)हीतृत इति दानानि प्रतिपादयेत् ।। ४६ ॥
यस्याग्नौ न हूयते यस्य चाग्रं न दीयते न तद्भोक्तव्यम् ॥ ४७॥
न क्षारलवणहोमो विद्यते ॥ ४८ ॥
तथाऽयज्ञसंसृष्टस्य ॥ ४९ ॥
अहविष्यस्य होम उदीचीनं [उष्णं] भस्मापोह्य तस्मिञ् जुहुयाद्धुतमहुतं चाग्नौ भवति ॥ २७.३.५० ॥
न स्त्री जुहुयात् ।। ५१ ॥
नानुपेतः ॥ ५२ ॥
आऽन्नप्राशनाद्गर्भा नाप्रयता भवन्ति ॥ ५३ ॥
आ परिसंवत्सरादित्येके ॥ ५४ ॥
यावता वा दिशो न प्रजानीयुः ।। ५५ ॥
ओपनयनादित्येके ॥ ५६ ॥
अत्र ह्यधिकारः शास्त्रैर्भवतीति ।। ५७॥
सा निष्ठा ॥ ५८ ॥
स्मृतिश्च ।। ५९ ॥ (ख. ८)॥
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे(धर्मसूत्रापरपर्याये) सप्तविंशप्रश्ने तृतीयः पटलः ॥ ३ ॥

27.4
अथ चतुर्थः पटलः ।
भिक्षणे निमित्तमाचार्यो विवाहो यज्ञो मातापित्रोर्बुभूषा(र्षा)त्मभे(भै)षज्यमिच्छतश्चार्हतश्च नियमविलोपे ॥ १॥
तत्र गुणान्समीक्ष्य यथाशक्ति देयम् ॥ २॥
इन्द्रियप्रीत्यर्थस्य तु भिक्षणमनिमित्तं न तदाद्रियेत ॥ ३॥
स्वकर्म ब्राह्मणस्याध्ययनमध्यापनं यज्ञो याजनं दानं प्रतिग्रहणं दायाद्यं शिलोञ्छः ॥४॥
अन्यच्चापरिगृहीतम् ॥ ५ ॥
एतान्येव क्षत्रियस्याध्यापनयाजनप्रतिग्रहणानीति परिहाप्य दण्डयुद्धाधिकानि ।। ६ ।। क्षत्रियवद्वैश्यस्य दण्डयुद्धवर्जं कृषिगोरक्ष(क्ष्य) वंणिज्याधिकम् ।। ७ ॥
ना(न)नूचानमृत्विजं वृणीते न पणमानम् ॥ ८॥
अयाज्योऽनधीयानः ॥ ९॥
युद्धे तद्योगा यथोपायमुपदिशन्ति तथा प्रतिपत्तव्यम् ॥ २७.४.१० ॥
न्यस्तायुधप्रकीर्णकेशप्राञ्जलिपराश(ङा)वृत्तानामार्या वधं परिचक्षते ॥ ११॥
शास्त्रैरधिगतानामिन्द्रियदौर्बल्याद्विप्रतिपन्नानाꣳ शास्ता निर्वेषमुपदिशेद्यथाकर्म यथोक्तम्॥१२॥
तस्य चेच्छास्त्रमतिप्रवर्तेरन् राजानं गमयेत् ॥ १३ ॥
राजा पुरोहितं धर्मार्थकुशलम् ॥ १५ ॥
स ब्राह्मणान्नियच्छेत् ॥ १५॥
बलविशेषेण वधदास्यवर्जं नियमैरुपशोषयेत् ॥ १६ ॥
इतरेषां वर्णानामाप्राणवियोगात् समवेक्ष्य तेषां कर्माणि दण्डाय प्रतिपद्येत ॥ १७ ॥
न संदेहे दण्डं कुर्यात् ॥ १८ ॥
सुविचितं कृत्वा दण्डं देवप्रश्नेभ्यो दण्डाय प्रतिपद्येत ॥ १९ ॥
एवं वर्तमानो राजोभौ लोकावभिजयति ॥२७.४.२०॥
राज्ञः पन्था ब्राह्मणेनासमेत्य ॥ २१ ॥
समेत्य तु ब्राह्मणस्यैव पन्थाः ॥ २२ ॥
यानस्यान्धस्य भाराभिनिहितस्याऽऽतुरस्य स्त्रिया इति सर्वैर्दातव्यः ॥ २३ ॥
अशिष्टपतितमत्तोन्मत्तानां[मात्म] स्वस्त्ययनार्थेन दातव्यः ॥ २४ ॥ (ख० ९)।
धर्मचर्यया जघन्यो वर्णः पूर्वं पूर्वं वर्णमापद्यते जातिपरिवृत्तौ ॥ २५॥
अधर्मचर्यथा पूर्वो जघन्यं वर्णमापद्यते जातिपरिवृत्तौ ॥ २६ ॥
धर्मप्रजासंपन्ने दारे नान्यां कुर्वीत ॥ २७ ॥
अन्यतराभावे कार्या प्रागग्न्याधेयात् ॥ २८॥
