कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः २०
← प्रश्नः १९ | कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम् प्रश्नः २० हिरण्यकेशिः/सत्याषाढः |
प्रश्नः २१ → |
20.1
अथ विंशतितमप्रश्ने प्रथमः पटलः ।
अथातः सीमन्तोन्नयनम् ॥ १॥
प्रथमगर्भायाश्चतुर्थे मास्यापूर्यमाणपक्षे पुण्ये नक्षत्रेऽग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा धाता ददातु नो रयिमिति चतस्रो धात्रीर्जुहोति ॥ २ ॥
इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचमिति चात्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथापुरस्ताद्ब्राह्मणानन्नेन परिविष्य पुण्याहꣳ स्वस्त्ययनमृद्धिमिति वाचयित्वा स्नातां प्रयतवस्त्रामलंकृतां ब्राह्मणसंभाषामपरेणाग्निं मण्डलागारे प्राचीमुपवेश्य त्रेण्या शलल्या शलालुग्रप्समुपसंगृह्य पुरस्तात्प्रत्यङ्तिष्ठन्व्याहृतिभी राकामहं यास्ते राक इति द्वाभ्यामूर्ध्वꣳ सीमन्तमुन्नीयाभिमन्त्रयते ॥ सोम एव नो राजेत्याहुर्ब्राह्मणीः प्रजा निवृत्तचक्रा आसीनास्तीरे तुभ्यं गङ्गे विश्वा उत त्वया वयं धारा उदन्या इव ॥ अतिगाहेमहि द्विष इति ॥ (ख० १)॥३॥
अथातः पुंसवनम् ॥ ४ ॥
तृतीये मास्यापूर्यमाणपक्षे पुण्ये नक्षत्रेऽग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा धाता ददातु नो रयिमिति चतस्रो धात्रीर्जुहोतीयं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरिरीचमिति चात्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति यथापुरस्ताद्ब्राह्मणानन्नेन परिविष्य पुण्याहꣳ स्वस्त्ययनमृद्धिमिति वाचयित्वा स्नातां प्रयतवस्त्रामलंकृतां ब्राह्मणसंभाषामपरेणाग्निं मण्डलागारे प्राचीमुपवेश्य वृषाऽसीति तस्या दक्षिणे पाणौ यवमादधाति ॥ ५ ॥
आण्डौ स्थ इत्यभितो यवꣳ सर्षपौ धान्यमाषौ वा ॥ ६॥
श्वावृत्तदिति दधिद्रप्सं तदेनां प्राशयति ॥ ७ ॥
आचान्ताया उदरमभिमृशत्यभिष्ट्वाऽहं दशभिरभिमृशामि दशमास्याय सूतवा इति ॥ ८ ॥
न्यग्रोधशृङ्गं वा घृतेन कोशकारीं वा प्रैयङ्गवेण संयावेन यूपशकलं वोत्तरपूर्वस्याग्निष्ठाश्रेरग्निं वा निर्मन्थ्यमूरुमूलोपधानायै दक्षिणे नासिकाछिद्रे प्रणयेत् ॥ ९॥
यदि गर्भः स्रवेदार्द्रेणास्याः पाणिना त्रिरूर्ध्वं नाभेरुन्मार्ष्टि पराञ्चं त्वा नार्वाञ्चं त्वष्टा बध्नातु बन्धने । स ऋतूनुपवेश्य दशमासो अवीरहेति ॥ २०.१.१० ॥
विजननकाले क्षिप्रप्रसवनꣳ शिरस्तं उदकुम्भं निधाय पत्तस्तूर्यन्तीमथास्या उदरमाभिमृशति । (ख० २ ) ॥ यथैव वायुः पवते यथा समुद्र एजति । एवं ते गर्भ एजतु सह जरायुणाऽवसर्पत्वित्यवाङवमार्ष्टि ॥ ११ ॥
जातेऽश्मनि परशुं निधायोपरिष्टाद्धिरण्यं तेषूत्तराधरेषूपरिष्टात्कुमारं प्राञ्चं धार्यमाणमनुमन्त्रयते । अश्मा भव परशुर्भव हिरण्यमस्तृतं भव । वेदो वै पुत्रनामाऽसि जीव त्वꣳ शरदः शतम् । अङ्गादङ्गात्संभवसि हृदयादधि जायसे । आत्मा वै पुत्रनामाऽसि जीव त्वꣳ शरदः शतमिति ॥ १२ ॥
यद्यपरा न पतेदञ्जलिनोदकमादाय मूर्धानमस्यावसिञ्चोत्तिलदेव पद्यस्व न माꣳसमसि नो दलमवपद्यस्व स्वपथादिति ।। १३ ॥
उपनिर्हरन्त्यौपासनमतिहरन्ति सूतिकाग्निम् ॥ १४ ॥
स एष उत्तपनीय एव ॥ १५ ॥
नास्मिन्किंचन कर्म क्रियतेऽन्यत्रोद्धूपनात् ॥ १६॥
अथैनं कणैः सर्षपमिश्रैरुद्धूपयति शण्डो मर्क उपवीरः शाण्डीकेर उलूखलः । च्यवनो नश्यतादितः स्वाहा । आलिखन्विलिखन्ननिमिषन्किं वदन्त उपश्रुतिः स्वाहा । अर्यम्णः कुम्भीशत्रुः पात्रपाणिर्निपुणिः स्वाहा । आन्त्रीमुखः सर्षपारुणो नश्यतादितः स्वाहा । केशिनी श्वलोमिनी बजाबोजोपकाशिनी । अपेत नश्यतादितः स्वाहा । कौवेरका विश्ववासो रक्षोराजेन प्रेषिताः । ग्रामान्सजातयो यन्तीप्सन्तः परिजाकृतान्स्वाहा । एतान्हतैतान्बध्नीतेत्ययं ब्रह्मणो दूतस्तानग्निः पर्यसरत् । तानिन्द्रस्तान्बृहस्पतिस्तानहं वेद ब्राह्मणः प्रमृशतः कूटदन्तान्विकेशाँल्लम्बस्तनान्स्वाहा । नक्तंचारिण उरस्पेशाच्छू(न्स्थू)लहस्तान् कपालपान्स्वाहा । पूर्व एषां पितेत्युच्चैः श्राव्यकर्णकः । माता जघन्या गच्छन्ति(न्ती) ग्रामे विखुरमिच्छन्ती स्वाहा । नक्तंचारिणी स्वसा संधिना प्रेक्ष्यते कुलम् । या स्वपत्सु जागर्ति तस्यै विजातायां मनः स्वाहा | तासां त्वं कृष्णवर्त्मने क्लोमान९ꣳ हृदयं यकृत् । अग्ने यक्षीणि निर्दह स्वाहेति प्रतिमन्त्रमङ्गारेष्वावपति।।१७।।
