कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः २४

विकिस्रोतः तः
← प्रश्नः २३ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः २४
हिरण्यकेशिः/सत्याषाढः
प्रश्नः २५ →

24.1
प्रवर्ग्यं संभरिष्यन्नमावास्यायां पौर्णमास्यामापूर्यमाणपक्षे वा पुण्ये नक्षत्रे तूष्णीं काण्टकीं समिधमाधाय युञ्जते मन इति चतुर्गृहीतं जुहोति ॥१॥
न दीक्षितस्य जुहुयात्काण्टकीमेवैतया समिधमादध्याद्यजुरेव वा वदेदित्येके ॥ २ ॥
देवस्य त्वेत्यभ्रिमादत्ते खादिरीमौदुम्बरीं वैणवीं वैकङ्कतीं वा पूर्ववत्प्रमाणामभ्रिरसि नारिरसीत्यभिमन्त्रयते ॥ ३ ॥
उत्तिष्ठ ब्रह्मणस्पत इति ब्रह्माणमामन्त्रयते । उपोत्तिष्ठति ब्रह्मोभावुत्तरमर्धर्चं जपतः ॥ ४ ॥
प्रैतु ब्रह्मणस्पतिरिति प्राञ्चोऽश्वप्रथमा गच्छन्ति यत्र संभारान्वेछ्य( राꣳश्चेष्य )न्तो गच्छन्ति पुरस्तादेवास्यैते परिश्रितेऽभ्युदाहृता भवन्तीति विज्ञायते ॥ ५॥
अग्रेणाऽऽहवनीयं मृत्खनः पूर्वः पूर्व इतर उत्तरेण मृत्खनं कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य देवी द्यावापृथिवी इति द्यावापृथिवी अभिमन्त्रयते मृत्खनं वर्ध्यासमिति मृत्खनेऽभ्र्या प्रहरति मखस्य शिर इत्यपादाय मखाय त्वेति हरति मखस्य त्वा शीर्ष्णे इति कृष्णाजिने निवपति ॥ ६॥
एवं द्वितीयं च तृतीयं च हरति ॥ ७ ॥
तूष्णीं चतुर्थ यावतीं मृदं प्रवर्ग्यपात्रेभ्य आप्तां मन्यते ।। ८ ।।
एवमितरेभ्यः ॥ ९॥
इयत्यग्र आसीरिति वराहविहतमभिमन्त्रयते देवीर्वम्रीरिति वल्मीकवपामिन्द्रस्यौजोऽसीति पूतिकानग्निजा असि प्रजापते रेत इति
कृष्णाजिनलोमान्यजलोमानि च सꣳसृष्टानि संभृत्याऽऽयुर्धेहि प्राणं धेहीत्येतैरश्वेनावघ्राप्य मधु त्वा मधुला करोत्वित्यजया पुंछगलयाऽभिदोग्धि ॥ २४.१.१० ॥
अभिदोहनमेके पूर्वꣳ समामनन्ति ॥ ११ ॥
बहव आर्याः परिगृह्य हरन्त्युत्तरेण विहारं परिश्रित उद्धतेऽवोक्षिते सिकतोपोप्ते निदधाति ॥ १२॥
मधु त्वा मधुला करोत्विति मदन्तीभिरुपसृज्यैतैरेवोखासꣳसर्जनैः सꣳसृजति यत्किंच प्रवर्ग्य उदक कृत्यं मदन्तीभिरेव तत्क्रियत इत्यत्यन्तप्रदेशो नैनꣳ स्त्री प्रेक्षते न शूद्रो न कुर्वन्नभिप्राणित्यपहाय मुखमनभिप्राणन्वेणुना करोति॥१३॥(ख०१)॥
न प्रवर्ग्यमादित्यं च व्यवेयाद्यत्र क्वच विप्रक्रान्ते प्रवर्ग्य आदित्योऽस्तमियात्कृतान्तादेव विरमेछ्वोभूते शेषꣳ समाप्नुयात् ।। १४ ।।
संप्लोन्माय मृदं मखस्य शिरोऽसीति पिण्डं करोति यज्ञस्य पदे स्थ इत्यङ्गुष्ठाभ्यां निगृह्य गायत्रेण त्वा छन्दसा करोमीति त्रिभिश्छन्दोभिर्महावीरं करोति वायव्यप्रकारं त्र्युद्धिं पञ्चोद्धिमपरिमितोद्धिं वा ॥ १५॥
मुखस्य रास्नाऽसीति मध्यदेश उपबिलं वा रास्नां करोति अदितिस्ते बिलं गृह्णात्विति वेणुपर्वणा बिलं करोति यावद्दैवताय सौविष्टकृतायाग्निहोत्राय भक्षायाऽऽप्तं मन्यते ॥ १६ ॥
सूर्यस्य हरसा श्रायेत्युत्तरतः सिकतासु प्रतिष्ठाप्य मखोऽसीत्यभिमन्त्रयते मखाय त्वेति वैवमितरावपि वा गायत्रेणेति प्रथमं त्रैष्टुभेनेति द्वितीयं जागतेनेति तृतीयं तूष्णीमितराणि ॥ १७ ॥
एतस्या एव मृदो दोग्ध्रे यथा स्रुगदण्डैवꣳ हस्त्योष्ठ्ये वर्षीय आध्वर्यवꣳ ह्रसीयः प्रतिप्रस्थानमाज्यस्थालीꣳ रोहिणकपाले च परिमण्डले घर्मेष्टकां कुलायिनीं च यदि साग्निचित्यो भवति ॥ १८॥
