सामग्री पर जाएँ

कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः २९

विकिस्रोतः तः
← प्रश्नः २८ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः २९
हिरण्यकेशिः/सत्याषाढः

29.1
अथैकोनत्रिंशः प्रश्नः।
तत्र प्रथमः पटलः ।
दिष्टगमनादयुक्ष्वहःस्वहोरात्रार्धमास[मास]र्तुषु संवत्सरे वा निदधाति ॥१॥
अप्रज्ञाते याथाकामी या माघ्याः पौर्णमास्याः फाल्गुन्याश्चैत्र्या वैशाख्या नैदाध्या वोपरिष्टादमावास्या तस्याम् ॥२॥
अयुजो युजो वाऽभ्रीरादायोत्तरतो लोष्टानवरुज्य दक्षिणा निर्हरन्ति स्थलार्थानिष्टकार्थान्वा ॥३॥
पुरस्तादेव श्मशानायतनादोषधीरुद्धारयन्ति पाठापृश्निपर्णीकर्णिकार राजवृक्षकण्टकतिल्वकविभीतकार्कशरश्वदंष्ट्राध्यण्डा अन्याश्च क्षीरिणीरनुत्खयाः ॥ ४ ॥
अपराह्णे श्मशानायतनं (वि) मिमीते पञ्च पञ्च प्रक्रमान्सर्वतः ।।५ ॥
षट् पुरस्तादित्येके ॥ ६॥
माने परीतान इष्टकोपधान इति दिक्संयोगः ॥ ७॥
सर्वत्र पुरस्तादुपक्रमः ॥ ८॥
प्रसव्यं दक्षिणतोऽपवर्गः। त्रिवृता मौञ्ज्या। वाल्वज्या वा रज्ज्वा प्रसव्यावृत्तया त्रिः प्रसव्यं परितत्यायुग्भिरुदकुम्भैः स्ववोक्षितमवोक्षेद्यथा प्राणादुत्सर्पेत् ॥ ९॥
न प्राणान(द)धि निवपेद्यदि प्राणान(द)धि निवपेज्जीवतां ह तत्प्राणानघि निर्वपेत् ॥ २९.१.१० ॥
खार्यां तल्पे वा संभारानोप्य ॥ ११ ॥ (ख० १)।
श्वोभूते पशुना तदर्थमन्नꣳ सꣳस्कृत्य तदमावास्यायां निदधाति ॥ १२ ॥
अथ यदि पुनर्धविष्यन्तः स्युस्तदङ्गार तल्पं वा मिन्वन्ति ।। १३॥
तस्य पूर्वार्धे मध्ये पश्चार्धे वा पालाशीं मेथीं निघ्नन्ति त्रिविषूकाम् ।। १४ ॥
पुरस्तादेव शूद्रोत्पन्नो ब्रह्मबन्धुर्वा संवादितोपविशति ॥ १५॥
या स्त्री मुख्यतमा तामाह वसतिं मया सह पृच्छति ॥ १६॥
न ददामीतीतरा प्रत्याह ॥ १७ ॥
एवं द्वितीये करोति ॥ १८ ॥
एकरात्राय ददामीति तृतीये ॥ १९॥
यावद्रात्रं वा धविष्यन्तः स्युः ॥ २९.१.२०॥
एतस्यां वाचि मेध्यामूले शरीराणि निदधाति ॥ २१ ॥
शतातृष्णं च कुम्भं त्रिविषूके ॥ २२॥
तस्य बिलं चर्मणा कुशैः परिणद्धं भवति ॥ २३ ॥
तस्मिन्दधि वाजिनमिश्रमानयति वैश्वानरे हविरिदं जुहोमीति ॥ २४ ॥
विक्षरन्तमभिमन्त्रयते-द्रप्सश्चस्कन्देमꣳ समुद्रमिति द्वाभ्याम् ।। २५ ॥
चत्वारो ब्रह्मचारिणोऽन्ये वा ब्राह्मणाः प्रयता दक्षिणान्केशपक्षानुद्ग्रथ्य सव्यान्प्रस्रस्य दक्षिणानूरूनाघ्नानाश्चर्माऽऽघ्नन्त: सिग्भिरभिधून्वन्तस्त्रिः प्रसव्यं परियन्त्यजिनमेध्यजिनमे(ध्यजिनमे)धीति ॥२६॥
एवममात्याः स्त्रियश्च ॥२७॥
उत्तराभिः सिग्भिर्मन्त्रवर्जं पूर्ववत्परिक्रमणम् ।। २८ ॥
संप्रवदन्ति वीणाः शङ्खान्नालीकान्तू (कांस्तु)णापणवान्नृत्यगीतवादित्राणीति ॥ २९ ॥
