कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः २१

विकिस्रोतः तः
← प्रश्नः २० कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः २१
हिरण्यकेशिः/सत्याषाढः
प्रश्नः २२ →

21.1
अथैकविंशप्रश्ने प्रथमः पटलः ।
देवा यो अप्सु महिम इषवः स इदमापः प्रवहत यत्किंच दुरितं मयि । यच्चाहमभिदुद्रोह यच्च शेप उदाकृतम् ॥ भूः प्रपद्ये भुवः प्रपद्ये सुवः प्रपद्ये भूर्भुवः सुवः प्रपद्ये ( इति वा) सत्यं प्रपद्य ऋतं प्रपद्येऽमृतं प्रपद्ये प्रजापतेः प्रियां तनुवमनार्तां प्रपद्ये गायत्रीं प्रपद्ये त्रिष्टुभं प्रपद्ये जगतीं प्रपद्येऽनुष्टुभं प्रपद्ये पङ्क्तिं प्रपद्ये छन्दोभिश्छादये छन्दोभिश्छन्नोऽस्मीदमहं पञ्चदशेन वज्रेण द्विषन्तं भ्रातव्यमवक्रामामि योऽस्मान्द्वेष्टि यं च वयं द्विष्मः । दशहोता भूर्भुवः सुवः। हिं नमो मात्रे पृथिव्यै ।। इन्द्रमन्वारभामहे होतृवर्ये पुरोहितम् । येनाऽऽयन्नुत्तमꣳ सुवर्देवा अङ्गिरसो दिवम् ॥ षष्टिश्चाध्वर्यो नवतिश्च पाशा अध्वर्युमग्निमन्तरा वियत्ताः। सिनन्ति पाकमति धीर एत्यृतस्य पन्थामन्वेमि होता ॥१॥
चतुर्होता पञ्चहोता षड्ढोता सप्तहोता ॥ समुद्रं मावपदमादित्यस्यऽऽवृतमन्वावर्तेत । षण्मोर्वीरꣳ हसस्पान्तु द्यौश्चपृथिवी चाहश्च रात्रिश्च कृषिश्च वृष्टिश्च त्विषिश्चापचितिश्चाऽऽपश्चौषधयश्च । निरस्तः परावसुः । ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामवबाधामहे तान् । वसवो रुद्रा आदित्या उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन् । उन्निवत उदुद्वतश्च केषं पातं मा द्यावापृथिवी अद्याह्नः । सीद होतः स्व उ लोके चिकित्वान्सादयो यज्ञꣳ सुकृतस्य योनौ । देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयोधाः। नि होता होतृषदने विदानस्त्वेषो दीदिवाꣳ असदत्सुदक्षः। अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रंभरः शुचिजिह्वो अग्निः ॥ लोककृतौ लोकं मे कृणुतं मा मा संताप्तमेष वां लोकः । प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहामि जुष्टामद्य देवेभ्यो वाचमुद्यासं जुष्टां ब्रह्मभ्यो जुष्टां नाराशꣳसाय ।। वागोजः सह ओजो मयि प्राणापानौ । वाग्वषट्कार नमस्ते .
अस्तु मा मा हिꣳसीः ॥ २ ॥
दर्शपूर्णमासयोर्हौत्रं व्याख्यास्यामः ॥ १ ॥
क्लृप्ते होतृषदने देवा यो अप्सु महिम इत्यप आचामति ॥ २ ॥
यज्ञोपवीत्याचान्तो विहारमभ्येत्यान्तरेण वेद्युत्करौ भूः प्रपद्ये भुवः प्रपद्य इति प्रतिपद्यते । उत्तरेण वेदिमवस्थाय च्छन्दोभिश्छादये छन्दोभिश्छन्नोऽस्मीति जपति ॥ ३ ॥
