कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः २३

विकिस्रोतः तः
← प्रश्नः २२ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः २३
हिरण्यकेशिः/सत्याषाढः
प्रश्नः २४ →

23.1
अथ त्रयोविंशप्रश्ने प्रथमः पटलः ।
अथातः कौकिलीं व्याख्यास्यामः ॥ १ ॥
तस्याः पूर्ववत्कल्पः ॥ २॥
निर्वपणकाल ऐन्द्रं पशुमालभेत ॥ ३ ॥
ऋषभो दक्षिणा ॥४॥
आदित्यं चरुम् । वत्सः॥५॥
पुरस्तादेव कालायसेन कालानुशातनेन कालेन तसरेण पक्ष्मणा व्रीहियवश्यामाकान्क्रीत्वा क्षौमे वासस्युपनद्धान्व्रीहीꣳस्तोक्मानि कुर्वन्ति । यवानीषदुपतप्तान् ॥ ६॥ चूर्णानि तानि दध्नोदश्विता वा सꣳसृज्य दर्भैः परितꣳ(वा)स्य निदधाति ॥७॥ स मासरः। तेषामेव स्थूलचूर्णानि सꣳस्रावेणाभिषिक्तानि स ननहुः । श्यामाकान्सक्तून्कृत्वा सुरायाः संधानकाले तोक्मैर्मासरेण नग्नहुना च सुरां सꣳसृज्य सक्तूनां तृतीयेन परिकीर्य परीतो षिञ्चता सुतमित्येकस्या गोर्दुग्धेन परिषिञ्चति ॥८॥ अपरेण तृतीयेन परिकीर्यैतयैव द्वयोर्दुग्धेन परिषिञ्चत्यपेरण तृतीयेन परिकीर्यैतयैव तिसृणां दुग्धेन परिषिञ्चति ( तिस्रो रात्रीः सꣳसृष्टावसति)॥९॥ अवटस्थाने कारोत्तरमेके समामनन्ति ॥ २३.१.१० ॥
बैदलश्चर्मणा नद्धो भवति ॥ ११ ॥
तस्मिन्बैदलꣳ शुण्डामुखमवदधाति ॥ १२ ॥
तस्य बिलं चर्मणा परिणद्धं भवति ॥ १३ ॥
तस्मिन्यदास्रवति सा परिस्रुद्भवति ॥ १४ ॥
पात्रसꣳसादनकालेऽश्विभ्यांꣳ सरस्वत्या इन्द्राय सुत्राम्णे त्रीणि पात्राणि प्रयुनक्ति ।। १५ ।।
त्रयान्सक्तून्यवगोधूमानामुपवाकासक्तूꣳश्च श्येनपत्रे वाले द्रोणे वा ॥ १६ ॥
अजाविलोम्नामध्वर्योः पवित्रं भवति ॥ १७ ॥
गोअश्वानां प्रतिप्रस्थातुः ॥ १८ ॥
आज्यं निरुप्याध्वर्युर्द्रोणे प्रभूतं पयो निर्वपति ॥ १९ ॥
मन्त्रवदित्याश्मरथ्यः । तूष्णीमित्यालेखनः ॥ २३.१.२० ॥
आज्यमुत्पूय वालेन पय उत्पुनाति ॥ २१ ॥
प्राङ्सोमो अतिद्रुत इति सोमवामिनः । प्रत्यङ्सोमो अतिद्रुत इति सोमातिपवितस्य ॥ २२ ॥
ब्रह्म क्षत्त्रं पवत इति सुरां प्रतिप्रस्थाता ॥ २३ ॥
पाशुकान्याज्यानि गृहीत्वाऽध्वर्युः पयोग्रहान् गृह्णाति ॥ २४ ॥
कुविदङ्गेति सर्वेषामेका पुरोरुगेका पुरोनुवाक्यैकः प्रैष एका याज्योपयामगृहीतोऽस्यश्विभ्यां त्वा जुष्टं गृह्णामीति गृहीत्वा यवसक्तुभिः श्रीत्वा पवित्रेण परिमृज्येष ते योनिस्तेजसे त्वेति सादयित्वोपयामगृहीतोऽसि सरस्वत्यै त्वा जुष्टं गृह्णामीति गृहीत्वा गोधूमसक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिर्वीर्याय त्वेति सादयित्वोपयामगृहीतोऽसीन्द्राय त्वा सुत्राम्णे जुष्टं गृह्णामीति गृहीत्वोपवाकासक्तुभिः श्रीत्वा पवित्रेण परिमृज्यैष ते योनिर्बलाय त्वेति सादयित्वोत्तरैर्यथालिङ्गमुपतिष्ठते ॥ २५ ॥
