कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः २५
← प्रश्नः २४ | कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम् प्रश्नः २५ हिरण्यकेशिः/सत्याषाढः |
प्रश्नः २६ → |
25.1
अथ प्रथमः पटलः ।
अथातो विहारयोगान्व्याख्यास्यामः ॥ १॥
यावदायामं प्रमाणम् ॥२॥
तदर्धमभ्यस्य ॥३॥
अपरस्मिꣳस्तृतीये षड्भागोने लक्षणं करोति ॥ ४॥
पृष्ठ्यान्तयोरन्तौ नियम्य ॥ ५ ॥
लक्षणेन दक्षिणाऽपायम्य निमित्तं करोति ॥ ६॥
एवमुत्तरतः ॥ ७॥
विपर्यस्येतरतः ॥ ८॥
स समाधिः ॥९॥
तनिमित्तो निह्रासो वृद्धिर्वा ॥ २५.१.१० ॥
आयामं वाऽभ्यस्याऽऽगन्तुचतुर्थमायामश्चाक्ष्णयारज्जुस्तिर्यङ्मानी शेषः ॥ ११ ॥
व्याख्यातं विहरणम् ॥ १२ ॥
दीर्घचतुरश्रस्याक्ष्णयारज्जुः पार्श्वमानी तिर्यङ्मानी च यत्पृथग्भूते कुरुतस्तदुभयं करोति ॥ १३ ॥
ताभिर्ज्ञैयाभिरुक्तं विहरणम् ॥ १४॥
समचतुरश्रस्याक्ष्णयारज्जुर्द्विस्तावतीं भूमिं करोति समस्य द्विकरणीम् ॥ १५ ॥
प्रमाणं तृतीयेन वर्धयेत् ॥ १६ ॥
तच्चतुर्थेनाऽऽत्मचतुस्त्रिंशोनेन ॥ १७ ॥
सविशेषः ॥ १८॥
प्रमाणं चार्धेन वर्धयेत्तस्यार्धमस्यामर्धस्य चार्धमभ्यन्तरमुदस्येच्छेषस्यार्धं बाह्यतः शिष्टं द्विगुणं कृत्वा मध्ये लक्षणं करोति ॥ १९ ।। (ख.१)॥
अथापरो योगः ॥ २५.१.२० ॥
प्रमाणमात्रीꣳ रज्जुमुभयतःपाशां करोति ॥२१॥
मध्येलक्षणमर्धमध्ययोश्च पृष्ठ्यायाꣳ रज्जुमायम्य पाशयोर्लक्षणेष्विति शङ्कून्निहन्त्युपान्त्ययोः पाशौ प्रतिमुच्य मध्यमेन लक्षणेन दक्षिणाऽपायम्य निमित्तं करोति । मध्यमे पाशौ प्रतिमुच्योपर्युपरि निमित्तं मध्यमेन लक्षणेन दक्षिणाऽपायम्य शङ्कुं निहन्ति । तस्मिन्पाशं प्रतिमुच्य पूर्वस्मिन्नितरं मध्यमेन लक्षणेन दक्षिणमꣳसमायच्छेदुन्मुच्य पूर्वस्मादपरस्मिन्मतिमुच्य मध्यमेनैव लक्षणेन दक्षिणाꣳ श्रोणिमायच्छेदेवमुत्तरौ श्रौण्यꣳसौ ॥ २२ ॥
अथापरं पृष्ठ्यान्तयोर्मध्ये च शङ्कून्निहत्यार्धे तद्विशेषमभ्यस्य लक्षणं कृत्वाऽर्धमागमयेदन्त्ययोः पाशौ कृत्वा मध्यमे सविशेषं प्रतिमुच्य पूर्वस्मिन्नितरं लक्षणेन दक्षिणमꣳसमायच्छेदुन्मुच्य पूर्वस्मादपरस्मिन्प्रतिमुच्य लक्षणेनैव दक्षिणाꣳ श्रोणिमायच्छेदेवमुत्तरौ श्रोण्यꣳसौ ॥ २३ ॥ (ख० २)॥
प्रमाणं तिर्यग्द्विकरण्यायामस्तस्याक्ष्णयारज्जुस्त्रिकरणी ॥ २४ ॥
तृतीयकरण्येतेन व्याख्याता । विभागस्तु नवधा ।। २५॥
तुल्ययोश्चतुरश्रयोरुक्तः समासः ॥ २६ ॥
नानाप्रा(प्रमा)णयोश्चतुरश्रयोः समासः ॥ २७॥
ह्रसीयसः करण्या वर्षीयसो वृद्धमुल्लिखेत् ॥ २८ ॥
वृद्धस्याक्ष्णयारज्जुरुभे समस्यति ॥ २९ ॥
तदुक्तं चतुरश्राच्चतुरश्रं निजिहीर्षन्यावन्निजिहीर्षेत्तस्य करण्या वृद्धमुल्लिखेद्वृद्धस्य पार्श्वमानीमक्ष्णयेतरत्पार्श्वमुपसꣳहरेत् । सा यत्र निपतेत्तदपच्छिन्द्यात् ॥ २५.१.३०॥
छिन्नया निरस्तम् ॥ ३१ ॥
उपसंहृताऽक्ष्णयारज्जुः सा चतुष्करणी ।। ३२॥
छिन्ना चेतरा च यत्पृथग्भूते कुरुतस्तदुभयं करोति ॥ ३३ ॥
तिर्यङ्मानी पुरुषꣳ शेषस्त्रीन् ॥ ३४ ॥
तदुक्तम् ॥ ३५॥
दीर्घचतुरश्रꣳ समचतुरश्रं चिकीर्षꣳस्तिर्यङ्मान्याऽपच्छिद्य शेषं विभज्योभयत उपदध्यात् ॥ ३६॥ (ख०३)॥
खण्डमागन्तुना संपूरयेत् ॥ ३७॥
तस्य निह्रास उक्तः ॥ ३८॥
समचतुरश्रं दीर्घचतुरश्रं चिकीर्षन्यावच्चिकीर्षेत्तावतीं पार्श्वमानीं कृत्वा यावदधिकꣳ स्यात्तद्यथापरिमाणं विभज्य यथायोगमुपदध्यात् ॥ ३९ ॥
चतुरश्रं मण्डलं चिकीर्षन् ॥ २५.१.४०॥