दक्षिणेन पादेनोत्तरां वेदिश्रोणीमवक्रामतीदमहं पञ्चदशेन वज्रेणेति ॥ ४ ॥
अत्र तिष्ठन्सामिधेनीरन्वाह ॥ ५ ॥
आवृतस्यैतानि वाचो नियम्यानि भवन्ति ॥ ६॥
सामिधेनीसंप्रैषादध्या परिधानीयायाः पुरोनुवाक्यासंप्रैषादध्या प्रणवाद्याज्यासंप्रैषादध्या वषट्कारान्निगदमारभ्याऽऽसमाप्तेर्हृदयदेशेऽञ्जलिं कृत्वाऽनुब्रूयाद्यजेच्च ॥ ७॥
अथा( यदा )ध्वर्युः संप्रेष्यत्यग्नये समिध्यमानायानुब्रूहीति ( तदा ) ब्रह्मन्सामिधेनीरनुवक्ष्यामीति ब्रह्माणमामन्त्रयते । ब्रह्मन्ननुवक्ष्यामीति वा। प्रसव उक्त दशहोतारं व्याख्याय व्याहृतीर्जपित्वा हिमिति त्रिर्हिं करोति ॥ ८ ॥
प्र वो वाजा अभिद्यव इति पञ्चदश सामिधेनीरन्वाह मध्यमस्वरेणेति विज्ञायते ॥ ९॥
यत्क्रौञ्चमन्वाहाऽऽसुरं तद्यन्मन्द्रं मानुषं तद्यदन्तरा तत्सदेवमन्तराऽनूच्यँ सदेवत्वाय ॥ २१.१.१० ॥
त्रिः प्रथमामन्वाह त्रिरुत्तमामनवानं ता एवं पञ्चदश संपद्यन्ते ॥ ११ ॥
अपि वाऽनुवचनेऽनुवचनेऽपानित्युत्तमेऽनुवचनेऽग्नआयाहि वीतय इत्येतस्या अर्धर्चेऽपानित्येवमितरासु पूर्वस्याश्चोत्तरमुत्तरस्याश्च पूर्वमर्धर्चौ संदधाति ॥ १२ ॥
सर्वेष्वृगन्तेषु प्रणवं दधाति ।। १३ ॥
ओंकारमुदात्तमृचा सꣳहितमूनमथवा पूर्णमोमित्यूनमो ३ मिति पूर्णं पूर्णमेवावसानीयं यदृच्युत्तमं छन्दोमानं तदपोह्य तस्य स्थाने यत्पूर्णं छन्दोमानं तस्य व्यञ्जनं न तल्लुप्यते ॥ १४ ॥
तं त्वा समिद्भिरङ्गिर इत्येताꣳ सामिधेनीं त्रिर्विगृह्णाति । समिद्धो अग्न इति ॥ १५ ॥
सोऽव(स व )ध्यायिकं( दिकं ) पदं प्रतिषिध्य दधाति । त( य )था स्रुगादापन उत्तमां नमस्यामाहोपहूतेडोपहूतेडेतीडायाम् । शं नो अस्तु द्विपदे शं चतुष्पद इति शंयुवाके । यच्चान्यत्प्रकृतावेवंजातीयꣳ स्यात्तदेव तत्र नियम्येत ॥ १६ ॥
आजुहोत दुवस्यतेत्युत्तरया परिदधाति ॥ १७ ॥
त्वं वरुण इति वसिष्ठराजन्यानाम् ॥ १८ ॥
जगत्या वैश्यस्य ॥१९॥
यदि कामयेत ब्रह्मवर्चसमस्त्विति गायत्रिया परिदध्यात् ॥ २१.१.२० ॥
इति सत्याषाढहिरण्यकेशिश्रौतसूत्र एकविꣳप्रश्ने प्रथमः पटलः।

21.2
अथ द्वितीयः पटलः ।
त्रीꣳस्तृचाननुब्रूयाद्ब्राह्मणस्य । त्रीꣳस्तृचाननुब्रूयाद्राजन्यस्य । त्रीꣳस्तृचाननुब्रूयाद्वैश्यस्येति विज्ञायते ॥ १॥
पाञ्चदश्येन विकल्पेरन् ॥२॥
वैश्यस्य साप्तदश्येन । तस्य पृथुपाजवत्यौ धाय्ये पुरस्तात्समिद्धवत्याः ॥३॥
कविꣳशतिमनुब्रूयादिति ब्राह्मणब्याख्याताः काम्याः सामिधेमीकल्पास्तेषां पाञ्चदश्येन धर्मा व्याख्याताः ॥ ४॥