गार्हपत्येऽश्वशकृन्त्युपसमाधाय वृष्णे अश्वस्य निष्पदसीति प्रथमकृतं महावीरं शफाभ्यां परिगृह्य धूपयत्येवमितरौ तूष्णीमितराणि शफाभ्यामेवात ऊर्ध्वं महावीरानादत्ते॥ १९॥
अग्रेण गार्हपत्यमवटं खात्वा लोहितपचनीयैः संभारैरवस्तीर्य देव पुरश्चरसघ्यासं त्वेति तेषु प्रथमकृतं महावीरमुपावहरत्येवमितरौ तूष्णीमितराण्यन्ववधाय लोहितपचनीयैः संभारैः प्रच्छाद्य गार्हपत्ये मुञ्जप्रलवानादीप्यार्चिषे त्वा शोचिषे त्वेत्येतैः प्रतिमन्त्रं प्रतिदिशमुपोषति सर्वैः सर्वतः ॥ २४.१.२०॥
अभीमं महिना दिवमित्येताभ्यां पच्यमानान्युपचरति पक्वेषु सिद्ध्यै त्वेति धृष्टी आदाय देवस्त्वा सवितोद्वपत्विति प्रथमकृतं महावीरमुद्वास्यापद्यमानः पृथिव्यामाशा दिश आपृणेत्युत्तरतः सिकतासु प्रतिष्ठापयत्येवमितरौ तृष्णीमितराण्युद्वास्य ॥ २१ ॥
सूर्यस्य त्वा चक्षुषाऽन्वीक्ष इत्यन्वीक्षत इदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्यूहामीति त्रिः प्रदक्षिणं सिकताभिः पर्यूहति विशेति राजन्यस्य पशुभिरिति वैश्यस्य गायत्रेण त्वा छन्दसाऽऽच्छृणद्मीत्येतैरजक्षीरेणाऽऽच्छृणत्ति त्रिभिस्त्रिभिरेकैकꣳ सवैर्वैकैकं तान्कृष्णाजिन उपनह्य देव पुरश्चर सघ्यासं त्वेत्यासजत्युपरिष्टात्काल एष मन्त्रो भवतीति विज्ञायते ॥ २२॥
इति सत्याषाढहिरण्यकशिसूत्रे प्रवर्ग्याख्यचतुर्विंशप्रश्ने ।
प्रथमः पटलः।

24.2
( अथ द्वितीयः पटलः ।)
प्रवर्ग्येण प्रचरिष्यन्तः संवृण्वन्ति द्वाराणि परिश्रयन्ति पत्न्याः ॥१॥
पश्चाद्धोतोपविशति पुरस्तादध्वर्युर्दक्षिणतो ब्रह्मा यजमानश्च दक्षिणतः पश्चात्प्रस्तोतोत्तरत आग्नीध्रः प्रतिप्रस्थाता च ॥ २ ॥
मदन्तीभिरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वोत्तरेण विहारं मुञ्जप्रलवान्सꣳस्तीर्य देव पुरश्चर सघ्यासं त्वेति तेषु प्रथमकृतं महावीरमुपावहरत्येवमितरौ तूष्णीमितराणि ॥ ३ ॥
अत्रैव सर्वं परिघर्म्यं संपादयत्यौदुम्बराणिभिर्व्यूतां च ॥ ४॥
चतस्रः स्रुचस्तासां द्वे अनिष्टब्धे ते रोहिणहवन्यौ निष्टब्धयोर्वर्षीयस्युपयमनी प्रोक्षणीधान्यन्या स्रुवौ धृष्टी शफौ महावीरसंमिताव्रस्कौ मेथी त्रीन् मयूखान् षट् शकलाꣳस्त्रयोदश वैकङ्कतान्परिधीन् काण्टकीं च समिधं वैणवानि घर्मेन्धनानि खादिराणि पालाशान्यौदुम्बराण्यर्कमयानि शमीमयानि वा ॥५॥
 ( कृष्णाजिनं ) त्रीणि कार्ष्णाजिनानि धवित्राणि शुक्लकृष्णलोमानि तेषां वैणवा बाहुमात्रा दण्डा भवन्त्यौदुम्बरा वा रजतसुवर्णौ रुक्मौ पृथक्शतमानौ मौञ्जानि व्याख्यास्यामो द्वौ वेदौ तयोरन्यतरः परिवासितोऽभिधानी निदाने चत्वारि विशाखदामानि प्रलवाꣳश्चाप्रविशीर्णाग्रान्खरेभ्यः सिकता रौहिणयोः पिष्टान्यफलीकृतानां मौञ्जे पवित्रे दर्भमये वा तूष्णीमाज्यं प्रोक्षणीश्च सꣳस्कृत्य ॥६॥ (ख० ३)॥
ब्रह्मन्प्रवर्ग्येण प्रचरिष्यामो होतर्घर्ममभिष्टुह्यग्नीद्रौहिणौ पुरोडाशावाधिश्रय प्रतिप्रस्थातर्विहर प्रस्तोतः सामानि गायेति संप्रेष्यति ॥ ७॥
ब्रह्मायजुर्युक्तꣳ सामभिराक्त खं त्वेत्यनुद्रुत्योमिन्द्रवन्तः प्रचरतेति प्रसौति प्रसूतो यमाय त्वा मखाय त्वेति सर्वं परिधर्मं त्रिः प्रोक्षति ॥ ८॥
प्रोक्षितानि प्रतिप्रस्थाता व्यायातयतीति विज्ञायत एतस्मिन्काल आनीध्रस्तूष्णीमुपचरितौ रौहिणौ पुरोडाशावधिश्रयति ॥९॥