प्रातर्मध्यंदिनेऽपराह्णे (इत्येवं रात्रेस्त्रिरपरपक्षस्य) तिस्रो रात्रीः [ धुवन्ति ] ॥ २९.१.३० ॥
पञ्च सप्त नवैकादश वाऽर्धमासं मासं वत्सरमु हैके धुवन्त्यन्नं च यथाशक्ति देयं तथा द्रव्याणि ॥ ३१ ॥
उत्तमेऽहनि द्रव्यत्याग इत्येके ॥ ३२॥
एतस्मिन्नेवाग्नौ तृष्णीमुपचरितान्पञ्च चरूꣳ श्रपयन्ति ॥ ३३ ॥
तेषामभिघारणानि घृतꣳ श्रितं क्षीरं दधि मध्वित्यपूपाभिर्धाना भवन्ति ॥ ३४ ॥
अपररात्रे गच्छन्त्यग्निः प्रथमोऽर्धो(थो)दकुम्भोऽनड्वाञ्छरीराणि संभारा इति येन चान्येनार्थी भवति ॥ ३५॥
न हीनमन्वाहरेयुरन्तरा ग्रामं श्मशानं चैतमग्निमिन्धान आस्ते ॥ ३६ ॥ (ख०२)।
व्युष्टायाꣳ हरिण्या पलाशशाखया शमीशाखया वा श्मशानायतनꣳ संमार्य्ट्भपेत वीतेति ॥ ३७ ॥
दक्षिणत: शाखामुदसित्वाऽप उपस्पृश्योद्धत्यावोक्ष्य सवितैतानि शरीराणीति सीरं युनक्ति षड्गवं द्वादशगवं चतुर्विꣳशतिगवं वा ॥ ३८॥
यावद्गवं सीरं तावन्ति शतानीष्टकानां माना(नि) भवन्तीति विज्ञायते ॥ ३९॥
तस्याश्चतुर्विꣳशेन भागेनेष्टकाः करोति पादेष्टकाश्च ॥ ४०॥
वारणं काष्ठमयम् ॥ ४१ ॥
मौञ्जं रज्जुमयम् ॥ ४२ ॥
वचनादन्यत् ॥ ४३॥
शुनं वाहा इति द्वाभ्यां प्रसव्यावृत्ताः षट् पराची: सीताः कृषति ॥ ४४ ॥
उद्यम्य लाङ्गलं सीते वन्दामह इति सीताः प्रत्यवेक्षते ॥ ४५ ॥
सवितैतानि शरीराणीति मध्ये कृष्टस्यास्थिकुम्भं निदधाति ॥ ४६ ॥
विमुच्यध्वमघ्निया देवयाना इति दक्षिणेꣳऽसे बलीवर्दान्विमुच्य तान्दक्षिणेनोत्सृज्याध्वर्यवे ददाति ।। ४७ ॥
उदपात्रेणोदुम्बरशाखयाऽवोक्षति प्र वाता वा-न्तीति ॥ ४८॥
पात्र्यां सर्वोषधीः संयुत्य वपति यथा यमायेति ॥४९॥
चितः स्थ परिचित इत्यपरिमिताभिः शर्कराभिः परिश्रित्याऽऽप्यायस्व समेतु त इति सिकता व्यूहति ॥२९.१.५०॥
उत्तरया त्रिष्टुभा राजन्यस्य ॥५१॥
जगत्या वैश्यस्य ॥५२॥
विधृतिलोष्टान्प्रतिदिशमन्वीक्षमाण उपदधात्युत्ते तनोमीत्येतैः प्रतिमन्त्रं तिलमिश्राभिर्धानाभिस्त्रिः प्रदक्षिणं परिकिरत्येणीर्धाना इति ॥ ५३॥
अभिवान्यायै दुग्धस्यार्धशरावे सक्तूंस्त्रिः प्रसव्यमनारभ्योपमथितमामपात्रस्थं दक्षिणत उपदधात्येषा ते यमसादन इति ॥ ५४॥
समूलं बर्हिर्दक्षिणाग्रं स्तृणातीदं पितृभ्यः प्रभरेमेति ॥ ५५ ॥
पालाशान्परिधीन्परिदधाति मा त्वा वृक्षाविति पूर्वापरावुत्तरया दक्षिणोत्तरौ ॥५६॥
मध्ये नलेषि( षी )को निदधाति नलं प्लवमिति ॥ ५७ ॥
पुराणेन सर्पिषा शरीराणि सुसंतृप्तानि संतृप्योतरत आसीनोऽनन्वीक्षमाणो दर्भेष्वस्थीनि निवपति सवितैतानि शरीराणीति ॥ ५८ ॥
यथाऽङ्गमङ्गानि संनिधायाथैनमुपतिष्ठते षड्ढोता सूर्यं ते चक्षुरिति ॥ ५९॥
भुक्तभोगेन वाससाऽस्थिकुम्भं निमृज्योपर्युपरि शिरो दक्षिणा व्युदस्यति परं मृत्यो अनु परेहि पन्थामिति ॥ २९.१.६०॥