आधाने सती कर्मभिः संबध्यते येषामेतदङ्गम् ॥ २९ ॥
सगोत्राय दुहितरं न प्रयच्छेत् ॥ २७.४.३० ॥
मातुश्च योनिसंबन्धेभ्यः ॥ ३१ ॥
बन्धुशीलश्रुतारोग्याणि बुद्ध्वा प्रजां सहत्वकर्मभ्यः प्रतिपादयेद्ब्राह्मे विवाहे शक्तिविषयेणालंकृत्य दद्यात् ॥ ३२ ॥
आर्षे दुहितृमते मिथुनौ गावौ देयौ ॥ ३३ ॥
दैवे यज्ञतन्त्र ऋत्विजे प्रतिपादयेत् ॥ ३४ ॥
मिथः कामात्सांवर्तेते स गान्धर्वः ॥ ३५॥
यथाशक्ति द्रव्याणि दत्त्वा वहेरन्स आसुरः ॥ ३६ ॥
दुहितमतः प्रोथयित्वा वहेरन्स राक्षसः ॥ ३७ ॥
तेषां त्रय आद्याः प्रशस्ताः ॥ ३८ ॥
यथा युक्तो विवाहस्तथा युक्ताः प्रजा भवन्ति ॥ ३९ ॥
पुत्रेण लोकाञ्जयति पौत्रेणामृतं सूतेऽथ पुत्रस्य पौत्रेण प्राप्नोति ब्रध्नस्य विष्टपं दौहित्रस्तत्प्रतिमुञ्चति यत्प्राप्तं महद्भयम् ॥ २७.४.४० ॥
ब्राह्मदेवास्त्वधिकारिणः पाणिमूढं ब्राह्मणेन नाप्रोक्षितमभितिष्ठते ॥ ४१॥
अग्निं ब्राह्मणं चान्तरेण नातिक्रामेत् ॥ ४२ ॥
अनुज्ञाप्य वाऽतिक्रामेत् ॥ ४३ ॥
ब्राह्मणाꣳश्च न ॥ ४४ ॥
अग्निमपश्च न युगपद्धारयेत् ॥ ४५ ॥
अग्नीनाꣳ संनिवापं च वर्जयेत् ॥ ४६ ॥
अवचनात् ॥ ४७ ॥
प्रतिमुखमग्निमाह्रियमाणं नाप्रतिष्ठितं भूमौ प्रदक्षिणी कुर्वीत ॥ ४८ ॥
पृष्ठतश्चाऽऽत्मनः पाणी न सꣳश्लेषयेत् ॥ ४९ ॥
सूर्याभ्युदितोऽहनि नाश्नीयाद्वाग्यतोऽहस्तिष्ठेत् ॥ २७.४.५० ॥
सूर्याभिनिम्रुक्तो नाश्नन्वाग्यत आसीत श्वोभूत उदकमुपस्पृश्य वाचं विसृजेत् ॥ ५१ ॥
आ तमितोः प्राणमायच्छेदित्येके ।। ५२ ।।
स्वप्नं या पापकं दृष्ट्वा ॥ ५३ ।।
अर्थं वा सिसाधयिष्यन् ।। ५४ ॥
नियमातिक्रमे चान्यस्मिन् ॥ ५५ ॥
दोषफलसꣳशये न तत्कर्तव्यम् ।। ५६ ॥
एवमध्यायानध्यायसꣳशये ॥ ५७॥
न सꣳशये प्रत्यक्षवद्ब्रूयात् ॥५८ ॥
अभिनिम्रुक्ताभ्युदितकुनखी(खि)या(श्या)वदग्र(ग्रे)दिधिषुदिधिषूपतिपर्याहितपरष्टिपरिवेत्तृपरिवित्तृ(त्ति)परिविविदानेषु चोत्तरोत्तरास्मिन्नशुचिकरनिर्वेषो गरीयान् ॥ ५९ ॥ तञ्च लिङ्गं चरित्वोद्धार्यमित्येके ॥ २७.४.६० ॥ ( ख० १०)॥
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे (धर्मसूत्रापरपर्याये) सप्तविंशप्रश्ने चतुर्थः पटलः ॥४॥

27,5
अथ पञ्चमः पटलः।
सह देवमनुष्या अस्मिँल्लोके प(पु)रा बभूवुरथ देवाः कर्मभिर्दिवं जग्मुरहीयन्त मनुष्यास्तेषां कर्माणि तथाऽऽरभन्ते सह देवैर्ब्रह्मणा चामुष्मिँल्लोके भवन्त्यथैतन्मनुः श्राद्धशब्दं कर्म प्रोवाच ॥ १॥
प्रजानिःश्रेयसा च ॥२॥
तत्र पितरो देवता ब्राह्मणस्त्वाहवनीयार्थे ॥३॥
मासि श्राद्धमपरपक्षस्योत्तमेऽहनि ॥ ४ ॥
अपराह्णः श्रेयान् ॥ ५॥
तथाऽपरपक्षस्य जघन्यान्यहानि ॥ ६ ॥
सर्वेष्वहःसु कृष्णपक्षस्य क्रियमाणे पितॄन्प्रीणाति कर्तुस्तु कालाभिनियमात्फलविशेषः ॥ ७॥