ततः पाणी प्रक्षाल्य भूमिमालभते यत्ते सुशीमे हृदयं दिवि चन्द्रमसि श्रितम् । तथाऽमृतत्वस्येशानो माऽहं पौत्रमघꣳ रुदम् । वेद ते भूमिहृदयं दिवि चन्द्रमसि श्रितम् । तथाऽमृतत्वस्येशानो माऽहं पौत्रमघꣳ रुदमिति ॥ १८ ॥
अथातो मेधाजननं दर्भेण हिरण्यं प्रबध्य तदन्तर्धायोपरिष्टात्प्राञ्चं कुमारं धार्यमाणं घृतं प्राशयति भूर्ऋचस्त्वयि जुहोमि स्वाहा भुवो यजूꣳषि त्वयि जुहोमि स्वाहा सुवः सामानि त्वयि जुहोमि स्वाहा भूर्भुवः सुवरथर्वाङ्गिरसस्त्वयि जुहोमि स्वाहेति ॥ १९॥
अथोष्णशीताभिरद्भिः स्नापयति क्षेत्रियै त्वा निर्ऋत्यै त्वा द्रुहो मुञ्चामि वरुणस्य पाशात् । अनागसं ब्रह्मणे त्वा करोमि शिवे ते द्यावापृथिवी उभे इमे । शं ते अग्निः सहाद्भिरस्तु शं द्यावापृथिवी सहौषधीभिः । शमन्तरिक्षꣳ सह वातेन ते शं ते चतस्रः प्रदिशो भवन्तु । सूर्यमृतं तमसोग्राह्या यद्देवा अमुञ्चन्नसृजन्व्येनसः। एवमहमिमं क्षत्रियाज्जामिशꣳसाद्द्रुहो मुञ्चामि वरुणस्य पाशादिति ॥ २०.१.२० ॥
अथैनं मातुरुपस्थ आदधाति । (ख० ३)। या दैवीश्चतस्रः प्रदिशो वातपत्नीरभिसूर्यो विचष्टे । तासां त्वा जरस आदधामि प्रयक्ष्म एतु निर्ऋतिं पराचैरिति ।। २१ ॥
आधायाभिमन्त्रयते मा ते पुत्रꣳ रक्षो हिꣳसीन्मा धेनुरतिसारिणी । प्रिया धनस्य भूया एधमाना स्वे वश इति ॥ २२ ॥
प्रक्षाल्य दक्षिणꣳ स्तनमाधापयत्ययं कुमारो जरां धयतु सर्वमायुरेतु तस्मै स्तनं प्रप्यायस्वाऽऽयुः कीर्तिर्वर्चो यशो बलमिति ॥ २३ ॥
एवमुत्तरम् ॥२४॥
नामयति न रुदति यत्र वयं वदामो यत्र वाभिमृशामसीत्युभावभिमृश्याथास्यै शिरस्त उदुकुम्भमपिहितं निदधात्यापो गृहेषु जाग्रत यथा देवेषु जाग्रत एवमस्यै सुपुत्रायै जाग्रतेति ॥ २५ ॥
द्वादश्यां मातापुत्रौ स्नातः ॥ २६ ॥
शुच्यगारं कुर्वन्ति ॥ २७॥
उपनिर्हरन्ति सूतिकाग्निमतिहरन्त्यौपासनम् ।। २८ ।।
तमुपसामाधाय व्याहृतिपर्यन्तं कृत्वा धाता ददातु नो रयिमिति द्वादशाऽऽहुतीर्जुहोति त्रयोदशेत्येकेषाम् ॥ २९ ।।
इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचमिति चात्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति यथापुरस्ताद्ब्राह्मणानन्नेन परिविष्य पुण्याहꣳ स्वस्त्ययनमृद्धिमिति वाचयित्वा पुत्रस्य नाम दध्याद्द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तःस्थं दीर्घाभिनिष्टानान्तं यत्र वा स्वित्युपसर्गः स्यात्तद्धि प्रतिष्ठितमिति विज्ञायते पिता मातेत्यग्रेऽभिव्याहरेयातां विज्ञायते च मम नाम प्रथमं जातवेद इति ।। २०.१.३०॥
द्वे नामनी कुर्याद्विज्ञायते च तस्माद्द्विनामा ब्राह्मणोऽर्धुक इति ॥ ३१ ॥
नक्षत्रनाम द्वितीयꣳ स्यात् ॥ ३२ ॥
अन्यतरद्गुह्यꣳ स्यादन्यतरेणैनमामन्त्रयेरन् ॥ ३३ ॥
सोमयाजीति तृतीयं नाम कुर्वीतेति विज्ञायते ॥ ३४ ॥
प्रवासादेत्याऽऽगतं वा पुत्रमभिमृशति सोमस्य त्वा द्युम्नेनाभिमृशाम्यग्नेस्तेजसा सूर्यस्य वर्चसेति ॥ ३५ ॥
पशूनां त्वा हुंकारेणाभिजिघ्राम्यसावायुषे वर्चसे हुतमिति मूर्ध्न्यभिजिघ्र्य ॥ ३६॥ अथास्य दक्षिणेन हस्तेन दक्षिणꣳ हस्तꣳ साङ्गुष्ठं गृह्णात्यग्निरायुष्मानिति पञ्चभिः पर्यायैरायुष्टे विश्वतो दधदिति दक्षिणे कर्णे जपति यथापुरस्तात् ॥ (ख० ४ ) ॥ ३७॥
अथ षष्ठे मास्यन्नप्राशनम् ।। ३८॥
आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोतीमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचमिति चात्रैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति यथा पुरस्ताद्ब्राह्मणानन्नेन परिविष्य पुण्याहꣳ स्वत्स्त्ययनमृद्धिमिति वाचयित्वा ॥ ३९॥
अथैनं दधि मधु घृतमिति त्रिवृत्प्राशयति । भूस्त्वयि दधामि भुवस्त्वयि दधामि सुवस्त्वयि दधामीति ॥ २०.१.४०॥
अथैनमन्नं प्राशयत्यपां त्वौषधीनाꣳ रसं प्राशयामि शिवास्त आप ओषधयः सन्त्वनमीवास्त आप ओषधयो भवन्त्विति ॥ (ख० ५) ॥४१॥