अथास्य कपालानि सुसंभिन्नानि संभिनत्ति यथैषूदकं न तिष्ठेत् ।। ६१ ।।
भुक्तभोगेन वाससा शरीराणि प्रच्छाद्योदपात्रेणोदुम्बरशाखयाऽवोक्षति शं वात इति ॥६२॥ (ख०३) ।
इष्टका: प्रतिदिशम( न )न्वीक्षमाणा उपदधाति पृथिव्यास्त्वा लोके सादयामीत्येतैः प्रतिमन्त्रं मध्ये पञ्चमीं तां दक्षिणेन षष्ठीम् ॥ ६३ ॥
एवं चरूनपूपवान्घृतवानिति प्रतिमन्त्रम् ॥६४॥
अतिलाभिर्धानाभिस्त्रिः प्रसव्यं परिकिरत्येतास्ते स्वधा अमृताः करोमीति ॥ ६५॥
ओषधीस्तम्बान्प्रतिदिशमनन्वीक्षमाणा(ण) उपदधाति त्वामर्जुनेति प्रतिमन्त्रम् ॥ ६६ ॥
तेषां मन्त्रलिङ्गैर्द्रव्यनियमः ॥ ६७ ॥
लोकं पृणेति लोकंपृणा उपदधाति ॥ ६८ ॥
उत्तरया पुरीषेणानु[वि]किरति ॥ ६९॥
श्मशानस्य मात्रा द्व्यङ्गुलं त्र्यङ्गुलं चतुरङ्गुलं प्रादेशो वितस्तिर्जानुदघ्नमूरुदघ्नं [स्फिग्दघ्नं] वैषोत्तमा मात्रा श्मशानस्य ॥ २९.१.७० ॥
उत्तमां मात्रां मा(नाध्या)प्नुयात् ॥ ७१ ॥
यावत्पु( तीं पु)रस्तात्ततोऽनन्तरां पश्चात् ॥ ७२ ॥
अपि वा द्व्यङ्गुलं पुरस्तात्समं पश्चादित्येके ॥ ७३ ॥
उदपात्रेणोदुम्बरशाखया वाऽवोक्षति शं वात इति ॥ ७४॥
.आरोहणं जपति ॥ ७५ ॥
उपस्थानेनोपतिष्ठत इदमेवेति ॥ ७६ ॥
वारणशाखां पुरस्तान्निदधाति वरण इति ॥ ७७॥
विधृतिलोष्टमुत्तरतो विधृतिरसीति ॥ ७८ ॥
शमीशाखां पश्चाच्छमि शमयेति यवं दक्षिणतो यवेति ॥ ७९ ॥
अथैनमुपतिष्ठते पृथिवीं गच्छान्तरिवक्षं गच्छेति ॥ २९.१.८० ॥
जघनेनं चितं कर्ष्वादि समानमाम्नानान्मृदा स्नातीत्येके ॥ ८१ ॥ (ख. ४)॥
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे( पितृमेधापरपर्याये ) एकोनत्रिंश प्रश्ने प्रथमः पटलः ॥ १॥

29.2
अथ द्वितीयः पटलः।
यमयज्ञं स्वयं प्रोक्तं प्रवक्ष्ये विधिमुत्तमम् ।
मासि मासि तु कर्तव्यो ह्यन्तकाय बलिस्तथा ॥
मेधाकामोऽर्थकामो वा पुत्रकामस्तु वै द्विजः ।
याम्येऽहनि सनक्षत्रे सर्वान्कामान्समश्नुते ॥
संवत्सरस्य कार्तिक्यां बलिं कुर्वीत यत्नतः ।
अकुर्वन्यस्तु कार्तिक्यां नरके तु निमज्जति ॥
तस्मात्कुर्वीत कार्तिक्यां सर्वकामस्तु वै द्विजः।
तिलप्रस्थस्य कर्तव्यं गुडमिश्रं तथा हविः ।
एकेन न तु कर्तव्यः कर्तव्यो बहुभिः सह ॥१॥
हविरुद्वास्याभिमन्त्र्य हविरादाय नमो ब्रह्मणे प्रजापतये देवेभ्यः( ऋषिभ्यः ) पितृभ्यो यमायेत्युक्त्वा ग्रामात्प्राचीमुदीचीं वा दिशमुपनिष्क्रम्यानिरिणवद्देशे नदीतीरे समे वाऽन्यस्मिञ्छुचौ देशे तस्य (तस्मिन्) दिक्स्रक्तिं वेदिं करोति ॥२॥
तस्यां ( उत्तर ) पञ्चोत्तरवेद्यां(यो) दिक्स्रक्तयो भवन्ति ॥ ३॥
दक्षिणेन करकूपं खात्वोत्तरेणाग्निं प्रतिष्ठाप्य दर्भैः सोत्तरवेदिं संप्रच्छादयति ॥ ४ ॥