प्रथमेऽहनि स्त्रीप्रायमपत्ये जायते ॥ ८॥
द्वितीयेऽस्तेनाः ॥९॥
तृतीये क्षुद्रपशुमान् ॥ २७.५.१० ॥
चतुर्थे ब्रह्मवर्चसिनः ॥ ११ ॥
पञ्चमे पुमाꣳसो बह्वपत्यो भव्यापत्यो न चा(न)पत्यः प्रमीयते ॥ १२ ॥
षष्ठेऽध्वशीलोऽक्षशीलश्च ॥ १३ ॥
सप्तमे कर्षे राद्धि ॥ १४ ॥
अष्टमे पुष्टिः ॥ १५॥
नवम एकखुराः ॥ १६ ॥
दशमे व्यवहारे राद्धिः ॥ १७ ॥
एकादशे कृष्णायसं त्रपुसीसम् ॥ १८॥
द्वादशे पशुमान् ॥ १९ ॥
त्रयोदशे पुमांसो बह्वपत्यो/बहुमित्रो दर्शनीयापत्यो युवमारिणस्तु भवन्ति ॥ २७.५.२० ॥
चतुर्दश आयुधे राद्धिः ॥२१॥
पञ्चदशे पुष्टिः ॥ २२॥
तत्र द्रव्याणि तिलमाष(षा) व्रीहियवा आपो मूलफलानि च ॥ २३ ॥
एतानि मासꣳ प्रीणन्ति पितृलोके विज्ञायते स्नेहवतित्वेवाने तीव्रतरा पितॄणां तृप्तिर्द्राघीयाꣳसं च कालम् । तथा धर्माहृतेन द्रव्येण तीर्थे प्रतिपन्नेन ॥ २४ ॥
संवत्सरं गव्येन माꣳसेन प्रीतिः ॥२५॥
भूयाꣳसमितो माहिषेण ॥ २६ ॥
एतेन ग्राम्याणां पशूनां माꣳसं मेध्यं व्याख्यातम् ॥ २७ ॥
खड्गोपस्तरणे खड्गमाꣳसेनाऽऽनन्त्यं कालम् ॥ २८ ॥
तथा शतबलेर्मत्स्यस्य माꣳसेन॥ २९॥
तथा वार्ध्राणसस्य ॥ २७.५.३० ॥
एतेनाऽऽरण्यानां पशूनां (ख० ११ ) मेध्यं माꣳसं व्याख्यातम् ॥ ३१ ॥
प्रयतः प्रसन्नमनाः सृष्टो भोजयेद्ब्राह्मणान्ब्रह्मविदो योनिगोत्रमन्त्रान्तेवास्यसंबन्धान् ॥३२ ।।
नार्थापेक्षो भोजयेत् ॥ ३३ ॥
गुणहान्यां तु परेषाꣳ समुदेतः सोदर्योऽपि भोजयितव्यः ॥३४॥
एतेनान्तेवासिनो व्याख्याताः ॥ ३५ ॥
अथाप्युदाहरन्ति ॥ ३६॥
संभोजनी नाम पिशाचभिक्षा मैषा पितॄन् गच्छति नोत देवान् । इहैव सा चरति क्षीणपुण्या शालान्तरे गौरिव नष्टवत्सा ॥३७॥
इहैव संभुञ्जती दक्षिणा कुलाकुले ( लं) विनश्यतीति ॥ ३८ ॥
तुल्यगुणेषु वयोवृद्धः श्रेयान्द्रव्यकृशश्चेप्सन् ॥ ३९ ॥
पूर्वेद्युर्निवेदनम् ॥ २७.५.४०॥
अपरेद्युर्द्वितीयमामन्त्रणम् ॥ ४१॥
त्रिः प्रायमेके श्राद्धमुपदिशन्ति ॥ ४२ ॥
यथा प्रथममेवं द्वितीयं तृतीयं च कर्तव्यम् ॥ ४३ ॥
सर्वेषु वृत्तेषु सर्वतः शेषं समवदायाश्नीयात् ॥ ४४ ॥
उदीच्यवृत्तिस्त्वासनगतानाꣳ हस्तेषु तिलमिश्रोदपात्रानयनं तिलानुप्रकिरणं च ॥ ४५ ॥
उद्धरिष्याम्यग्नौ च करिष्यामीत्यामन्त्रयते ॥४६॥
काममुद्ध्रियतां काममग्नौ च क्रियतामित्यतिसृष्ट उद्धरेज्जुहुयाच्च ॥ ४७ ॥
श्वभिरपपात्रैश्च श्राद्धस्प(द)र्शनं परिचक्षते ॥ ४८॥
शिपिविष्टः परतल्पगाम्यायुधी[य] त्रः श्वित्री कुष्ठी वृषलीपतिः सर्वविक्रयी राजभृत्यः प्रज्ञातोत्पन्नो ब्राह्मण्यामित्येते श्राद्धे भुञ्जानाः पङ्क्तिदूषणा भवन्ति ॥ ४९ ॥
अथाप्युदाहरन्ति । वेदाध्यायी पञ्चाग्निस्त्रिसुपर्णो ज्येष्ठसामिको ब्राह्मदेयानुसंतानी पञ्चैते पङ्क्तिपावनाः ॥२७.५.५०॥
न च नक्तꣳ श्राद्धं कुर्वीत ॥५१॥