तृतीये वर्षे चूडाकर्म ॥ ४२ ॥
आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोतीमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचमित्येके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति यथापुरस्ताद्ब्राह्मणानन्नेन परिविष्य पुण्याहꣳ स्वस्त्ययनमृद्धिमिति वाचयित्वाऽपरेणाग्निं प्राङ्मुख उपविशति ॥ ४३ ।।
उत्तरतो माता ब्रह्मचारी वाऽऽनडुहं शकृत्पिण्डं धारयति तेनास्य केशान् प्रतिगृह्णाति ॥ ४४ ॥
अथोष्णशीता अपः सꣳसृजति ॥ ४५ ॥
शीतासूष्णा आनीयाऽऽप उन्दन्तु जीवस इति दक्षिणं गोदानमुनत्ति ॥ ४६॥
ओषधे त्रायस्वैनमित्यूर्ध्वाग्रामोषधिमन्तर्दधाति स्वधिते मैनꣳ हिꣳसीरिति क्षुरेणाभिनिदधाति देवश्रूरेतानि प्रवप इति प्रवपति ॥४७॥
एवमितरान्प्रदक्षिणं येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् । तेन ब्रह्माणो वपतेदमस्योर्जेमꣳ रय्या वर्चसा सꣳसृजाथेति पश्चात् । येन पूषा बृहस्पतेरग्निरिन्द्रस्य चाऽऽयुषेऽवपत् । तेन तेऽहं वपाम्यसावित्युत्तरतो यथा ज्योक्सुमना असत् । ज्योक्च सूर्यं दृश इति पुरस्तात् ॥४८॥
उप्त्वा यथोदितं चूडाः कारयन्ति यथर्षि वा ॥४९॥
संयम्य केशान् । यत्र पूषा बृहस्पतिः सविता सोमो अग्निः । तेभ्यो निधानं बहुधा व्यैच्छन्नन्तरा द्यावापृथिवी अपः सुवरिति गोष्ठ उदुम्बरे दर्भस्तम्बे वा निखनति योऽस्य रातिर्भवति ॥ २०.१.५० ॥
यथाश्रद्धं ब्राह्मणाय ददाति ॥ ५१ ॥
सर्पिष्मन्तमोदनं नापिताय ॥ ५२ ॥
एवं विहितꣳ षोडशे वर्षे गोदानकर्म ॥ ५३ ॥
सशिखं वापयते शिखामत्रावशिनष्टीत्येकेषामाग्निगोदानो वा भवति ॥ ५४॥
गुरवे गां ददाति ॥ ( ख० ६)॥ ५५ ॥
इति सत्याषाढहिरण्यकेशिगृह्यसूत्रे विंशतितमप्रश्ने प्रथमः पटलः ॥
20.2
अथ विंशतितमप्रश्ने द्वितीयः पटलः ।
अथातः श्वग्रहप्रायश्चित्तम् ।।१ ॥
समुपसृजते यज्ञोपवीत्याचान्तोऽनाप्रीतेन शरावेणोदकमाहृत्य सभायां मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युष्य व्यूह्य समूह्य प्रथयित्वोपरिष्टात्सभायां व्यूह्य तृणानि तेन कुमारमभ्याहृत्याक्षेषूत्तानं निपात्य दध्ना लवणोदकमिश्रेणाभ्युक्षत्याघ्नन्ति कꣳसं दक्षिणतः कुर्कुरः सुकुर्कुरः कुर्कुरो नीलबन्धनः। औलव इत्तमुपाह्वयतार्जिमच्छबलो अथो राम उलुम्बरः । सारमेयो ह धावति समुद्रमिव चाकशत् । बिभ्रन्निष्कं च रुक्मं च शुनामग्रꣳ सुवीरिणः । सुवीरिणः सृज सृजैकव्रात्य सृज शुनक सृजच्छत् । टेकश्च ससरमटङ्कश्च तूलश्च वितूलश्च । अर्जुनश्च लोहितश्चोत्सृज त्वꣳ शितिम्न त्वं पिशंकरो हतः । अमी एके सरस्यका अवधावति तृतीयस्यामितो दिवि । छदये हि सीसरम सारमेय नमस्ते अस्तु सीसर । दूत्याह नाम वो माता मण्डाकको ह वः पिता । छदये हि सीसरम सारमेय नमस्ते अस्तु सीसर । दुला ह नाम वो माता मण्डाकको ह वः पिता । छदये हि सीसरम सारमेय नमस्ते अस्तु सीसर । समश्वा वृषणः पदो न सीसरीदतः । छदये हि सीसरम सारमेय नमस्ते अस्तु सीसर। सं तक्षा हन्ति चक्रिणो न सीसरीदतः । छदये हि सीसरम सारमेय नमस्ते अस्तु सीसरेति ॥ २॥
अथ वरं वृणीष्वेति ॥३॥
कुमारमेवाहं वरं वृण इति ॥४॥
एवꣳ समुपसृजते त्रिरह्नः प्रातमध्यंदिने सायं च कुर्याद्यादि चागतः (दः) स्यात् ॥ (ख० ७)॥५॥
इति सत्याषाढहिरण्यकेशिगृह्यसूत्रे विंशतितमप्रश्ने द्वितीयः पटलः।
20.3
अथ विंशतितमप्रश्ने तृतीयः पटलः ।
अथातः शूलगवम् ॥ १॥
आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽग्निमुपसमाधाय परिस्तीर्य पयसि स्थालीपाकꣳ श्रपयित्वाऽभिघार्योद्वास्यापरेणाग्निं द्वे कुटी कृत्वा दक्षिणस्याꣳ शूलगवमावाहयत्या त्वा वहन्तु हरयः सचेतसः श्वेतैरश्वैः सह केतुमद्भिर्वाताजवैर्बलवद्भिर्मनोजवैरा याहि शीघ्रं मम हव्याय शर्वोमिति ॥ २ ॥
उत्तरस्यां मीढुषीम् ।। ३ ॥
मध्ये जयन्तम् ॥ ४ ॥
यथोढमुदकानि प्रदायोपस्तीर्णाभिघारिताँस्त्रीनोदनान्कल्पयित्वेति ।। ५॥
यथोढमेवोपस्पर्शयत्युपस्पृशतु मीढ्वान्मीढुषे स्वाहा । उपस्पृशतु मीढुषी मीढुष्यै स्वाहा । जयन्त उपस्पृशतु जयन्ताय स्वाहेति ॥ ६ ॥
