सामग्री पर जाएँ

कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः १९

विकिस्रोतः तः
← प्रश्नः १८ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः १९
हिरण्यकेशिः/सत्याषाढः
प्रश्नः २० →

19.1
अथैकोनविंशप्रश्ने प्रथमः पटलः ।
उपनयनं व्याख्यास्यामः ॥ १ ॥
सप्तवर्षं ब्राह्मणमुपनयेत् ॥ २॥
एकादशवर्षꣳ राजन्यं द्वादशवर्षं वैश्यम् ॥ ३॥
वसन्ते ब्राह्मणं ग्रीष्मे राजन्यꣳ शरदि वैश्यम् ॥ ४ ॥
आपूर्यमाणपक्षे पुण्ये नक्षत्रे विशेषेण पुंनामधेये ॥ ५ ॥
युग्मान्ब्राह्मणानन्नेन परिविष्य पुण्याहꣳ स्वस्त्ययनमिति वाचयित्वा ॥ ६ ॥
अशितस्य कुमारस्य केशान्वापयित्वा स्नातमलंकृतमहतं वासः परिधाप्य प्राचीनप्रवण उदीचीनप्रवणे प्रागुदक्प्रवणे समे वा देश उद्धत्यावोक्ष्याग्निं मथित्वा लौकिकं वाऽऽहृत्य न्युप्योपसमादधाति ॥ ७॥
प्रागग्रैर्दर्भैरग्निं परिस्तृणाति॥८॥
अपिवोदगग्राः पश्चात्पुरस्ताच्च भवन्ति ॥ ९॥
दक्षिणानुत्तरान्करोत्युत्तरानधरान्यदि प्रागुदगग्राः ॥१९.१.१०॥
दक्षिणेनाग्निं ब्रह्मायतने दर्भान्सꣳस्तीर्य ॥ ११ ॥
मयि गृह्णामि यो नो अग्निरिति द्वाभ्यामात्मन्नग्निं गृहीत्वा ॥ १२ ॥
उत्तरेणाग्निं दर्भान्सꣳस्तीर्य यथार्थं द्रव्याणि प्रयुनक्ति ॥ १३ ॥
अश्मानमहतं वासोऽजिनं मौञ्जीं मेखलां त्रिवृतां ब्राह्मणस्य ज्याꣳ राजन्यस्यावीसूत्रं वैश्यस्य बैल्वं पालाशं वा दण्डं ब्राह्मणस्य नैयग्रोधꣳ राजन्यस्यौदुम्बरं वैश्यस्य ॥ १४ ॥
एकविꣳशतिदारुमिध्मꣳ संनयत्याहुतिपरिमाणं वा ॥ १५ ॥
तस्मिञ्छम्याः परिधीनिध्म उपसंनह्यति॥ १६ ॥
दर्वीं कूर्चमाज्यस्थालीं प्रणीताप्रणयनं प्रोक्षणीपात्रं येन चार्थः ॥ १७ ॥
सकृदेव सर्वाणि यथोपपादं वा ॥ १८ ॥
एतस्मिन्काले ब्रह्मा यज्ञोपवीतं कृत्वाऽप आचम्यापरेणाग्निं दक्षिणाऽतिक्रम्य ब्रह्मसदनात्तृणं निरस्याप उपस्पृश्याग्निमभिमुख उपविशति ॥ १९॥
समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कृत्वाऽन्येन नखाच्छित्त्वाऽद्भिरनुमृज्य पवित्रान्तर्हिते पात्रेऽप आनीयोपबिलं पूरयित्वोदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूयोत्तरेणाग्निं दर्भेषु सादयित्वा दभैरपिदधाति ॥ १९.१.२० ॥
तिरः पवित्रं प्रोक्षणीः सꣳस्कृत्य यथा पुरस्ताद्बिलवन्त्युत्तानानि कृत्वा विषायेध्मं त्रिः सर्वाभिः प्रोक्षति ॥ २१ ॥
दर्वीं निष्टप्य संमृज्य पुनर्निष्टप्य निदधाति ॥ २२॥
संमार्गानभ्युक्ष्याग्नावादधाति ॥ २३ ॥
आज्यं विलाप्य पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्योदीचोऽङ्गारान्निरुह्य तेष्वधिश्रित्यावद्योत्य दर्भतरुणाभ्यां प्रत्यस्य त्रिः पर्यग्नि कृत्वोदगुद्वास्याङ्गारान्प्रत्युह्योदगग्राभ्यां पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पूय पवित्रे प्रोक्ष्याग्नावाधाय ॥ ( ख० १) ॥ २४ ॥
शम्याभिः परिदधात्यपरेणाग्निमुदीचीनकुम्बां मध्यमां निदधाति ॥२५॥
दक्षिणेनाग्निꣳ सꣳस्पृष्टां मध्यमया प्राचीनकुम्बाम् ॥२६॥
उत्तरेणाग्निꣳ सꣳस्पृष्टां मध्यमया प्राचीनकुम्बाम् ॥ २७॥
अपरेणाग्निं प्राङ्मुख उपविशति ॥ २८ ॥
दक्षिणतो यज्ञोपवीत्याचान्तः कुमार उपविश्यान्वारभते ॥ २९ ॥
अथ परिषिञ्चति ॥१९.१.३०॥
अदितेऽनुमन्यस्वेति दक्षिणतः प्राचीनम् ॥ ३१ ॥
अनुमतेऽनुमन्यस्वेति पश्चादुदीचीनम् ॥ ३२॥
सरस्वतेऽनुमन्यस्वेत्युत्तरतः प्राचीनम् ॥ ३३ ॥
देव सवितः प्रसुव इति सर्वतः प्रदक्षिणम् ॥ ३४ ॥
परिषिच्येध्ममभ्यादधात्ययं त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेन्धि वर्धय चास्मान्प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहेति ॥ ३५ ॥
अथ दर्व्या जुहोति ॥ ३६ ॥
उत्तरं परिधिसंधिमन्ववहृत्य दर्वीं प्रजापतये मनवे स्वाहेति मनसा ध्यायन् दक्षिणा प्राञ्चमृजुं दीर्घꣳ संततं जुहोति ॥ ३७ ॥
दक्षिणं परिधिसंधिमन्ववहृत्येन्द्राय स्वाहेति प्राञ्चमुदञ्चमृजुमाघारावाघार्य ॥ ३८ ॥
आज्यभागौ जुहोति ॥ ३९ ॥
अग्नये स्वाहेत्युत्तरार्धपूर्वार्धे सोमाय स्वाहेति दक्षिणार्धपूर्वार्धे ॥ १९.१.४० ॥
तावन्तरेणेतरा जुहोति ॥४१॥
युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम् । त्वं भिषग्भेषजस्यासि कर्ता त्वया गा अश्वान् पुरुषान्सनेम स्वाहा ॥ या तिरश्ची निपद्यसेऽहं विधरणी इति । तां त्वा घृतस्य धारयाऽग्नौ सꣳराधनीं यजे स्वाहा ॥ सꣳ राधन्यै देव्यै स्वाहा । प्रसाधन्यै देव्यै स्वाहेति ॥ (ख० २)॥ ४२ ॥