आरब्धे चाभोजनमासमापनात् ॥ ५२ ॥ (ख० १२) ।
विलयनं मथितं पिण्याकं मधु माꣳसं च वर्जयेत् ॥ ५३ ।।
कृष्णधान्यꣳ शूद्रान्नं च ये चान्येऽनाश्यसंमताः ॥ ५४॥
अहविष्यमनृतं क्रोधं येन च क्रोधयेत् ॥ ५५ ॥
स्मृतिमिच्छन्यशो मेधाꣳ स्वर्गं पुष्टिं द्वादशैतानि वर्जयेत् ॥ ५६॥
अधोनाभ्युपरिजान्वाच्छाघ त्रिषवणमुदकमुपस्पृशन्ननग्निपक्ववृत्तिरच्छायोपगतः स्थानासनिकः संवत्सरं व्रतं चरेदेतद्द(द)ष्टाचत्वारिꣳशत्संमितमित्याचक्षते ॥ ५७ ॥
नित्यश्राद्धम् ॥ ५८॥
बहिर्ग्रामाच्छुचयः शुचौ देशे सꣳस्कुर्वन्ति ॥ ५९॥
तत्र नवानि द्रव्याणि ॥ २७.५.६० ॥
यैरन्नꣳ सꣳस्क्रियते येषु च भोज्यते ॥ ६१ ॥
तानि च भुक्तवद्योाण दद्यात् ॥ ६२ ।।
समुदेताꣳश्च भोजयेत् ।। ६३ ॥
न चातद्गुणायोच्छिष्टं प्रयच्छेत् ।। ६४ ॥
तानि भुक्तवद्भ्यो ददाति ॥ ६५ ॥
एवꣳ संवत्सरम् ॥ ६६॥
तेषामुत्तमं लोहेनाजेन कार्यम् ॥ ६७ ॥
मानं च कारयेत्प्रतिच्छन्नम् ॥ ६८ ॥
तस्योत्तरार्धे ब्राह्मणान्भोजयेत् ॥ ६९ ॥
उभयान्पश्यति ब्राह्मणाꣳश्च भुञ्जानान्माने च पितॄनित्युपदिशन्ति ॥ २७.५.७० ॥
कृताकृतमत ऊर्ध्वम् ॥ ७१ ।।
श्राद्धेन तृप्तिं हि वेदयन्ति पितरः ॥ ७२ ॥
पुष्टिकामस्तिष्येण गौरसर्षपाणां चूर्णानि कारयित्वा तैः पाणिपादं प्रक्षाल्य कर्णौ मुखं प्रास्य यद्वातो नातिवाति तदासनोऽजिनं बस्तस्य प्रथमः कल्पो दक्षिणाभिमुखो वाग्यतो भुञ्जीत ।। ७३ ॥
अनायुष्यं त्वेवंमुखस्य भोजनं मातुरित्युपदिशन्ति ॥ ७४ ॥
औदुम्बरश्चमसः सुवर्णनाभो भोजनीयं प्रशस्तः ॥ ७५॥
न चान्येनाभिभोक्तव्यः ॥ ७६ ॥
यावद्ग्रासꣳ संनयन्नस्कन्दयन्न(न्ना)भिजिहि(ही)ताभिजिहीत वा कृत्स्नं ग्रासं ग्रसीत सहाङ्गुष्ठम् ॥७७॥
न च मुखशब्दं कुर्यात् ॥ ७८ ।।
पाणिं च नावधुनुयात् ॥ ७९ ॥
आचम्योर्ध्वौ पाणी धारयेदा प्रोदकीभावात् ॥ २७.५.८०॥
ततोऽग्निमुपस्पृशेत् ॥ ८१॥
दिवा च न भुञ्जीतान्यन्मूलफलेभ्यः ॥ ८२ ॥
स्थालीपाकानुदेश्यानि वर्जयेत् ॥ ८३ ॥
नैयमिकं च श्राद्धꣳ स्नेहवदेव दद्यात् ॥ ८४ ॥ (ख०१३)।
सर्पिमाꣳसमिति प्रथमः कल्पः ॥ ८५ ॥
अभावे तैलꣳ शाकमिति ॥ ८६॥
मघासु चाधिकꣳ श्राद्धेन कल्पेन सर्पिर्ब्राह्मणान्भोजयेत् ॥८७॥
तिलानां द्रोणं येनोपायेन शक्नुयात्तथा दद्यात् ॥ ८८ ॥
समुदेताꣳश्च भोजयेत् ॥ ८९॥
उदगयन आपूर्यमाणपक्षे तिष्येन(ण) स्थालीपाकं श्रपयित्वा महाराजमिष्ट्वा ब्राह्मणं भोजयित्वा पुष्टिकामः सिद्धिं वाचयेत् ॥ २७.५.९० ॥
एवमहरहरा परस्मात्तिष्यात् ॥ ९१ ॥
द्वौ द्वितीये ॥ ९२ ॥
त्रीꣳस्तृतीये ॥ ९३॥
एवमभ्युच्चयेन संवत्सरम् ॥ ९४॥
महान्ते पोषं पुष्यति ॥ ९५॥
आदित एवोपवासः ।। ९६ ॥
आत्ततेजसां भोजनं वर्जयेत् ॥ ९७ ॥
भस्मतुषाधिष्ठानं च ॥ ९८ ॥
पदा पादस्य क्षालनं वर्जयेदधिष्ठानं च ॥ ९९ ॥