प्रागग्रैर्दर्भैर्विष्टरं निधाय प्रस्तरं चाऽऽयातु देवः सुमनाभिरूतिभिर्यमो ह वेह प्रयताभिरक्ता । आसीदतां सुप्रयते ह बर्हिष्यूर्जाय जात्यै मम शत्रुहत्योमिति यममावाह्य यमे इव यतमाने यदैतं प्र वां भरन्निति च ॥ ५॥
इमं यम प्रस्तरमिति तिसृभिः प्रस्तरमभिमन्त्र्य सपवित्रपाण्यर्घ्य(स्नान )पाद्याचमनीयोदकानि दत्त्वा सार्वसुरभि गन्धपुष्पधूपदीपैर्नैवेद्यं च यथोपलब्धं ददाति ॥ ६॥
कृष्णाः प्रतिसराः कृष्णसूत्रं च मध्यमेनान्त (न्ति )मेन वा पलाशपर्णेन जुहोति यमाय स्वाहा । अन्तकाय स्वाहा । धर्माय स्वाहा । अधर्माय स्वाहा । अन्ताय स्वाहा । अनन्ताय स्वाहा । वैवस्वताय स्वाहा । मृत्यवे स्वाहा । विष्णवे स्वाहा । भूः स्वाहा । भुवः स्वाहा । सुवः स्वाहा । भूर्भुवः सुवः स्वाहेति व्याहृतिपर्यन्तं हविर्जुहोति ॥ ७॥ (ख०१)।
अथार्कपर्णान्यौदुम्बरपर्णानि वा निधाय मध्यमायामुत्तरवेद्यां यमाय हविर्निवेदयन्ते यमाय सोमꣳ सुनुत यमाय जुहुता हविः । यमꣳ ह यज्ञो गच्छत्यग्निदूतो अरंकृतोमिति ॥ ८॥
प्रतीच्यामुत्तरवेद्यां यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत । स नो देवेष्वा यमद्दीर्घमायुः प्रजीवसोमिति । प्राच्यामुत्तरवेद्यां यमाय मधुमत्तमꣳ राज्ञे हव्यं जुहोतन इदं नम ऋषिभ्यः पूर्वजेभ्यः (पूर्वेभ्यः ) पथिकृद्भ्योमिति । दक्षिणस्यामुत्तरवेद्याꣳ श्वभ्यांꣳ हविर्निवेदयन्ते यौ ते श्वानौ यमरक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसा ताभ्यामेनं परिदेहि राजन् स्वस्ति चास्मा अनमीवं च धेह्योमिति । उत्तरस्यामुत्तरवेद्यां यमदूताभ्यां हविर्निवेदयन्त उरुणसावसु तृपावुलञ्बलौ यमस्य दूतौ चरतो जनाꣳ अनु । तावस्मभ्यं दृशये सूर्याय पुनर्दत्ता
मसुमद्येह भद्रोमिति ॥९॥
योऽस्य कौष्ठ्येति तिसृभिर्यमगाथाभिस्त्रिः प्रदक्षिणं परिगायन्ति ॥ २९.२.१० ॥
दक्षिणेन करकूपं गत्वा प्राचीनावीतं कृत्वा सव्यं जान्वाच्य हविरादाय इषमिषं स्वधा पितृभ्य इति त्रीनुदकाञ्जलीनुपनिनीय यस्य प्राणान्त्सप्तभिर्व्याहृतिभिः सप्त पदानि प्राञ्चो गच्छन्ति ॥ ११ ॥
त्रीन्हि स्वर्गलोकानारूढा भवन्तीति विज्ञायते ॥ १२॥
दधिक्राव्णो अकारिषमिति पुनः प्राणानाप्याय्य ॥ १३ ॥
अथैनं (यथेतं) प्रत्येत्य नमस्कारः कूपेभ्यो नमस्कारः (कूपेभ्यो नमस्कारः) कूपेभ्य इति करकूपमुपस्थाय यस्मै कामाय यम(म)भिवादयन्ते यमो दाधारेत्यनुवाकशेषेण हविरुद्धरन्ति ॥ १४ ॥
नाके सुपर्णमिति प्रवाहयन्ति ॥ १५॥
उरुꣳ हि राजा वरुणश्चकार इत्यपोऽवगाहन्ते ॥ १६ ॥
आपो हि ष्ठा इति तिसृभिर्मार्जयन्ते ॥ १७ ॥
प्रवक्ताऽवभृथे कलिकलुषमुक्त्वाऽरोगशरीरा भवन्तीति विज्ञायते ॥ १८ ॥