सर्वदर्विहोमाणामेष कल्पः॥ ४३ ॥
 योऽन्यानि च र परिस्तरणं परिषेकविसाव्यते बहुवचनमिति । मन्त्रान्ते नित्यः स्वाहाकारः ॥ ४४ ॥
अमन्त्रास्वमुष्मै स्वाहेति यथादेवतम् ॥ ४५ ॥
भूर्भुवः सुवरिति व्याहृतिभिर्जुहोत्येकैकशः समस्ताभिश्च ॥ ४६॥
आयुर्दा अग्न इत्येषा ॥ ४७ ॥
आयुर्दादेव जरसं गृणानो घृतप्रतीको घृतपृष्ठो अग्ने । घृतं पिबन्नमृतं चारु गव्यं पितेव पुत्रं जरसे नयेमꣳ स्वाहेमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयास्ययासन्मनसा हितः। अयासन्हव्यमूहिषे या नो धेहि भेषजꣳ स्वाहा । प्रजापत इत्येषा ॥ ४८ ॥
यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अनिष्टत्स्विष्टकृद्विद्वान्त्सर्वꣳ स्विष्टꣳ सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वहुत आहुतीनां कामानाꣳ समर्धयित्रे स्वाहेत्युत्तरार्धपूर्वार्धेऽसꣳसक्तामितराभिराहुतिभिर्जुहोति॥४९॥
अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति पुरस्तात्स्विष्टकृतः ॥ १९.१.५० ॥
चित्तं च स्वाहा चित्तिश्च स्वाहेति जयाञ्जुहोति चित्ताय स्वाहा चित्तये स्वाहेति वा ॥ ५१॥
अग्निर्भूतानामधिपतिः स माऽवत्वित्यभ्यातानान् ॥ ५२ ॥
अस्मिन्ब्रह्मन्नस्मिन्क्षत्त्र इत्यभ्यातानेष्वनुषजति ॥ ५३ ॥
पितरः पितामहा इति प्राचीनावीती जुहोत्युपतिष्ठते वा ॥ ५४॥
ऋतषाडृतधामेति राष्ट्रभृतः पर्यायमनुद्रुत्य तस्मै स्वाहेति पूर्वामाहुतिं जुहोति ताभ्यः स्वाहेत्युत्तरम् ॥ ५५ ॥
अग्रेणोत्तरं परिधिसंधिमश्मानं निधाय दक्षिणेन पादेन ।। (ख०३) ॥ ५६ ॥
कुमारमास्थापयत्यातिष्ठेमश्मानममश्मेव त्वꣳ स्थिरो भव । प्रमृणीहि दुरस्यून्सहस्व पृतनायत इति ॥ ५७॥
अथैनमहतं वासः परिधापयति पूर्वं निधाय या अकृन्तन्नवयन्या अतन्वत याश्च देवीरन्तानभितो ददन्त । तास्त्वा देवीर्जरसा संव्ययन्त्वायुष्मानिदं परिधत्स्व वासः । परिधत्त धत्त वाससैनꣳ शतायुषं कृणुत दीर्घमायुः। बृहस्पतिः प्रायच्छद्वास एतत्सोमाय राज्ञे परिदातवा उ । जरां गच्छासि परिधत्स्व वासो भवाकृष्टीनामभिशस्तिपावा । शतं च जीव शरदः सुवर्चा रायश्च पोषमुपसंव्ययस्वेति ॥ ५८ ।।
परिधाप्याभिमन्त्रयते परीदं वासोऽधिधा स्वस्तये भूरापीणामभिशस्तिपावा । शतं च जीव शरदः पुरुचीर्वसूनि चाय्यो विभजा स जीवन्निति।।५९॥
अथैनं मेखलया नाभिदेशे त्रिः प्रदक्षिणं परिव्ययति द्विरित्येके । या दुरिता परिबाधमाना शर्म वरूथे पुनती न आगात् । प्राणापानाभ्यां बलमावहन्ती स्वसा देवानाꣳ सुभगा मेखलेयमिति ॥ १९.१.६०॥
उत्तरतो नाभेस्त्रिवृतं ग्रन्थिं कृत्वा दक्षिणतो नाभेः परिकर्षति ॥ ६१॥
अथास्मा अजिनमुत्तरीयं करोति मित्रस्य चक्षुर्धरुणं धरीयस्तेजो यशस्वि स्थविरꣳ समिद्धम् । अनाहनस्यं वसनं जरिष्णु परीदं वाज्याजिनं धत्स्वासावदितिस्ते कक्षां बध्नातु वेदस्यानुवक्तवै मेधायै श्रद्धायानूक्तस्यानिराकरणाय ब्रह्मणे ब्रह्मवर्चसायेति ॥ ६२ ॥
कृष्णाजिनं ब्रह्मणस्य रौरवꣳ राजन्यस्य बस्ताजिनं वैश्यस्य ॥ ६३ ॥
अथैनं परिददाति परीमामिन्द्र ब्रह्मणे महे श्रोत्राय दध्मस्यथैनं जरिमाणये ज्योक्श्रोत्रे अधिजागरदिति ब्राह्मणं परीममिन्द्र ब्रह्मणे महे राष्ट्राय दध्मस्यथैनं जरिमाणये ज्योक्-राष्ट्रे अधिजागरदिति राजन्यं परीममिन्द्र ब्रह्मणे महे पोषाय दध्मस्यथैनं जरिमाणये ज्योक्पोषेऽधिजागरादिति वैश्यम् ॥ ६४ ॥
तमपरेणाग्निमुदञ्चमुपवेश्य हुतोच्छेषणं प्राशयति त्वयि मेधां त्वयि प्रजामित्येतैः संनतैः ॥ ६५ ।।
पृषदाज्यमेके प्राशयन्ति ।। ६६ ॥
योगे योगे तवस्तरमिममग्न आयुषे वर्चसे कृधीति द्वाभ्यां प्राश्नन्तꣳ समीक्षते ॥ ६७ ॥
प्राशयन्त्येके ॥ ६८ ॥
आचान्तमुपस्पर्शयित्वाऽभिमन्त्रयते । शतमिन्नु शरदो अन्ति देवा यत्रानश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्यारीरिषताऽऽयुर्गन्तोरिति । (ख० ४) ॥ ६९ ॥
इति सत्याषाढहिरण्यकेशिगृह्यसूत्र एकोनविंशप्रश्ने प्रथमः पटलः।

19.2
अथैकोनविंशप्रश्ने द्वितीयः पटलः ।
आगन्ता समगन्महि प्रसमृत्युं युयोतन । अरिष्टाः संचरेमहि स्वस्ति चरतादिह स्वस्त्यागृहेभ्य इति प्रदक्षिणमग्निं परिक्रामन्तमभिमन्त्रयते ॥ १॥
अथैनमभिव्याहारयति ब्रह्मचर्यमागामुप मा नयस्व ब्रह्मचारी भवानि देवेन सवित्रा प्रसूत इति तं पृच्छति ॥ २॥
को नामासीत्यसावित्याचष्टे यथानामा भवति ॥ ३ ॥