बहुयाजिन इति गायत्रीत्रिष्टुब्जगतीषु सर्वतुसोमयाजी बहुयाजी भवतीति विज्ञायते ॥ ५॥
अपरिमितमनुब्रूयादिति । ऊर्ध्वमष्टाचत्वारिꣳशतं परिमाणेषु याथाकाम्यन्तेऽधीयीरन् । यासां तु विकृतौ धाय्याशब्देन विधानं भवति । यथा पृथुपाजवत्यौ धाय्ये । अनुमत्यौ धाय्ये । उष्णिक्ककुभौ धाय्ये । मानवी ऋचौ धाय्ये कुर्यादिति पुरस्तात्समिद्धवत्या आगमयेद्गयत्रीराग्नेयीरागमयेत्तथाऽऽगमयेद्यथा प्रथमोत्तमयोरावृत्त्या संख्या पूर्येत ॥ ६॥
उत्तमेऽनुवचनेऽग्ने महाꣳ असि ब्राह्मणभारतेत्यत्रापानिति ॥ ७॥
अथ प्रवरं प्रवृणीते । यथा यजमानस्याऽऽर्षेयꣳ सह परेण त्रीननन्तरानमुतोऽर्वाच इत्यामन्त्रणेन भार्गववासिष्ठेति विज्ञायते ॥ ८॥
एकं वृणीते द्वौ वृणीते त्रीन्वृणीते न चतुरो वृणीते न पञ्चातिप्रवृणीत इति कृत्स्नस्य प्रवरस्य स्थाने मानवेत्येव ब्रूयादित्येकेषाम् ॥ ९॥ ।
अथ निविदो दधाति ॥ ४ ॥ देवेद्धो मन्विद्ध इति प्रतिपद्यते । सप्त पदान्युक्त्वाऽपानिति ॥ २१.२.१० ॥
अथ चत्वार्यथ चत्वारि ॥ ११ ॥
देवता आवाहयत्यग्निमग्न आवह सोममावहाग्निमावह प्रजापतिमावहाग्नीषोमावावहेत्यग्नीषोमीये पुरोडाश इति पौर्णमास्याम् ॥ १२ ॥
नामावास्यायामुपाꣳशुयाजो विद्यते ॥ १३॥
ऊर्ध्वमाग्नेयस्याऽऽवाहनादिन्द्राग्नी आवहेत्यसंनयत इन्द्रमावहेति संनयत इन्द्रयाजिनो महेन्द्रमावहेति महेन्द्रयाजिनो देवाꣳ आज्यपाꣳ आवहेति समानमुभयत्र ॥ १४ ॥
वरणं प्रत्यूर्ध्वज्ञुमुपविशति ॥ १५ ॥
ऊर्ध्वज्ञुरासीनो वृणीत इति हेतुर्विज्ञायते ॥ १६ ॥
यत्राभिजानात्यसौ मानुष इति तदुपोत्थाय नमो मात्रे पृथिव्या इति पृथिवीमभिमृशति ।। १७ ।।
चतुर्होतारं पञ्चहोतारꣳ षड्ढोतारꣳ सप्तहोतारमिति जपित्वेन्द्रमन्वारभामह इति दक्षिणेन हस्तेनाध्वर्युमन्वारभते ॥ १८ ॥
सव्येन तूष्णीमाग्नीध्रम् ॥ १९ ॥
षष्टिश्चाध्वर्यो नवतिश्च पाशा इत्यन्तरेणाऽsहवनीयमध्वर्युं च प्रत्यङ्ङेत्य समुद्रं माऽवपदमादित्यस्याऽऽवृतमन्वावर्त इति प्रदक्षिणमन्वावर्तते ॥२१.२.२०॥
षण्मोर्वीरꣳहसस्पान्तु त्वेति जपित्वा होतृषदनं प्राप्य निरस्तः परावसुरिति होतृषदनात्तृणं निरस्याप उपस्पृश्य ये नः सपत्ना अप ते भवन्त्विति होतृषदनमवबाधतेऽभ्युक्ष्य होतृषदनमुन्निवत उदुद्वतश्च गेषमिति । उपविशति सीद होतरिति च ॥२१॥
निहोता होतृषदन इत्यासीनो जपति ॥ २२ ॥
लोककृतौ लोकं मे कृणुतमिति गार्हपत्याहवनीयौ समीक्षते ॥ २३ ॥
प्र मे ब्रूत भागधेयमिति देवता उपतिष्ठते ॥ ५॥ २४ ॥
ततः स्रुचावादापयत्यग्निर्होता वेत्त्वग्निर्होत्रं वेत्त्विति ॥ २५॥
मन्द्रेण स्थानेन प्रागाज्यभागाभ्याम् । मध्यमेन प्रधानानि । उत्तमेन स्विष्टकृत्प्रभृति ॥ २६ ॥