यमेन दत्तं त्रित एनमिति चतसृभिरादित्यमुपतिष्ठते ॥ १९॥
उद्वयं तमसस्परीति प्रतिसरमाबध्नीत ॥ २९.२.२०॥
हविषा सर्वप्रायश्चित्तानि हुत्वाऽत्र हविःशेषान्भक्षयन्ति भक्षोऽस्यमृतभक्ष इति ॥ २१॥
भक्षस्य शेषं निनयन्ति पुत्राय प्रियाय प्रियवादिने पुत्रभार्यायै पुत्रवान्भवति पुत्रवती भवतीति वैवस्वतोऽब्रवीत् ॥ २२ ॥
यमो यष्टारमितः प्रयातमङ्के समाधाय पितेव पुत्रम् । सुहृद्गतिं गमयति तत्र लोकान्निवर्तते [न] चास्य छिनत्ति पन्थानं निवर्तते [न] चास्य च्छिनत्ति पन्थानमिति ॥ २३ ॥
इति सत्याषाढहिरण्यकेशिश्रौतसूत्र (पितृमेधापरपर्याये) एकोनत्रिंशप्रश्ने द्वितीयः पटलः ॥ २ ॥

29.3
अथ तृतीयः पटलः ।
अथात उत्तरपैतृमेधिकं व्याख्यास्यामः ॥ १ ॥
यं ब्रह्ममेध इत्याचक्षते ॥ २॥
द्विजातीनामपवर्गोद्ध(अर्थ)तस्तत्त्वदर्शिभिः। ऋषिभिस्तपसो योगाद्वेष्टितं पुरुषोत्तमैः(मम्) । होतॄꣳश्च पितृमेधं च सꣳसृज्य विधिरुत्तरः। विहितस्तु समासेन क्रतूनामुत्तमः क्रतुरिति ॥
प्रकृतिविकृति(ती) यथा पुरस्तात् ॥ ३॥
तस्य सग्रहैर्होतृभिर्होमः ॥ ४ ॥
भर्तृसूक्तेन भरणम् ॥ ५॥
पत्नीभिरुपसंवेशनम् ॥ ६॥
दक्षिणाप्रतिग्रहैर्निर्मार्गः ॥ ७ ॥
हृदयैर्हिरण्यशकलान् ॥ ८॥
संभारयजुर्भिः पात्रचयनम् ॥ ९॥
ज्योतिष्मतीभिरुपोषणम् ॥२९.३.१०॥
नारायणाभ्यामुपस्थानम् ॥ ११ ॥
ब्राह्मण एकहोतेति चानुमन्त्रणम् ॥ १२॥
चित्तꣳ संतानेनेति हविराहुतिः ॥ १३ ॥
प्रयासाय स्वाहेति स्रुवाहुतीः ॥ १४ ॥
मृत्युसूक्तेनानुशꣳसनम् ॥१५॥
सौम्यं(म्या) संगाहनम् ॥ १६ ॥
सौर्येणाऽऽदित्योपस्थानम् ॥ १७॥
ईयुष्ट इत्यवगाहनम् ॥ १८ ॥
अत ऊर्ध्वं पैतृमेधिकमा यवोदनप्राशनान्तान् ॥ १९ ॥
तान्परं ब्रह्मेत्याचक्षते ॥ २९.३.२० ॥
तानसाधारणे श्मशाने प्रयुञ्जीत ॥ २१ ॥
नानाचार्याय नाश्रोत्रियाय ॥ २२ ॥
द्विजातीनामेवं संतिष्ठते ब्रह्ममेधः ।। २३ ॥ (ख० १)॥
इति सत्याषाढहिरण्यकेशिश्रौतसूत्रे( पितृमेधापरपर्याये ) एकोनत्रिंशप्रश्ने तृतीयः पटलः ॥ ३॥

29.4
अथ चतुर्थः पटलः।
अथाजस्राणां द्व्यहं त्र्यहं षडहं द्वादशाहं वा धारयेद्यावद्वा मरणसꣳशयं मन्येत ॥१॥
असꣳशयेऽजस्रं विरम्याग्नय आयुष्मते पुरोडाशमष्टाकपालं निर्वपेच्छतकृष्णलां पञ्चहविषां(षं) वा यो ज्योगामयावीत्युक्तम् ॥ २॥ ।
पुरस्तादायुष्मत्या पाथिकृत्या वा यजेत ॥ ३ ॥
ग्रामेऽप्येके पाथिकृतीꣳ समामनन्ति बहिष्ठो वानप्रस्थो वाऽरण्यमपतिष्ठेत ग्रामं वा प्रविशेद्राज्ञाऽनुमतो ब्राह्मणैश्च सह वनधान्येनापि वा नाजस्रान्कुर्वीत प्रागिष्टगमनाद्विहारꣳ साधयेत् ) । प्रेतेऽपि विहरणमेके समामनन्ति ॥ ४॥