स्वस्ति देव सवितरहमनेनामुनोदृचमशीयेति नामनी गृह्णाति ॥ ४ ॥
शं नो देवीरभिष्टय आपो भवन्तु पीतये । शंयोरभिस्रवन्तु न इत्युभौ मार्जयेते ॥ ५ ॥
अथास्य दक्षिणेन हस्तेन दक्षिणमꣳसमन्वारभ्य सव्येन सव्यं व्याहृतिभिः सावित्र्येति दक्षिणं बाहुमभ्यात्मन्नु(मु)पनयते । देवस्य त्वा सवितुः प्रसवेऽश्विनो र्बाहुभ्यां पूष्णो हस्ताभ्यामुपनयेऽसाविति च ॥ ६॥
अथास्य दक्षिणेन हस्तेन दक्षिणꣳ हस्तꣳ साङ्गुष्ठं गृह्णात्यग्निष्टे हस्तमग्रभीत्सोमस्ते हस्तमग्रभीत्सविता ते हस्तमग्रभीत्सरस्वती ते हस्तमग्रभीत्पूषा ते हस्तमग्रभीद्बृहस्पतिस्ते हस्तमग्रभीन्मित्रस्ते हस्तमग्रभीद्वरुणस्ते हस्तमग्रभीत्त्वष्टा ते हस्तमग्रभीद्धाता ते हस्तमग्रभीद्विष्णुस्ते हस्तमग्रभीत्प्रजापतिस्ते हस्तमग्रभीदिति ॥ ७॥
सविता त्वाऽभिरक्षतु मित्रस्त्वमसि धर्मणाऽग्निराचार्यस्तव देवेन सविता प्रसूतो बृहस्पतेर्ब्रह्मचारी भवासावपोऽशान समिधा आधेहि कर्म कुरु मा दिवा स्वाप्सीरित्येनꣳ सꣳशास्ति ॥ ८॥
अथास्य दक्षिणेन हस्तेन दक्षिणमꣳसमुपर्युपर्यन्ववमृश्य हृदयदेशमभिमृशति । मम हृदये हृदयं ते अस्तु मम चित्तं चित्तेनान्वेहि मम वाचमेकमना जुषस्व बृहस्पतिस्त्वा नियुनक्तु मह्यं मामेवानुसꣳरभस्व मयि चित्तानि सन्तु ते मयि सामीच्यमस्तु ते मह्यं वाचं नियच्छतादिति ॥ ९॥
प्राणानां ग्रन्थिरसि स मा विस्रस इति नाभिदेशम् ॥१९.२.१०॥
भूर्भुवः सुवः सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैः सुमेधा मेधया सुब्रह्मा ब्रह्मचारिभिरित्येनमभिमन्त्र्य भूर्ऋक्षु त्वाऽग्नौ पृथिव्यां वाचि ब्रह्मणि ददेऽसौ भुवो यजुःषु त्वा वायावन्तरिक्षे प्राणे ब्रह्मणि ददेऽसौ सुवः सामसु त्वा सूर्ये दिवि चक्षुषि ब्रह्मणि ददेऽसाविष्टतस्ते प्रियोऽसान्यसावनलस्य ते प्रियोऽसान्यसाविदं वत्स्यावः प्राण आयुषि वत्स्यावः प्राण आयुषि वसासाविति च ॥ ११ ॥
अथास्य दक्षिणेन हस्तेन दक्षिणꣳ हस्तꣳ साङ्गुष्ठं गृह्णात्यग्निरायुष्मानिति पञ्चभिः पर्यायैः ॥ १२ ॥
आयुष्टे विश्वतो दधदिति ।। (ख० ५)॥ १३ ॥
दक्षिणे कर्णे जपत्यायुर्दा अग्न इत्युत्तरे ॥ १४ ॥
अग्नौ पृथिव्यां प्रतितिष्ठ वायावन्तरिक्षे सूर्ये दिवि याꣳ स्वस्तिमग्निर्वायुरादित्यश्चन्द्रमा आपोऽनुसं चरन्ति ताꣳ स्वस्तिमनुसंचरासौ प्राणस्य ब्रह्मचार्यभूरसावित्युभयत्रानुषजति ॥ १५॥
मेधां त इन्द्रो ददातु मेधां देवी सरस्वती मेधां ते अश्विनावुभावाधत्तां पुष्करस्रजाविति तस्य मुखेन मुखꣳ संनिधाय जपति १६ ॥
अथैनं परिददाति कषकाय त्वा परिददाम्यन्तकाय त्वा परिददाम्यघोराय त्वा परिददामि गदाय त्वा परिददामि यमाय त्वा परिददामि मखाय त्वा परिददामि वशिन्यै त्वा परिददामि पृथिव्यै सवैश्वानरायै परिददाम्यद्भ्यस्त्वा परि ददाम्योषधीभ्यस्त्वा परिददामि वनस्पतिभ्यस्त्वा परिददामि द्यावापृथिवीभ्यां त्वा परिददामि सुभूताय त्वा परिददामि ब्रह्मवर्चसाय त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददामि सर्वाभ्यस्त्वा देवताभ्यः परिददामीति ॥ १७ ॥
अत्र सावित्रीं वाचयति यदि पुरस्तादुपेतो भवति ॥ १८॥
यद्यनुपेतस्त्र्यहे पर्यवेते ॥ १९॥
सद्यः पौष्करसादिः ॥ १९.२.२० ॥
अपरेणाग्निमुदगग्रं कूर्चं निधाय तस्मिन्प्राङ्मुख उपविशति राष्ट्रभृदस्याऽऽचार्यासन्दीमात्वद्योषमिति ।। २१ ॥
आदित्यायाञ्जलिं कृत्वाऽऽचार्यायोपसंगृह्य दक्षिणतः कुमार उपविश्याधीहि भो इत्युक्त्वाऽथाssह सावित्रीं भो अनुब्रूहीति ॥ २२ ॥
गणानां त्वा गणपतिꣳ हवामह इत्येनमभिमस्त्र्याथास्मै पच्छोऽग्रेऽन्वाहाथार्धर्चशोऽथ संतताम् । भूस्तत्सवितुर्वरेण्यम् । भुवो भर्गो देवस्य धीमहि । सुवर्धियो यो नः प्रचोदयात् ।। भूर्भुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । सुवर्धियो यो नः प्रचोदयात् ॥ भूर्भुवः सुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयादिति ।। (ख०६)॥ २३॥
अथ सप्त पालाशीः समिध आर्द्रा अप्रच्छिन्नाग्राः प्रादेशमात्रीर्घृतान्वक्ता अभ्याधापयति ॥ २४ ।।
अग्नये समिधमाहार्षं बृहते जातवेदसे । यथा त्वमग्ने समिधा समिध्यस एवं मां मेधया प्रज्ञया प्रजया पशुभिर्ब्रह्मवर्चसेन समेधय स्वाहेत्येकाम् ॥ २५ ॥
अग्नये समिधाविति द्वे ।। २६ ॥
अग्नये समिध इति चतस्रः॥ २७ ॥
अथ परिषिञ्चति यथापुरस्तात् ॥ २८ ॥
अन्वमꣳस्थाः प्रासावीरिति मन्त्रान्तान् संनमति ॥ २९॥
अथ देवता उपतिष्ठते ॥ १९.२.३० ॥