सुरायां वाल आनीयमानायां धारायाः प्रतिप्रस्थाता सुराग्रहान् गृह्णाति नाना हि वां देवहितꣳ सदः कृतमिति सर्वेषामेका पुरोरुगेका पुरोनुवाक्यैकः प्रैष एका याज्या । उपयामगृहीतोऽस्याश्विनं तेजोऽश्विभ्यां त्वा जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिर्मोदाय त्वेति सादयति । उपयामगृहीतोऽसि सारस्वतं वीर्यं सरस्वत्यै त्वा जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिरानन्दाय त्वेति सादयति । उपयामगृहीतोऽस्यैन्द्रं बलमिन्द्राय त्वा सुत्राम्णे जुष्टं गृह्णामीति गृहीत्वा पवित्रेण परिमृज्यैष ते योनिर्महसे त्वेति सादयति । सुरावच्छ्रयणानि ।। २६ ।।
सन्नाननुवाकशेषेणाध्वर्युर्यजमानश्चोपतिष्ठते । उत्तरेण चानुवाकेन ।। २ ॥ २७ ॥
पूर्ववत्पशूनुपाकरोति ॥ २८ ॥
बार्हस्पत्यवर्जं समानमा पर्यग्निकरणात् ॥ २९ ॥
मध्यमे पर्यग्निकरणपर्याय उल्मुकैकदेशं खरे न्युप्योपसमादधाति ॥ २३.१.३० ॥
शेषेण पर्यग्निं कृत्वैतदेव पशुश्रपणार्थं प्रणयति ॥ ३१ ॥
हुतासु वपासु चत्वारिꣳशद्गा दक्षिणा ददाति । अनुशिशुं च वडवाम् ॥ ३२ ॥
अत्र वा ग्रहान्गृह्णीयुः ॥ ३३ ॥
उक्तः संप्रैषः ॥ ३४ ॥
सर्व आहवनीये हुयेरन्नित्याश्मरथ्यः। दक्षिणेऽग्नौ सुराग्रहा इत्यालेखनः ॥ ३५ ॥
सुरावन्तमिति पयोग्रहाञ्जुहोति । यस्ते रसः संभृत इति सुराग्रहान् ॥ ३६ ॥
तूष्णीमनुवषट्कृते हुत्वा यमश्विना नमुचेरित्याश्विनमध्वर्युर्भक्षयति ॥ ३७॥
यदत्र रिप्तमिति सारस्वतं प्रतिप्रस्थाताऽऽग्नीध्रश्च ॥ ३८ ॥
इदꣳ हविरित्यैन्द्रं ब्रह्मा यजमानश्च ॥ ३९ ॥
व्याख्याता सुरायाः प्रतिपत्तिः ॥ २३.१.४० ॥
दक्षिणेनाऽऽहवनीयं पयःशेषं पितृपितामहपितामहेभ्यो ददाति पितृभ्यः स्वधाविभ्यः स्वधा नम इति ॥ ४१ ॥
पुनन्तु मा पितरः सोम्यास इत्युपतिष्ठते ॥ ४२ ॥
अथाऽऽहुतीर्जुहुतः । ये समाना इत्यध्वर्युः । ये सजाता इति प्रतिप्रस्थाता ।। ४३ ॥
मनोताकाले पृथक्पात्रेषु पशूनां यूषाणि निदधाति ॥ ४४ ॥
पुरस्तात्स्विष्टकृतः शृङ्गशफैरुपहोमाञ्जुहोति ॥ ४५॥
अष्टावष्टावेकैकस्य कुष्ठिकशफाः ॥ ४६॥
आश्विनस्य यूषेण कुष्ठिकां शफं च पूरयित्वा सीसेन तन्त्रमित्यष्टर्चेन प्रतिमन्त्रं द्वाभ्यां द्वाभ्यां कुष्ठिकाशफाभ्यां जुहुयात् । उत्तमायाꣳ शृङ्गे अनुषजति । हुत्वा हुत्वा स्वेष्वभिषेचनपात्रेषु संपातानवनीयाऽऽहवनीये कुष्ठिकशफान्प्रविध्यति । एवमुत्तरेणाष्टर्चेन सारस्वतस्य । सर्वेणानुवाकेनैन्द्रस्य ॥ ४७॥
औदुम्बर्यासन्द्यरत्निमात्रशीर्षण्याऽनूच्या नाभिदघ्नपादा मौञ्जविवाना मित्रोऽसि वरुणोऽसीति तां यजमानायतने प्रतिष्ठापयति ॥ ४८॥
आसादनोपवेशनाभिमन्त्रणानि राजसूयवत् ॥ ४९ ॥
तस्यां प्राङ्मुखमासीनं प्रत्यङ्मुखस्तिष्ठन्नाश्विनसंपातैरभिषिञ्चति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामश्विनोर्भैषज्येन
तेजसे ब्रह्मवर्चसेनाभिषिञ्चामीति ॥ २३.१.५० ॥
एवमुत्तरेण मन्त्रेण सारस्वतस्य । उत्तमेनैन्द्रस्य ॥ ५१ ॥