मध्यात्कोट्यां निपातयेत् ॥४१॥
पार्श्वतः परिकृष्यातिशयतृतीयेन सह मण्डलं परिलिखेत् ॥ ४२ ॥
साऽनित्या मण्डलम् ।। ४३ ॥
यावद्धीयते तावदागन्तु ॥४४॥
मण्डलं चतुरश्रं चिकीर्षन्विष्कम्भं पञ्चदशभागान्कृत्वा द्वावुद्धरेत्त्रयोदशावशिष्यन्ते साऽनित्या चतुरश्रम् ॥४५॥
प्रमाणेन प्रमाणं विधीयते चतुरश्रम् ॥ ४६॥
आदेशादन्यत् ॥ ४७॥
द्वाभ्यां चत्वारि ॥४८॥
त्रिभिर्नव ॥४९॥
यावत्प्रमाणा रज्जुस्तावतस्तावतो वर्गान्करोति ॥ २५.१.५० ॥
तथोपलब्धिः ॥५१॥
अध्यर्धपुरुषा रज्जुर्द्वौ सपादौ करोति ॥५२॥
अध्यर्धतृतीयपुरुषा षट्सपादानथात्यन्तप्रदेशः ॥ ५३ ।।
यावता यावताऽधिकेन परिलिखति तत्पार्श्वयोरुपदधाति ॥ ५४॥
यत्तेन चतुरश्रं करोति तत्कोट्याम् ॥ ५५ ॥
अर्धप्रमाणेन पादप्रमाणं विधीयते ॥ ५६ ॥
अर्धस्य द्विप्रमाणायाः पादपूरणत्वात् ॥ ५७॥
तृतीये नवमी कला ॥ ५८ ॥ (ख० ४)॥
इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चविंशप्रश्ने प्रथमः पटलः ।
25.2
अथ द्वितीयः पटलः ।
आग्न्याधेयिके विहारे गार्हपत्याहवनीययोरन्तराले विज्ञायते ॥ १ ॥
अष्टासु प्रक्रमेषु ब्राह्मणोऽग्निमादधीत । एकादशसु राजन्यः । द्वादशसु वैश्यः । चतुर्विंशत्यामपरिमिते यावता वा चक्षुषा मन्येत। तस्मान्नातिदूरमाधेय इति सर्वेषामविशेषेण श्रूयते ॥ २॥
दक्षिणतः पुरस्ताद्वितृतीयदेशे नेदीयसि गार्हपत्यस्य दक्षिणाग्नेर्विज्ञायते ॥ ३॥
गार्हपत्याहवनीययोरन्तरालं पञ्चधा षड्धा वा संभुज्य षष्ठꣳ सप्तमं वा भागमागन्तुमुपसमस्य समं त्रैधं विभज्य ॥ ४॥
अपरस्मिꣳस्तृतीये लक्षणं करोति गाईपत्याहवनीययोरन्तौ नियम्य लक्षणेन दक्षिणाऽपायम्य निमित्तं करोति । दक्षिणाग्नेरायतनꣳ श्रुतिसामर्थ्यात् ।। ५ ॥
यजमानमात्री प्राच्यपरिमिता वा यथाऽसन्नानि हवीꣳषि संभवेदेवं तिरश्ची प्राञ्चौ वेद्यꣳसावुन्नयत्यभित आहवनीयं प्रतीची श्रोणी अभिगार्हपत्यं मध्ये संनततरैवमिव हि योषेति दार्शिक्या वेदेर्विज्ञायते । अपरेणाऽऽहवनीयं यजमानमात्रं दीर्घचतुरश्रं विहृत्य तावतीं रज्जुमभ्यस्योभयतः पाशौ करोति। मध्ये लक्षणं दक्षिणयोः श्रोण्यꣳसयोरन्तौ नियम्य लक्षणेन दक्षिणाऽपायम्य निमित्तं करोति । रज्जुं नियम्यान्तौ समस्य दक्षिणस्याः श्रोणेर्दक्षिणमꣳसमालिखेत् । एवमुत्तरतः । तियङ्मानीं द्विगुणां तथा कृत्वा पश्चात्पुरस्ताच्चोपलिखेत् । विमितायां पुरस्तात्पार्श्वमान्यावुपसꣳहरेच्छ्रुतिसामर्थ्यात् ॥६॥
त्रिꣳशत्पदानि प्रक्रमा वा ॥ (ख०५)॥ पश्चात्तिरश्ची भवति षट्त्रिꣳशत्प्राची चतुर्विꣳशतिः पुरस्तात्तिरश्चीति सौमिक्या वेदे र्विज्ञायते । षट्त्रिꣳ
शिकायामष्टादशोपसमस्यापरस्माद्द्वादशसु लक्षणं पञ्चदशसु लक्षणम् । पृष्ठ्यान्तयोरन्तौ नियम्य पाञ्चदशिकेन दक्षिणाऽपायम्य शङ्कुं निहन्त्येवमुत्तरतस्ते श्रोणी ॥७॥
विपर्यस्तयाऽꣳसौ तेनैवापायम्य द्वादशिके शङ्कुं निहन्त्येवमुत्तरतस्तावꣳसौ ॥ ८॥
तदेकरज्ज्वा विहरणं त्रिकचतुष्कयोः पञ्चिकाऽक्ष्णयारज्जुः॥९॥
ताभिस्त्रिरभ्यस्ताभिरꣳसौ ॥ २५.२.१० ॥
चतुरभ्यस्ताभिः श्रोणी ॥११॥
द्वादशिकपञ्चकयोस्त्रयोदशिकाऽक्ष्णयारज्जुस्ताभिरꣳसौ ॥ १२ ॥
द्विरभ्यस्ताभिः श्रोणी ॥ १३ ॥
पञ्चदशिकाष्टकयोः सप्तदशिकाऽक्ष्णयारज्जुस्ताभिः श्रोणी ॥ १४ ॥ द्वादशपञ्चत्रिꣳशिकयोः सप्तत्रिꣳशिकाऽक्ष्णयारज्जुस्ताभिरꣳसौ ॥ १५॥
एतावन्ति ज्ञेयानि वेदिविहरणानि भवन्ति ॥ १६॥
अष्टाविꣳशत्योनं पदसहस्रं महावेदिः ॥ १७ ॥