अग्ने व्रतपते व्रतं चरिष्यामीत्यग्निं वायो व्रतपत इति वायुमादित्य व्रतपत इत्यादित्यं व्रतानां व्रतपत इति व्रतपतिम् ॥ ३१ ॥
अत्र गुरवे वरं ददाति ॥ ३२ ॥
उदायुषेत्युत्थाप्य सूर्यैष ते पुत्रस्तं ते परिददामीति । तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदः शतं जीवेम शरदः शतं नन्दाम शरदः शतं मोदाम शरदः शतं भवाम शरदः शतꣳ शृणवाम शरदः शतं प्रब्रवाम शरदः शतमजीताः स्याम शरदः शतं ज्योक् च सूर्यं दृश इत्यादित्यमुपतिष्ठते ॥ ३३ ॥
अग्निष्ट आयुः प्रतरां कृणोत्वग्निष्टे पुष्टिं दधात्विन्द्रो मरुद्भिरिह ते दधात्वादित्यस्ते वसुभिरादधात्विति दण्डं प्रदायामत्रं प्रयच्छति ।। ३४ ॥
अथाऽऽह भिक्षाचर्यं चरेति ॥ ३५ ॥
स मातरमेवाग्रे भिक्षेत ।। ३६ ॥
अतोऽन्येषु रातिकुलेषु ।। ३७ ॥
आहृत्य भैक्षमिति गुरवे प्राह तत्सुभैक्षमित्युक्त्वा ॥ ३८ ॥
यस्य ते प्रथमवास्यꣳ हरामस्तं त्वा विश्वे अवन्तु देवास्तं त्वा भ्रातरः सुहृदो वर्धमानमनुजायन्तां बहवः सुजातमिति प्रथमवास्यमस्याऽऽदत्ते ॥ ३९ ॥
उपस्थितेऽन्न ओदनस्यापूपानाꣳ सक्तूनामिति समवदाय सर्पिर्मिश्रस्य जुहोत्यग्नये स्वाहा सोमाय स्वाहाऽग्नयेऽन्नादाय स्वाहा:ग्नयेऽन्नपतये स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा सर्वाभ्यो देवताभ्यः स्वाहाऽग्नये स्विष्टकृते स्वाहेति ॥ १९.२.४० ॥
सर्वत्रैवमनादिष्टदैवते ॥ ४१ ॥
अमुष्मै स्वाहेति यथादेवतमादिष्टदेवते ॥ ४२ ॥
एतेषामेवान्नानाꣳ समवदाय प्रागग्रेषु दर्भेषु बलिं करोति वास्तुपतये स्वाहेति ॥ ४३ ॥
त्रिवृताऽन्नेन ब्राह्मणान्परिविष्य पुण्याहꣳ स्वस्त्ययनमृद्धिमिति वाचयित्वा ॥ (ख०७)॥ ४४ ॥
त्र्यहव्रतं चरति ॥ ४५ ॥
अक्षारमलवणमशमीधान्यं भुञ्जानोऽधःशाम्यमृन्मयपाय्यशूद्रोच्छिष्ट्यमधुमाꣳसाश्यदिवास्वाप्युभौ कालौ भिक्षाचर्यमुदकुम्भमित्याहरन्नहरहः काष्ठकलापमुभौ कालौ सायꣳसायं वा समिधोऽभ्यादधाति ॥ ४६॥
पुरस्तात्परिषेचनाद्यथा ह तद्वसवो गौर्यमिति प्रदक्षिणमग्निं परिमृज्य परिषिञ्चति यथा पुरस्ताद्व्याहृतिभिः समिधोऽभ्यादधात्येकैकशः समस्ताभिश्चैषा ते अग्ने समित्तया वर्धस्व चाऽऽच प्यायस्व । वर्धिषीमहि च वयमा च प्यासिषीमहि स्वाहा । मेधां म इन्द्रो ददातु मेधां देवी सरस्वती । मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजौ स्वाहा । अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः । दैवी मेधा मनुष्यजा सा मां मेधा सुरभिर्जुषताꣳ स्वाहा । आ मां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगतीजगम्या । ऊर्जस्वती पयसा पिन्वमाना सा मां मेधा सुप्रतीका जुषन्ताꣳ स्वाहेति तथैव परिमृज्य परिषिञ्चति यथा पुरस्तात् ॥ ४७॥
यत्ते अग्ने तेज इत्येतैर्मन्त्रैरुपतिष्ठते मयि प्रजामिति च ।। ४८ ॥
त्र्यहे पर्यवेते तथैव त्रिवृताऽन्नेन ब्राह्मणान् परिविष्य पुण्याहꣳ स्वस्त्ययनमृद्धिमिति वाचयित्वा व्रतं विसृजतेऽग्ने व्रतपते व्रतमचारिषमित्येतैः संनतैः ॥ ४९ ।।
एतद्व्रत एवात ऊर्ध्वम् ।। १९.२.५० ॥
आचार्यकुलवासी ॥ ५१ ॥
अश्नाति क्षारं लवणꣳ शमीधान्यमिति ॥ ५२ ॥
दण्डी जटी मेखली शिखाजटो वा स्यात् ॥ ५३॥
काषायमजिनं वा वस्ते न स्त्रियमुपैति ।। ५४ ॥
अष्टाचत्वारिꣳशद्वर्षाणि चतुर्विंशतिं द्वादश यावद्ग्रहणं वा ।। ५५ ।।
न त्वेवाव्रतः स्यात् ।। ५६ ॥
काण्डोपाकरणे काण्डविसर्गे च सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषꣳ स्वाहेति काण्डर्षिर्द्वितीय इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचमिति चात्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथापुरस्तात् ।। (ख०८)॥ ५७ ॥
इति सत्याषाढहिरण्यकेशिगृह्यसूत्र एकोनविंशप्रश्ने द्वितीयः पटलः ।

19.3
अथैकोनविंशप्रश्ने तृतीयः पटलः ।
अधीत्य वेदꣳ स्नानं तद्व्याख्यास्यामः ॥ १॥
उदगयन आपूर्यमाणपक्षे रोहिण्यां मृगशिरसि तिष्य उत्तरयोः फल्गुन्योर्हस्ते चित्रायां विशाखयोर्वैतेषु स्नायात् ॥ २॥
यत्राऽऽपस्तद्गत्वाऽग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा पालाशीꣳ समिधमादधातीमꣳ स्तोममर्हते जातवेदसे रथमिव संमहेमा मनीषया । भद्रा हि नः प्रमतिरस्य सꣳसद्यज्ञे सख्ये मा रिषामा वयं तव स्वाहेति ॥ ३॥
अथ व्याहृतिभिर्जुहोति यथा पुरस्तात् ॥ ४ ॥
त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषं यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषꣳ स्वाहा ॥ ५॥