समिधो यजेति संप्रेषिते समिधो अग्न आज्यस्य वियन्त्विति यजति । तनूनपादग्न आज्यस्य वेत्त्विति द्वितीयम् । नराशꣳसो द्वितीयः प्रयाजो वसिष्ठशुनकानां नराशꣳसो अग्न आज्यस्य वित्त्वितीडो अग्न आज्यस्य वियन्त्विति तृतीयम् । बर्हिरग्न आज्यस्य वेत्त्विति चतुर्थꣳ स्वाहाऽग्निꣳ स्वाहा सोमꣳ स्वाहाऽमुमिति चोत्तमे प्रयाजे यथोक्तदेवता उपलक्षयति ॥ २७ ॥
अथाऽऽज्यभागाभ्यां प्रचरति ॥ २८ ॥
तयोर्याज्यापुरोनुवाक्ये ॥ २९ ॥
याज्यैव प्रयाजानूयाजेषु ॥ २१.२.३० ॥
तेषां प्रचर्य सर्वासु पुरोनुवाक्यासु प्रणवं दधाति स व्याख्यातः ॥ ३१ ॥
अथ याज्याया यदृच्युत्तमं छन्दोमानं तेनोदात्तेनाभिसंदधद्वौषडिति वषट्करोति ॥ ३२ ॥
त( य )त्रैतदेकारैकारौ याज्यान्ते भवतः। आइकारं तत्र कुर्याद्यत्रौकारौकारावा उकारं तत्र कुर्यात् । इत्यत्रं प्रग्रहेभ्योऽथ यत्र कवर्गप्रथमा याज्यान्ते स्युस्तृतीयꣳ स्ववर्गीयं मकारे परवत्त (न्न) ङकारणकारनकारेषु विकारः ॥ ३३ ॥
अथ यत्रावर्णोपधो विसर्जनीयः। आकारं दीर्घं रभतेऽनुसरेफमिवर्णोपध ईकारमुवर्णोपध ऊकारं वषट्कारो याज्यान्ताः प्लुताः स्वराज्यञ्जनान्तायाः पूर्वो ब्रूहि प्रैष्योंकारौ श्रौषडित्यवसाने वीहीति च वह आ च वह ये यजामहे परं च । न स्वं महिमानमावहेत्याश्रावयोश्रावय घोरा ( योराद्ये ) ये इति विभाषा, ईदृगयणेत्युभयतः प्लावनं व्याकरणम् । सर्वत्रन प्लावयेन्न च श्रूयत इति काशकृत्स्नस्य ॥ ३४ ॥
चेकितानो यथालक्षणं तु प्रवचनशेषोऽभिलक्षणं ब्रूहीति पुरोनुवाक्यासंप्रैषो यजेति याज्यासंप्रैषो ये यजामह इति प्रतिवचनः ॥ ३५॥
ये यजामहेऽमुमिति यथादेवतमुपलक्ष्य व्याहृतीर्जपित्वा याज्यान्ते वषट्करोति ॥ ६ ॥ ३६ ॥
वषडित्येके समामनन्ति । वौषडित्येके । वाषाडित्यके । वषाडित्येके ॥ ३७ ॥
संततमृचा वषट्करोतीति विज्ञायते ॥ ३८॥
.बलीय ऋचा वषट्करोतीति विज्ञायते ॥ ३९ ॥
यं कामयेत पापीयान्त्स्यादिति नीचैस्तरां तस्य याज्याया वषट्कुर्यात् ॥ २१.२.४०॥
यं कामयेत न पायीयान्न श्रेयानिति समं तस्य याज्याया वषट्कुर्यात् ।। ४१ ॥
यं कामयेत वसीयाञ्छ्रेयान्त्स्यादित्युच्चैस्तरां तस्य याज्याया वषट्कुर्यात् ॥ ४२ ॥
अपगूर्य वषट्करोति स्तृत्या इत्युच्चैर्वा शब्दः संयोगात् ।। ४३ ॥
यं कामयेत प्रमायुकः स्यादिति तस्योच्चैरपगूर्य निष्खिदन्ति वषट्कुर्यादित्युच्चैः क्रौञ्चमिव वषट्कुर्यात्स्वर्गकामस्येति विज्ञायते ॥ ४४ ॥
वषट्कृत्य वषट्कृत्यं प्राण्यापान्य निमिषेत् । वागोजः सह ओजो वाग्वषट्कारो नमस्ते अस्तु मा मा हिꣳसीरिति प्रयुक्तं वषट्कारमनुमन्त्रयते ॥ ४५ ॥