सम्राडासन्दीमग्रेणाऽऽहवनीयं पर्याहृत्य पुरस्ताद्राजासन्द्या निदधाति तस्यां कुष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य देव पुरश्चर सघ्यासं त्वेति तस्मिन्नितरौ महावीरौ प्राञ्चावुपशयो निदधाति तावप्रचरणीयौ भवतो मेथीं मयूखा विशाखदामानीत्यादायाग्रेण होतारं दक्षिणाऽतिक्रम्य दक्षिणया द्वारोपनिर्वृत्य दक्षिणेन मेथीं निहन्ति होतुः समीक्षाया एतस्या एव पूर्वस्या द्वार्याया दक्षिणतो वत्सस्य शङ्कुमेतस्या एवापरस्या द्वार्याया दक्षिणतोऽजाया उत्तरतोऽभ्यन्तरं बर्करस्य तेषु विशाखदामानि व्यायातयति तान्येवमेव व्यातितानि भवन्त्योद्वासनात् ॥२४.२.१०॥
तैरेनान्काले बध्नन्त्युत्तरेण गार्हपत्याहवनीयौ तैर्दोहनकाले वत्साजाबर्करान्बध्नन्ति । खरावन्तः प्राग्वंशमेवोपवपति । खरावुपनिवपत्युत्तरपूर्वमवान्तरदेशं प्रत्युच्छिष्टखरं बाह्यतो निषेचनवन्तमुत्तरेणाऽऽहवनीयꣳ शकलानुपसादयति काण्टकीं च समिधम् ॥ ११ ॥
(ख० ४)॥

24.3
तृतीयः पटलः।
आदाय महावीरं देव पुरश्चर संघ्यासं त्वेत्यपरिवासितेन वेदेन संमार्ष्टि प्राणाय स्वाहा व्यानाय स्वाहेति स्रुवेणाऽऽहवनीये सप्त प्राणाहुतीर्जुहोत्येकादश वोत्तमस्य शेषेण देवस्त्वा सविता मध्वाऽनक्त्विति महावीरमनक्ति तं निधायान्यस्मै वा प्रदाय पृथिवीं तपसस्त्रायस्वेत्यपरस्मिन्खरे राजतꣳ रुक्मं निधाय द्वयान्मुञ्जप्रलवानादायार्चिरसीति दक्षिणेषामग्राणि गार्हपत्य आदीपयति शोचिरसीति तेषामग्रैरुत्तरेषां मूलानि ज्योतिरसीति तेषां मूलैर्दक्षिणेषां मूलानि तपोऽसीति तेषां मूलैरुत्तरेषामग्राणि
तान्व्यत्यस्तानुपरिरुक्मे निधाय ॥१॥
सꣳसीदस्वेति तेषु महावीरꣳ सादयत्यञ्जन्तीत्याज्येनानक्त्यभिमन्त्रयते वाऽनाधृष्या पुरस्तादित्येतैः प्रतिमन्त्रं प्रतिदिशमसꣳस्पृशन्यजमानो महावीरं प्राञ्चं प्रादेशं धारयति मनोरश्वासि भूरिपुत्रेत्युत्तरतः पृथिवीमभिमृशति ॥२॥
सिद्ध्यै त्वेति धृष्टी आदायाध्वर्युः प्रतिप्रस्थाता च तपो ष्वग्न इति गार्हपत्यादुदीचोऽङ्गारान्निरुह्य चितः स्थ परि चित इति प्रदक्षिणमङ्गारैर्महावीरं
पर्युह्य वैकङ्कतैः परिधिभिः परिधत्तो मा असीति प्राञ्चावध्वर्युर्निदधाति । प्रमा असीत्युदञ्चौ प्रतिप्रस्थाता । एवमेव पूर्वेणाध्वर्युरुत्तरेण प्रतिप्रस्थाता। अन्तरिक्षस्यान्तर्धिरसीत्यध्वर्युरेव त्रयोदशं दक्षिणतो निदधाति ॥३॥ (ख. ५)॥
महावीर आज्यमानीय दिवं तपसस्त्रायस्वेत्युपरिष्टात्सौवर्णेन रुक्मेणापिधायाऽऽभिर्गीभिरिति तिसृभिरुपतिष्ठते धवित्राण्यादत्ते गायत्रमसीति
प्रथमं त्रैष्टुभमसीति द्वितीयं जागतमसीति तृतीयं तैरेनमूर्ध्वं त्रिभिर्धूनोति मधु मध्विति तेषामेकमग्नीधे प्रयच्छत्येकं प्रतिप्रस्थात्रे त आग्नीध्रप्रथमास्त्रिः प्रदक्षिणमूर्ध्वं धून्वन्तो महावीरं परियन्ति मधुमध्विति प्रणवेन सꣳराधयन्तीति विज्ञायते ॥४॥
यथालोकमुपविश्य समञ्जत इन्धाना आसते प्रज्वलिते रुक्ममपादत्त इति विज्ञायते ॥ ५ ॥
याभिर्वर्तिकां ग्रसिताममुञ्चतामित्युच्यमाने दश प्राचीर्दश भासि दक्षिणेत्येतमनुवाकं यजमानं वाचयत्यप्नस्वतीमश्विना वाचमस्मे इत्युच्यमाने रुचितो घर्म इत्युपोत्तिष्ठन्नाह यथेतं त्रिरनभिधून्वन्तः प्रतिपरियन्ति ॥६॥
तस्मिन्काले प्रतिप्रस्थाता प्रत्येत्य पवित्राण्यादायाग्रेणाऽऽहवनीयं पर्याहृत्य सम्राडासन्द्यां निदधाति स्वाहा त्वा सूर्यस्य रश्मिभ्य इति प्रातः स्वाहा त्वा नक्षत्रेभ्य इति सायं यथालोकमुपोत्थायापश्यं गोपा इति सर्व ऋत्विजो यजमानश्चाधीयन्तो महावीरमवेक्षन्ते त्वष्टीमती ते सपेयेति परिश्रिते प्रतिप्रस्थाता पत्नीं वाचयति ॥ ७॥ (ख०६)॥