व्याहृतिपर्यन्तं कृत्वौदनानभ्याहृत्य जुहोति भवाय देवाय स्वाहा । रुद्राय देवाय स्वाहा । शर्वाय देवाय स्वाहा। ईशानाय देवाय स्वाहा । पशुपतये देवाय स्वाहा । उग्राय देवाय स्वाहा । भीमाय देवाय स्वाहा । महते देवाय स्वाहेति॥७॥
अथ पत्न्योदनं पत्न्यै जुहोति भवस्य देवस्य पल्यै स्वाहा । रुद्रस्य देवस्य पल्यै स्वाहा । शर्वस्य देवस्य पत्न्यै स्वाहा । ईशानस्य देवस्य पत्न्यै स्वाहा । पशुपतेर्देवस्य पत्न्यै स्वाहा । उग्रस्य देवस्य पत्न्यै स्वाहा । भीमस्य देवस्य पत्न्यै स्वाहा । महतो देवस्य पत्न्यै स्वाहेति ॥८॥
अथ मध्यमौदनस्य जुहोति जयन्ताय स्वाहा जयन्ताय स्वाहेति ॥ ९॥
अथ सर्वेभ्य ओदनेभ्यः समवदाय सौविष्टकृतीं जुहोति अग्नये स्विष्टकृते स्वाहेति ॥२०.३.१०॥
अभित एतमग्निं गाः स्थापयन्ति यथा हूयमानस्य गन्धमाजिघ्रेयुः स्वस्ति नः पूर्णमुखः परिक्रामतु इति सर्वतः प्रदक्षिणं परिक्रम्य नमस्ते रुद्र मन्यव इत्येतैरनुवाकैरुपतिष्ठते प्रथमोत्तमाभ्यां वा ॥ (ख० ८ ) ॥ ११ ॥
अथातो बौड्यविहार एव ॥ १२ ॥
गृहपोपस्पृश गृहपाय स्वाहा गृहप्युपस्पृश गृहप्यै स्वाहा द्वारपोपस्पृश द्वारपाय स्वाहा द्वारप्युपस्पृश द्वारप्यै स्वाहेति चत्वारि पलाशानि ददाति ॥ १३ ॥
घोषिण उपस्पृशत घोषिभ्यः स्वाहा । निषङ्गिण उपस्पृशत निषङ्गिभ्यः स्वाहा । अन्वासारिण उपस्पृशतान्वासारिभ्यः स्वाहा । प्रयुन्वन्त उपस्पृशत प्रयुन्वद्भ्यः स्वाहा । विचिन्वन्त उपस्पृशत विचिन्वद्भ्यः स्वाहा । समश्नन्त उपस्पृशत समश्नद्भ्यः स्वाहेति ॥ १४ ॥
दशाथापराणि देवसेना उपस्पृशत देवसेनाभ्यः स्वाहेति ॥ १५॥
दशैवाथापराणि या आख्याता देवसेना याश्चानाख्याता उपस्पृशत ताभ्यः स्वाहेति ॥ १६ ॥
अथ पर्णपुटं कृत्वा तस्मिन्नुपस्तीर्णाभिघारितमोदनपिण्डमवदाय परोगव्यूतिं गत्वा वृक्ष आसृजते निषङ्गिण उपस्पृशत निषङ्गिभ्यः स्वाहेति ॥ १७ ॥
अथोपतिष्ठते नमो निषङ्गिण इषुधिमते तस्कराणां पतये नम इति ॥ १८ ॥
अथ चान्दनसुरोदकाक्षताक्षतगोमयदूर्वास्तम्बमुदुम्बरपलाशशमीविकंकताश्वत्थेन गोवालेनेति गाः प्रोक्षति वृषाणमेवाग्रे शिवो भवेत्यथ शिवो हैव भवति ॥ १९ ॥
अथ हैनं क्षेत्रपत्यस्य पयसि स्थालीपाकꣳ श्रपयित्वाऽभिघार्योद्वास्य गवां मध्येऽनग्नौ क्षेत्रस्य पतिं यजति ॥ २०.३.२० ॥
चतुर्षु सप्तसु वा पलाशेषु तथैवाऽऽवाहयाति यथा शूलगवं नूर्ते यजते पाको देवोऽथोपतिष्ठते क्षेत्रस्य पतिना वयं क्षेत्रस्य पत इत्यथैतस्य क्षैत्रपत्यस्य ये सनाभयो भवन्ति ते प्राश्नन्ति यथैवैषां कुलधर्मो भवति ॥ (ख० ९)॥२१॥
इति सत्याषाढहिरण्यकेशिगृह्यसूत्रे विंशतितमप्रश्ने तृतीयः पटलः।
20.4
अथ विंशतितमप्रश्ने चतुर्थः पटलः ।
अमावास्यायामपराह्णे मासिकमपरपक्षस्य वाऽयुक्ष्वहःसु ॥१॥
पितृभ्योऽन्नꣳ सꣳस्कृत्य दक्षिणाग्रान्दर्भानासनानि कल्पयित्वा ब्राह्मणाञ्शुचीन्मन्त्रवतः समङ्गानयुज आमन्त्रयते योनिगोत्रमन्त्रासंबन्धान् ॥ २॥ नार्थापेक्षो भोजयेत् ॥ ३ ॥
अग्निमुपसमाधाय दक्षिणाप्रागग्रैर्दभैरग्निं परिस्तीर्यैकपवित्रान्तर्हितायामाज्यस्थाल्यामाज्यꣳ सꣳस्कृत्य प्रसव्यं परिषिच्यौदुम्बरमिध्ममभ्याधायौदुम्बर्या दर्व्या जुहोति ॥ ४ ॥
आज्यभागान्तं कृत्वा प्राचीनावीती पितॄनावाहयत्यायात पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । प्रजामस्मभ्यं ददतो रयिं च दीर्घायुत्वं च शतशारदं चेति ॥ ५॥
एतामेव दिशमभ्यपः प्रसिञ्चत्यापो देवीः प्रहिणुतामग्निमेतं यज्ञं पितरो नो जुषन्ताम् । मासीमामूर्जमूतये भजन्ते ते नो रयिꣳ सर्ववीरं नियच्छन्त्विति ॥६॥
यज्ञोपवीती व्याहृतिपयन्तं कृत्वा प्राचीनावीती जुहोति सोमाय पितृमते स्वधानमो यमायाङ्गिरस्वते पितृमते स्वधानमो याः प्राचीः संभवन्त्याप उत्तरतश्च याः । अद्भिर्विश्वस्य भुवनस्य धर्त्रीभिरन्तरन्यं पितुर्दधे स्वधानमः । अन्तर्दधे पर्वतैरन्तर्मह्या पृथिव्या दिवा दिग्भिरनन्ताभिरूतिभिरन्तरन्यं पितामहाद्दधे स्वधानमः । अन्तर्दध ऋतुभिरहोरात्रैः सुसंधिभिः । अर्धमासैश्च मासैश्चान्तरन्यं प्रपितामहाद्दधे स्वधानम इति ॥ ७ ॥