पादयोः प्रेङ्खोलनं च ॥ २७.५.१०० ॥
जानुनि वाऽत्याधानं च जङ्घायाः ॥१०१॥
नखैश्च नखच्छेदनवादनस्फोटनानि ष्ठीवनान्यकारणात् ॥१०२ ॥
यच्चान्यत्परिचक्षते ॥ १०३॥
योक्ता च धर्मयुक्तेषु द्रव्यपरिग्रहेषु ॥ १०४ ॥
प्रतिपादयिता च तीर्थे यन्ता चातीर्थे यतोऽभयꣳ स्यात् ॥ १०५॥
संग्रहीता च मनुण्यान् ॥ १०६॥
भोक्ता च धर्माविप्रतिषिद्धान्भोगान् ॥ १०७॥
एवंवर्तमान उभौ लोकावभिजयति ॥ १०८ ॥(ख०१४)।
चत्वार आश्रमा गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थमिति ॥ १०९॥
तेषु [सर्वेषु] यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति ॥२७.५.११० ॥
सर्वेषामुपनयनप्रभृति समान आचार्यकुले ब्रह्मचारिवासः ॥ १११ ॥
बुद्ध्वा कर्माणि यत्कामयेत तदारभेत ॥ ११२ ॥
सर्वेषामनु(नू)त्सर्गो विद्यायाः ॥ ११३ ॥
यथा विद्यार्थस्य नियम एतेनैवाऽऽन्तमनुप्रयुञ्जानस्य वाऽऽचार्यकुले शरीरन्यासः ॥ ११४ ।।
इति ब्रह्मचारिवासः ॥ ११५ ॥
अथ परिव्राजः ॥ ११६ ॥
अत एव ब्रह्मचर्यवान्प्रव्रजति ॥ ११७॥
तस्योपदिशन्ति ॥ ११८ ॥
अनग्निरनिकेतः स्यादशर्माऽशरणो मुनिः स्वाध्याय उत्सृज्यमानो वाचं ग्रामे प्राणवृत्तिं प्रतिलभ्योपनिष्क्रम्यानीहोऽनमुत्रश्चरेत् ॥ ११९ ॥
तस्य मुक्तमाच्छादनं विहितम् ।। २७.५.१२० ॥
सर्वतः परिमोक्षमित्येके ॥ १२१ । ।
सत्यानृते सुखदुःखे प्रियाप्रिये वेदानिमं लोकममुं च परित्यज्याऽऽत्मानमन्विच्छेत् ॥ १२२ ।।
बुद्धे क्षेमप्रापणमिति ॥ १२३ ॥
तच्छास्त्रैर्विप्रतिषिद्धम् ॥ १२४ ॥
बुद्धे चेत्क्षेमप्रापणमिहैव न दुःखमुपलभेत ॥ १२५ ॥
एतेन परं व्याख्यातम् ॥ १२६ ॥
अथ वानप्रस्थः ।। १२७ ।।
अत एव ब्रह्मचर्यवान्प्रव्रजति ॥ १२८॥
तस्योपदिशन्ति ।। १२९॥
एकाग्निरनिकेतः स्यादशर्माऽशरणो मुनिः स्वाध्याय उत्सृज्यमानो वाचम् ॥ २७.५.१३०॥
तस्याऽऽरण्यमाच्छादनं विहितम् ॥ १३१॥
ततो मूलः फलैः पत्रैस्तृणैरिति वर्तयꣳश्चरत् ॥ १३२ ॥
अन्ततः प्रवृत्तानि ॥ १३३ ॥
आपो वायुराकाशः ॥ १३४ ।।
तेषामुत्तरोत्तरः संयोगः ॥ १३५ ।। (ख० १५) ।
अथ वानप्रस्थस्यैवाऽऽनुपूर्व्यमेकं उपदिशन्ति ॥ १३६ ॥
विद्याꣳ समाप्य दारं कृत्वाऽग्नीनाधाय कर्माण्यारभेत सोमावरार्ध्यानि यानि श्रूयन्ते ।। १३७ ।।
गृहान्कृत्वा सप्रजः सदार: सहाग्निभिर्बहिर्ग्रामाद्वसेत् ॥ १३८ ॥
एको वा ॥ १३९ ॥
शिलोच्छेन वर्तयेत् ॥ २७.५.१४० ॥
संवत्सरावरार्ध्यं न चात ऊर्ध्वं प्रतिगृह्णीयात् ॥ १४१॥
अभिषिक्तश्च जुहुयात् ॥ १४२ ॥
शनैरपोऽभ्यवेयादभिघ्नन्नभिमुख आदित्यमुदकमुपस्पृशेत् ॥ १४३ ॥
सर्वत्रैवोदकोपस्पर्शनविधिः ॥ १४४ ॥
क्षारलवणं( ण )मधुमांसानि च वर्जयेत् ॥ १४५ ॥
तस्य द्वंद्वं पात्राणामेक उपदिशन्ति पाकार्थभोजनार्थे वाससी परशुदात्रकाञ्जानाम् ॥१४६॥