इमं मे तत्त्वा त्वं नो स त्वं नो त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचमिति चात्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् ॥ ६॥
ब्राह्मणानन्नेन परिविष्य पुण्याहꣳ स्वस्त्ययनमृद्धिमिति वाचयित्वा व्रतं विसृजतेऽग्ने व्रतपते व्रतमचारिषमित्येतैः ॥ ७॥
व्रतं विसृज्योदु त्यं चित्रमिति द्वाभ्यामादित्यमुपतिष्ठते ॥ ८ ॥
उदुत्तमं वरुणपाशमस्मदित्युत्तरीयं ब्रह्मचारिवासो निधायान्यत्परिधाय ॥ ९॥
अवाधममित्यन्तरीयं विमध्यममिति मेखलाम् ॥ १९.३.१० ॥
अथा वयमादित्य व्रत इति दण्डं मेखलां दण्डं कृष्णाजिनं चाप्सु प्रवेश्यापरेणाग्निं प्राङ्मुख उपविश्य क्षुरꣳ संमृशति । क्षुरो नामासि स्वधितिस्ते पिता नमस्ते अस्तु मा मा हिꣳसीरिति ॥११॥
वप्त्रे प्रदायोन्दनीया अपोऽभिमृशति शिवा नो भवथ सꣳस्पृश इति ॥ १२ ॥
 ( अथोष्णशीता अपः सꣳसृजति शीतासूष्णा आनीय ) आप उन्दन्तु जीवस इति दक्षिणं गोदानमुनत्ति ॥ १३ ॥
ओषधे त्रायस्वैनमित्यूर्ध्वाग्रामोषधिमन्तर्दधाति ॥ १४ ॥
स्वधिते मैनꣳ हिꣳसीरिति क्षुरेणाभिनिदधाति ॥ १५॥
देवश्रूरेतानि प्रवप इति प्रवपति ॥ १६ ॥
यत्क्षुरेण मर्चयता सुपेशसा वप्तर्वपसि केशश्मश्रु वर्चया मुखं मा न आयुः प्रमोषीरिति वप्तारꣳ समीक्षते ॥ १७॥
श्मश्रूण्यग्रे वापयतेऽथोपपक्षावथ केशानथ लोमान्यथ नखानि ॥ १८ ॥
आनडुहे शकृत्पिण्डे संयम्य केशश्मश्रुलोमनखानीदमहममुष्याऽऽमुष्यायणस्य पाप्पानमवगूहामीति गोष्ठ उदुम्बरे दर्भस्तम्बे वा निखनति योऽस्य रातिर्भवति ॥ १९॥
स्नानीयेनोत्साद्यौदुम्बरेण दन्तान् प्रक्षालयते ॥(ख० ९)॥ १९.३.२०॥
अन्नाद्याय व्यूहध्वं दीर्घायुत्वाय व्यूहध्वं ब्रह्मवर्चसाय व्यूहध्वं दीर्घायुरहमन्नादो ब्रह्मवर्चसी भूयासमिति ॥२१॥
अथोष्णशीताभिरद्भिः स्नापयत्यापो हि ष्ठा मयोभुव इति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इति चैतेनानुवाकेन ॥ २२ ॥
गोष्ठे वाऽवच्छाद्य संपरिश्रित्य पुरोदयमादित्यस्य प्रविशत्यत्र सर्वं क्रियते नैनमेतदहरादित्योऽभितपतीत्येकेषाꣳ स्नातानां वा एष तेजसा तपति य एष तपति तस्मात्स्नातकस्य मुखꣳ रेफायतीव ॥ २३ ॥
आहरन्त्यस्मै सर्वसुरभि चन्दनं वा पिष्टं तदभ्युक्ष्य नमो ग्रहाय चाभिग्रहाय च नमः शाकजञ्जभाभ्यां नमस्ताभ्यो देवताभ्यो या अभिग्राहिणीरिति देवेभ्यः प्राचीनमञ्जलिं कृत्वा तेनानुलिम्पतेऽप्सरासु च यो गन्धो गन्धर्वेषु च यद्यशः । दैव्यो यो मानुषो गन्धः स मामाविशतादिहेति ॥ २४ ॥
आहरन्त्यस्मा अहते वाससी ते अभ्युक्ष्य सोमस्य तनूरसि तनुवं मे पाहि स्वा मा तनूराविश शिवा मा तनूराविशेति ॥ २५ ॥
अन्तरीयं वासः परिधायाप उपस्पृश्य तथैवोत्तरीयमपरेणाग्निं प्राङ्मुख उपविशति । आहरन्त्यस्मै कुण्डले चान्दनमणिं बादरं वा सुवर्णाभिच्छादनं तदुभयं दर्भेण प्रबध्योपर्यग्नौ धारयन्नभिजुहोति आयुष्यं वर्चस्यꣳ रायस्पोषमौद्भिदम् । इदꣳ हिरण्यमायुषे वर्चसे जैत्रायाऽऽविशतां माꣳ स्वाहा । उच्चैर्वाजिपृतनासाहꣳ सभा साहं धनंजयम् । सर्वाः समग्रा ऋद्धयो हिरण्येऽस्मिन्समाभृताः स्वाहा । शुनमहꣳ हिरण्यस्य पितुरिव नामाग्रभिषम् । तं मा हिरण्यवर्चसं करोतु पुरुषु प्रियं ब्रह्मवर्चसिनं मा करोतु स्वाहा। प्रियं मा कुरु देवेषु प्रियं मा ब्रह्मणि कुरु । प्रियं विश्येषु शूद्रेषु प्रियं मा कुरु राजसु स्वाहा। इयमोषधे त्रायमाणा सहमाना सहस्वती । सा मा हिरण्यवर्चसं करोतु पुरुषु प्रियं ब्रह्मवर्चसिनं मा करोतु स्वाहेत्येतैरेव पञ्चभिरस्वाहाकारैस्त्रिः प्रदक्षिणमुदपात्रेऽनुपरिप्लाव्य ॥ (ख०१०) ॥२६॥
विराजं च स्वराजं चाभिष्टीर्या च नो गृहे । लक्ष्मी राष्ट्रस्य या मुखे तया मा सꣳसृजामसीति कुण्डले प्रतिहरते । दक्षिणे कर्णे दक्षिणꣳ सव्ये सव्यम् ॥ २७॥
ऋतुभिष्ट्वार्तवैरायुषे वर्चसे संवत्सरस्य धायसा तेन सन्ननुगृह्णासीति कुण्डले संगृह्णीते ॥ २८ ॥
इयमोषधे त्रायमाणा सहमाना सहस्वती । सा मा हिरण्यवर्चसं करोतु पुरुषु प्रियं ब्रह्मवर्चसिनं मा करोत्वपाशोऽसीति ग्रीवायां मणिं प्रतिमुञ्चते ॥ २९ ॥
शुभिके शुभमारोह शोभयन्ती मुखं मम । मुखं च मम शोभय भूयाꣳसं च भगं कुरु । यामाहरज्जमदग्निः श्रद्धायै कामायास्यै । इमां तां प्रतिमुञ्चेऽहं भगेन सह वर्चसेति द्वाभ्याꣳ स्रजं प्रतिमुञ्चते ॥ १९.३.३० ॥