अथ नामधेयैर्जुहोति अमुष्मै स्वधानमोऽमुष्मै स्वधानम इति । यन्मे माता प्रलुलोभ चरत्यननुव्रता । तन्मे रेतः पिता वृङ्क्तामाभुरन्योपपद्यताꣳ स्वधानम इत्येवं द्वितीयां तथा तृतीयां यन्मे पितामही यन्मे प्रपितामहीति मन्त्रꣳ संनमति ॥ (ख० १०) ॥ ये चेह पितरो ये च नेह याꣳश्च विद्म उ च न प्रविद्म । अग्ने तान्वेत्थ यदि ते जातवेदस्तया प्रत्तꣳ स्वधया मदन्तु स्वधानमः । यद्वः क्रव्यादङ्गमदहल्लोकानयं प्रणयञ्जातवेदाः । तद्वोऽहं पुनरावेशयाम्यरिष्टाः सर्वैरङ्गैः संभवत पितरः स्वधानमः । वहाऽऽज्यं जातवेदः पितृभ्यो यत्रैतान्वेत्थ निहितान्पराके । आज्यस्य कूल्या उप तान्क्षरन्तु सत्या एषामाशिषः सन्तु कामैः स्वधानमः । इत्येवं द्वितीयां तथा तृतीयां पितामहेभ्यः प्रपितामहेभ्य इति मत्रꣳ संनमति ॥ ८॥
एवमन्नस्य जुहोति वहान्नमिति मन्त्रꣳ संनमति ॥९॥
अथ सौविष्टकृतीं जुहोत्यग्नये कव्यवाहनाय स्विष्टकृते स्वधानम इति ॥ २०.४.१० ॥
अथान्नमभिमृशति पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा प्राणापानयोर्जुहोम्यक्षितमसि मा पितॄणां क्षेष्ठा अमुत्रामुष्मिँल्लोके । पृथिवी समा तस्याग्निरुपद्रष्टा दत्तस्याप्रमादाय । पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा प्राणापानयोर्जुहोम्यक्षितमसि मा पितामहानां क्षेष्ठा अमुत्रामुष्मिँल्लोके० । अन्तरिक्षꣳ समं तस्य वायुरुपद्रष्टा दत्तस्याप्रमादाय । पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्त्वा मुखे जुहोमि ब्राह्मणानां त्वा प्राणापानयो र्जुहोम्यक्षितमसि मा प्रपितामहानां क्षेष्ठा अमुत्रामुष्मिँल्लोके । द्यौः समा तस्याऽऽदित्य उपद्रष्टा दत्तस्याप्रमादायेति ब्राह्मणानुपस्पर्शयति प्राणे निविश्यामृतं जुहोमीति ॥ (ख०११)॥ ११ ।
भुञ्जानान्समीक्षते ब्रह्मणि म आत्माऽमृतत्वायेति ॥ १२ ॥
भुक्तवतोऽनुप्रव्रज्य शेषमनुज्ञाप्योदकुम्भं दर्भमुष्टिं चाऽऽदाय दक्षिणपूर्वमवान्तरदेशं गत्वा दक्षिणाग्रान्दर्भानास्तीर्य तेष्ववाचीनपाणिर्दक्षिणापवर्गांस्त्रीनुदकाञ्जलीन्निनयति मार्जयन्तां पितरः सोम्यासो मार्जयन्तां पितामहाः सोम्यासो मार्जयन्तां प्रपितामहाः सोम्यास इत्यसाववनेनिक्ष्वासाववनेनिङ्क्ष्वेति ॥ १३ ॥
तेष्ववाचीनपाणिर्दक्षिणापवर्गांस्त्रीन्पिण्डान्ददाति ॥ १४ ॥
एतत्ते ततासाविति पित्रे पिण्डं ददात्येतत्ते पितामहासाविति पितामहायैतत्ते प्रपितामहासाविति प्रपितामहाय तूष्णीं चतुर्थꣳ स कृताकृतः ॥ १५॥
अथ यदि नामधेयानि न विद्यात्स्वधा पितृभ्यः पृथिवीषद्भ्य इति पित्रे पिण्डं ददाति स्वधा पितृभ्योऽन्तरिक्षसद्भ्य इति पितामहाय स्वधा पितृभ्यो दिविषद्भ्य इति प्रपितामहाय ॥ १६ ॥
अत्राऽऽञ्जनाभ्यञ्जने वासश्चानुपिण्डं ददाति ॥ १७॥
आङ्क्ष्वासावाङ्क्ष्वासाविति त्रिराञ्जनम् ॥१८॥
अभ्यङ्क्ष्वासावभ्यङ्क्ष्वासाविति त्रिरभ्यञ्जनम् ॥ १९ ॥
एतानि वः पितरो वासाꣳस्यतो नोऽन्यत्पितरो मा यूढ्वमिति दशामूर्णास्तुकां वा छित्वा न्यस्यति पूर्वे वयसि ॥ २०.४.२०॥
स्वं लोम च्छित्त्वोत्तरे ॥२१॥
.........॥२२॥
अथ पात्रꣳ संक्षाल्य पुत्रान्पौत्रानभितर्पयन्तीरापो मधुमतीरिमाः स्वधां पितृभ्यो अमृतं दुहानाः । आपो देवीरुभयास्तर्पयन्तु नदीरिमा उदन्वतीरेतस्विनीः सुतीर्थ्या अमुष्मिँल्लोक उप वः क्षरन्त्विति प्रसव्यं परिषिच्य न्युब्जपात्रं पाणी व्यत्यस्य दक्षिणमुत्तरमुत्तरं च दक्षिणं नमो वः पितरो रसायेति नमस्कारैरुपतिष्ठते ॥ २३ ॥
तत उदकान्तं गत्वा त्रीनुदकाञ्जलीन्निनयति ॥ (ख० १२)॥ एष ते तत मधुमाꣳ उर्मिः सरस्वान्यावानग्निश्च पृथिवी च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथाऽग्निरक्षितोऽनुपदस्त एवं मह्यं पित्रेऽक्षितोऽनुपदस्तः स्वधा भवतां तꣳ स्वधामक्षितं तैः सहोपजीवासावृचस्ते महिमा । एष ते पितामह मधुमाꣳ उर्मिः सरस्वान्यावान्वायुश्चान्तरिक्षं च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथा वायुरक्षितोऽनुपदस्त एवं मह्यं पितामहायाक्षितोऽनुपदस्तः स्वधा भवतां तꣳ स्वधामक्षितं तैः सहोपजीवासौ यजूꣳषि ते महिमा । एष ते प्रपितामह मधुमाꣳ उर्मिः सरस्वान्यावानादित्यश्च द्यौश्च तावत्यस्य मात्रा तावानस्य महिमा तावन्तमेनं भूतं ददामि यथाऽऽदित्योऽक्षितोऽनुपदस्त एवं मह्यं प्रपितामहायाक्षितोऽनुपदस्तः स्वधा भवतां तꣳ स्वधामक्षितं तैः सहोपजीवासौ सामानि ते महिमेति प्रत्येत्य प्रतिष्ठितमुदपात्रेणोपप्रवर्तयति परायात पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथ मासि पुनरायात नो गृहान्हविरत्तुꣳ सुप्रजसः सुवीरा इति ॥ २४ ॥