अग्निर्वृत्राणि जङ्घनदित्याग्नेयस्याऽऽज्यभागस्य पुरोनुवाक्या । त्वꣳ सोमासि सत्पतिरिति सोमस्य वृधन्वती । अमावास्यायामग्निः प्रत्नेन जन्मनेत्याग्नेयस्य । सोम गीर्भिष्ट्वा वयमिति सौम्यस्य । समानी याज्ये आज्यभागौ जुषाणा याज्यावेके समामनन्ति ॥ ऋग्याज्यावेके । समा(ह)विषावेके । अमूहमित्युत्तरमाहेति विज्ञायते ॥ ४६॥
अथ प्रधानानां याज्यानुवाक्या अग्निर्मूर्धा भव इत्याग्नेयस्य प्रजापते सवेदसेत्युपाꣳशुयाजस्य ॥ ४७ ।।
अग्नीषोमा युवमित्यग्नीषोमीयस्येन्द्राग्नी रोचनादिव श्नथद्वृत्रमित्यैन्द्राग्नस्यैन्द्रसानसिꣳ रयिं प्रससाहिष इत्यैन्द्रस्य महाꣳ इन्द्रो य ओजसा महाꣳ इन्द्रो नृवदिति माहेन्द्रस्य ॥ ४८ ॥
पिप्रीहि देवाꣳ उशतो यविष्ठ इति स्विष्टकृतः पुरोनुवाक्या ये यजामहेऽग्निꣳ स्विष्टकृतमयाडमु ष्यायाडमुष्योत यथोक्तदेवत उपलक्ष्याग्ने यदद्य विशो अध्वरस्य होतरिति यजति ॥७॥ ४९ ॥
गायत्र्यौ वा संयाज्ये ब्रह्मवर्चसकामस्य कुर्यात् । त्रिष्टुभौ वीर्यकामस्य । जगत्यौ पशुकामस्यानुष्टुभौ प्रतिष्ठाकामस्य पङ्क्त्यौ यज्ञकामस्य विराजावन्नकामस्येति विज्ञायते ॥ २१.२.५० ॥
अङ्गुलिपर्वणी अवघ्रायाप उपस्पृशति ॥ ५१ ॥
अथास्याध्वर्युरन्तरेणाङ्गुष्ठप्रादेशनीं च लेपादुपस्तृणाति स्वयꣳ होता मध्यतो द्विरादत्तेऽध्वर्युर्वाऽन्यतरल्लेपेन चाभिघारिते विनिगृह्णाति चाङ्गुलिभिः ।। ५२॥
विज्ञायते च न प्रसृतꣳ हस्तं धारयेद्यत्प्रसृतꣳ हस्तं धारयेत्प्रभ्रꣳशुका अस्मात्पशवः स्युः ॥ ५३ ॥
अभिनिगृह्येवाऽऽसीताथेडामुपह्वयते ॥ ५४ ॥
मुखेन संमितोपहूतꣳ रथंतरमित्युपाꣳशूक्त्वोपहूताꣳ हो इत्यत उच्चैरितरत् ॥ ५५॥
यं कामयेतापशुः स्यादिति पराचीं तस्येडामुपह्वयते । यं कामयेत पशुमान्स्यादिति प्रतीचीं तस्येडामुपह्वयत । इडोपहूतोपहतेडेति तत्प्रतीच्योपहूयमानायाम् ॥ ५६॥
अवान्तरेडां प्राश्नाति वाचस्पतये त्वा हुतं प्राश्नामि सदसस्पतये त्वा हुतं प्राश्नामीति ॥५७॥
चतुर्धा कर्णिकानां होतृभागं प्राश्नाति पृथिव्यै भागोऽसीति ॥ ५८ ॥
अन्वाहार्यं प्रतिगृह्य प्रत्येत्यानूयाजादि प्रतिपद्यते॥ ५९॥
नानूयाजेषु ये यजामहं करोति ॥ २१.२.६० ॥
व्याहृतिभिरेव प्रतिपद्यते ।। ६१ ॥
देवान्यजेति संप्रेषिते ॥ ८ ॥ देवं बर्हिर्वसुवने वसुधेयस्य वेत्त्विति यजति । देवो नराशꣳसो वसुवने वसुधेयस्य वेत्त्विति द्वितीयम् । देवो अग्निः स्विष्टकृदित्यनवानमुत्तममनूयाजं यजत्यमत्सते वा समत इति विज्ञायते ॥ ६२ ॥