यदाञ्जनं त्रैककुदं जातꣳ हिमवत उपरि । तेन वामाञ्जेऽहं भगेन सह वर्चसा मयि पर्वतपूरुषमिति त्रैककुदेनाञ्जनेनाङ्क्ते तस्मिन्नविद्यमाने येनैव केनचित् ॥ ३१ ॥
यन्मे मनः परागतमित्यादर्शेऽवेक्षते ॥ ३२ ॥
देवस्य त्वेति वैणवं दण्डं प्रतिगृह्येन्द्रस्य वज्रोऽस्यश्विनौ मा पातमिति त्रिरूर्ध्वमुन्मार्ष्टि ॥ ३३॥
वेगवेजयास्मद्द्विषतस्तस्करान्सरीसृपाञ्छ्वापदान्रक्षाꣳसि पिशाचान्पौरुषेयाद्भयान्नो दण्डं रक्ष विश्वस्माद्भयाद्रक्ष सर्वतो जहि तस्कराननग्नः सर्ववृक्षेषु जायसे त्वꣳ सपत्नहा । जहि शत्रुगणान्सर्वान्समन्तं मघवानिवेति त्रिः प्रदक्षिणमुपर्युपरि शिरः प्रतिहरते ॥ ३४ ॥
प्रतिष्ठे स्थो देवते मा मा संताप्तमित्युपानहावध्यवरोहति ॥ ३५ ॥
प्रजापतेः शरणमसि ब्रह्मणश्छदिरिति च्छत्रं प्रतिगृह्णाति ॥ ३६॥
यो मे दण्डः परापतद्विहायसोऽधिभूम्याम् । इमं तं पुनराददे यमायुषे च बलाय चेति दण्डं पुनरादत्ते यद्यस्य हस्तात्पतति ॥ (ख०११) ॥ ३७॥
इति सत्याषाढहिरण्यकेशिगृह्यसूत्र एकोनविंशप्रश्ने तृतीयः पटलः।

19.4
अथैकोनविंशप्रश्ने चतुर्थः पटलः ।
आनयन्त्यस्मै रथमश्वꣳ हस्तिनं वा ॥ १॥
रथंतरमसि वामदेव्यमसि बृहदस्यङ्कौ न्यङ्कावभित इत्येषा । अयं वामश्विना रथो मा दुःखे मा सुखे रिषत् । अरिष्टः स्वस्ति गच्छतु विविघ्नन्नभिदासतः । इह धृतिरिह विधृतिरिह रम इह रमतामिति रथमातिष्ठते । यदि रथेन प्रविशति।। २॥
अश्वोऽसि हयोऽसि मयोऽसीत्येकादशभिरश्वनामभिरश्वं यद्यश्वेन ॥३॥
इन्द्रस्य त्वावज्रेणाभ्युपविशामि वह कालं वह श्रियं माऽभिवह हस्त्यसि हस्तियशसमसि हस्तिवर्चसमसि हस्तियशसि(सी) हस्तिवर्चसी भूयासमिति हस्तिनं यदि तेन तद्गच्छति यत्रास्मा अपचितिं करिष्यन्तो भवन्ति ॥ ४ ॥
सꣳस्रवन्तु दिशो मयि समागच्छन्तु सूनृताः। सर्वे कामा अभियन्तु नः प्रिया अभिस्रवन्तु नः प्रिया इति दिश उपतिष्ठते ॥ ५ ॥
यशोऽसि यशोऽहं त्वयि भूयासमिति योऽस्यापचितिं करिष्यन्भवति तमभ्यागच्छन्समीक्षते ॥ ६॥
अथास्मा आवसथं कल्पयित्वाऽर्घ इति प्राह कुरुतेति प्रत्याह ॥७॥
कुर्वन्त्यस्मै त्रिवृतं पाङ्क्तं वा दधि मधु घृतमिति त्रिवृद्दधि मधु घृतमापः सक्तव इति पाङ्क्तः कꣳसे दध्यानीय मध्वानयति ॥८॥
ह्रसीयस्यानीय वर्षीयसाऽपिधायानूचीनानि पृथगादापयति कूर्चं पाद्यमर्घ्यमाचमनीयं मधुपर्क इति ॥९॥
अन्वङ्ङनुसंव्रजिता सोऽनुपकिंचया वाचैकैकं प्राह कूर्च इति कूर्चम् ॥ १९.४.१० ॥
तस्मिन्प्राङ्मुख उपविशति राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषमिति ॥ ११ ॥
अथास्मै पाद्यमिति प्राह ॥ १२ ॥
तेनास्य शूद्रः शूद्रा वा पादौ प्रक्षालयति सव्यमग्रे ब्राह्मणस्य दक्षिणमितरयोः॥ (ख० १२)॥ १३ ॥
विराजो दोहोऽसि मयि दोहः पद्यायै विराज इति योऽस्य पादौ प्रक्षालयति तस्य हस्तावभिमृश्य ॥ १४॥
आत्मानं प्रत्यभिमृशति मयि तेज इन्द्रियं वीर्यमायुः कीर्तिर्वर्चो यशो बलमिति ॥ १५ ॥
अथास्मा अर्घ्यमिति प्राह ॥ १६॥
तत्प्रतिगृह्णात्या मा गन् यशसा सꣳसृज तेजसावर्चसा पयसा च । तं मा कुरु प्रियं प्रजानामधिपतिं पशूनामिति ॥ १७॥
समुद्रं वः प्रहिणोम्यक्षिताः स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परा सेचिमत्पय इति शेषं निनीयमानमनुमन्त्रयते ॥ १८॥
आथास्मा आचमनीयमिति प्राह ॥ १९ ॥
अमृतोपस्तरणमसीत्यप आचामति ॥ १९.४.२० ॥
अथास्मै मधुपर्क इति प्राह ॥ २१ ॥
तꣳ सावित्रेणोभाभ्याꣳ हस्ताभ्यां प्रतिगृह्य पृथिव्यास्त्वा नाभौ सादयामीडायाः पद इति पृथिव्यां प्रतिष्ठाप्य यन्मधुनो मधव्यꣳ परममन्नाद्यꣳ रूपम् । तेनाहं मधुनो मधव्येन परमेण रूपेण परममधव्योऽन्नादो भूयासमित्यङ्गुष्ठेनोपमध्यमया चाङ्गुल्या त्रिः प्रदक्षिणꣳ संयुज्य तेजसे त्वा श्रियै यशसे बलायान्नाद्याय प्राश्नामीति त्रिः प्राश्य योऽस्य रातिर्भवति तस्मा उच्छिष्टं प्रयच्छति ॥ २२ ॥
सर्वं वा प्राश्यामृतापिधानमसीत्यप आचामति ।। २३ ॥
अथास्मै गौरिति प्राह ॥ २४ ॥
तस्याः कर्मोत्सर्गो वा ॥ २५ ॥
गौर्धेनुर्भव्या माता रुद्राणां दुहिता वसूनाꣳ स्वसाऽऽदित्यानाममृतस्य नाभिः । प्र णु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट । पिबतूदकं तृणान्यत्तु । ओमुत्सृजतेत्युत्सर्गे सꣳशास्ति ॥ २६ ॥
गौरस्यपहतपाप्माऽपपाप्मानं जहि । मम चामुष्य च हतं मे द्विषन्तꣳ हतो मे द्विषन्कुरुतेति क्रियमाणायाम् ॥ २७ ॥
उत्सर्गेऽन्येन माꣳसेनान्नꣳ सꣳस्कृत्याथास्मै भूतमिति प्राह तत्सुभूतं विराडन्नं तन्मा क्षयि तन्मेऽशीय तन्म ऊर्जं धास्तत्सुभूतमित्युक्त्वाऽथाऽऽह ब्राह्मणान्भोजयतेति ॥ २८ ॥