इति चतुर्विंशप्रश्ने तृतीयः पटलः ।

24.4
अथ चतुर्थः पटलः ।
अग्नीद्रौहिणौ पुरोडाशावासादयेति संप्रेष्यत्यनिष्टब्धयोराग्नीध्र उपस्तीर्णा(र्या)भिघारयति तौ रोहिणौ पुरोडाशावासादयति दक्षिणं परिधिसंधिमन्वेकमुत्तरमन्वितरमत्रैव शृतं दध्यासादयति ॥ १॥
देवस्य त्वेति रशनामादायादित्यै रास्नाऽसीत्यभिमन्त्र्य पूर्वया द्वारोपनिष्क्रम्याध्वर्युर्घर्मदुघमाह्वयतीड एह्यदित एहि सरस्वत्येहीति त्रिरुपाꣳश्वसावेह्यसावेहीति त्रिरुच्चैर्यथानामा भवति यथेतं प्रत्येत्याभिधानीं निदाने दोग्ध्रे चाऽऽदायाध्वर्युराग्नीध्रः प्रतिप्रस्थाता च दक्षिणया द्वारोपनिर्हृत्य ॥२॥
अदित्या उष्णीषमसीत्यध्वर्युर्घर्मदुघमभिदधाति वायुरस्यैड इति वत्सं पूषा त्वोपावसृजत्विति वत्समुपसृजति यस्ते स्तनः शशय इत्यध्वर्युर्घर्मदुघमभिमन्त्रयत उस्र घर्मꣳ शिꣳषेति वत्सं निदाय बृहस्पतिस्त्वोपसीदत्वित्युपसीदति दानवः स्थ पेरव इति स्तनान्त्संमृशत्यश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्वेत्येतैर्वषायसि दोग्ध्रे दोग्धि तूष्णीं प्रतिप्रस्थाता ह्रसीयस्यजाम् ॥ ३ ॥
अग्नीधे पयसी प्रदाय यथेतं प्रत्येत्य शफावध्वर्युरादत्ते गायत्रोऽसीति प्रथमं त्रैष्टुभोऽसीति द्वितीयं जागतमसीत्युपयमनं प्रतिप्रस्थातोपद्रव पयसा गोधुगित्युच्यमान आनीध्रः पूर्वः प्रतिपद्यते सहोर्जो भागेनोप मेहीति पयसी प्रतीक्षत आह्रियमाणे प्रतीक्षत इन्द्राश्विना मधुनः सारघस्येति ॥ ४ ॥ (ख०७ ) ॥
महावीरे गोपय आनयति स्वाहा त्वा सूर्यस्य रश्मय इत्युद्यन्तमूष्माणमनुमन्त्रयते मधु हविरसीत्यजापयः प्रतिप्रस्थाताऽजापय एके पूर्वꣳ समामनन्ति ॥ ५॥
द्यावापृथिवीभ्यां त्वा परिगृह्णामीति शफाभ्यां महावीरं परिगृह्णाति वेदेन प्रमृज्यान्तरिक्षेण त्वोपयच्छामीत्युपयमनेन प्रतिप्रस्थातोपयच्छति देवानां त्वा पितॄणामनुमतो भर्तुꣳ शकेयमित्यादायोपोत्तिष्ठति ॥ ६ ॥
तेजोऽसि तेजोऽनुप्रेहीति हरति समुद्राय त्वा वाताय स्वाहेति गच्छन्नेवानवानं पञ्च वातनामानि व्याचष्टेऽपान्याग्नये त्वा वसुमते स्वाहेति
पञ्चोत्तराण्यवशिष्टा विकल्पार्थाः ॥ ७ ॥
एतस्मिन्काले प्रतिप्रस्थाता दक्षिणं रौहिणं जुहोत्यहर्ज्योतिरिति प्राता रात्रिर्ज्योतिरिति सायमपरेणाऽऽहवनीयं दक्षिणाऽतिक्रम्य विश्वा आशा दक्षिणसदिति ब्रह्माणमीक्षते विश्वान्देवानयाडिहेति होतारं स्वाहाकृतस्य घर्मस्येति घर्ममाश्राव्य प्रत्याश्रावितघर्मस्य यजेति संप्रेष्यति ॥ ८ ॥
उत्तमया वाचा प्रचरति स्वाहाऽग्नये यज्ञियायेति वषट्कृते जुहोति स्वाहेन्द्रा वषडित्यनुवषट्कृते घर्ममपातमश्विनोति हुतं घर्ममुपतिष्ठते ॥ ९ ॥
नमो दिवे नमः पृथिव्या इत्यनुवाकशेषेण यजमान उपर्यग्नौ धार्यमाणं प्रतिप्रस्थाता शृतदध्नाऽभिपूरयतीषे पीपिहीति विक्षरन्तमनुमन्त्रयते
दिशोऽन्तःपरिध्यनुप्रहावयति ॥ २४.४.१० ॥
त्विष्यै त्वेति पुरस्ताद् द्युम्नाय त्वेति दक्षिणत इन्द्रियाय त्वेति पश्चाद्भूत्यै त्वेत्युत्तरतः प्रत्याक्रम्योपयमने शेषमानीय पूर्वस्मिन्खरे राजतँ रुक्मं निधाय धर्माऽसीति तस्मिन्महावीरं सादयति नेत्त्वा वातः स्कन्दयादित्यभिचरतः ॥ ११ ॥ (ख०८)॥
इति चतुर्विंशप्रश्ने चतुर्थः पटलः ।

24.5
अथ पञ्चमः पटलः ।