कोऽसि कतमोऽसीति पाणी संमृश्याध्वर्युर्व्याहृतीर्जपित्वाऽत्र राजसूयवन्मङ्गल्यनाम्न आहूय शिरो मे श्रीरिति यथालिङ्गमङ्गानि संमृश्य जङ्घाभ्यां पद्भ्यामिति प्रत्यवरुह्य प्रतिक्षत्त्रे प्रतितिष्ठामि राष्ट्र इति जपित्वा त्रया देवा इत्याहुतीर्हुत्वा लोमानि प्रयतिर्ममेति यथालिङ्गमङ्गानि संमृशते ॥ ५२ ॥
स्विष्टकृत्प्रत्भृति समानमाऽवभृथात् ॥ ५३ ॥
यद्देवा देव हेडनमित्यवभृथे पञ्चाऽऽहुतीर्जुहोतीत्याश्मरथ्यः। आहवनीये हूयेरन्नित्यालेखनः ॥ ५४ ॥
अवभृय निचङ्कुणेत्यवभृथं यजमानोऽभिमन्त्र्य सुमित्रा न आपो द्रुपदादिवेन्मुमुचान इत्याप्लुत्योद्वयं तमसस्परीत्यादित्यमुपस्थाय प्रतियुतो वरुणस्य पाश इत्युदकान्तं प्रत्यस्यति ॥ ५५ ।।
पशुवत्समिध उपस्थानं च ॥ ५६ ॥
समाववर्तीत्युपस्थाय भूः स्वाहेत्याहुतिं हुत्वा पूर्ववत्पितृयज्ञः ॥ ५७॥
इन्द्राय वयोधसे पशुमालभेत । ऋषभो दक्षिणा ॥ ५८ ॥
आदित्यं चरुम् । धेनुः । विज्ञायते च वत्सं पूर्वस्यां ददाति । मातरमुत्तरस्याम् ॥ ५९ ॥
संतिष्ठते कौकिली ॥ २३.१.६०॥
तया स्वर्गकामो यजेत ॥ ४ ॥ ६१ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोविंशप्रश्ने प्रथमः पटलः ।।

23.2
अथ त्रयोविंशप्रश्ने द्वितीयः पटलः ।
सावित्रꣳ स्वर्गकामश्चिन्वीत ॥ १ ॥
पशुबन्धे चीयते ॥ २॥
चेष्यमाण उपकल्पयते पञ्चाशीतिशतꣳ हिरण्येष्टका यावदुत्तममङ्गुलिपरु तावतीः शर्करा वाऽभ्यक्ताश्चतस्रः स्वयमातृण्णा अपरिमिता लोकंपृणाः ॥३॥
षड्ढोतारमित्येतदादि पाशुकं कर्म प्रतिपद्यते ॥ ४ ॥
वेदितृतीये यजेत इति विज्ञायते ॥५॥
प्रागुत्तरस्मात्परिग्रहात्कृत्वोत्तरवेदिदेशस्य मध्ये शङ्कुं निहत्य सर्वतः परिमण्डलं रथचक्रमात्रं सावित्रं परिलिख्य समूलं हरितं दर्भस्तम्बमाहृत्य मध्येऽग्नेर्निखाय जुह्वां पञ्चगृहीतं गृहीत्वा सजूरब्दोऽयावभिरिति दर्भस्तम्बे पञ्चाऽऽहुतीर्हुत्वोद्धत्यावोक्ष्य व्याघारणान्तामुत्तरवेदिं कृत्वा लेखाया अभ्यन्तरं नव परिमण्डला लेखा लिखित्वा सिकताभिरवकीर्य दर्भैः प्रच्छाद्य दध्ना मधुमिश्रेण शर्कराभिरिति बाह्यां लेखां संपूर्य वसति ॥ ६ ॥
हुतेऽग्निहोत्रे प्रजापतिस्त्वा सादयतु तया देवतयाऽङ्गिरस्वद्धुवा सीदेत्युत्तरवेदिमभिमृश्य मयि गृह्णामि यो नो अग्निरिति द्वाभ्यामात्मन्नग्निं गृहीत्वा यास्ते अग्ने समिध इति स्वयंचित्याऽभिमृश्याग्नेर्भस्मासीति सिकता निवपति । संज्ञानमित्यूषान् ।। ७ ॥
तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति ॥ ८॥
सं यावः प्रियास्तनुव इत्यूषान्सिकताश्च सꣳसृज्य चितः स्थ परिचित इत्यपरिमिताभिः शर्कराभिः परिश्रित्याऽऽप्यायस्व समेतु त इति सिकता
व्यूहति ॥ ९॥
सं याव इत्यूषान् सिकताश्च संसृज्य वितः स्थेति सीदतेत्यन्तेनासंख्याताभिः शर्करामिरुत्तरवेदिः (दि) परिश्रयति । बहुवचन,न्ते युगप-मन्त्रान्ते आप्यायस्वेति सिकता व्यूहति ॥९॥