एकैकमादायेतराणि दत्त्वाऽरण्यमवतिष्ठेत ॥ १४७ ॥
तस्यारण्येनैव होमा( मो) वृत्तिः प्रतीक्षाऽऽच्छादनं विहितम् ॥ १४८ ॥
येषु कर्मसु पुरोडाशाश्चरवस्ते कार्याः ॥ १४९॥
सर्वं चोपाꣳशु सह स्वाध्यायेन ॥ २७.५.१५०॥
नारण्यमभ्याश्रावयेत् ॥ १५१॥
अग्न्यर्थꣳ शरणम् ॥१५२ ॥
आकाशे स्वयम् ।। १५३ ॥
अनुपस्तीर्णे शय्यासने ॥ १५४॥
नवे सस्ये प्राप्ते पुराणमनुजानीयात् ॥ १५५ ॥
भूयाꣳसमिच्छन्प्रत्यहमेव पात्रेण सायं प्रातरर्थमाहरेत् ॥ १५६॥
ततो मूलैः फलैः पत्रैस्तृणैरिति वर्तयꣳश्चरदन्ततः प्रवृत्तान्यापोवायुराकाश इत्युत्तर उत्तरः संयोगः फलतो विशिष्टः ॥ १५७ ।। (ख० १६ )।
अथ पुराणे श्लोकावुदाहरन्ति । अष्टाशीतिसहस्राणि ये प्रजामीषिर ऋषयो दक्षिणेनार्यम्णः पन्थानं ते श्मशानानि भेजिरे ॥ १५८ ॥
अष्टाशीतिसहस्राणि ये प्रजा नेषिर ऋषय उत्तरेणार्यम्णः पन्थानं तेऽमृतत्वꣳ हि भेजिरे ॥१५९॥
इत्यूर्ध्वरेतसा प्रशꣳसाऽथापि संकल्पसिद्धयो भवन्ति ॥ २७.५.१६० ।।
यथा वर्षं प्रजादानं दूरे दर्शनं मनोजवता यच्चान्यदेवं युक्तम् ।। १६१ ॥
तस्माच्रुवरतितः प्रत्यक्षफलत्वाच्च विशिष्टानेतानाश्रमानेके ब्रुवते ॥ १६२ ॥
त्रैविद्यवृद्धानां तु वेदाः प्रमाणमिति निष्ठा तत्र यानि श्रूयन्ते व्रीहियवपश्वाज्यपयः
कपालपत्नीसंबन्धान्युच्चैर्नीचैः कार्यमिति प्रसिद्धाचारो न प्रमाणमिति मन्यन्ते ।। १६३ ॥
यत्तु श्मशानमुच्यते नानाकर्मणामेषोऽन्ते पुरुषसꣳस्कारो विधीयते ॥ १६४ ॥
ततः परमनन्त्यफलमपरिमित(तं) स्वर्गशब्दꣳ श्रूयते ॥ १६५ ॥
अथाप्यस्य प्रजातिममृतमाम्नाय आह प्रजामनुप्रजायसे तदु ते मर्त्यामृतमिति ॥ १६६ ॥
अथापि च स एवायं विरूढः पृथक्प्रत्यक्षेणोपलभ्यते दृश्यते चापि सारूप्यं देहत्वमेवान्यत् ॥ १६७ ॥
ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषाꣳ सांपरायेण कीर्तिः( र्तिं ) स्वर्गं च वर्धयन्ति ॥ १६८ ॥
एवमपरोऽपरः परेषाम् ॥ १६९.॥
आ भूतसंप्लवात्ते स्वर्गजितः ॥ २७.५.१७० ॥
पुनः सर्गे बीजार्था भवन्तीति भविष्यत्पुराणे ।। १७१ ॥
अथापि प्रजापतेर्वचनम् ॥ १७२ ॥
त्रयीं विद्यां ब्रह्मचंर्य प्रजातिꣳ श्रद्धां तपो यज्ञमनुप्रदानं य एतानि कुर्वते तैरु(रि)त्सह स्मो रजो भूत्वा ध्वꣳसतेऽन्यत्प्रशꣳसन्निति ॥१७३॥
तत्र ये पापकृतस्त एव ध्वꣳसन्ति यथा पर्णं वनस्पतेर्न परान्हिꣳसन्ति ॥ १७४ ॥
नास्यास्मिँल्लोके कर्मभिः संबन्धो विद्यते तथा परस्मिन्कर्मफलैः ॥ १७५॥
अथापि प्रजापतेर्ऋषीणामित्ययं सर्गः ॥ १७६ ॥
तेषां प्रकृतयः परा ज्वलन्त्य उपलभ्यन्ते ॥ १७७ ॥
स्यात्तु कर्मावयवेन तपसा वाकश्चित्सशरीरोऽन्तवन्तं लोकं जयेद "दस्वर्गं लोकं जयेद" भिस्वर्गं लोकं जयतीति संकल्पसिद्धिः स्यान्न ततो ज्येष्ठा (ज्यैष्ठ्यमा)श्रमाणाम् ॥ १७८ ॥ [ ख. १७] ।