+( तदनर्धुकं प्रयाजा इति विज्ञायते । उदगयने प्रमीताः सौर्येण पथा देवलोकं यान्ति दक्षिणायने सौम्येन पितृलोकमिति विज्ञायते ) । उदगयनापूर्यमाणपक्षे दिवा क्रत्वन्ते श्रेयो मरणमित्युपदिशन्ति ॥ ५॥
यदि पूर्वपक्षरात्रौ मरणꣳ शङ्केत सायमाहुतिꣳ हुत्वा तदैव प्रातराहुतिं जुहुयात् ॥ ६ ॥
यद्यपरपक्षे सायंप्रातराहुतिभिरेनं पूर्वपक्षं नयेत् ॥ ७॥
दर्शेष्टिं च कुर्यात् ॥ ८॥
यदीष्ट्यभावे प्रधानदेवताभ्यश्चतुर्गृहीतेनाऽऽज्येनैकैकस्यै देवतायै पुरोनुवाक्यामनूच्य याज्यया जुहुयात् । ( एवं सर्वास्वापत्सु ) ॥ ९ ॥
यदीष्टिमध्येऽवशिष्टेष्टिप्रधानदेवताभ्यश्चतुर्गृहीतेनाऽऽज्येनैककस्यै देवतायै पुरोनुवाक्यामनूच्य याज्यया जुहुयात् ॥ २९.४.१० ॥ (ख० १)।
 [अथ ] यदि चातुर्मास्यमध्ये पूर्ववदैव सायंप्रातराहुतिभिर्दर्शपूर्णमासाभ्यां चेष्ट्वाऽवशिष्टानि पर्वाण्यानीय सꣳस्थापयेत् ॥ ११ ॥
पश्वविभवे तद्दैवतं पुरोडाशमामिक्षां पूर्णाहुतिं [वा ] कुर्याद ॥ १२ ॥
म्रियमाणस्यैवं न यज्ञलोपो ह भवतीति विज्ञायते ॥ १३ ॥
उक्तं दीक्षितप्रमीतप्रायश्चित्तम् ॥ १४ ॥
जायावरा ह वै नाम पुरा ऋषय आसंस्तेऽध्वन्यश्राम्यन्तेऽर्धमासायार्धमासायाग्निहोत्रं [न] जुहुवुस्तस्माद्यायावरधर्मेणाऽऽमयाव्यार्तो वा जननमरणयोरध्वन्यापत्सु वाऽर्धमासायार्धमासायाग्निहोत्रं जुहुयात् ॥ १५॥
प्रतिपदि सायं चतुर्दश चतुर्गृहीतान्युन्नयत्येका समित्सकृद्धोमः सकृत्पात्राणि(त्रनि)मार्जनं सकृदुपस्थानमेवं प्रातरेतावान्विकारः । शेषं प्रकृतिवत् ॥ १६॥
पक्षत्रये पुनराधेयम् ॥ १७ ॥
अग्नीन्समारोपयते धारयते वौपवसथ्याद्यौपवसथ्येऽहनि निर्मथ्योपवसथ्यादि कर्म प्रतिपद्यते ॥१८॥
यदि समारूढो जपति(यद्याहिताग्निरध्वानं गच्छेत्पार्श्वतोऽग्निहोत्रेणानुद्रवेयुराहिताग्नेरन्तरं न व्यवेयाद्यावत्यो ग्राममर्यादा नद्यश्च तावतीरतिक्रामन्नन्वारभेयातामाद्यन्तयोर्वा यदि नान्वारभेयातां लौकिकाः संपद्येरन्विज्ञायते च )॥ १९॥
यद्याहिताग्निरुत्सृष्टाग्निर्विच्छिन्नाग्निर्विधुराग्निर्वा प्रमीयेत न तमन्येन त्रेताग्निभ्यो दहन्तीति विज्ञायते च ॥ २९.४.२० ॥
भरद्वाजादयः प्राहुः प्रेताधानविधिं पृथक् ॥ २०॥
आधानप्रभृति यजमान एवाग्नयो भवन्ति ॥ २१ ॥
अथ वै [ ब्राह्मणं] भवति-तमसो वा एष तमः प्रविशति ( सह तेन ) यमाहिताग्निमन्येन त्रेताग्निभ्यो दहन्ति ।। २२ ॥
तस्य प्राचीनावीत्यग्न्यायत नान्युद्धत्यावोक्ष्य यजमानायतने प्रेतं निधाय गार्हपत्यायत नेsरणी संनिधाय मन्थति येऽस्याग्नयो जुह्वतो माꣳसकामाः संकल्पयन्ते यजमानमाꣳसं जानन्तु ते हविषे सादिताय स्वर्गं लोकमिमं [प्रेतं ] नयन्त्विति ॥ २३ ॥
तूष्णीं विहृत्य द्वादशगृहीतेन स्रुचं पूरयित्वा तूष्णीꣳ हुत्वा प्रेतेऽमात्या इत्येतदादि कर्म प्रतिपद्यते ॥ २४ ॥ (ख०२)।