न लेखाः संलोभयन्ति ॥ २३.२.१० ॥
अभ्यन्तरं जघनार्ध उदपात्रमुपदधाति वाक्त्वा समुद्र उपदधामि सुप्रजावनिꣳ रायस्पोषवनिं मह्यं वाजिनायेति ॥ ११ ॥
नवम्यां बाह्यायां लेखायां पञ्चदश पूर्वपक्षस्याहान्युपदधाति ॥ ५ ॥ संज्ञानं विज्ञानमिति ॥ १२ ॥
तेषामन्तरालेष्वेतेषामह्नां पञ्चदश मुहूर्तानुपदधाति चित्रः केतुरिते ॥ १३ ॥
अथान्तरस्यां पञ्चदश पूर्वपक्षस्य रात्रीरुपदधाति दर्शा दृष्टेति ॥ १४ ॥
तासामन्तरालेष्वेतासां रात्रीणां पश्चदश मुहूर्तानुपदधाति दाता प्रदातेति ॥ १५॥ अथान्तरस्यां पञ्चदशापरपक्षस्याहान्युपदधाति प्रस्तुतं विष्टुतमिति ॥ १६ ॥ तेषामन्तरालेष्वेतेषामह्नां पञ्चदश मुहूर्तानुपदधाति सविता प्रसवितेति ॥१७॥
अथान्तरस्यां पञ्चदशापरपक्षस्य रात्रीरुपदधाति सुता सुन्वतीति ॥ १८ ॥
तासामन्तरालेष्वेतासां रात्रीणां पञ्चदश मुहूर्तानुपदधात्यभिशास्ताऽनुमन्तेति ॥ १९ ॥ अथान्तरस्यां द्वादश पूर्वपक्षानुपदधाति पवित्रं पवयिष्यन्निति ॥ २३.२.२० ॥
अथान्तरस्यां द्वादशापरपक्षानुपदधाति सहस्वान्सहीयानिति ॥ २१॥
अथान्तरस्यां त्रयोदश मासनामान्युपदधात्यरुणोऽरुणरजा इति ॥ २२॥
अथ सिकता उपदधात्येजत्का जोवत्का इति ॥ २३ ॥
अथान्तरस्यां पञ्चदश मुहूर्तानुपदधाति इदानीं तदानीमिति ॥ २४ ॥
अथान्तरस्यां षड्यज्ञक्रतूꣳस्त्रीणि चतुर्नामान्युपदधात्यग्निष्टोम उक्थ्योऽग्निर्ऋतुरिति ॥ २५ ॥
अब नाभ्यां चत्वारि संवत्सरनामान्युपदधाति प्रजापतिः संवत्सरो महान्क इति ॥ २६ ॥
चतस्रः स्वयमातृण्णा दिक्षूपदधाति भूरग्निं च पृथिवीं च मां चेति ॥ २७ ॥
लोकं पृणेति लोकंपृणा उपदधाति ॥ २८ ॥
चात्वालात्पुरीषमाहृत्य पृष्टो दिवीति वैश्वानयर्चा चितावनुव्यूहति ॥ २९॥
सा चितिर्भवति ॥ २३.२.३० ॥
आरोहणं जपति। अवरोहणं जपति ॥ ३१ ॥
उपस्थानेनोपतिष्ठते त्वमेव त्वां वेत्थ योऽसि । सोऽसीति ॥ ३२ ॥
साहस्रवत्करोति ॥ ३३ ॥
धेनूः कृत्वा यजमानः संहारविहाराभ्यामुपतिष्ठते संवत्सरोऽसि परिवत्सरोऽसीति ॥ ३४॥
उत्तरत उत्तमायामिष्टकायामर्कपर्णेनाजक्षीरं जुहोति ॥ ३५॥
त्वमग्ने रुद्र इति शतरुद्रीयस्य रूपमसंचरे पशूनामर्कपर्ण उदस्यति वल्मीकवपायां वाऽवदधाति ॥ ३६॥
जघनेनाग्निं प्राङ्मुख उपविश्य संचितोक्थ्येन । होताऽनुशंसति भूर्भुवः स्वरित्यनुवाकेन ॥ ३७॥
अग्निप्रणयनादि पाशुकं कर्म पतिपद्यते समानमाऽतिमुक्तीभ्यः ॥ ३८ ॥
अतिमुक्तीर्हुत्वा चतुर्गृहीतं जुहोति त्वमग्ने रुद्र इति शतरुद्रीयस्य रूपम् ॥ ३९ ॥
अपरं चतुर्गृहीतमग्नाविष्णू इति वसोर्धारायाः । अपरं चतुर्गृहीतमन्नपत इत्यन्नहोमः । अपरं चतुर्गृहीतं सप्त ते अग्ने समिधः सप्तजिह्वा इति विश्वप्रीः । अपरं चतुर्गृहीतम् ॥ ६ ॥ वसूनां त्वाऽधीतेन रुद्राणामूर्म्यादित्यानां तेजसा विश्वेषां देवानां क्रतुना मरुतामेम्ना जुहोमि स्वाहेति ॥२३.२.४०॥