दक्षिणादꣳसाद्वादशसु दक्षिणस्याꣳ श्रोण्यां निपातयेच्छेदं विपर्यस्येतरत उपदध्यात् । सा दीर्घचतुरश्रा महावेदिस्तथायुक्ताꣳ संचक्षीत ॥ १८ ॥
सौमिक्या वेदितृतीये यजत इति सौत्रामण्या विज्ञायते ॥ १९॥
प्रक्रमस्य तृतीयकरणी प्रक्रमस्थानीया भवति ॥ २५.२.२० ॥
त्रिकरण्या वा ॥ २१॥
अष्टिकदशिके तिर्यङ्मान्यौ ॥ २२ ॥
द्वादशिका पृष्ठ्या ॥२३॥
त्रीणि चतुर्विꣳशानि पदशतानि सौत्रामणिकी वेदिः ॥ २४ ॥
द्विस्तावा वेदिर्भवतीति चाश्वमेधे विज्ञायते ॥ २५ ॥
प्रक्रमस्य द्विकरणी प्रक्रमस्थानीया भवति ॥२६॥
प्रक्रमो द्विपदस्त्रिपदो वा ॥ २७ ॥
प्रक्रमे याथाकामी शब्दार्थस्य विशयित्वात् ।। २८ ॥
यजमानस्य ॥ २९ ॥
अध्वर्योर्वा ॥ २५.२.३० ॥
एष हि चेष्टानां कर्ता भवति ॥ ३१ ॥
रथमात्री निरूढपशुबन्धस्य वेदिर्भवतीति विज्ञायते ॥ ३२ ॥ (ख०६)।
तत्र खल्वाहुः ॥ ३३ ॥
रथेषामात्री प्राची रथाक्षमात्री पश्चात्तिरश्ची विपथयुगमात्री पुरस्तात्तिरश्ची ॥ ३४ ॥
यावता वा बाह्ये छिद्रे । तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्य ॥ ३५ ॥
अर्धाक्षेणार्धयुगेनेति श्रोण्यꣳसान्निर्हरेत् ।। ३६ ॥
अथाप्युदाहरन्ति ॥ ३७॥
अष्टाशीतिशतमीषा तिर्यगक्षश्चतुःशतꣳ षडशीतियुगमाहुः । स रथश्चारण उच्यत इति स्थपरिमाणम् ॥ ३८॥
अरत्निभिर्वा षड्भिः प्राची । चतुर्भिः पश्चात्तिरश्ची त्रिभिः पुरस्तात्तिरश्ची तदेकरज्ज्वोक्तमध्यर्धे रज्जौ द्वयोरर्धतृतीययोः षट्स्वितिः लक्षणानि करोति नवसु पाशं पृष्ठ्यान्तयोरन्तौ नियम्यार्धतृतीयकेन दक्षिणाऽपायम्य द्वयोः शङ्कुं निहन्त्येवमुत्तरतस्ते श्रोणी विपर्यस्तयाऽꣳसौ तेनैवापायम्याध्यर्धे शङ्कुं निहन्ति । एवमुत्तरतस्तावꣳसौ । दशपदोत्तरवेदिर्भवेदिति सोमे विज्ञायते ॥ ३९॥
तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धेन ततः श्रोण्यꣳसान्निहरेत् ॥ २५.२.४०॥
विमितायां पुरस्तात्पार्श्वमान्यावुपसꣳहरेत् ॥ ४१॥
श्रुतिसामर्थ्यात् ॥ ४२ ॥
पदे युगेऽरत्नावियति प्रादेशे प्रक्रमे शम्यायां च मानार्थेषु याथाकामी शब्दार्थस्य विशयित्वात् ॥ ४३ ।।
यजमानमात्री चतुःस्रक्तिर्भवतीति पैतृक्या वेदेर्विज्ञायते ॥ ४४ ॥
तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायाम्यार्धेन ततः श्रोण्यꣳसान्निर्हरेत् ॥ ४५ ॥
नवारत्निस्तिर्यक्सप्तविꣳशतिरुदगायतमिति सदसो विज्ञायते ॥ ४६॥
अष्टादशेत्येकेषाम् । तदेकरज्ज्वोक्तं पश्चदशिकेनैवापायम्यार्धपञ्चमैः श्रोण्यꣳसान्निर्हरेत् ।।४७॥
प्रादेशमुखाः प्रादेशान्तरालाः ॥ (ख०७ ) ॥ भवन्तीत्युपरवाणां विज्ञायते ॥ ४८॥
अरत्निमात्रं चतुरश्रं विहृत्य स्रक्तिषु शङ्कुं निहत्यार्धप्रादेशेन तं तं परिलिखेच्छ्रुतिसामर्थ्यात् ॥४९॥
व्यायाममात्री चतुःस्रक्तिर्भवतीति गार्हपत्यचितेर्विज्ञायते ॥ २५.२.५० ॥
चतुरश्रेत्येकेषाम् । परिमण्डलेत्येकेषाम् ॥ ५१ ॥
करणं व्यायामस्य तृतीयायामꣳ सप्तमं व्यासं कारयेत् ॥ ५२ ॥
ता एकविꣳशतिर्भवन्ति ॥ ५३ ।।
उपधाने प्रागायामाः प्रथमे प्रस्तारेऽपरस्मिन्नुदगायामाः ॥५४॥
मण्डलायां मृदो देहं कृत्वा मध्ये शङ्कुं निहत्यार्धव्यायामेन मण्डलं परिलिखेत् ॥ ५५॥
तस्मिꣳश्चतुरश्रमवदध्याद्यावत्संभवेत् ॥ ५६ ॥
तन्नवधा व्यवलिख्य ।। ५७॥
त्रैधमेकैकं प्रधिकं विभज्य तदुपधीयते ॥ ५८ ॥
चतुरश्रस्यावान्तरदेशान्प्रति स्रक्तीः संपादयेत् ॥ ५९॥
मध्यानीतरस्मिन्प्रस्तारे ॥२५.२.६०॥
व्यत्यासं चिनुयाद्यावतः प्रस्ताराꣳश्चिकीर्षेत् ॥ ६१॥