शकलानुपयमने समज्य पूष्णे शरसे स्वाहेत्येतैः प्रतिमन्त्रमाहवनीयेऽभ्यादधाति षष्ठँ सर्वेषु लेपेष्वङ्क्त्वा रुद्राय रुद्रहोत्रे स्वाहेत्युत्तरया द्वाराऽनन्वीक्षमाणो निरस्याप उपस्पृशेदेतस्मिन्काले प्रतिप्रस्थातोत्तरं पुरोडाशं जुहोति यथापुरस्तात् ।। १॥
अध्वर्युः काण्टकीꣳ समिधमादधात्यपीपरो माऽह्नो रात्रियै मा पाहीति सायमपीपरो मा रात्रिया अह्नो मा पाहीति प्रातः ।। २ ।।
शेषादुपयमनेनाग्रिहोत्रं जुहोत्यग्निर्ज्योतिर्ज्योतिरग्निः स्वाहेति सायꣳ सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातर्व्याहृत्या चोभयत्र शेषꣳ समुपहूय सर्वे भक्षयन्त्यसावुपह्वयस्वेति कर्मनामधेयेनाऽऽमन्त्रण उपहूत इति प्रतिवचनो होता प्रथमो भक्षयति यजमान उत्तमोऽपि वा यजमान एवावघ्रेणेतरे हुतꣳ हविर्मधु हविरिति भक्षयित्वोपयमनं प्रतिप्रस्थात्रे प्रयच्छति तदुच्छिष्टखरे प्रक्षाल्यान्तर्वेदि निदधाति तस्मिन्रुक्माववधाय मदन्तीरानीयाऽऽपो हि ष्ठा मयोभुव इति तिसृभिर्मार्जयन्ते निनीयाप उपयमने सर्वꣳ परिघर्म्यꣳ समवधाय ॥३॥ (ख० ९)॥
घर्मायोत्साद्यमानायानुब्रूहीति संप्रेष्यत्युत्साद्यमानायानुब्रूहीति वाऽऽयस्मिन्त्सप्त वा सवा इत्युच्यमानेऽग्रेणाऽऽहवनीयं पर्याहृत्य सम्राडासन्द्यां निदधाति ॥ ४॥
यथा धवित्राण्यद्धि तृणमघ्न्ये विश्वदानीमित्युच्यमाने गामुत्सृजत्येतस्मिन्काल उत्तमेनानुवाकेन शान्तिं कुर्वन्ति ॥ ५॥
एवं त्रिरात्रꣳ सायं प्रातः प्रवर्ग्येण प्रचरन्ति षट्कृत्वस्त्र्युपसत्के द्वादशकृत्वः षडुपसत्के चतुर्विꣳशतिकृत्वो द्वादशोपसत्के ।। ६॥
तेनेष्ट्वा संवत्सरं न माꣳसमश्नीयान्न रामामुपेयान्न
मृन्मयेन पिबेन्नास्य राम उच्छिष्टं पिबेत् ॥ ७ ॥
अग्निष्टोमे प्रवृणक्ति नोक्थ्ये प्रवृञ्ज्याद्विश्वजिति सर्वपृष्ठे प्रवृणक्ति न प्रथमयज्ञे प्रवृञ्ज्यात्प्रवृञ्ज्याद्वा दुर्ब्राह्मणस्य प्रवृज्याद्ब्रह्मवर्चसकामस्य योऽनूचानः । श्रोत्रियस्तस्य कामं प्रवृञ्ज्यात् ॥ ८ ॥ (खं० १०)॥
इति चतुर्विंशप्रश्ने पञ्चमः पटलः ।

24.6
अध षष्ठः पटलः ।
प्रवर्ग्यमुद्वासयिष्यन्नजामग्नीधे ददाति पष्ठौहीं ब्रह्मणे धेनुꣳ होत्रे रुक्मावध्वर्यवे ॥ १ ॥
समोप्यापरं खरं पूर्वस्मिन्नुपन्यूहति मेथीं मयूखान्विशाखदामानि चाऽऽदायापरेणाऽऽहवनीयं पर्याहृत्य सम्राडासन्द्यां निदधाति सम्राडासन्दीमग्रेणाऽऽहवनीयं निधायौदुम्बर्याꣳ स्रुचि चतुर्गृहीतं गृहीत्वा घर्म या ते दिवि शुगित्यास्यदघ्ने जुहोति घर्म या तेऽन्तरिक्षे शुगिति नाभिदध्ने घर्म या ते पृथिव्याꣳ शुगिति जानुदघ्ने ॥ २ ॥
एतस्मिन्काले प्रतिप्रस्थाताऽहतेन वाससा परिश्रिते पत्नीमुदानयत्यनुनोऽद्यानुमतिरन्विदनुमत इत्युपनिष्क्रामन्त्यनुहरन्ति खरौ दक्षिणत उच्छिष्टखरमग्रेण प्राग्वँशꣳ सम्राडासन्दीं प्रतिष्ठाप्य प्रस्तोतः साम गायेति संप्रेष्यति सह पन्या त्रिः सर्वसाम्नो निधनमुपयन्ति मध्यदेशे द्वितीयं प्राप्य तृतीयꣳ सर्वत्र संप्रेष्यति ॥ ३ ॥
अपरेणोत्तरवेदिं निधाय प्रस्तोतर्वार्षाहारꣳ साम गायेष्टाहोत्रीयꣳ साम गायेति संप्रेष्यतीष्टाहोत्रीयस्य सर्वे साम्नो निधनमुपयन्ति न वार्षाहारस्य ॥ ४ ॥
यद्युपरिष्टात्परिषिञ्चेदत्र वार्षाहारं चोदयेत् ॥५॥
उदकुम्भमादाय वल्गुरसि शंयुधाया इति त्रिः प्रदक्षिणमुत्तरवेदिं परिषिञ्चन्पर्येति ॥ ६॥