तासां सꣳस्रावेण यजमानो मुखं विमृष्टे राज्ञी विराज्ञीत्यनुवाकेन || ४१ ॥
अथैकविꣳशतिमाहुतीर्जुहोत्यसवे स्वाहा वसवे स्वाहेत्यनुवाकेन प्रतिमन्त्रम् ।। ४२ ॥
बर्हिषः संभरणादि पाशुकी कर्म प्रतिपद्यते । समानमा वपाया होमात् ॥ ४३ ॥
हुतायां वपायामन्विष्टकं पष्ठौहीर्दक्षिणा ददाति ॥४४॥
यद्येतावतीर्दक्षिणा नोत्सहेत मन्वानेतावतः पाययेद्ब्राह्मणान् । ओदनान्वाऽऽशयेत् ॥ ४५ ॥
तेन हैवास्य स काम उपाप्तो भवति ॥ ४६ ॥
यत्प्राङ्मनोतायास्तत्कृत्वौदुम्बरपात्रेण यूष्णौ मृत्यवे ग्रहं गृह्णाति विपश्चते पवमानायेति ग्रहणसादनौ । नाचिकेत एव मृत्युग्रह इत्येके॥४७॥
तस्य स्विष्टकृतमनुहोमः ॥ ४८ ॥
होष्यन्नप उपस्पृशेद्विद्युदसि विद्य मे पाप्मानमिति । अथ जुहोत्यपमृत्युमपक्षुधमिति ॥ ४९ ॥
अथ हुत्वोपस्पृशेद्वृष्टिरसि वृश्च मे पाप्मानमिति । तस्येडायनुभक्षः । भक्षयति भक्षोऽस्यमृतभक्ष इति । भक्षयित्वा प्राणनिवहानात्मन्प्रतिष्ठापयते मन्द्राभिभूतिरित्यनुवाकशेषेण । समानमत ऊर्ध्वं पाशुकं कर्म । संतिष्ठते सावित्रः ॥७॥२३.२.५०॥
इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोविंशप्रश्ने द्वितीयः पटलः ।

23.3
अथ त्रयोविंशप्रश्ने तृतीयः पटलः ।
एतेन नाचिकेतो व्याख्यातः । नात्र लेखा भवन्ति । एकविꣳशतिर्हिरण्येष्टकाः शर्करा वाऽभ्यक्ता उपधानकाले नाभ्यामेवोपधीयन्ते चतुरस्रं परिमण्डलं वा लोकोऽसि
स्वर्गोऽसीत्यनुवाकेन प्रतिमन्त्रम् ॥ १ ॥
तꣳ ह्येके पशुबन्ध एवोत्तरवेद्यां चिन्वत इति ब्राह्मणव्याख्याताः काम्या विकाराः ॥२॥
ताननुक्रमिष्यामः ॥ ३॥
पशुबन्धे सोमे सत्रे सहस्रे सर्ववेदसे वा यत्र वा भूयिष्ठा आहुतयो हूयेरꣳस्तत्र चेतव्यः ॥ ४ ॥
सत्रे प्रतिष्ठां प्रजां पशून्स्वर्गमृद्धिमीप्सन्यथावकाशं यथासमाम्नातम् ॥ ५॥
सर्वत्र पुरस्तादुपक्रमः प्रदक्षिणमुत्तरतोऽपवर्गः ॥ ६ ॥
पशुकामः पाङ्क्तमेव चिन्वीत । पञ्च पञ्च प्रतिदिशमेकां मध्ये ॥ ७॥
ज्यैष्ठ्यमीप्सन्यशः प्रजां वा त्रिवृतमेव । सप्त पुरस्तात्तिस्रो दक्षिणतः सप्त पश्चात्तिस्र उत्तरत एकां मध्ये ॥८॥
ज्यैष्ठ्यकामो मध्यात्प्रक्रम्योर्ध्वां रीतिं प्रतिपादयेत् ॥ ९ ॥
स्वर्गकामः पश्चात्प्रक्रम्य प्राचीं रीतिं प्रतिपादयेत् ॥ २३.३.१०॥
स यदीच्छेत्तेजस्वी यशस्वी ब्रह्मवर्चसी स्यामिति प्राग्दक्षिणेभ्यः प्राङा होतुधिष्णियादुत्सर्पेद्येयं प्रागाद्यशस्वती सा मा प्रोर्णोतु तेजसा यशसा ब्रह्मवर्चसेनेति ॥ ११ ॥
अथ यदीच्छेद्भूयिष्ठं मे श्रद्दधीरन्भूयिष्ठा दक्षिणा नयेयुरिति दक्षिणासु नीयमानासु प्राच्येहि प्राच्येहीति ॥ १२ ॥
प्राची जुषाणा वेत्वाज्यस्य स्वाहेति स्रुवेणोपहत्याऽऽहवनीये जुहुयात् ॥ १३ ॥
स्वयमातृण्णादि समानमुत्तरम् ॥ १४॥
संतिष्ठते नाचिकेतः ॥ १५ ॥
एतेन चातुर्होत्रो व्याख्यातः ॥१६॥
यावत्पदं हिरण्येष्टका: शर्करा वाऽभ्यक्ताः ॥ १७ ॥