पिशीलमात्रा भवन्तीति धिष्णियानां विज्ञायते । चतुरश्रा इत्येकेषाम् ॥ (परिमण्डला इत्येकेषाम् ) ।। ६२ ।।
मृदो देहान्कृत्वा ॥ ६३ ॥
आग्नीध्रीयं नवधा व्यवलिख्यैकस्याः स्थानेऽश्मा.नमवधाय यथासंख्यमितरान्व्यवलिख्य यथायोगमुपदध्यात् ॥ ६४ ॥ (ख०८)॥
इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चविंशप्रश्ने द्वितीयः पटलः ॥
25.3
अथ तृतीयः पटलः ।
भवतीव खलु वा एष योऽग्निं चिनुत इति विज्ञायते ॥१॥
वयसां वा एष प्रतिमया चीयत इत्याकृतिचोदनात् ॥ २॥
प्रत्यक्षविधानाद्वा यावदाम्नातेन ॥३॥
वेणुना सप्त पुरुषान्विमिमीते त्रीन्प्राचः पुरुषाꣳश्चतुरुदीचस्तिर्यञ्चं पुरुषमात्राणि पक्षपुच्छानि भवन्ति । आत्मा चतुष्पुरुषः ॥ ४ ॥
अरत्निना दक्षिणतो दक्षिणं पक्षं प्रवर्धयति ॥५॥
प्रादेशेन वितस्त्या वा पश्चात्पुच्छम् ॥ ६॥
अरत्निनोत्तरं पक्षम् ॥ ७ ॥
एकविधः प्रथमोऽग्निः । द्विविधो द्वितीयः । त्रिविधस्तृतीयः । त एवमेवोद्यन्त्यैकशतविधात् ॥ ८ ॥
तदु ह वै सप्तविधमेव चिन्वीत ॥ ९॥
सप्तविधो वा प्राकृतोऽग्निस्तत ऊर्ध्वमेकोत्तरानिति विज्ञायते ॥ २५.३.१० ॥
एकविधप्रभृतीनां न पक्षपुच्छानि भवन्ति ॥ ११॥
सप्तविधवाक्यशेषत्वात् ॥ १२ ॥
श्रुतिविप्रतिषेधाच्च ॥ १३ ॥
अष्टविधप्रभृतीनां यदन्यत्सप्तभ्यस्तत्सप्तधा विभज्य प्रतिपुरुषमावेशयेत् ॥ १४॥
आकृतिविकारस्याश्रुतत्वात् ॥ १५ ॥
पुरुषमात्रेण विमिमीते वेणुना विमिमीत इति विज्ञायते ॥ १६ ॥
यावान्यजमान ऊर्ध्वबाहुस्तावदन्तराले वेणोश्छिद्रे करोति ॥१७॥
मध्ये तृतीयम् ॥१८॥
अपरेण यूपावटदेशमनुपृष्ठ्यं प्राञ्चं वेणुं निघाय॥ १९॥
छिद्रेषु शङ्कून्निहत्योन्मुच्यापराभ्यां दक्षिणा प्राक् परिलिखेत् । आऽन्तादुन्मुच्य पूर्वस्मादपरस्मिन्प्रतिमुच्य दक्षिणा प्रत्यक्परिलिखेदाऽन्तात् ॥२५.३.२०॥
उन्मुच्य वेणुं मध्यमे शङ्कावन्त्यच्छिद्रं प्रतिमुच्योपर्युपरि लेखासमरं दक्षिणां वेणुं निधायान्त्ये छिद्रे शङ्कुं निहत्य तस्मिन्मध्यमच्छिद्रं प्रतिमुच्य लेखान्तयोरितरे प्रतिष्ठाप्य च्छिद्रयोः शङ्कू निहन्ति ॥ (ख० ९)॥ स पुरुषश्चतुरश्रः ॥ २१ ॥
एवं विहितान्प्रदक्षिणं चतुर आत्मनि पुरुषान्विमिमीते ॥ २२ ॥
पुरुषं दक्षिणे पक्षे पुरुषं पुच्छे पुरुषमुत्तरे ॥ २३ ॥
अरत्निना दक्षिणतो दक्षिणमित्युक्तम् ॥ २४ ॥
पृष्ठ्यातो वा पुरुषमात्रस्याक्ष्णया वेणुं निधाय पूर्वस्मिन्नितरं ताभ्यां दक्षिणमꣳसं निर्हरेत् ॥ २५॥
विपर्यस्य श्रोणी ॥ २६ ॥
पूर्ववदुत्तरमꣳसम् ॥ २७ ॥
रज्ज्वा वा विमायोत्तरवेदिन्यायेन वेणुना विमिमीते ॥२८॥
सपक्षपुच्छेषु विधाभ्यासेऽपचये च विधासप्तमकरणीं पुरुषस्थानीयां कृत्वा तया विहरेत् ॥ २९ ॥
करणानीष्टकानां पुरुषस्य पञ्चमेन कारयेत् ॥ २५.३.३० ॥
तासामेकैकतोऽध्यर्धास्तद्द्वितीयम् ॥ ३१ ॥
पुरुषस्य पञ्चमो भाग एकतः प्रादेश एकतस्तत्तृतीयम् ॥ ३२ ॥
सर्वतः प्रादेशस्तच्चतुर्थꣳ समचतुरश्राः पञ्चदशभागीयास्तत्पञ्चमम् ॥ ३३ ॥
ऊर्ध्वप्रमाणमिष्टकानाम् ॥ (ख०१०)॥ जानोः पञ्चमेन कारयेत् ॥ ३४॥
अर्धेन नाकसदां पञ्चचोडानां च ॥ ३५॥
यत्पच्यमानानां प्रतिह्रसेत्पुरीषेण सत्संपूरयेत् ॥३६॥
अनियतपरिमाणत्वात्पुरीषस्य ॥ ३७॥
उपधानेऽध्यर्धा दश पुरस्तात्प्रतीचीरात्मन्युपदध्यात् ।। ३८॥
दश पश्चात्प्राचीः ॥ ३९ ॥
पञ्च पञ्च पक्षाग्रयोः पक्षाप्यययोश्च विशयास्तासामर्धेष्टकामात्राणि पक्षयोर्भवन्ति ।। २५.३.४०॥
पञ्च पञ्च पुच्छपार्श्वयोर्दक्षिणाः । उदीचीश्च पुच्छे प्रादेशमुपधाय ॥ ४१ ।।