एतेन माध्यावर्षं व्याख्यातम् ॥ २५ ॥
तत्र माँसं नियतम् ॥ २६॥
माꣳसाभावे शाकम् । (ख० १३)॥ २७ ॥
इति सत्याषाढहिरण्यकेशिगृह्यसूत्रे विंशतितमप्रश्ने चतुर्थः पटलः।
20.5
अथ विंशतितमप्रश्ने पञ्चमः पटलः ।
अष्टकां व्याख्यास्यामः ॥ १॥
माघ्याः पौर्णमास्या योऽपरपक्षस्तस्याष्टमीमेकाष्टकेत्याचक्षते ॥२॥
ततः पूर्वेद्युरनूराधयोरपराह्णेऽग्निमुपसमाधाय दक्षणाप्रागग्रैर्दर्भैः परिस्तीर्य पवित्रान्तर्हितानि कृत्वा चत्वारि व्रीहिशरावाणि निर्वपतीममपूपं चतुःशरावं निर्वपामि क्लेशावहं पितृणाꣳ सांपराये देवेन सवित्रा प्रसूता देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो जुष्टं निर्वपामीत्येतेनैवं पवित्रेण तूष्णीं प्रोक्षणीः सꣳस्कृत्य तूष्णीं प्रोक्ष्य तूष्णीमवहत्य यथापुरोडाशमेवं चतुर्षु कपालेषु तूष्णीꣳ श्रपयित्वाऽभिघार्योद्वास्य प्रसव्यं परिषिच्यौदुम्बरमिध्ममभ्याधायौदुम्बर्या दर्व्योपस्तीर्याभिघारितं दक्षिणाप्राचीꣳ संततं परं परमवदाय दक्षिणाप्राचीꣳ संततं परं परं जुहोति । उलूखला ग्रावाणो घोषमक्रत हविः कृण्वन्तः परिवत्सरीणाम्। एकाष्टके सुप्रजा वीरवन्तो वयꣳ स्याम पतयो रयीणाꣳ स्वधा नमः। अपूपं देव घृतवन्तमग्ने स्वधावन्तं पितॄणां तर्पणाय । यथातथं वह हव्यमग्ने पुत्रः पितृभ्य आहुतिं जुहोमि स्वधा नमः। अयं चतुःशरावो घृतवानपूपः पयस्वानग्ने रयिमान्पुष्टिमाꣳश्च । प्रतिनन्दन्तु पितरः संविदानाः स्विष्टोऽयꣳ सुहुतो ममास्तु स्वधा नम इति ॥ ३॥
अथान्नस्य जुहोतीयमेव सा या प्रथमा ब्यौच्छदेका तपसा तप्यमाना या प्रथमा व्यौच्छदिति ॥४॥
अपूपस्यान्नस्येति समवदाय सर्पिर्मिश्रस्य जुहोत्यग्नये कव्यवाहनाय स्विष्टकृते स्वधा नम इति ॥ ५॥
तं घृतवन्तं मधुमन्तमन्नवन्तꣳ श्राद्धाभिमर्शनेवाभिमृश्य पिण्डानामावृता पिण्डान्ददाति ॥ ६॥
तेन ब्राह्मणं विद्यावन्तं परिवेवेष्टि ॥७॥
तेभ्यो यथाश्रद्धमन्नं धनं च ददाति ॥८॥
प्रसिद्धमोदकाञ्जलिदानाद्यथा मासिके । (ख. १४) ॥९॥
श्वोभूते पितृभ्यो गामालभते ॥ २०.५.१० ॥
अग्निमुपसमाधाय दक्षिणाप्रागग्रैर्दभैः परिस्तीर्येमां पितृभ्यो गामुपाकरोमि तां मे समेताः पितरो जुषन्ताम् । मेदस्वतीं घृतवतीꣳ स्वधावतीꣳ सा मे पितॄन्सांपराये घिनोतु स्वधा नम इत्युपाकरणीयाꣳ हुत्वैकेन बर्हिषैकशूलया च वपाश्रपण्यौदुम्बर्योपाकरोति । पितृभ्यस्त्वा जुष्टं प्रोक्षामीति तां प्रोक्षितां पर्यग्नि कृत्वा तामपरेणाग्निं प्रत्यक्शिरसं दक्षिणापदीꣳ संज्ञपयन्ति ॥११॥
संज्ञप्तायै तूष्णीमद्भिः प्राणानाप्याय्य तूष्णीं वपाꣳ हृदयं मतस्ने उद्धरति ॥ १२ ॥
औदुम्बर्या वपाश्रपण्या वपाꣳ श्रपयत्यौदुम्बरेषु शूलेषु पृथगितराणि ॥ १३ ॥
श्रपयित्वाऽभिघार्योद्वास्य प्रसव्यं परिषिच्यौदुम्बरमिध्ममभ्याधायौदुम्बर्या दर्व्योपस्तीर्णाभिघारितां वपां जुहोति । वह वपां जातवेदः पितृभ्यो यत्रैतान्वेत्थ निहितान्पराके । मेदसः कूल्या उप तान्क्षरन्तु सत्या एषामाशिषः सन्तु कामैः स्वधा नम इति ॥ १४ ॥
सर्वहुतां वपां जुहोति शेषमुत्कृष्य ब्राह्मणान्भोजयेत् ॥ १५ ॥
उपस्थितेऽन्न ओदनस्य माꣳसानामिति समवदाय सर्पिमिश्रस्य जुहोति । एकाष्टकां पश्यति दोहमानामन्नं माꣳसवद्घृतवत्स्वधावत् । तद्ब्राह्मणैरतिपूतमन्नं तमक्षितं तन्मे अस्तु स्वधा नमः । एकाष्टका तपसा तप्यमाना संवत्सरस्य पत्नी दुदुहे प्रपीना । तं दोहमुपजीवाथ पितरः संविदानाः स्विष्टोऽयꣳ सुहुतो ममास्तु स्वधा नमः। संवत्सरस्य प्रतिमामिति ॥ १६ ॥
हुत्वाऽन्नस्य माꣳसानामिति समवदाय सर्पिर्मिश्रस्य जुहोत्यग्नये कव्यवाहनाय स्विष्टकृते स्वधा नम इति ॥ १७ ॥
प्रसिद्धमोदकाञ्जलिदानाद्यथा मासिके ॥ १८ ॥
अन्नधनदाने त्वत्रानियते ॥ १९॥
श्वोभूते माꣳसशेषेण पितृभ्योऽन्नꣳ सꣳस्कृत्य त्वमग्ने अयासि प्रजापत इति जुहोति प्रसिद्धमोदकाञ्जलिदानाद्यथा मासिके ॥ (ख० १५) ॥२०.५.२०॥