उपाधानकालेऽग्रेण दर्भस्तम्बं दशहोतारं प्रति'मन्त्रमुदञ्चमुपदधाति । हृदयं ग्रहं चत्वारि पदानि संभाराणां द्वे पत्नीनाम् ॥ १८ ॥
एवं दक्षिणतः प्राञ्चं चतुर्होतारम् । पश्चादुदञ्चं पञ्चहोतारम् । उत्तरतः प्राञ्चꣳ षड्ढोतारम् । उपरिष्टात्प्राञ्चꣳ सप्तहोतारम् । पञ्चात्र पदानि संभाराणामवशिष्टानि च पत्नीनाम् ॥१९॥
स्वयमातृण्णादि समानमुत्तरम् ॥२३.३.२०॥
संतिष्ठते चातुर्होत्रः ॥ ८ ॥ २१ ॥
एतेन वैश्वसृजो व्याख्यातः ॥ २२ ॥
यावन्मन्त्रꣳ हिरण्येष्टका यावदुत्तममङ्गुलिपरु तावतीः शर्करा वाऽभ्यक्ताश्चतस्रः स्वयमातृण्णाः ॥ २३ ॥
उपधानकालेऽग्रेणोत्तरनाभिं यच्चामृतं यच्च मर्त्यमित्येतैस्त्रिभिरनुवाकैस्त्रिः प्रदक्षिणमुत्तरवेदिं परिचिनोति ।। २४ ॥
तिस्रो वा चितयस्त्रिभिरनुवाकैः ॥ २५ ॥
ऋचां प्राची महतीति संचितोक्थ्येन होताsनुशꣳसति ॥२६॥
स्वयमातृण्णादि समानमुत्तरम् । शतरात्रे सारस्वतेषु रात्रिसत्रेषु शतरात्रान्तेषु महाव्रतेषु त्रिषु च सारस्वतेषु सत्रेषु काठकचातुर्मास्येषु साध्यानां षडहवर्जितेषु विश्वसृजामयने प्रजापतेरन्यत्रानुशꣳसनात् ॥ २७ ॥
सहस्रसंवत्सरयोश्च वैश्वसृजोऽग्निर्नियतः ।। २८ ॥
अभिप्रयायं चे(प्रायान्तश्चे)दभिचिनुयुरुत्तरवेदिदेशमेतैर्मन्त्रैरभिमृशेत् [ योऽस्य सुप्रियः सुविचित इव स्यात्तस्मै वैश्वसृजम् । तृतीये वा पर्याये ]।। २९ ॥
सावित्रनाचिकेतचातुर्होत्रवैश्वसृजारुणकेतुकान्समस्य सौम्येऽप्यध्वरे चिन्वते ।। २३.३.३०॥
सावित्रः प्रथमा चितिः । लोकंपृणा द्वितीया । नाचिकेतस्तृतीया । लोकंपृणा चतुर्थी । चातुर्होत्र उत्तमा (पञ्चमी । वैश्वसृजः षष्ठी । आरुणकेतुकः सप्तमी) ॥३१॥ सवनीययूष्णो मृत्यवे ग्रहं गृह्णाति ॥ ३२ ॥
एतानग्नीन् (पृथक् समासेन वा] चिन्वान उभयीर्दक्षिणा ददाति क्रतुदक्षिणा (यथासमाम्नातम्) - अमिदक्षिणाश्चेति । क्रतुदक्षिणाः सर्वेषामग्निदक्षिणाश्चेतुर्यदनुक्तं मन्त्रब्राह्मणे तत्प्रसिद्धम् । (अत्र पृथगप्रयुज्य न समस्यन्ते ) ॥ ३३ ॥
(अग्निं चित्वा सौत्रामण्या यजेत । मैत्रावरुण्या वाऽऽमिक्षया) ॥ ३४ ॥
आरुणकेतुको ब्राह्मणव्याख्यातः ॥ ३५॥
दिवःश्येनीभिरन्वहꣳ स्वर्गकामो यजेत । अपाद्याभिश्च । ता ब्राह्मणव्याख्याताः ॥ ९ ॥३६॥
इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोविंशप्रश्ने तृतीयः पटलः ॥

23.4
अथ त्रयोविंशप्रश्ने चतुर्थः पटलः ।
अथ सवानां व्याख्यातो बृहस्पतिसवः ॥ १॥
वैश्यः पुष्टिकाम आग्नेयादीनि सप्त हवीꣳषि निर्वपति ॥ २ ॥
पृश्निः पष्ठौही मारुत्यालभ्यते तस्याः पुरस्तात्स्विष्टकृतो यजमानायतन ऋषभचर्म प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणाति । तस्मिन्नासीनं दध्नाभिषिञ्चति ॥ ३ ॥
ब्राह्मणो ब्रह्मवर्चसकाम आग्नेयादीन्यष्टौ हवीꣳषि निर्वपति पुरस्तात्स्विष्टकृतो हिरण्येन घृतमुत्पूय तेन कृष्णाजिन आसीनमभिषिञ्चति ॥ ४ ॥