व्याख्याताः सर्ववर्णानाꣳ साधारणवैशेषिका धर्मा राज्ञस्तु विशेषाद्वक्ष्यामः ॥ १७९ ।।
दक्षिणाद्वारं वेश्म पुरं च मापयेत् ॥ २७.५.१८० ॥
अन्तरस्यां पुरि वेश्म ॥ १८१ ॥
तस्य पुरस्तादावसथस्तदामन्त्रणमित्याचक्षते ॥ १८२ ॥
दक्षिणेन पुरं दक्षिणोदग्द्वारं सभा कार्या यथोभयं संदृश्येत बहिरन्तरं च ।। १८३ ॥
सर्वत्रैवाजस्रा अग्नयः स्युः ॥ १८४॥
अग्निपूजा च नित्या यथा गृहमेधे ।। १८५॥
आवसथे श्रोत्रियावरार्ध्यानतिथीन्वासयेत् ॥ १८६ ॥
तेषां पूजा श्रेयस्यात्मनः कार्या ॥ १८७ ॥
तेभ्यो यथागुणमावसथमन्नपानं च विदेयम् ॥ १८८ ॥
सर्वाणीतश्च स्याद्गुरूनमात्याꣳश्च नातिजीवेत् ।। १८९ ॥
न चास्य विषये क्षुधा रोगेण हिमातपाभ्यां वाऽवसीदेदभावात्कश्चित् ॥ २७.५.१९० ॥
सभायां मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्निवप(पे )द्यथार्थान्युग्मान्वैभीतकान् ॥ १९१ ॥
आर्या विशुचयः सत्यशीला दीवितारः स्युः ॥ १९२ ॥
सर्वधर्माणां सर्वधर्मानुष्ठानानि नियमेषु च युक्तः स्यात् ।। १९३ ॥
आयुधग्रहणं नृत्यगीतवादित्राणि राजाधीनेभ्योऽन्यत्र न विद्येरन् ।। १९४ ॥
क्षेमकृद्राजा न चास्य विषये ग्रामेऽरण्ये वा तस्करभयं विद्यते ॥ १९५॥
भृत्यानामनुपरोधेन क्षेत्रं वित्तं च ददद्ब्राह्मणेभ्यो यथार्हमनन्ताँल्लोकानभिजयति ॥ १९६ ॥
ब्राह्मणस्वान्यपजिहीर्षमाणो राजा यो हन्यते तमाहुरात्मयूपो यज्ञोऽनन्तदक्षिण इति ॥ १९७ ॥ (ख० १८)।
एतेनान्ये शूरा व्याख्याताः प्रयोजने युध्यमानास्तनुत्यजः॥ १९८॥
ग्रामेषु निगमेषु चाऽऽर्याञ्छुचीन्सत्यशीलान्धर्मार्थकुशलान्प्रजागुप्तये निदध्यात् ॥ १९९ ।।
तेषां पुरुषास्तथागुणा एव स्युः ॥ २७.५.२०० ॥
सर्वतो योजनं नगरं तस्करेभ्यो रक्ष्यम् ॥ २०१ ॥
क्रोशो ग्रामेभ्यः ।। २०२ ॥
तत्र यन्मुष्यते तैस्तत्प्रतिदाप्यम् ॥ २०३ ॥
धर्म्यꣳ शुल्कमवहारयेत् ॥ २०४॥
अकरः श्रोत्रियः ॥ २०५॥
सर्ववर्णानां स्त्रियः ॥२०६ ॥
कुमाराश्च प्राग्व्यञ्जनेभ्यः ॥ २०७ ॥
ये च विद्यार्था वसन्ति ॥ २०८ ।।
तपस्विनश्च ये धर्मपराः ।। २०९ ॥
शूद्रश्च पादावनेक्ता ।। २७.५.२१० ।।
अन्धमूकबधिररोगाविष्टाश्च ॥ २११ ।।
ये व्यर्था द्रव्यपरिग्रहैः ॥ २१२ ॥
अबुद्धिपूर्वमलंकृतो युवा परदारमनुप्रविशन्कुमारीं वा वाचा बाध्यः॥२१३ ॥
बुद्धिपूर्वं तु दुष्टभावो दण्ड्यः ॥ २१४ ॥
संनिपाते वृत्ते शिश्नच्छेदनꣳ सवृषणस्य ॥ २१५ ॥
कुमार्यां तु स्वान्यादाय वास्यः ॥ २१६ ॥
अथ राज्ञा भृत्ये ।। २१७ ।।
रक्ष्ये चात उर्ध्वं मैथुनात् ।। २१८ ॥
चरितनिर्वेषं स्वामिभ्योऽवसृजेत् ॥ २१९ ॥
चरिते यथापुरं धर्मसंबन्धः ॥ २७.५.२२० ॥
न सगोत्रस्थानीयां परेभ्यः समाचक्षीत ॥ २२१ ॥
कुलाय हि स्त्री प्रदीयत इत्युपदिशन्ति ॥ २२२ ॥