चतुःस्रक्तिर्नाभिर्ऋतस्येत्युत्तरवेद्यां खरावुपनिवपत्यप द्वेषो अप ह्वर इति मार्जालीयदेश उच्छिष्टखरं पाणी प्रक्षाल्योत्तरवेद्याꣳ हिरण्यं निधाय देव पुरश्चर सघ्यासं त्वेति तस्मिन्प्रचरणीयं महावीरमुपावहरत्येवमितरौ दक्षिणोत्तरौ वा तूष्णीमितराण्यादित्यस्यैव रूपं करोति ॥ ७ ॥
महीनां पयोऽसीति प्रचरणीय आज्यमानयति वनस्पतीनामोषधीनाꣳ रस इति मधु वाजिनं त्वा वाजिनोऽवनयाम इति दध्येवमितरयोः ॥ ८ ॥
अपि वाऽऽज्येन प्रथमे मधु द्वितीये दधि तृतीये ॥९॥
घर्मैतत्तेऽन्नमेतत्पुरीषमिति दध्ना मधुमिश्रेण यानि पात्राण्यासेचनवन्ति तानि संपूरयत्यभ्युक्षतीतराण्यरिक्तताया इति विज्ञायते ॥ २४.६.१०॥(ख०११)॥
अथ यदि पुरुषाकृतिं चिकीर्षेत्समानमेतेषामुपावहरणं तच्छिरो भवति तस्मिन्नेनमच्छिन्नाग्रं प्राञ्चं निदधाति शिखायै रूपम् ॥ ११ ॥
अभितो दोग्ध्रे कर्णयोः प्रोक्षणीधानीं मुखस्य नासिकयोः स्रुचावक्ष्णोर्हिरण्यशकलावाज्यस्रुवावाज्यस्थालीं ग्रीवाणां धृष्टी जतृ(त्रू )णामभितः शफावँसयोरभितो रौहिणवण्यौ बाह्वोर्मेथीं पृष्ठीनामभितो धवित्रे पार्श्वयोर्मध्ये तृतीयमुरसोऽभ्रिँ श्रोण्योरभितो मयूखौ सक्थ्योर्मध्ये तृतीयं मेढ्रस्य रौहिणकपाले पाष्ण्योर्मध्य उपयमनमुदरस्य तस्मिन्सर्वꣳ रज्जुमयमवदधात्पात्रा(त्यान्त्रा)णाꣳ रौहिणपिष्टलेपेन प्रध्वँसयति मज्जां वेदं विस्रस्यानुप्रकिरति स्नायूनामवकाभिधूपतृणैरिति प्रच्छादयति माꣳसस्य दध्ना मधुमिश्रेणावोक्षति लोहितस्य कृष्णाजिनेन प्राचीनग्रीवेणोत्तरलोम्ना प्रोर्णोति त्वचो लोम्ना सम्राडासन्दीं विस्रस्योपरिष्टान्निदधाति सम्राज्यरूपं करोति ।। १२॥
उत्तरवेद्यामुद्वासयेत्तेजस्कामस्योत्तरवेद्यामुद्वासयेदन्नकामस्येति पुरो वा पश्चाद्वोद्वासयेदपां मध्य उद्वासयोदिति नदीद्वीपं ब्रुवते यदि नदीद्वीप उद्वास
येन्न परिषिश्चेन्नात्र वार्षाहारं चोदयेत् ॥ १३ ॥
यद्यभिचरेदिदमहममुष्याऽऽमुष्यायणस्य शुचा प्राणमपि दहामीति यं द्विष्याद्यत्र स स्यात्तस्यां दिश्युदुम्बरशाखायामुद्वासयेत् ॥ १४ ॥
यत्र दर्भा उपदीकसंतताः स्युस्तदुद्वासयेद्वृष्टिकामस्योत्तरवेद्यां नित्यकल्पं ब्रुवते नैनमुद्वासितं वयाꣳसि पर्यासीरन्नाऽग्निप्रणयनात् ॥ १५ ॥
अथैनमुपतिष्ठन्ते रन्तिर्नामासि दिव्यो गन्धर्व इत्यचिक्रदद्वृषा हरिरिति यजमानः सुमित्रा न इति मार्जयित्वोद्वयं तमसम्परीत्यादित्यमुपस्थायानवेक्षमाणाः प्रत्येत्योदु त्यं चित्रमिति द्वाभ्यां गार्हपत्य आहुतीर्हुत्वेममू षु त्यमस्मभ्यमित्याहवनीयमुपतिष्ठन्ते गार्हपत्यं वा ॥१६॥ (ख०१२)॥
इति सत्याषाढहिरण्यकेशिप्रवर्ग्यसूत्रे चतुर्विंशप्रश्ने षष्ठः पटलः ॥

24.7
अथ सप्तमः पटलः ।
यदि घर्मः स्कन्देदस्कान्द्यौः पृथिवीमित्याहुती जुहुयात् ॥ १॥
यदि घर्मेण चरत्सु पुरस्ताद्विद्युदापतेद्या पुरस्ताद्वि द्युदापतदित्याहुतिं जुहोत्येवमितरासु दिक्षु यथालिङ्गम् ॥२॥
प्राणाय स्वाहा पूष्णे स्वाहेत्यनुवाकाभ्यामनाज्ञात प्रायश्चित्ते घर्मे चतुर्दशाऽऽहुतीर्जुहोत्यष्टादशेत्येकेषाम् ॥३॥
उदस्य शुष्मादिति घर्मेष्टकामुपदधाति यास्ते अग्न आर्द्रायोनय इति कुलायिनीमग्निरसि वैश्वानरोऽसीत्यैडकी चितिः॥४॥
यदि घर्मेण चरत्सु महावीरः पद्येत भूर्भुवः सुवरित्येनमभिमन्त्र्योर्ध्व ऊ षु ण ऊतय इति द्वाभ्यामुत्थापयेद्यदि भिद्येत विधुं दद्राणमिति संदध्याद्यदृते चिदभिश्रिष इत्याश्लेषयेद्यदन्यन्माꣳसान्माषेभ्यश्च ॥ ५॥