अथ सोमसवः । यत्किंच राजसूयमृते सोमं तत्सर्वं भवति ॥ ५॥
मैत्राबार्हस्पत्यं सꣳस्थाप्य सौमीं सूतवशामालभते ॥ ६ ॥
तस्याः पुरस्तात्स्विष्टकृतोऽषाढं युत्सु पृतनासु पप्रिमिति सौम्यर्चाऽद्भिरभिषिञ्चति ॥ ७ ॥
शेषं सꣳस्थाप्य सꣳसृपाꣳ हविर्दिशामवेष्ट्या द्विपशुना पशुबन्धेन सात्यदूतानां हविर्भिः प्रयुजामिति यजेत ॥ ८॥
पृथिसवेन पशुकामः । यत्किंच राजसूयमनुत्तरवेदिकं तत्सर्वं भवति ॥ ९ ॥
मैत्राबार्हस्पत्यस्य पुरस्तात्स्विष्टकृतो ये मे पञ्चाशतमिति नाराशꣳस्यर्चाऽद्भिरभिषिञ्चति ॥ २३.४.१० ॥
समानमुत्तरं पूर्वेण पशुबन्धवजम् ॥ ११ ॥
व्याख्यातो गोसवः ॥ १२ ॥
ओदनसवेनान्नाद्यकामो रोहिण्यां यजेत ॥ १३ ॥
उपव्युषꣳ श्रपयति ॥ १४॥
दर्विहोमो भवति ॥ १५ ॥
उदित आदित्ये सिꣳहे व्याघ्र इति चतस्र आहुतीरोदनाद्धुत्वा ॥ १६ ॥
राडसि विराडसीत्येतैः प्रतिमन्त्रं मन्थान् कल्पयन्ति । आज्यमन्थं ब्राह्मणः पयोमन्थं राजन्यो दधिमन्थं वैश्य उदमन्थं शूद्रः ॥ १७ ॥
इन्द्राय त्वा तेजस्वते तेजस्वन्तꣳ श्रीणामीति । ब्राह्मणः सक्तुभिराज्यꣳ श्रीत्वा तेजोऽसीत्यभिमन्त्र्य तत्ते प्रयच्छामीति यजमानाय प्रयच्छति ॥ १८ ॥
तेजस्वदस्तु मे मुखमिति प्रतिगृह्य भक्षयति ॥ १९ ॥
एवमितरेषामुत्तरोत्तरश्रयणोऽभिमन्त्रणः प्रदानो भक्षणश्च यथालिङ्गम् ॥ २३.४.२०॥
सर्वान्यजमानो भक्षयित्वा हिरण्यं ब्राह्मणाय ददाति । तिसृधन्वꣳ राजन्याय । अष्ट्रां वैश्याय । माषकमण्डलुं शूद्राय ॥ २१ ॥
हिरण्यं यजमानायाऽऽबध्नात्यायुरसि विश्वायुरसीत्याबद्ध्यमाने जपति ॥ २२॥
ओदनशेषं यजमानः प्राश्नाति ॥ २३॥
इममग्ने आयुषे वर्चसे कृधीति प्राश्नन्तमभिमन्त्रयते॥ २४ ॥
अपां ग्रहान्गृह्णन्ति ये मन्थान्कल्पयन्त्यपां यो द्रवणे रस इत्येतेः प्रतिमन्त्रम् ॥२५॥
तैरेनꣳ सꣳसृष्टैरभिषिञ्चति यतो वातो मनोजवा इति ॥ २६ ॥
समुद्र इवासि गह्मनेत्येनमभिमन्त्र्याथैनं त्रिभिर्दर्भपुञ्जीलैः पवयति । अवभृथप्रत्याम्नायो भवतीति विज्ञायते ॥२७॥
अग्रेणाऽऽहवनीयं रथोऽवस्थितो भवति ॥ २८ ॥
अभिप्रेहीति तं यजमानोऽभ्येति ॥ २९॥
आतिष्ठ मित्रवर्धन इत्यारोहन्तमभिमन्त्रयते ॥ २३.४.३० ॥
अङ्कौ न्यङ्काविति रथचक्रे अभिमृशति । पक्षसी वा ॥ ३१ ॥
आतिष्ठ वृत्रहन्निति पञ्चभिरारूढम् ॥ ३२ ॥
दिदृक्षेण्यो दर्शनीयो भवति । य एतेन यजत इति विज्ञायते ॥ ३३ ॥
संतिष्ठत ओदनसवः ॥ ३४ ॥ ११ ॥
व्याख्यातः पञ्चशारदीयः ॥ ३५ ।।
तथाऽग्निष्टुत् ॥ ३६॥
तस्य पुरोरुचः । अस्याजरासोऽग्न आयूꣳषि पवस इत्यैन्द्रवायवस्य । द्वितीया मैत्रावरुणस्य । तृतीयाऽऽश्विनस्य । चतुर्थी पञ्चमी च शुक्रामन्थिनोः षष्ठ्याग्रयणस्य । अन्यामाग्नेयीमुक्थ्यस्य नियुनक्ति । नित्या ध्रुवस्य । नियुनक्त्यैन्द्राग्नवैश्वदेवयोः। अग्निश्रिय इति तिस्रो मरुत्वतीयानाम् । श्रुधि श्रुत्कर्णेत्युत्तरा माहेन्द्रस्य । विश्वेषामदितिरिति तिस्र आदित्यग्रहस्य । उत्तमा सावित्रस्य ॥३७॥