सूक्ता ब्रूहीति संप्रेषित इदं द्यावापृथिवी भद्रमभूदिति सूक्तवाकं प्रतिपद्यते । सूक्तवाके यथोक्तदेवता उपलक्षयति । उपाꣳशुयाजे जुषतावीवृधेताकृतेत्युपांशूच्चैरितरत् ।। ६३ ॥
आशास्तेऽयं यजमानोऽसाविति यजमानस्य नामनी गृह्णाति । तृतीयꣳ सोमयाजिनः ।।६४॥
शंयोर्ब्रूहीति संप्रेषिते तच्छंयोरावृणीमह इति शंयुवाकं प्रतिपद्यते ॥ ६५ ॥
उक्त्वा शंयुवाकꣳ हविःशेषान्प्राश्नाति ॥ ६६ ॥
पत्नीसंयाजेषु वेदमादाय प्रत्यङ्ङेत्यापरेण गार्हपत्यमुपविश्य पत्नी: संयाजयति । उपाꣳशुध्वानेन वाऽऽप्यायस्व सं त इति सोमस्येह त्वष्टारमग्रियं तन्नस्तुरीपमिति त्वष्टू राकामहं यास्ते राक इति राकायाः सिनीवालि या सुपाणिरिति सिनीवाल्याः कुहूमहं कुहूर्देवानामिति कुह्वोः । देवानां पत्नीरुशतीरवन्तु न उतग्नावियन्तु देवपत्नीरिति देवानां पत्नीनामग्निर्होता गृहपतिर्वयमु त्वा गृहपते जनानामित्यग्नेर्गृहपतेः ॥ ६७ ॥
अक्ते अङ्गुलिपर्वणी अवघ्रायाप उपस्पृशति ॥ ६८ ॥
आज्येडामुपह्वयते यथा समाम्नातः ॥ ६९ ॥
ऊर्ध्वं पिष्टलेपफलीकरणहोमाभ्यां वेदोऽसि वित्तिरसीति वेदं पल्यै प्रयच्छति ॥ २१.२.७० ॥
वेदोऽसि वेदसे त्वा वेदो मे विन्देति वा ।। ७१ ॥
घृतवन्तं कुलायिनमिति वेदꣳ होता स्तृणन्नेति गार्हपत्यात्संततमाहवनीयात् ॥ ७२ ॥
यथेतं प्रतिनिष्क्रामति ।। ७३ ॥
संतिष्ठते दर्शपूर्णमासयोर्हौत्रम् ॥ ९ ॥ ७४ ॥
इति सत्याषाढहिरण्यकेशिसूत्र एकविꣳशतिप्रश्ने द्वितीयः पटलः।

21.3
अथैकविंशप्रश्ने तृतीयः पटलः।
प्रवरान्व्याख्यास्यामः ॥१॥
आर्षेयं वृणीते बन्धोरेव नैत्यथो संतत्या इति विज्ञायते ॥ २॥
न देवैर्मनुष्यैरार्षेयं वृणीत ऋषिभिरेवाऽऽर्षेयं वृणीत इति विज्ञायते ॥३॥
आर्षेयमन्वाचष्ट ऋषिणा हि देवाः पुरुषमनुबध्यन्त इति विज्ञायते ।। ४ ।।
यो वा अन्यः सन्नन्यस्याऽऽर्षेयं वृणीते स वा अस्य तदृषिरिष्टं वीतं वृङ्क्त इति विज्ञायते ॥५॥
एकं वृणीते द्वौ वृणीते त्रीन्वृणीते न चतुरो वृणीते न पञ्चातिप्रवृणीत इति विज्ञायते ॥ ६ ॥
भृगूनेवाग्रे व्याख्यास्यामः ॥ जामदग्न्या वत्सास्तेषां पञ्चार्षेयो भार्गवच्यावनाप्नवानौर्वजामदग्न्येति जमदग्निवदुर्ववदप्नवानवच्च्यवनवद्भृगुवदिति त्र्यार्षेयमु हैके भार्गवौर्वजामदग्न्येति जमदग्निवदुर्ववद्भृगुवदित्येष एवाविकृतो जामाल्यैतिशायनविरोहितमाण्डव्यावटमण्डुबैदरेतवाहप्राचीनयोग्यानामथाऽऽर्ष्टिषेणानां पञ्चार्षेयो भार्गवच्यावनाप्नवानार्ष्टिषेणानूपेत्यनूपवदृष्टिषेणवदप्नवानवच्च्यवनवद्भृगुवदिति । त्र्यार्षेयमु हैके भार्गवार्ष्टिषेणानूपेत्यनूपवदृष्टिषेणवद्भृगुवदिति ॥ अथ वीतहव्या यास्कवाधूलमौनमौकरजातवाहास्तेषां त्र्यार्षेयो भार्गववैतहव्यसावेदसेति सवेदोवद्वीतहव्यवद्भृगुवदिति ॥ अथ वैन्याः पार्थास्तेषां त्र्यार्षेयो भार्गववैन्यपार्थेति पृथुवद्वेनवद्भृगुवदिति ॥ अथ गार्त्समदाः शुनकास्तेषामेकार्षेयो गार्त्समदेति होता गृत्समदवदित्यध्वर्युः । अथ वाध्र्यश्वा मित्रयुवस्तेषामेकार्षेयो वाध्र्यश्वेति होता वध्र्यश्ववदित्यध्वर्युः ॥ १० ॥ ७ ॥
इतीमे भृगवो व्याख्याताः ॥ ८ ॥
अथातोऽङ्गिरसामयास्या गौतमास्तेषां त्र्यार्षेय आङ्गिरसायास्यगौतमेति गोतमवदयास्यवदङ्गिरोवदिति । अथौतथ्या गौतमास्तेषां त्र्यार्षेय आङ्गिरसौतथ्यगौतमेति गोतमवदुतथ्यवदङ्गिरोवदिति । अथौशिजा गौतमास्तेषां त्र्यार्षेय आङ्गिरसौशिजकाक्षीवतेति कक्षीवद्वदुशिजवदङ्गिरोवदिति । अथ वामदेवा गौतमास्तेषां त्र्यार्षेय आङ्गिरसवामदेवबार्हदुक्थेति बृहदुक्थवद्वामदेववदङ्गिरोवदिति ॥ ९॥
अथ भरद्वाजानां त्र्यार्षेय आङ्गिरसबार्हस्पत्यः भारद्वाजेति भरद्वाजवद्बृहस्पतिवदङ्गिरोवदिति । एष एवाविकृतस्तुथ्याग्निवेश्योर्जयानानां सर्वेषां च स्तम्भस्तम्बशब्दानाम् । अथर्क्षाणां पञ्चार्षेय आङ्गिरसबार्हस्पत्यभारद्वाजवान्दनमातवचसेति मंतवचोवद्वन्दनवद्भरद्वाजवद्बृहस्पतिवदङ्गिरोवदिति । त्र्यार्षेयमु हैक आङ्गिरसवान्दनमातवचसेति । मतवचोवद्वन्दनवदङ्गिरोवदिति । अथ द्वयामुष्यायणानां कुलानां यथा शौङ्गशैशिरयो भरद्वाजाः शुङ्गाः कताः शैशिरयस्तेषां पञ्चार्षेय आङ्गिरसबार्हस्पत्यद्भारद्वाजकात्याक्षिलेत्यक्षिलवत्कतवद्भरद्वाजवद् बृहस्पतिवदङ्गिरोवदिति। त्र्यार्षेयमु हैक आङ्गि रसकात्याक्षिलेत्यक्षिलवत्कतवदङ्गिारोवदिति । । ॥ ११ ॥
अथ गर्गाणां त्रयार्षेय आङ्गिरसगार्ग्यशैन्येति शिनिवद्गर्गवदङ्गिरोवदिति । भारद्वाजमु हैकेऽङ्गिरसः स्थाने भारद्वाजगार्ग्यशैन्येति शिनिवद्गर्गवद्भरद्वाजवदिति । अथ कपीनां त्र्यार्षेय आङ्गिरसमाहय्यवौरुक्षय्येत्युरुक्षय्यवन्महय्युवदङ्गिरोवदिति तरस्वाꣳस्तिलो विदुः शालुः पतञ्जलिर्भूयसीर्दंद्वकीर्जलन्द्वः । कपेरष्टविधाः प्रजाः॥२१.३.१०॥
अथात्रीणां त्र्यार्षेय आत्रेयार्चनानसश्यावाश्वेति श्यावाश्ववदर्चनानसवदत्रिवदिति। अथ गविष्ठिराणां त्र्यार्षेय आत्रेयार्चनानसगाविष्ठिरेति गविष्ठिरवदर्चनानसवदत्रिवदिति । एष एवाविकृतो वामरथ्यसुमङ्गलबीजवापानाम् ।। १२ ॥११॥