यदि घर्ममतिपरीयुर्न वा प्रतिपरीयुः पुनरूर्जा सह रय्येति द्वाभ्यां प्रतिपरीयुः ॥ ६॥
मा नो घर्म व्यथितो विव्यथो न इति घर्मे व्यथितेऽष्टावाहुतीर्जुहोति ॥ ७ ॥
अपि वा घर्ममेव व्यथितमेतासां चतसृभिरुपतिष्ठते ॥८॥
यदि घर्मेण चरत्स्वादित्योऽस्तमियादुद्वयं तमसस्परीत्यपरस्यां द्वारि दर्भेण हिरण्यं प्रबध्योदु त्यं चित्रमिति द्वाभ्यामुपस्थाय प्रचरेच्छ्वोभूते वयः सुपर्णा इत्युद्यन्तमादित्यमुपतिष्ठते ॥९॥
यदि घर्मधुग्दोहकाले नाऽऽगच्छेदन्यां दुहीत ॥ २४.७.१०॥
यदि न दुहीत दृतिꣳ स्तनं कृत्वा पिन्वयेत् ॥११॥
यदि दधि स्याद्बार्हस्पत्यꣳ शꣳसेत् ॥ १२ ॥
यदि पय आश्विनं सोदर्कम् ॥ १३ ॥
यद्येतां वयोऽभि निग्रीदेदैन्द्रियर्चा जुहुयात्॥१४॥
यदि संवत्सरं वायव्यर्चा जुहुयात् ॥१५॥
यद्युपविशेद्वारुण्यर्चा ॥१६॥
 यदि नश्येद्धातुर्ऋग्भ्याम् ॥ १७ ॥
आग्निवारुण्यर्चेत्येकेषाम् ॥ १८ ॥
यद्युद्वा पतेत्संवा विजेत शार्दूलो वा हन्यादर्कक्षीरस्याजाक्षीरं आश्चोतयः प्रचरेत्॥ १९॥
अथातः सुत्यायां प्रवृञ्जनस्यैव मीमांसाः॥२४.७.२०॥
यदा पुरस्तादारुण्यꣳ स्यादव प्रवृज्य उपकाशमुखपव्युषं पुरोदयमुदिते संगवे स्तुते वा माध्यंदिने पवमानः आग्नीध्रागारे प्रवृज्यः सकृदेव प्रवृज्य
एकꣳ हिं शिर इति विज्ञायते तदेतदोपसदैः प्रवृञ्जनैर्विकल्पेरन्भूर्भुवः सुवरित्यनुवाकेन ॥ (ख०१३) दधिधर्मं भक्षयन्ति ॥ २१ ॥
यास्ते अग्ने घोरास्तनुव इति घोरास्तन्वो यं द्विष्यात्तमेताभिरन्वीक्षेत धुनिश्च ध्वान्तश्चेत्यरण्येऽनुवाक्यो गणोऽहोरात्रे त्वोदीरयतामित्यनुद्रुत्य
खट्फट्जहीति वाचः क्रूराणि ॥ २२ ॥
यदि घर्मेण चरन्नेकसृको वाश्येत विगा इन्द्र विचरन्स्पाशयस्वेत्येनमभिमन्त्र्याथास्मा उभयत आदीप्तमुल्मुकं तां दिशं प्रति निरस्यत्यग्ने अग्निना संवदस्वेत्यप उपस्पृश्याथैनमुपतिष्ठते सकृत्ते अग्ने नम इत्यनुवाकशेषेण ॥ २३ ॥
एवं गृध्रः सालावृकी भयैडक उलूको दीर्घमुखी भूतोपसृष्टः शकुनिरसृङ्मुखो यदेतद्यदीषित इत्थादुलूक आपप्तद्दीर्घमुखि यदेतद्भूतानि प्रसार्य सक्थ्यावित्येतैर्यथारूपं व्याख्यातमुल्मुकानिरसनमुपस्थानं च ॥ २४ ॥
अपि वा सार्वत्रिकाण्येवैतानि स्युः ॥ २५॥
यदि घर्मधुक्क्रिमिणा स्यादत्रिणा त्वा क्रिमे हन्मीत्येतेनानुवाकेनास्याः क्रिमीन्हन्यादपि वा सार्वत्रिकमेवैतत्स्यात् ॥ २६ ॥
यद्यभिचरेदाहरावद्येत्येतेनानुवाकेन लोहितं जुहुयात् ॥ २७ ॥
यद्येनमभिजिहीर्षेद्दवादशरात्रमुपोषितो गत्वैनमभिव्याहरेद्ब्रह्मणा त्वा शपामीत्येतेनानुवाकेनोचुद शिमिजावरीत्येतेनानुवाकेन यं द्विष्यात्तस्य गोष्ठं गत्वा स्वजा नामौषधिस्तां निदध्यादपि वा गोष्ठस्य दक्षिणां द्वारस्थूणां विचालयेदयज्ञसंयुक्तः कल्पाः॥२८॥
यद्युद्गाता पुरुषः साम न गायेदध्वर्युरेव गायेद्भूर्भुवः सुवरित्यनुवाकेन ।। २९ ।।
अथ ब्रह्मत्वं गमनसंयुक्तेषुः। दक्षिणां गच्छतिं स्थानसंयुक्तेष्वास्ते ॥ २४.७.३० ॥ (ख०१४.) ॥
इति सत्याषाढहिरण्यकेशिप्रवर्ग्यसूत्रे चतुर्विंशप्रश्ने सप्तमः पटलः ॥

24.8
अथाष्टमः पटलः ।
अवान्तरदीक्षां व्याख्यास्यामः ॥ १॥
उदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽपराह्णे केशश्मश्रूणि वापयित्वा प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य चतस्र औदुम्बरी: समिध आर्द्रा अप्रच्छिन्नाग्राः प्रादेशमात्रीघृतान्वक्ता अभ्याधापयति पृथिवी समिदित्येतेः प्रतिमन्त्रम् ॥२॥