सर्वमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ॥ ४२ ॥
पञ्चदशभागीयाभिः संख्यां पूरयेत् ॥ ४३ ॥
अपरस्मिन्प्रस्तारेऽध्यर्धा दश दक्षिणत उदीचीरात्मन्युपदध्याद्दशोतरतो दक्षिणाः ॥४४॥
यथा प्रथमे प्रस्तारे पक्षौ तथा पुच्छम् । यथा पुच्छं तथा पक्षौ । विपरीताऽपयये ॥ ४५ ॥
सर्वमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् । पञ्चदशभागीयाभिः संख्यां पूरयेत् ॥ ४६ ॥
व्यत्यासं चिनुयाद्यावतः प्रस्ताराꣳश्चिकीर्षेत् ॥४७॥
पञ्च चितयो भवन्ति पञ्चभिः पुरीषैरभ्यूहतीति विज्ञायते । पुरीषान्ता चितिरर्थान्तरत्वात्पुरीषस्य ॥४८॥
जानुदघ्नं सहस्रं चिन्वीत प्रथमं चिन्वानः॥४९॥
नाभिदघ्नं द्विषाहस्रं द्वितीयम् ॥ २५.३.५० ॥
आस्यदघ्नं त्रिषाहस्रं तृतीयम् ॥ ५१ ॥
उत्तरमुत्तरं ज्यायाꣳसं महान्तं बृहन्तमपरिमितं स्वर्गकामश्चिन्वीतेति विज्ञायते ॥ ५२ ॥
द्विषाहस्रे द्विप्रस्ताराश्चितयो भवन्ति । त्रिषाहस्रे त्रिप्रस्ताराः । चतुर्थप्रभृत्याहारेषु नित्यमिष्टकापरिमाणम् ॥ ५३॥
विज्ञायते च न ज्यायाꣳसं चित्वा कनीयाꣳसं चिन्वीतेति ॥ ५४॥ (ख० ११)॥
इति सत्याषाढहिरण्यकशिसूत्रे पश्चविंशप्रश्ने तृतीयः पटलः ।।
25.4
अथ चतुर्थः पटलः।
चतुरश्राभिरग्निं चिनुत इति विज्ञायते ॥ १॥
समचतुरश्रा अनुपपदत्वाच्छब्दस्य ॥ २ ॥
पादमात्र्यो भवन्ति । अणूकमात्र्यो भवन्ति । ऊर्वस्थिमात्र्यो भवन्ति । अरत्निमात्र्यो भवन्ति । प्रादेशमात्र्यो भवन्तीति विज्ञायते ॥ ३॥
चतुर्भागीयाऽणूकं । पञ्चमभागीयाऽरत्निस्तथोर्वस्थि ॥ ४ ॥
पादेष्टका पादमात्री । तत्र याथाकामी शब्दार्थस्य
विशयित्वात् ॥ ५॥
उपधानेऽष्टावष्टौ पादेष्टकाश्चतुर्भागीयानां पक्षाग्रयोर्निदध्यात् ॥ ६॥
संध्योश्च तद्वदात्मानं षडङ्गुलोपे(लावे)ताः ॥ ७॥
श्रोण्यꣳसेऽष्टौ प्राचीः प्रतीचीश्च ॥ ८॥
संध्यन्तराले पश्चमभागीयाः सपादाः ॥९॥
पुच्छे प्रादेशमुपधाय ॥ २५.४.१० ॥
सर्वमग्निं चतुर्भागीयाभिः प्रच्छादयेत् ॥ ११ ॥
पादेष्टकाभिः संख्यां पूरयेत् ॥ १२ ॥
अपरस्मिन्प्रस्तारे पुच्छाप्यये पञ्चमभागीया विशयाः॥१३॥
ता आत्मनि चतुर्दशभिः पादैर्यथायोगं पर्युपदध्यात् ॥१४॥
सर्वमग्निं पञ्चमभागीयाभिः प्रच्छादयेत्पादेष्टकाभिः संख्यां पूरयेत् ॥ १५ ॥
व्यत्यासं चिनुयाद्यावतः प्रस्ताराꣳश्चिकीर्षेत् ॥ १६ ॥ (ख० १२)।
एकविधप्रभृतीनां करणीं द्वादशेन त्रयोदशेन वेष्टकाः कारयेत् ॥ १७ ॥
पादेष्टकाश्च ॥ १८ ॥
व्यत्यासं चिनुयाद्यावतः प्रस्ताराꣳश्चिकीर्षेत् ॥ १९ ॥
एकविधप्रभृतीनां प्रथमाहारेण द्वितीयेन तृतीयेन यो युज्येत सर्वेषां यथाश्रुति संख्या तथोर्ध्वप्रमाणम् ॥ २५.४.२० ॥
काम्या गुणविकारा गुणशास्त्रत्वात् ॥ २१ ॥
प्रउगचितं चिन्वीत भ्रातृव्यवानिति विज्ञायते ॥२२॥
शकटाकृतिर्भवति ॥ २३ ॥
यावानग्निः सारत्निप्रादेशो द्विस्तावतीं भूमिं चतुरश्रां कृत्वा ॥२४॥
पूर्वस्याः करण्या अर्धाच्छ्रोणी प्रत्यालिखेत्सा नित्या प्रउगम् ॥२५॥
करणानि चयनमित्येकविधोक्तम् ॥ २६ ॥
प्रउगा इष्टकाः कारयेत् ॥ २७॥
उभयतः प्रउगं चिन्वीत यः कामयेत सजातान् भ्रातृव्यान्नुदेय प्रतिजनिष्यमाणानिति विज्ञायते । उभयतः शकटाकृतिर्भवति ॥ २८ ॥
यथा विमुखे शकटे तदेतदेव दीर्घचतुरश्रं विहृत्य पूर्वापरयोः करण्योरर्थात्तावति दक्षिणोत्तरयोर्निपातयेत्सा नित्योभयतः प्रउगः ॥ २९ ॥
प्रउगचितोक्त उभयतः प्रउगा इष्टका: कारयेत् ।। २५.४.३० ॥