तदिन्द्रियदौर्बल्याद्विप्रतिपन्नम् ॥ २२३ ॥
अविशिष्टं परत्वꣳ हि पाणेः ॥ २२४ ॥
तद्व्यतिक्रमे पुनरुभयोर्नरकः ॥ २२५ ॥
नियमारम्भणो हि वर्षीयानभ्युदय एवमारम्भणादपत्यात् ।। २२६॥
वाश्य आर्यः शूद्रायाम् ॥ २२७ ।।
वध्यः शूद्र आर्यायाम् ।। २२८ ।।
दारं चास्य कर्षयेत् ।। २२९ ॥
सवर्णायामन्यपूर्वायाꣳ सकृत्संनिपाते पादः पतति ॥ २७.५.२३० ॥
एवमभ्यासे पादः पादः ॥ २३१ ॥
चतुर्थे सर्वम् ॥ २३२ ॥
जिह्वाच्छेदनं शूद्रस्याऽऽर्यं धार्मिकमाक्रोशतः ॥२३३॥
वाचि पथि शय्यायामासने वेति समीभवतो दण्डताडनम् ॥ २३४॥
पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वधः( ध्यः) ॥ २३५ ॥
चक्षुर्निरोधस्त्वेतेषु ब्राह्मणस्य ॥ २३६ ॥
नियमातिक्रमणमन्यं वा रहसि बोधयेदा समापत्तेः)॥ २३७ ॥
असमापत्तौ वाश्यः ॥ २३८ ॥
आचार्य ऋत्विक्स्नातकस्तु श्व( कः श्व)शुरो राजेति त्राणꣳ स्युरन्यत्र वध्यात् ॥ २३९ ॥ (ख० १९)।
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे (धर्मसूत्रापरपर्याये) सप्तविंशप्रश्ने पञ्चमः पटलः ॥५॥

27.6
अथ षष्ठः पटलः।
क्षेत्रं परिगृह्योत्थानाभावात्फलाभावे यः समृद्धः स भावि तदपहार्यः ॥ १॥
अवशिनः कीनाशस्य कर्मन्यासे दण्डताडनम् ॥ २ ॥
तथा पशुपस्य ॥ ३॥
अवरोधनं चास्य पशूनाम् ॥ ४ ॥
हित्वा व्रजम(मा)शिनः कर्षयेत्पशूनातिवापेयात् ॥ ५ ॥
अवरुध्य पशूनां हरणे नाशने वा स्वामिभ्योऽवसृजेत् ॥ ६॥
प्रमादादरण्ये पशूनुत्सृष्टान् ग्राममानीय स्वामिभ्योऽवसृजेत् ।। ७॥
पुनः प्रमादे सकृदवरुध्यत् ॥ ८॥
तत ऊर्ध्वं न सूर्क्षेत् ॥ ९ ॥
परपरिग्रहमविद्वानाददान एधोदके मूले फले पुष्पे गन्धे ग्रासे शाक इति वा[चा] बाध्यः ॥२७.६.१०॥
विदुषो वाससः परिमोषणम् ॥११॥
अदण्ड्यः कामकृते तथा प्राणसꣳशये भोजनमाददानः ॥ १२ ॥
प्राप्तनिमित्ते दण्डाकर्मणि राजानमेनः स्पृशति ॥ १३ ॥
प्रयोजयिताऽनुमन्ता कर्तेति स्वर्गफलेषु कर्मसु भागिनः ।। १४ ॥
यो भूय आरभते तस्मिन्फलविशेषः ॥ १५ ॥
कुटुम्बिनौ धनस्येशाते ॥ १६ ॥
तयोरनुमतेऽन्येऽपि तद्धितेषु वर्तेरन् ।। १७ ॥
विवादे विद्याभिजनसंपन्ना मेधाविनो धर्मेष्वविनिपातिनः ॥ १८॥
संदेहे लिङ्गन्तो दैवेनेति विचिन्त्य ॥ १९ ।।
पुण्याहे प्रातरग्नाविद्धेऽपामन्ते राजवत्युभतः समाख्यान्सर्वानुमते मुख्यः सत्यं प्रश्नं ब्रूयात् ।। २७.६.२० ॥
अनृते राजा दण्डं प्रणयेत् ॥ २१ ॥
नरकश्चात्राधिकः सांपराये ॥ २२ ॥
सत्ये स्वर्गः सर्वभूतप्रशꣳसा च ॥ २३ ॥
सा निष्ठा या विद्या स्त्रीषु शूद्रेषु च ॥ २४ ॥
आथर्वणस्य वेदस्य शेष इत्युपदिशन्ति ॥ २५ ॥ (ख० २०) ।
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे(धर्मसूत्रापरपर्याये) सप्तविंशप्रश्ने षष्ठः पटलः ॥ ६॥
सप्तविंशः प्रश्नः समाप्तः।