इति सत्याषाढहिरण्यकेशिगृह्यसूत्रे विंशतितमप्रश्ने पञ्चमः पटलः ।
20.6
अथ विंशतितमप्रश्ने षष्ठः पटलः ।
अथातः श्रवणाकर्म ॥१॥
तद्या पौर्णमासी श्रवणेन युञ्ज्यात्तस्यामुपरिष्टात्सायमग्निहोत्रस्य दक्षिणाग्निमुपसमादधात्यौपासनमनाहिताग्नेः ॥ २॥
अथोपकल्पयतेऽक्षतधाना अक्षतलाजान्सक्तून्किꣳशुकान्याञ्जनाभ्यञ्जने आज्यमिति ॥ ३ ॥
दर्व्यामुपस्तीर्यैतेषामेवान्नानाꣳ समवदाय सर्पिर्मिश्रस्य जुहोति नमोऽग्नये पार्थिवाय पार्थिवानामधिपतये स्वाहा । नमो वायवे विभुमत आन्तरिक्षाणामधिपतये स्वाहा । नमः सूर्याय रोहिताय दिव्यानामधिपतये स्वाहा । नमो विष्णवे गौराय दिश्यानामधिपतये स्वाहेति किंशुकान्याज्येन संयुज्य जुहोति । जग्धो मशको जग्धा विचष्टिर्जग्धो व्यध्वरः । जग्धो व्यध्वरो जग्धा विचष्टिर्जग्धो मशकः। जग्धा विचष्टिर्जग्धो मशको जग्धो व्यध्वर इति ॥ ४ ॥
उदकुम्भं दर्भमुष्टिं चाऽऽदाय प्राङ्मुखो निष्क्रम्य प्राचो दर्भान्सꣳस्तीर्य तेषु चतुरो बलीन् हरति ये पार्थिवाः सर्पास्तेम्य इमं बलिꣳ हरामि। य आन्तरिक्षा ये दिव्या ये दिश्या इत्यत्राऽऽञ्जनाभ्यञ्जने दत्त्वोपतिष्ठते नमो अस्तु सर्पेभ्य इत्येतैर्मन्त्रैः ॥ ५॥
उदकुम्भमादाय त्रिः प्रदक्षिणमावसथं परिषिञ्चन्परिक्रामेद्यावता कामयेतैतावता मे सर्पा नावक्रामेयुरित्यपश्वेतपदा जहि पूर्वेण चापरेण च । सप्त च मानुषीरिमास्तिस्रश्च राजबान्धवैः । नवैः श्वेतस्याभ्याचारेणाहिर्जघान कंचन । श्वेताय वैदर्वाय नमो नमः श्वेताय वैदर्वायेति ॥६॥
अथोपतिष्ठते समीची नामासि प्राची :दिगित्येतैर्मन्त्रैः प्रतिदिशम् ॥ ७॥
नित्यमत ऊर्ध्वं बलिꣳ हरत्यामार्गशीर्ष्याः ॥ ८ ॥
नात्र किंशुकहोमः ॥९॥
न परिषेचनं विद्यते ॥ २०.६.१०॥
निरवदास्यन्निरवदास्यन्नित्यन्ततो बलीन्हरति (ख० १६ ) ॥११॥
इति सत्याषाढहिरण्यकेशिगृह्यसूत्रे विंशतितमप्रश्ने षष्ठः पटलः ।
20.7
अथ विंशतितमप्रश्ने सप्तमः पटलः ।
आग्रहायणीं व्याख्यास्यामः ॥ १ ॥
मार्गशीर्ष्यां पौर्णमास्यामग्निमुपसमाधाय संपरिस्तीर्य पयसि स्थालीपाकꣳ श्रपयित्वाऽभिघार्योद्वास्य व्याहृतिपर्यन्तं कृत्वा जुहोति । इडायै सृप्तं घृतवच्चराचरं जातवेदो हविरिदं जुषस्व । ये ग्राम्याः पशवो विश्वरूपास्तेषाँ सप्तानामिह रन्तिरस्तु पुष्टिः स्वाहा । यां जनाः प्रतिनन्दन्ति रात्रिं धेनुमिवाऽऽयतीम् । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली स्वाहा । शिवा पशुभ्यो दारेभ्यः शिवा नक्तं शिवा दिवा । संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गलीः स्वाहा । पौर्णमासी पूरयन्त्यायान्त्यपरापरान् । मासार्धमासान्विभजन्ती सा नः पूर्णाऽभिरक्षतु स्वाहेति ॥२॥
अथ सौविष्टकृतीं जुहोति स्विष्टमग्ने अभि तत्पृणाहि विश्वादेव पृतना अभिष्य । उरुं नः पन्थां प्रदिशन्विभाहि ज्योतिष्मद्धेह्यजरं न आयुरिति ॥ ३॥
ततः पाणी प्रक्षाल्य भूमिमालभते । प्रतिक्षत्त्रे प्रतितिष्ठामि राष्ट्रे प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रत्यङ्गेषु प्रतितिष्ठाम्यात्मन्प्रतिप्राणेषु प्रतितिष्ठामि पुष्टे । प्रतिद्यावापृथिव्योः प्रतितिष्ठामि यज्ञे । त्रया देवा एकादश त्रयस्त्रिꣳशाः सुराधसः। बृहस्पतिपुरोहिता देवस्य सवितुः सवे । देवा देवैरवन्तु मेति ॥ ४॥
तेषां दक्षिणा गृहपतिरुपविशत्युत्तरा उत्तरे प्रजोत्पत्त्यानुपूर्व्येण तेषां ये मन्त्रविदस्ते मन्त्राञ्जपन्ति ॥५॥
स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः । बडित्था पर्वतानामिति द्वाभ्यां दक्षिणैः पार्श्वैः संविशन्ति ॥ ६॥
उदायुषेत्युत्तिष्ठन्ति ।। ७॥
उदस्थाममृता आभूमेत्युत्थाय जपन्ति ॥ ८॥
एवꣳ रात्रेस्त्रिः संजिहते ॥ ९॥
ब्राह्मणानन्नेन परिविष्य पुण्याहꣳ स्वस्त्ययनमृद्धिमिति वाचयित्वाऽथैताꣳ रात्रिं वसन्ति ॥ (ख० १७)॥ २०.७.१० ॥
इति सत्याषाढहिरण्यकेशिगृह्यसूत्रे विंशतितमप्रश्ने सप्तमः पटलः ।
20.8
अथ विंशतितमप्रश्नेऽष्टमः पटलः ।
अथात उपाकरणोत्सर्जने व्याख्यास्यामः॥१॥
श्रवणापक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वाऽध्यायोपाकर्म ॥ २ ॥