रथचक्रचितं चिन्वीत भ्रातृव्यवानिति विज्ञायते । परिमण्डलो भवति ॥ ३१ ॥
यावानग्निः सारत्निप्रादेशस्तावती भूमिं परिमण्डलां कृत्वा ॥ ३२॥
तस्मिꣳश्चतुरश्रमवदध्याद्यावत्संभवेत् ॥ ३३ ॥
तस्य करण्या द्वादशेनेष्टकाः कारयेत्तासाꣳ षट् प्रधावुपधाय शेषमष्टधा विभजेत् ॥ ३४ ॥
उपधाने चतुरश्रस्यावान्तरदेशान्प्रति स्रक्तीः संपादयेत् । मध्यानीतरस्मिन्प्रस्तारे व्यत्यासं चिनुद्यावतः प्रस्ताराꣳश्चिकीर्षेत् ॥ ३५ ॥ (ख० १३) ।।
द्रोणचितं चिन्वीतान्नकाम इति विज्ञायते ॥ ३६ ॥
सर्वस्या भूमेर्दशमं त्सरुः ॥ ३७ ॥
तस्य पुच्छेन निह्रास( निर्हार ) उक्तः ॥ ३८ ॥
तस्य करण्या द्वादशेनेष्टकाः कारयेत् ॥ ३९ ॥
अध्यर्धाः पादेष्टकाश्च ॥ २५.४.४० ॥
उपधानेऽध्यर्धाः पुरस्तात् प्रतीचीरात्मन्युपदध्यात्सर्वग्रे श्रोण्योश्च प्राचीः सर्वमग्निं चतुरश्राभिः प्रच्छादयेत्। पादेष्टकाभिः संख्यां पूरयेत् । अपरस्मिन्प्रस्तारेऽध्यर्धा दश दक्षिणत उदीचीरात्मन्युपदधाति । उत्तरतश्च दक्षिणा त्सरुपार्श्वयोर्दक्षिणा उदीचीश्च सर्वमग्निं चतुरश्राभिः प्रच्छादयेत् । पादेष्टकाभिः संख्यां पूरयेत् । व्यत्यासं चिनुयाद्यावतः प्रस्ताराश्चिकीर्षेत् ॥ ४१॥
समूह्यं चिन्वीत पशुकाम इति विज्ञायते ॥ ४२ ॥
समूहन्निवेष्टका उपदधाति ॥ ४३ ॥
दिक्षु चात्वालावटान्खात्वा तेभ्यः पुरीषमभ्यूहतीत्येकेषाम् ॥ ४४ ॥
परिचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते ॥ ४५ ॥
मध्यमाꣳ स्वयमातृण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति स परिचाय्यः ॥४६॥
उपचाय्यं चिन्वीत पशुकाम इति विज्ञायते ॥४७॥
परिचाय्येनोक्तः श्मशानचितं चिन्वीत यः कामयेत पितृलोक ऋध्नुयामिति विज्ञायते ॥ ४८ ॥
द्वयानि खलु श्मशानचितानि चतुरश्राणि परिमण्डलानि च तत्र याथाकामी शब्दार्थस्य च विशयित्वात् ।। ४९॥
चतुरश्रं वा यस्य गुणशास्त्रं च चतुरश्रः ।। २५.४.५०॥
त्सरुवर्जं द्रोणचितोक्तः ॥५१॥
छन्दश्चितं चिन्वीत पशुकाम इति विज्ञायते ॥ ५२ ॥
सर्वैश्छन्दोभिश्चिनुयादित्येकम् । प्राकृतैरित्यपरम् ॥ ५३ ॥ ( ख० १४)॥
इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चविंशप्रश्ने चतुर्थः पटलः ।
25.5
अथ पञ्चमः पटलः ।
श्येनचितं चिन्वीत स्वर्गकाम इति विज्ञायते ॥ १॥
वक्रपक्षो व्यस्तपुच्छः श्येनाकृतिर्भवति ॥२॥
पश्चात्प्राङुदूहति ॥ ३॥
पुरस्तात्प्रत्यङ्ङुदूहति ॥४॥
एवमिव हि वयसां मध्ये पक्षिनिर्णामो भवतीति विज्ञायते ॥ ५॥
यावानग्निः सारत्निप्रादेशः सप्तविधः संपद्यते ॥६॥
प्रादेशश्चतुर्थमात्मनश्चतुर्भागीयाश्चाष्टौ ॥ ७॥
तासां तिस्रः शिरः ॥८॥
इतरत्पक्षयोर्विभजेत् ॥ ९॥
पञ्चारत्निः पुरुषः ॥२५.५.१०॥
चतुररत्निर्व्यायामश्चतुर्विꣳशत्यङ्गुलयोऽरत्निः ॥ ११ ॥
तदर्धं प्रादेश इति क्लृप्तिः ॥ १२ ॥
अर्धदशमा अरत्नयोऽङ्गुलिश्चतुर्भागोना पक्षायामः ॥ १३॥
द्विपुरुषाꣳ रज्जुमुभयतःपाशां करोति ॥ १४ ॥
मध्ये लक्षणम् ॥ १५॥
पक्षस्यापरयोः कोट्योरन्तो नियम्य लक्षणेन प्राचीनमायच्छेदेवं पुरस्तात्सनिर्णाम एतेनोत्तरः पक्षो व्याख्यातः ॥ १६ ॥
आत्मा द्विपुरुषायामोऽध्यर्धपुरुषव्यासः॥ १७॥
पुच्छेऽर्धपुरुषव्यासं पुरुषं प्रतीचीनमायच्छेत् ॥ १८ ॥
तस्य दक्षिणतोऽन्यमुत्तरतश्च ॥ १९॥
तावक्ष्णयाऽऽलिखेद्यथाऽर्धपुरुषोऽप्यये स्यात् ॥ २५.५.२० ॥
शिरस्यर्धपुरुषेण चतुरश्रं कृत्वा पूर्वस्याः करण्या अर्धात्ताविति दक्षिणोत्तरयोर्निपातयेत् ॥ २१॥