तेष्वस्मै भुक्तवत्स्वनुसंवृजिनमन्नमाहारयति ॥२९॥
तत्प्रतिगृह्णाति द्यौस्ते ददातु पृथिवी प्रतिगृह्णातु पृथिवी ते ददातु प्राणः प्रतिगृह्णातु । प्राणस्त्वाऽश्नातु प्राणः पिबत्विति ॥ १९.४.३०॥
इन्द्राग्नी मे वर्चः कृणुतामिति यावत्कामं प्राश्य योऽस्य रातिर्भवति तस्मा उच्छिष्टं प्रयच्छति ॥ ३१ ॥
यं कामयेत न विच्छिद्यतेति यस्मिन्भूतं च भव्यं च सर्वे लोका इह श्रिताः । तेन त्वाऽहं प्रतिगृह्णामि त्वामहं ब्रह्मणा त्वा मह्यं प्रतिगृह्णाम्यसावित्याचम्य ॥ (ख० १३ ) ॥ ३२ ॥
भुक्तवतो दक्षिणं हस्तं गृह्णीयात् ॥ ३३ ॥
यममात्यमन्तेवासिनं प्रेष्यं वा कामयेत ध्रुवो मेऽनपायी स्यादिति स पूर्वाह्णे स्नातः प्रयतवस्त्रोऽहःक्षान्तो ब्राह्मणसंभाषो . निशायां तस्याऽऽवसथं गत्वा जीवशृङ्गे प्रस्राव्य त्रिः प्रदक्षिणमावसथं परिषिञ्चन्परिक्रामेत्परि त्वा गिरेरहमिदं परिभ्रातुः परिष्वसुः । परि सर्वेभ्यो ज्ञातिभ्यः परिषीदः क्लेष्यसि । शश्वत्परिकुपिलेन संक्रामेणाविच्छिदा ऊलेन परिमीढोऽसि परिमीढोऽस्यूलेनेति ।। ३४ ॥
अनिगुप्ते जीवशृङ्गं विदधाति ॥ ३५ ॥
यस्मा अमात्या अन्तेवासिनः प्रेष्या वोद्द्रवेयुस्तान्परिक्रोशेदनुपौह्वदनुपह्वयेन्निवर्तो यो न्यवीवृधः । ऐन्द्रो वः परिक्रोशः परिक्रोशतु सर्वदा । यदिति मामिति मन्यायध्वं माया देवा अवत्तरम् । इन्द्रः पाशो नवः सिक्त्वा मह्यं पुनरुदाजत्विति ॥ ३६ ॥
योऽथ स्वागारं प्रविश्य सैध्रकीꣳ समिधमाधायाऽऽवर्तन वर्तयेत्याकर्षणेन जुहोति ॥(ख०१४) ॥३७॥
अथातो दारगुप्तिꣳ स्थूरादृढाचूर्णानि कारयित्वा जारी सुप्तायै योनिमुपवपेदिन्द्राय यास्यशेफमलिकमन्येभ्यः पुरुषेभ्योऽन्यत्र मदिति ॥ ३८ ।।
अथातः पण्यसिद्धिः ॥ ३९॥
पण्यस्यापादाय जुहोति यद्वो देवाः प्रपणं चराम देवा धनेन धनमिच्छमानाः । तस्मिन्सोमो रुचमादधात्वग्निरिन्द्रो बृहस्पतिरीशानश्च स्वाहेति ॥१९.४.४०॥
अथातः क्रोधविनयनम् ॥ ४१ ॥
या त एषा रराट्या तनूर्मन्योर्मृद्वस्य नाशिनी। तां देवा ब्रह्मचारिणो विनयन्तु सुमेधसः । यत एतन्मुखे मतꣳ रराटमुदिव विध्यसि । अव द्यामिव धन्विनो हृदो मन्युं तनोमि ते । अहर्द्यौश्च पृथिवी च विधे क्रोधं नयामसि । गर्भमश्वतर्या इवेति क्रुद्धमभिमन्त्रयते ॥ ४२ ॥
अथातः संवादाभिजयनम् ॥४३॥
निशायामन्तरागारेष्वग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा कणैराज्यमिश्रैर्जुहोति । अव जिह्व निजिह्विकाव त्वा हविषा यजे । यथाऽहमुत्तरो वदाम्यधरोवद सौवद स्वाहेति ॥ ४४ ॥
अथैनꣳ संनिधावभिजपति आ ते वाचमास्याददे मनस्याꣳ हृदयादधि । अङ्गादङ्गात्ते वाचमाददे यत्र यत्र निहिता वाक्तां त आददे । रुद्रनीलशिखण्डवीरकर्मणि कर्मणीमं मे प्रतिसंवादिनं वृक्षमिवाशनिना जहि । अधोवदाधरोवदाधस्ताद्भूम्यावद । अधोप्रतिरिव कूटेन निजस्य निहितो मया । तत्सत्यं यदहं ब्रवीम्यधरो मत्पद्यस्वासाविति ॥४५॥
हिरण्यबाहुः सुभगा जिताक्ष्यलंकृता मध्ये देवानामासीनाऽर्थं मह्यमवोचत्स्वाहेति सभामालभ्य जपति ॥ ४६॥
मम परे ममापरे ममेयं पृथिवी मही । ममाग्निश्चेन्द्रश्च दिव्यमर्थमसाधयन्निवेति परिषदमभिवीक्षतेऽभ्येव जपति ॥ ( ख० १५)॥४७॥
इति सत्याषाढहिरण्यकेशिगृह्यसूत्र एकोनविंशप्रश्ने चतुर्थः पटलः ।

19.5
अथैकोनविंशप्रश्ने पञ्चमः पटलः ।
दर्शे चन्द्रमसं दृष्ट्वाऽप आचम्यापो धारयमाण आप्यायस्व सं ते नवो नवो भवति जायमानो यमादित्या अꣳशुमाप्याययन्तीति चतसृभिरुपतिष्ठते ॥ १॥
मयि दक्षक्रतू इति जञ्जभ्यमानो जपति ॥२॥
सिगसिनसि वज्रो नमस्ते अस्तु मा मा हिꣳसी'रिति सिचाऽधिक्षिप्तो जपति ॥ ३॥
तस्य तन्तुमाच्छिद्य मुखवातेन प्रध्वꣳसयेत् ॥ ४॥
ये पक्षिणः पतयन्ति बिभ्यतो निर्ऋतैः सह । ते मा शिवेन शमेन तेजसोन्दन्तु वर्चसेति वयसाऽधिक्षिप्तो जपति ॥५॥
तदन्येन हस्तात्प्रमृज्याद्भिः प्रक्षालयीत दिवो नु मा बृहतो अन्तरिक्षादपाꣳ स्तोको अभ्यपतच्छिवाय । समिन्द्रियेण मनसाऽहमागां ब्रह्मणा गुप्तः सुकृता कृतेनेति जपेद्यद्येनमविज्ञातोऽपाꣳ स्तोकोऽभिच्छादयेत् ॥ ६॥
यद् वृक्षाग्रादभ्यपतत्फलं यद्वाऽन्तरिक्षात्तदु वायुरेव । यत्रा वृक्षस्तनु वै यत्र वास आपो बाधतां निर्ऋतिं पराचैरिति जपेद्यद्येनमविज्ञातं फलमभिपतेत् ॥ ७ ॥
नमः पथिषदे वातेषवे रुद्राय नमो रुद्राय पथिषद इति चतुष्पथमवक्रम्य जपति ॥ ८॥