अग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा पञ्च काण्डर्षीञ्जुहोति प्रजापतये काण्डर्षये स्वाहा सोमाय काण्डर्षये स्वाहाऽग्नये काण्डर्षये स्वाहा विश्वेभ्यो देवेभ्यः काण्डर्षिभ्यः स्वाहा स्वयंभुवे काण्डर्षये स्वाहेति काण्डर्षयः काण्डनामानि वा सावित्रीमृग्वेदं यजुर्वेदꣳ सामवेदमथर्ववेदꣳ सदसस्पतिमिति हुत्वा त्रीनादितोऽनुवाकानधीयन्ते(ते) ॥३॥
काण्डादीन्वा सर्वाञ्जयादि प्रतिपद्यते स्विष्टकृदन्तं कृत्वा त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यामिति वदन्ति ।। ४ ॥
तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः ।। ५॥
सगणः प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य यत्राऽऽपः सुखाः सुखावगाहास्तदवगाह्याघमर्षणेन त्रीन्प्राणायामान्कृत्वा सपवित्रैः पाणिभिरापो हि ष्ठा मयोभुव इति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इति चैतेनानुवाकेन स्नात्वा दर्भानन्योन्यस्मै संप्रयच्छन्तो दित्सन्त इवान्योन्यम् ॥ ६ ॥
ततः शुचौ देशे प्राचीनप्रवणे प्रागग्रैर्दर्भैरुदगपवर्गाण्यासनानि कल्पयन्ति ॥ ( ख० १८ ) ॥ ७ ॥
ब्रह्मणे प्रजापतये बृहस्पतयेऽग्नये वायवे सूर्याय चन्द्रमसे नक्षत्रेभ्य इन्द्राय राज्ञे यमाय राज्ञे वरुणाय राज्ञे सोमाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यः साध्येभ्य ऋभुभ्यो भृगुभ्यो मरुद्भ्योऽथर्वभ्योऽङ्गिरोभ्य इति देवगणानाम् ॥ ८ ॥
विश्वामित्रो जमदग्निर्भरद्वाजोऽथ गौतमः । अत्रिर्वसिष्ठः कश्यप इत्येते सप्तर्षयो निवीतिन उत्तरत उदीचीनप्रवण उदगग्रैर्दर्भैः प्रागपवर्गाण्यासनानि कल्पयन्ति ॥ ९॥
विश्वामित्राय जमदग्नये भरद्वाजाय गौतमायात्रये वसिष्ठाय कश्यपाय वसिष्ठकश्यपयोरन्तरालेऽरुन्धत्यै कल्पयन्ति दक्षिणतः प्राचीनप्रवणेऽगस्त्याय ॥ २०.८.१० ॥
तत एकवेद्यां तेभ्यः कृष्णद्वैपायनाय जातूकर्ण्याय तरुक्षाय तृणबिन्दवे वर्मिणे वरूथिने वाजिने वाजश्रवसे सत्यश्रवसे सुश्रवसे सुतश्रश्रवसे सोमशुष्मायणाय सत्त्ववते बृहदुक्थाय वामदेवाय वाजिरत्नाय हर्यज्वायनायोदमयाय गोतमाय ऋणंजयाय ऋतंजयाय कृतंजयाय धनंजयाय बभ्रवे त्र्यरुणाय त्रिवर्षाय त्रिधातवे शिबिंताय पराशराय विष्णवे रुद्राय स्कन्दाय काशीश्वराय ज्वराय धर्मायार्थाय कामाय क्रोधाय वसिष्ठायेन्द्राय त्वष्ट्रे कर्त्रे धर्त्रे धात्रे मृत्यवे सवित्रे सावित्र्यै वेदेभ्यश्च पृथक्पृथगृग्वेदाय यजुर्वेदाय सामवेदायाथर्ववेदायेतिहास पुराणायेति ॥ ११ ॥
दक्षिणतः प्राचीनावीतिनो दक्षिणाप्रवणे दक्षिणाग्रैर्दर्भैः प्रत्यगपवर्गाण्यासनानि कल्पयन्ति । (ख० १९) ॥ वैशंपायनाय पलिङ्गवे तित्तिरायोखायाऽऽत्रेयाय पदकाराय कौण्डिन्याय वृत्तिकाराय सूत्रकारेभ्यः सत्याषाढाय प्रवचनकर्तृभ्य आचार्येभ्य ऋषिभ्यो वानप्रस्थेभ्य ऊर्ध्वरेतोभ्य एकपत्नीभ्य इति ॥ १२ ॥
यथास्वं पितृभ्यो मातामहेभ्यश्च कल्पयन्त्यमुष्मै कल्पयाम्यमुष्मै कल्पयामीत्यासनेन ॥ १३ ॥
अमुं तर्पयाम्यमुं तर्पयामीत्युदकेन ॥ १४ ॥
अमुष्मै नमोऽमुष्मै नम इति गन्धपुष्पधूपदीपैरमुष्मै स्वाहाऽमुष्मै स्वाहेत्यन्नेनामुं तर्पयामीति फलोदकेनामुष्मै नमोऽमुष्मै नम इत्युपस्थाय ॥ १५ ॥
अपरेण वेदिमग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा पञ्च काण्डर्षीञ्जुहोति काण्डनामानि वा सावित्रीमृग्वेदं यजुर्वेदꣳ सामवेदमथर्ववेदꣳ सदसस्पतिमिति हुत्वा प्रथमेनानुवाकेनाधीयते काण्डादीन्वा सर्वाञ्जयादि प्रतिपद्यते स्विष्टकदन्तं कृत्वा त्र्यहमेकाहं वा क्षम्य यथाध्यायमध्येतव्यमिति वदन्ति ॥ १६ ॥
काण्डात्काण्डाद्या शतेनेति द्वाभ्यामुदकान्ते दूर्वा रोपयन्त्युदधिमूर्मिमन्तं कृत्वा प्राचीमुदीचीं वा दिशमातमितोराजिं धावन्ति ॥ १७ ॥
प्रत्येत्यापूपैः सक्तुभिरोदनेनेति ब्राह्मणाꣳश्च तर्पयन्ति ॥ १८ ॥
एवं पारायणसमाप्तौ काण्डात्काण्डादिति दूर्वारोपणोदधिधावनवर्जं नित्यमेवꣳ स्नात्वाऽद्भिर्देवानृषीन् पितृꣳश्च तर्पयन्ति ॥ (ख० २०) ॥ १९ ॥
इति सत्याषाढहिरण्यकेशिगृह्यसूत्रे विंशतितमप्रश्नेऽष्टमः पटलः प्रश्नश्च समाप्तः।