अग्ने व्रतपते व्रतं चरिष्यामीत्येतैर्यथारूपं देवता उपतिष्ठते ॥ ३॥
अथैनꣳ सर्वेषामनुवाकानां प्रभृतीरभिव्याहारयति । प्रथमोत्तमयोर्वा ॥ ४ ॥
उत्तमेनानुवाकेन शान्तिं कृत्वा ततः संमील्य वाचं यच्छति ।। ५ ॥
अथास्याहतेन वाससा प्रदक्षिणꣳ संमुखꣳ शिरो वेष्टयित्वाऽस्तमिते ग्रामं प्रपादयति ।। ६॥
वाग्यत एताꣳ रात्रिं तिष्ठत्यास्ते वा ॥ ७॥
श्वोभूते प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीय वयः सुपर्णा इति मुखं विवेष्ट्य य उदगात्तच्चक्षुरित्यादित्यमुपतिष्ठतेऽथैनꣳ षट्तयमभिविदर्शयति । सप्ततयमित्येके । अग्निमादित्यमुदकुम्भमश्मानꣳ हिरण्यं वत्सं महानग्नाꣳ सप्तमीम् ॥८॥
त्रीण्यादितोऽभिविदर्श्योत्तराण्यभिविदर्शयति ॥ ९ ॥
( अथैतद्वासो गुरवे दत्त्वा वयः सुपर्णा इत्यादित्यमुपत्तिष्ठते ) ॥ २४.८.१० ॥
अथास्य ब्रह्मचर्यमधि ॥ ११॥
नित्ये ॥१२॥
न नक्तं भुञ्जीत ॥ १३ ॥
यदि भुञ्जीतव ज्वलितम् ॥ १४ ॥
न मृन्मयं प्रति धयीत ॥ १५॥
न स्त्रिया न शूद्रेण संभाषेत ॥ १६ ॥
न च्छत्रं नोपानहौ धारयेत् ॥ १७ ॥
न चक्रीवदारोहेत् ॥ १८ ॥
न गतासुमीक्षेत । न स्नायात् ॥ १९॥
न समाजमीक्षेत ॥ २४.८.२०॥
नापपात्रम् ॥ २१॥
न हर्म्याणि ॥ २२ ॥
न शवान्नं भुञ्जीत ॥ २३ ॥
नाञ्जीत नाभ्यञ्जीत ॥ २४ ॥ (ख. १५)॥
अष्टमीं पर्वणि चोपवसेद्वाग्यतः ॥ २५ ।।
नैव संविशेत् ॥ २६॥
संवत्सरमेतद्व्रतं चरेत् ॥ २७ ॥
एतस्मिन्नेव संवत्सरेऽधीयीत ॥ २८ ।।
पुनर्यावदध्ययनमेतद्व्रतं चरेत् ॥ २९ ॥
संवत्सरे पर्यवेते प्राचीमुदीचीं वा दिशमुपनिक्रम्य खिलेऽच्छदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य ( पूर्ववद्विसृज्य मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वा) द्यौः समिदित्यावृत्तैर्मन्त्रैः समिधोऽभ्याधायाऽऽदित्य व्रतपत इत्यावृत्तैर्देवता उपतिष्ठते ॥२४.८.३०॥
( उत्तमेनानुवाकेन शान्तिं कृत्वा ) गुरवे वरं दत्त्वा केशश्मश्रूणि वापयते ॥ ३१ ॥
अथास्य स्वाध्यायमधि नित्ये ॥ ३२॥
नानुत्सृष्टाध्यायोऽधीयीत ॥ ३३ ॥
न नक्तम् ॥ ३४ ॥
नाभिदोषं( म )ब्रह्मचर्यमापद्य न दतः प्रक्षाल्य न माꣳसं भक्षायित्वा न केशान्प्रविध्य न केशश्मश्रुलोमनखानि वापयित्वा न स्रग्वी ॥३५॥
नातो नाभ्यतो नाऽऽर्द्रोऽनार्द्रे नानपवृष्टे नाभ्रे न च्छायायां न पर्यावृत्त आदित्ये न हरितयवान्प्रेक्षमाणो न ग्राम्यस्य पशोरन्ते नाऽऽरण्यस्य नापामन्ते ॥३६॥
नाशृतमुत्पतितं न लोहितं दृष्ट्वा । न हर्म्याणि न शरीराणि न शवं नापपात्रम् ॥ ३७॥
(अध्येष्यमाणः)प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य खिलेऽच्छदिर्दर्शे(र्दे)ऽग्निमुपसमाधाय संपरिस्तीर्य मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वाऽपरेणाग्निं दर्भेष्वासीनो दर्भान्धारयमाणः पराचीनमधीयीत ॥ ३८॥
वरं वा दत्त्वौपासने ॥ ३९ ॥
अध्येष्यमाणो नान्या वाचो वदेत् ॥ २४.८.४० ॥
अध्येष्यमाणो मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वाऽधीयीत । अधीत्य चोत्तमेनैवं कर्मसु यत्र क्वच शान्तिकृतं पश्येत्पुनरेव शान्तिं कृत्वाऽधीयीत ॥ ४१ ॥
न प्रवर्ग्योपनिष्क्रम्याप्रविश्यान्यदधीयीतान्यदधीयीत ॥ ४२ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्विंशप्रश्नेऽष्टमः पटलः।
इति सत्याषाढहिरण्यकेशिसूत्रे चतुर्विंशः प्रश्नः ।