यद्यात्मन्यरण्योर्वा समारूढेष्वग्निषु यजमानो म्रियेत पूर्ववदग्न्यायतनानि कल्पयित्वा यजमानायतने प्रेतं निधाय गार्हपत्यायतने लौकिकाग्निमुपसमाधाय प्रेतस्य दक्षिणं पाणिमभिसंगृह्य तत्पुत्रो भ्राता वा प्रत्यासन्नबन्धुरुपावरोहेत्युपावरोहयति । अपि वोपावरोह जातवेद इमं तꣳ स्वर्गाय लोकाय नय प्रजानन् । आयुः प्रजाꣳ रयिमस्मासु धेहि प्रेताहुतीश्चास्य जुषस्व स्वाहेति लौकिकाग्नावुपावरोहयति । अरण्योर्वोपावरोह्य मन्थेत् । यद्यरण्योः समारूढस्याग्नेर्निर्वर्तमाने प्रेतमन्वारम्भयित्वैतं मन्त्रं जपेद्विहरणादि समानम् ॥ २५ ॥
आहिताग्निं जले प्रमीतं वोपश्रुत्याग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत्पूर्णाहुतिं वा कुर्यात्प्राचीनावीती जुहोतीत्येके ॥ २६ ॥
एतस्मिन्नेव विहारे पैतृमेधिकं कर्म प्रतिपद्यते ॥ २७॥
यद्येतस्मिन्नहनि शरीराण्याहरन्ति यद्यन्यस्मिन्नहनि तस्याभिवान्यवत्सायाः पयसाऽग्निहोत्रमित्युक्तम् ॥२८॥
आहिताग्निप्रजने प्रमीतं तैलद्रोण्यामवधाय शकटेनाऽऽहरन्ति निर्मन्थ्येन वा दग्ध्वा कृष्णाजिनेऽस्थीनि निधायाहतेन वाससा संवेष्ट्य दीर्घवꣳशे प्रबध्यानधोनिदधानाः प्रयता मृन्मयभाजना आहरन्ति ॥ २९॥ (ख०३)।
तानि ग्राममर्यादायां प्रतिष्ठाप्याग्नीन्पैतृमेधिकभाण्डं च निर्हरन्ति नासति यजमाने ग्राममर्यादामग्नीनतिहरेयुर्यद्यतिहरेयुर्लौकिकाः संपद्येरन्निति विज्ञायते च ॥ २९.४.३०॥
प्रवसन्यजमानोऽग्निभ्यः परिदाय गृहानेति यदि सीमान्तरे पत्न्यभिनिम्रोचेदभ्युदियाद्वा लौकिकाः संपद्येरन् ।। ३१॥
यद्याहिताग्निरध्वानं गच्छेत्सहाग्नित्रयेण पार्श्वतोऽग्निहोत्रेणानुव्रजेदाहिताग्निरन्तरं न व्यवेयाद्यावत्यो ग्राममर्यादा नद्यश्च तावतीरतिक्रामन्तमन्वारभेयातां यदि नान्वारभेयातामग्नयो लौकिकाः संपद्येरन्तस्माद्ग्राममर्यादां नातिहरन्ति ॥ ३२ ॥
शरीरैरग्नीन्समानीय दहनवदवकाशं जोषयित्वा प्रेतेऽमात्या इत्येतदादि कर्म प्रतिपद्यते ॥ ३३॥
तयोर्यः पूर्वो म्रियेत ( यजमानः पत्नी वा) तस्याग्नित्रेतायां पितृमेधः संपद्यते । यः पश्चादौपासनेन ॥ ३४॥
सहैव प्रमीते सहैव पितृमेधः ॥ ३५ ॥
दारकर्मणि यद्यशक्त आत्मार्थमग्न्याधेयं कुर्यात् । अग्निहोत्रं दर्शपूर्णमासाग्रयणार्थं च शेषाणि कर्माणि न भवन्ति ॥ ३६॥
यद्याहिताग्निः पशुभ्यो म्रियेताऽऽ गावो अग्मन्निति द्वे चतुर्गृहीते जुहुयाद्यद्याहिताग्निरशनिहतो म्रियेत तस्य प्रायश्चित्तं मूर्धानं दिवो अरतिं पृथिव्या इति चतुर्गृहीतं जुहुयाद्यद्याहिताग्निरप्सु म्रियेतेमं मे वरुण तत्त्वायामीति द्वे चतुर्गृहीते जुहुयात् ॥ ३७ ॥