नियुनक्ति वैश्वदेवस्य । नित्या पात्नीवत्तस्य । नियुनक्ति हारियोजनस्य ॥ ३८ ॥
इन्द्रस्तुतेन्द्रस्तोमेनोक्थ्येनेन्द्रियकामो वीर्यकामो वा यजेत । ऐन्द्रियः पुरोरुचस्तिष्ठा हरी कस्य वृषेत्यैन्द्रवायवस्य । तृतीया मैत्रावरुणस्य । चतुर्थ्याश्विनस्य । पञ्चमी षष्ठी च शुक्रामन्थिनोः । सप्तम्याग्रयणस्य । नित्योक्थ्यस्य । नियुनक्ति ध्रुवैन्द्राग्नवैश्वदेवानाम् । नित्या मरुत्वतीयमाहेन्द्राणाम् । आ नो विश्वाभिरूतिभिरिति तिस्र आदित्यग्रहस्य । उत्तमा सावित्रस्य ॥ ३९ ॥
नियुनक्ति वैश्वदेवपात्नीवतयोः । नित्या हारियोजनस्य । व्याख्यातोऽप्तोर्यामः ॥२३.४.४०॥ १२॥
राजाऽभिषेक्ष्यमाणो जनपदेषु समवेतेषु द्वयोः पुण्याहयोः पूर्वस्मिन्स्थण्डिलं कल्पयित्वाऽग्निमुपसमाधाय संपरिस्तीर्य वसति ॥ ४१ ॥
उदित आदित्ये ये केशिनो नर्ते ब्रह्मण इति द्वे आहुती हुत्वा राडसि विराडसीति यजमानायतन औदुम्बरीमासन्दीं प्रतिष्ठापयति ॥ ४२ ॥
तां राजाऽऽरोहति ॥ ४३ ॥
आरोह प्रोष्ठमित्यारोहन्तमभिमन्त्रयते ॥ ४४ ॥
अत्र वरं ददाति ॥ ४५ ॥
तस्यामासीनः केशान्वापयते येनावपत्सविता क्षुरेणोति ॥ ४६॥
मा ते केशानिति केशान्प्रकीर्यमाणाननुमन्त्रयते ॥ ४७॥
तान्समोप्य दर्भस्तम्बे निदधाति तेभ्यो निधानमिति ॥ ४८ ॥
अथैनमाज्यमिश्रेण पयसाऽनक्ति । बलं ते बाहुवोरिति बाहू । यत्सीमन्तमिति शिरः । व्याघ्रोऽयमग्नाविति सप्ताऽऽहुतीर्हुत्वा द्यौरसि पृथिव्यसीति यजमानायतने शार्दूलचर्म प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणाति । तस्मिन्राजोपविशति ॥ ४९ ॥
व्याघ्रो वैयाघ्र इत्यासीनमभिमन्त्रयते ॥ २३.४.५० ॥
अथैनं तोक्मावास्ताभिर्दूर्वास्ताभिर्वाऽद्भिरभिषिञ्चति या दिव्या आप इति प्रतिपद्याऽऽपाङ्क्तात् ।। ५१ ॥
अरुणं त्वा वृकमित्यभिमन्त्र्य ॥ ५२ ॥
प्र बाहवेति बाहू प्रसार्य ॥ ५३॥
इन्द्रस्य ते वीर्यकृत इत्युपावहरति ॥ ५४ ॥
अग्रेणाग्निꣳ रथोऽवस्थितो भवति । अभिप्रेहीति तं राजाऽभ्येति ।। ५५ ॥
आतिष्ठ वृत्रहन्तम इत्यारोहन्तमभिमन्त्रयते ॥ ५६ ॥
अङ्कौ न्यङ्काविति रथचक्रे अभिमृशति । पक्षसी वा ॥ ५७ ॥
नमस्त ऋष इति पुरोहितमभिमन्त्रयते ॥ ५८ ॥
तिष्ठा रथ इति सारथिम् ॥ ५९॥
आ रश्मीनिति रश्मीनालभते ॥ २३.४.६०॥
आतिष्ठ वृत्रहन्निति षड्भिरारूढम् ॥ ६१ ।।
परि मा सेन्या इति द्वे वाचयित्वा ॥ ६२ ॥
उत्तराभिस्तिसृभिरभिमन्त्र्य ॥ ६३ ॥
उदसावेत्वित्यादित्यमुदीक्षयति ॥ ६४ ॥
अन्नवतामिति जनपदाननुवीक्षते ॥६५॥
संतिष्ठते राजाभिषेकः ॥ ६६ ॥
व्याख्यातो विघनः ॥ ६७ ॥
संतिष्ठन्ते सवाः सवाः ॥ ६८ ॥ १३ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोविंशप्रश्ने चतुर्थः पटलः ।
इति सत्याषाढहिरण्यकेशिसूत्रे त्रयोविंशः प्रश्नः ।