अप्ययान्प्रति श्रोण्यꣳसानपच्छिन्द्यात् ॥ २२ ॥ (ख. १५)॥
एवमिव हि श्येनम् ॥ २३ ॥
करणं पुरुषस्य पञ्चमायामꣳ षष्ठं व्यासं कारयेद्यथायोगनतं तत्प्रथमम् ॥ २४॥
ते द्वे प्राची सꣳहिते तद्द्वितीयम् ॥ २५॥
प्रथमस्य षड्भागमष्टभागेन वर्धयेद्यथायोगनतं तत्तृतीयम् ॥ २६॥
चतुर्भागीयाऽध्यर्धा तस्याश्चतुर्भागीयामात्रमक्ष्णया भिन्द्यात्तच्चतुर्थम् ॥ २७॥
चतुर्भागीयार्धं पञ्चमम् ॥ २८ ॥
तस्याक्ष्णया भेदः षष्ठम् ॥ २९॥
पुरुषस्य पञ्चमभागं दशभागं व्यासं प्रतीचीनमायच्छेत् । तस्य दक्षिणतोऽन्यमुत्तरतश्च तावक्ष्णया दक्षिणापरयोः कोट्योरालिखेत्तत्सप्तमम् ।। २५.५.३ ०।।
एवमन्यदुत्तरं ज्ञेयं तूत्तरस्याः कोट्या आलिखेत्तदष्टमम् ।। ३१ ।।
चतुर्भागीयाक्ष्णयोभयतो भेदो नवमम् ।। ३२
उपधाने षष्टिः षष्टिः पक्षयोः प्रथमा उदीचीर्निदध्यात् । ३३ ।।
पुच्छपार्श्वयोरष्टावष्टौ षष्ठ्यः ।। ३४ ।। (ख०१६) ।।
तिस्रोऽग्रे तत एकां ततस्तिस्रस्तत एकाम् ।। ३५ ।।
पुच्छाप्यये चतुर्थ्यौ विशये ।। ३६ ।।
तयोश्च पश्चात्पञ्चम्यावनीकसꣳहिते ।। ३७ ।।
शेषे दश चतुर्थ्यः ।। ३८ ।।
श्रोण्यꣳसेष्वष्टौ प्राचीः प्रतीचीश्च ।। ३९ ।।
शेषे च षड्विꣳशतिरष्टौ षष्ठ्यश्चस्रश्चतस्रः पञ्चम्यः ।। २५.५.४० ।।
शिरसि चतुर्थ्यौ विशये (तिर्यक्) तयोश्च पुरस्तात्प्राच्यौ ॥४१॥
एष द्विशतः प्रस्तारः॥४२॥
अपरस्मिन्प्रस्तारे पक्षनिर्नामयोः पञ्च पञ्च द्वितीयाः ॥४३॥
अध्वर्योश्च तृतीया आत्मानमष्टभागाचेताः ॥४४॥
शेषे पञ्चचत्वारिंशत्पञ्चचत्वारिंशत्प्रथमाः प्राचीर्निदध्यात् ।। ४५॥
पुच्छपार्श्वयोः पञ्च पञ्च सप्तम्योः ॥ ४६ ॥
द्वितीयचतुर्थ्योश्चान्यतरतः प्रतिसꣳहितामेकैकाम् ॥४७॥
शेषे त्रयोदशाष्टम्यः ॥ ४८॥
श्रोण्यꣳसेष्वष्टौ चतुर्थ्यो दक्षिणा उदीचीश्च ।। ४९ ॥
शेषे च विꣳशतिस्त्रिꣳशत्षष्ठ्य एकां पञ्चमीम् ॥ २५.५.५० ॥
शिरसि चतुर्थ्यौ तयोश्च पुरस्ताच्चतस्रो नवम्यः॥५१॥
एष द्विशतः प्रस्तारः ॥ ५२ ॥
व्यत्यासं चिनुयाद्यावतः प्रस्ताराꣳश्चिकीर्षेत् ॥५३॥ (ख० १७)॥
इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चविंशप्रश्ने पञ्चमः पटलः ॥
25.6
अथ षष्ठः पटलः।
श्येनचितं चिन्वीत स्वर्गकाम इति विज्ञायते ॥ १ ॥
वक्रपक्षो व्यस्तपुच्छः श्येनाकृतिर्भवति ॥२॥
पश्चात्प्राङुदूहति ॥ ३॥
पुरस्तात्प्रत्यङ्ङुदूहति ॥ ४ ॥
एवमिव हि वयसां मध्ये पक्षनिर्णामो भवतीति विज्ञायते ॥ ५॥
पुरुषस्य षोडशीभिर्विꣳशꣳ शतꣳ सारत्निप्रादेशः सप्तविधः संपद्यते । तासां चत्वारिꣳशदात्मनि तिसः शिरसि पञ्चदश पुच्छ एकत्रिꣳशद्दक्षिणे पक्षे । तथोत्तरे ॥६॥
अध्यर्धपुरुषास्तिर्यग्द्वावायामत इति दीर्घचतुरश्रं विहृत्य श्रोण्यꣳसेभ्यो द्वे द्वे षोडश्यौ निरस्येत् ॥ ७॥
चत्वारिꣳशत्परिशिष्यन्ते । स आत्मा शिरस्यर्धपुरुषेण चतुरश्रं कृत्वा पूर्वस्याः करण्या अर्धात्तावति दक्षिणोत्तरयोर्निपातयेत् ॥ ८॥
तिस्रः परिशिष्यन्ते तच्छिरः ॥ ९॥
पुरुषस्तिर्यग्द्वावायामतः षोडशभागश्च दक्षिणः पक्षः ॥९॥
तथोत्तरः ( पक्षः ) पक्षाग्रे पुरुषचतुर्थेन चत्वारि चतुरश्राणि कृत्वा तान्यक्ष्णया व्यवलिख्यार्धानि निरस्येत् ॥ ११ ॥
एकत्रिꣳशत्परिशिष्यन्ते ॥ १२ ॥
पक्षाग्रमुत्सृजन्मध्ये पक्षस्य प्राचीं लेखामालिखेत् ॥ १३ ॥
पक्षाप्यये पुरुषं नियम्य लेखायां पुरुषान्ते नितोदं कुर्यान्नितोदात् प्राचीनं पुरुषान्ते नितोदयोर्नानान्तावालिखेत्तत्संनमनम् ॥ १४ ॥