यद्याहिताग्निर्विषदष्टो म्रियेत नमो अस्तु सर्पेभ्य इति तिसृभिश्चतुर्गृहीतैर्जुहुयाद्यद्याहितानिर्दꣳष्ट्रिभ्यो म्रियेत दꣳष्ट्राभ्यां मलिम्लूनिति द्वे चतुर्गृहीतेन जुहुयाद्यद्याहिताग्निः प्रोषितः प्रमीतो न प्रज्ञायेत यां दिशमभि प्रस्थितः स्यात्तामस्याग्निभिः कक्षं दहेयुः ॥ ३८॥
अपि वा त्रीणि षष्टि[शतानि] पलाशवृन्तानां तैः कृष्णाजिने पुरुषाकृतिं कृत्वा तामस्याग्निभिर्दहेयुरिति विज्ञायते । पलाशवल्कैः कुशैर्वा संधिषु संप्रवेष्ट्य चत्वारिꣳशता शिरः प्रकल्पयते । दशभिर्ग्रीवां विꣳशत्योरस्त्रिꣳशतोदरं पञ्चशता पञ्चाशतैकैकं बाहुं ताभ्यामेव पञ्चभिः पञ्चभिरङ्गुलीरुपकल्पयते सप्तत्या सप्तत्येकैकं पादं ताभ्यामेव पञ्चभिः पञ्चभिरङ्गुलीरुपकल्पयते । अष्टाभिः शिश्नं द्वादशभिर्वृषणम् । (तैः कृष्णाजिने पुरुषाकृतिं कृत्वा) स्नापयित्वाऽलंकृत्यान्तर्वेदि कृष्णाजिनं दक्षिणाग्रीवमधरलोमाऽऽस्तीर्य तस्मिन्नेनमुत्तानं निपात्य पत्तोदशेनाहतेन वाससा प्रच्छाद्य बान्धवाः पर्युपविशन्ति (अभिमृशन्ति) अयमस्यासौ यस्य त इमे अग्नय इति प्रेतेऽमात्या इत्येतदादि कर्म प्रतिपद्यते ॥ ३९॥
यदि तानि न विन्देरन्नवानां दर्भाणां याज्ञिकानां वा वृक्षाणां तैः कृष्णाजिने पुरुषाकृतिं कृत्वा ( तामस्याग्निभिर्दहेयुरिति विज्ञायते । यदि तानि न विन्देरन्भूम्याः पाꣳसूनुद्धृत्य) मधुना सर्पिषा सꣳसृज्य (तैः कृष्णाजिने पुरुषाकृतिं कृत्वा तामस्याग्निभिर्दहेयुरिति विज्ञायते) विधिना दाहयेत् ॥ २९.४.४०॥
यद्येतस्मिन्कृतेऽग्निभिः पुनरागच्छेद्घृतकुम्भादुन्मग्नस्य जातकर्मप्रभृति द्वादशरात्रं व्रतं चरित्वा तयैव जाययाऽग्नीनाधाय प्राजापत्येन पशुना वा यजेत ॥४१॥
गिरिं गत्वाऽग्नये कामायेष्टिं निर्वपेदायुष्मतीं शतकृष्णलाम् । दिशामवेष्ट्या वा यजेत ॥ ४२ ॥
अत ऊर्ध्वमीप्सितैर्यज्ञक्रतुभिर्यजेतेति विज्ञायत इति विज्ञायते ॥ ४३ ॥ (ख०४)॥
इति सत्याषाढहिरण्यकशिश्रौतसूत्र (पितृमेधापरपर्याये) एकोनत्रिंशप्रश्ने चतुर्थः पटलः ॥ ४ ॥

अथ परिशिष्टम् ।
अथ गर्भिण्यास्तिष्यक्रिया ( या) ऊर्ध्वं मृतौ तां
श्मशानं नीत्वा दहनवदवकाशं जोषयेत् ॥१॥
चितां कल्पयित्वा तस्याश्चिताया अपरेण परिश्रिते करोति ॥२॥
तामुत्तानां कृत्वा तस्या वामोदरमालिख्य हिरण्यगर्भः समवर्तताग्र इत्यालोकनं च कृत्वा कुमारं दृष्ट्वा तमभिमन्त्रयते-जीवतु मम पुत्रो दीर्घायुत्वाय वर्चस इति ॥ ३ ॥
अथ बालं स्नापयेद्धिरण्यमन्तर्धाय जीवतो ग्राममायाति ॥ ४ ॥
यस्ते स्तनः शशय इति स्तनं प्रदाय तस्मिन्नुदर आज्याहुतीर्जुहोति-शतायुधाय शतवीर्यायेति पञ्च प्राणाय स्वाहा व्यानाय स्वाहेत्येताम्यामनुवाकाभ्यां जुहोति ॥ ५ ॥
अव्रणं च कुर्यात्प्रेतं चितामारोप्य विधिना दहेत् ॥ ६ ॥

एकोनत्रिंशप्रश्नश्च समाप्तः॥