अथ विश्वामित्राणां देवराताश्चिकितकालबवमनुतन्तुबभ्रुयज्ञवल्कौलोन्त्येर्मरिबृहदग्निसांशित्यवारकितारकायणशालावतास्तेषां त्र्यार्षेयो वैश्वामित्रदैवरातौदलेति उदलवद्देवरातवद्विश्वामित्रवदिति। अथ श्रौमतकामकायनास्तेषां त्र्यार्षेयो वैश्वामित्रमाधुच्छन्दसधानंजय्येति धनंजयवन्मधुच्छन्दोवद्विश्वामित्रवदिति । अथाष्टका लोहितास्तेषां द्व्यार्षेयो वैश्वामित्राष्टकेति । अष्टकवद्विश्वामित्रवदिति । अथ पूरणाः पारिधापयन्त्यस्तेषां द्व्यार्षेयो वैश्वामित्रपौरणेति। पूरणवद्विश्वामित्रवदिति । अथ कतास्तेषां त्र्यार्षेयो वैश्वामित्रकात्याक्षिलेति । अक्षिलवत्कतवद्विश्वामित्रवदिति । अथाघमर्षणाः कुशिकास्तेषां त्र्यार्षेयो वैश्वामित्राघमर्षणकौशिकेति । कुशिकवदघमर्षणवद्विश्वामित्रवदिति ॥ १२ ॥
अथ कश्यपानां त्र्यार्षेयः काश्यपावत्सारनैध्रुवेति निध्रुववदवत्सारवत्कश्यपवदित्येष एवाविकृतो धौम्याभिषेण्यमाठराणाम् । अथ रेभाणां त्र्यार्षेयः काश्यपावत्साररैभ्येति । रेभवदवत्सारवत्कश्यपवदिति ॥ १३ ॥
अथ शण्डिलानां द्व्यार्षेयो दैवलासितेति । असितवद्देवलवदिति । त्र्यार्षेयमु हैके काश्यपदेवलासितेति असितवद्देवलवत्कश्यपवदिति । द्व्यार्षेयास्त्वेव न्यायेन ॥ १३ ॥
एकार्षेया वासिष्ठा अन्यत्रोपमन्युपराशरकुण्डिनेभ्यो वासिष्ठेति होता वसिष्ठवदित्यध्वर्युः । अथोपमन्यूनां त्र्यार्षेयो वासिष्ठैन्द्रप्रमदाभरद्वसो इति । आभरद्वसुवदिन्द्रप्रमदवद्वसिष्ठवदिति । अथ पराशराणां त्र्यार्षेयो वासिष्ठशाक्त्यपराराशर्येति। पराशरवच्छक्तिवद्वसिष्ठवदिति । अथ कुण्डिनानां त्र्यार्षेयो वासिष्ठमैत्रावरुणकौण्डिन्येति । कुण्डिनवन्मित्रावरुणवद्वसिष्ठवदिति । अथ संकृतिपूतिमाषतण्डिनां त्र्यार्षेयः शाक्त्यसांकृत्यगौरिवीतेति । गुरिवीतवत्संकृतिवच्छक्तिवदिति ॥ १४ ॥
अथागस्तीनामेकार्षेय आगस्त्येति होताऽगस्तिवदित्यध्वर्युः । त्र्यार्षेयमु हैके आगस्त्यदार्ढ्यच्युतैध्मवाहेति । इध्मवाहवद्दृढच्युतवदगस्तिवदिति ॥ १५ ॥
अथ क्षत्त्रियाणां त्र्यार्षेयो मानवैडपौरूरवसेति । रूरवोवदिडवन्मनुवदिति । अथ यदि ह सार्षाः प्रवृणीरन्नेक एवैषां प्रवरो यद्यु वै पृथक्प्रवृणीरन्येषामु ह मन्त्रकृतो न स्युः सपुरोहितप्रवरास्ते । अथ येषां स्युरपुरोहितप्रवरास्ते सपुरोहितप्रवरास्त्वेवं न्यायेनैकार्षेया विशो वात्सप्रेति होता वत्सप्रवदित्यध्वर्युः ॥ १६ ॥
अथानाज्ञातबन्धोः पुरोहितप्रवरेणाऽऽचार्य प्रवरेण वा ॥ १७॥
अथ ह ताण्डिन एकार्षेयꣳ सार्ववर्णिकꣳ समामनन्ति मानवेति होता मनुवदित्यध्वर्युः । मानव्यो हि प्रजा इति हि ब्राह्मणमिति हि ब्राह्मणम् ॥ १४ ॥ १८ ॥
इति सत्याषाढहिरण्यकेशिसूत्र एकविꣳशप्रश्ने तृतीयः पटलः ॥
इति हिरण्यकेशिसूत्र एकविंशः प्रश्नः ॥ २१ ॥