एतेनोत्तरः पक्षो व्याख्यातः ॥ १५॥
द्विपुरुषं पश्चादर्धपुरुषं पुरस्ताच्चतुर्भागोनः पुरुष आयामोऽष्टादश करण्यौ पार्श्वयोस्ताः पञ्चदश परिगृह्णन्ति तत्पुच्छम् ॥ १६ ॥
षोडशीं चतुर्भिः परिगृह्णीयात् ॥ १७॥ (ख० १८)॥
अष्टमेन त्रिभिरष्टमैश्चतुर्थेन चतुर्थम(स)विशेषेणेति ॥१८॥
अर्धेष्टकां त्रिभिः ॥ १९॥
द्वाभ्यां चतुर्थाभ्यां चतुर्थसविशेषेणेति ॥ २५.५.२० ॥
पादेष्टकां त्रिभिः ॥ २१ ॥
चतुर्थेनैकं चतुर्थसविशेषाभ्यां चेति ॥ २२॥
पक्षेष्टकां चतुर्भिः ॥ २३ ॥
द्वाभ्यां चतुर्भ्यां सप्तमाभ्यां च ॥२४॥
पक्षमध्यभ्यां( मध्यीयां )चतुर्भिः ॥२५॥
द्वाभ्यां चतुर्थाभ्यां द्विसप्तमाभ्यां चेति ॥२६॥
पक्षाग्रीयां त्रिभिः ॥ २७ ॥
चतुर्थेनैकम् । चतुर्थसप्तमाभ्यामेकम् । चतुर्थ सविशेषसप्तमाभ्यां चेति ॥ २८ ॥
पक्षकरण्याः सप्तमं तिर्यङ्मानी पुरुषचतुर्थं च पार्श्वमानी तस्याक्ष्णयारज्ज्वा करणं प्रजृम्भयेत् ॥ २९ ॥
पक्षनमन्याः सप्तमेन फलकानि नमयेत् ॥ २५.५.३०॥
उपधाने चतस्रः पादेष्टकाः पुरस्ताच्छिरसि ॥ ३१ ॥
अपरेण शिरोप्ययं पञ्च ॥ ३२ ॥
पूर्वेण पक्षाप्ययावेकादशापरेण ॥ ३३ ॥
एकादश पूर्वेण ॥ ३४ ॥
पुच्छाप्ययं पञ्चापरेण पञ्च ॥ ३५॥
पञ्चदश पुच्छाग्रे ॥ ३६॥
चतस्रश्चतस्रः पक्षाग्रीयाः पक्षाग्रयोः॥ ३७॥
पक्षाप्यययोश्च विशयाः ॥ ३८॥
आत्मनि चतसृभिश्चतसृभिः षोडशभिर्यथायोगं पर्युपदध्यात् ॥ ३९ ॥
चतस्रश्चतस्रः पक्षमध्यीयाः॥२५.५.४०॥
पक्षमध्ययोः पक्षेष्टकाभिः प्राचीभिः पक्षौ प्रच्छादयेत् ॥ ४१ ॥
अवशिष्टं षोडशभिः प्रच्छादयेत् ॥४२॥
अन्त्या बाह्या विशेषाः॥४३॥
अन्यत्र शिरसः॥४४॥
अपरस्मिन्प्रस्तारे पुरस्ताच्छिरसि द्वे षोडश्यौ बाह्यविशेष उपदध्यात् ॥ ४५ ॥
ते अपरेण द्वे विशये ॥ (ख० १९ ) ॥ अभ्यन्तरविशेषे ॥ ४६॥
द्वाभ्यामर्धेष्टकाभ्यां यथायोगं पर्युपदध्यात् ॥४७॥
बाह्या(ह्य)विशेषाभ्यां परिगृह्णीयात् ॥ ४८ ॥
आत्मकरणीनाꣳ संधिषु षोडश्यो बाह्यविशेषा उपदध्यात् ॥ ४९ ॥
चतस्रश्चतस्रोऽर्धेष्टकाः पक्षाग्रयोः ॥ २५.५.५० ॥
पक्षेष्टकाभिरुदीचीभिः पक्षौ प्रच्छादयेत् ॥५१॥
तिस्रस्तिस्रोऽर्धेष्टकाः पुच्छपार्श्वयोः ॥ ५२ ॥
अवशिष्टꣳ षोडशीभिः प्रच्छादयेत् ॥ ५३ ॥
अन्त्या बाह्यशेषा अन्यत्र पुच्छात् ॥ ५४॥
यच्चतुरश्रं त्र्यश्रि वा संपद्येतार्धेष्टकाभिः पादेष्टकाभिर्वा तत्प्रच्छादयेत् ॥ ५५ ॥
पादेष्टकाभिः संख्यां पूरयेत् ॥ ५६ ॥
अणूकाः पञ्चदश भागीयानां स्थाने ॥ ५७॥
व्यत्यासं चिनुयाद्यावतः प्रस्ताराꣳश्चिकीर्षेत् ॥ ५८ ॥
कङ्कचिदलजचिदिति श्येनचिता व्याख्यातौ ॥ ५९॥
एवमिव श्येनस्य वर्षीयाꣳसौ पक्षौ पुच्छाद्वक्रौ संनतं पुच्छ दीर्घ आत्माऽमण्डलः शिरश्च॥ २५.५.६०॥
तस्माच्छ्रुतिसामर्थ्यात् ॥ ६१ ॥
अशिरस्को वा ॥ ६२ ॥
अनाम्नानात् ॥ ६३ ॥
विज्ञायते च कङ्कचितꣳ शीर्षण्वन्तं चिन्वीत। य: कामयेत सशीर्षाऽमुष्मिꣳल्लोके संभवेयमिति विद्यमाने कथं ब्रूयात् ।। ६४ ॥
प्राकृतौ वक्रौ पक्षौ संनतं पुच्छं विकारश्रवणात् ॥ ६५॥
यथाप्रकृत्यात्माऽविकारात् ।। ६६ ॥
त्रिस्तावोऽग्निर्भवतीत्यश्वमेधे विज्ञायते। तत्र सर्वाभ्यासोऽविशेषात् ॥ ६८ ॥
दीर्घचतुरश्राणाꣳ समासेन पक्षपुच्छानाꣳ समास उक्तः ॥ ६९ ॥
एकविꣳशोऽग्निर्भवतीत्यश्वमेधे विज्ञायते ॥ २५.५.७० ॥
तत्र पुरुषाभ्यासो नारत्निप्रादेशानाꣳ संख्यासंयोगात्संख्यासंयोगात् ॥ ७१ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चविंशप्रश्ने षष्ठः पटलः प्रश्नश्च ।