नमः पशुषदे वातेषवे रुद्राय नमो रुद्राय पशुषद इति शकृद्धतौ ॥ ९॥
नमः सर्पसृते वातेषवे रुद्राय नमो रुद्रायेति सर्पसृते ॥ १९.५.१० ॥
नमोऽन्तरिक्षसदे वातेषवे रुद्राय नमो रुद्रायान्तरिक्षसद इति ॥ ११ ॥
यद्येनꣳ संवर्तवात आगच्छेत् । नमोऽप्सुषदे वातेषवे रुद्राय नमो रुद्रायाप्सुषद इति ॥ १२ ॥
नदीमुदन्वतीमवगाह्य जपति नमस्तत्सदे वातेषवे रुद्राय नमो रुद्राय तत्सद इति ॥ १३ ॥
चित्रं देशं देवयजनं वनस्पतिं वाऽऽक्रम्य जपति ॥ १४ ॥
सूर्याभ्युदितोऽहनि नाश्नीयाद्वाग्यतोऽहस्तिष्ठेत् ॥ १५ ॥
सूर्याभिनिम्रुक्तो रात्रावेवम् ॥ १६ ॥
न यूपमुपस्पृशेद्यद्युपस्पृशेद्दुरिष्टं यज्ञस्य प्रतिमुञ्चीत यद्येकमुपस्पृशेदेष ते वायो इति ब्रूयाद्यदि द्वावेतौ तौ वायू इति यदि बहूनेते ते वायव इति ॥ १७ ॥
अनिहूतं परिहूतं परिष्टुतꣳ शकुनैरुदितं च यत् । मृगस्य शतमक्ष्णया तद्विपरषद्भ्यो भयामसीत्यध्वानमभिप्रव्रजञ्जपति ॥ १८ ॥
उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि । स्वस्ति नः शकुने अस्तु शिवो नः सुमना भवेत्यनभिप्रेतꣳ शकुनं प्रति जपति ॥ १९॥
यदेतद्भूतान्यन्वाविश्य दैवीं वाचं वदसि । द्विषतो नः परा वदतान्मृत्यो मृत्यवे नयेत्येकसृकम् ।। १९.५.२० ॥
अथास्मा उभयत आदीप्तमुल्मुकं तां दिशं प्रति निरस्यति । अग्ने अग्निना संवदस्व मृत्यो मृत्युना संवदस्वेत्यप उपस्पृश्य ॥ २१ ॥
अथैनमुपतिष्ठते विभूरसि प्रवाहण इत्येतेनानुवाकेन ॥ (ख०१६) ॥ २२ ॥
यदीषितो यदि वा स्वकामी भयेडको वदति वाचमेताम् । तामिन्द्राग्नी ब्रह्मणा संविदानौ शिवामस्मभ्यं कृणुतं गृहेष्विति सालावृकीम्॥२३॥
प्रसार्य सक्थौ पतसि सव्यमक्षि निपेषि च । मेह कस्य च नाम मदितिशकुनिम् ॥ २४ ॥
हिरण्यपक्षः शकुनिर्देवानां वसतिंगमः । ग्रामं प्रदक्षिणं कृत्वा स्वस्ति नो वद कौशिकेति पिङ्गलाम् ॥ २५॥
पुनर्मामैत्विन्द्रियं पुनरायुः पुनर्भगः । पुनर्ब्राह्मण मैतु मा पुनर्द्रविणमैतु मेति । अथैते धिष्णियासो अग्नयो यथास्थानं कल्पन्तामिहैव स्वाहा । पुनर्म आत्मा पुनरायुरागात्पुनः प्राणः पुनराकूतमागात् । वैश्वानरो रश्मिाभिर्वावृधानोऽन्तस्तिष्ठतु मे मनोऽमृतस्य केतुः स्वाहा । यदन्नमद्यते सायं न तत्प्रातरवति क्षुधः । सर्वं तदस्मान्मा हिꣳसीर्नहि तद्ददृशे दिवा स्वाहेत्यनभिप्रेतꣳ स्वप्नं दृष्ट्वा तिलैराज्यमिश्रैर्जुहोति ॥ २६॥
अथैतान्यद्भुतप्रायश्चित्तानि भवन्ति कुप्त्वा कपोत उपाविक्षन्मध्वगार उपाविक्षद्गौर्गामधैषीत्स्थूणा व्यरौक्षीद्वल्मीक उदैक्षीदित्येवꣳरूपाणि ॥ २७ ॥
स पूर्वाह्णे स्नातः प्रयतवस्त्रोऽहःक्षान्तो ब्राह्मणसंभाषोऽन्तरागारेऽग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोतीमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचमिति चात्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथापुरस्ताद्ब्राह्मणानन्नेन परिविष्य पुण्याहꣳ स्वस्त्ययनमिति वाचयित्वा ॥ (ख० १७॥)॥ २८ ॥
इन्द्राग्नी वः प्रस्थापयतामश्विनावभिरक्षताम् । बृहस्पतिर्वो गोपालः पूषा वः पुनरुदाजत्विति गाः प्रतिष्ठमाना अनुमन्त्रयते । पूषा गा अन्वेतु न इति च ॥ २९॥
इमा या गाव आगमन्नयक्ष्मा बहुसूवरीः । नद्य इव स्रवन्तु समुद्र इव निषिञ्चन्त्विति गा आयतीः प्रतीक्षते ॥ १९.५.३० ॥
सꣳस्थाः स्थ सꣳस्था वो भूयास्थाच्युताः स्थ मा मा च्योढ्वं माऽहं भगवतीभ्यश्च्यौषीरिति सꣳस्थिताः॥३१॥
ऊर्जा वः पश्याम्यूर्जा मा पश्यतेति गोष्ठगताः सहस्रपोषं वः पुष्यासमिति च ॥ ३२ ॥
अतो गवां मध्येऽग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा पयसा जुहोत्युद्दीप्यस्व जातवेदोपघ्नं निर्ऋतिं मम । पशूꣳश्च मह्यमावह जीवनं च दिशो दिश स्वाहा । मा नो हिꣳसीज्जातवेदो गामश्वं पुरुषं जगत् । अबिभ्रदग्न आगहि श्रिया मा परिपातय स्वाहा । अपामिदं न्ययनं नमस्ते हरसे शोचिष इति च ॥ ३३ ॥
इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचमिति चात्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथापुरस्तात् ॥ (ख० १८ ) ॥ ३४ ॥
इति सत्याषाढहिरण्यकेशिगृह्यसूत्र एकोनविंशप्रश्ने पञ्चमः पटलः ॥

19.6
अथैकोनविंशप्रश्ने षष्ठः पटलः ।
समावृत्त आचार्यकुलान्मातापितरौ बिभृयात्ताभ्यामनुज्ञातो भार्यामुपयच्छेत्सजातां नग्निकां ब्रह्मचारिणीमसगोत्रामह्नः पञ्चसु कालेषु प्रातः संगवे मध्यंदिनेऽपराह्णे सायं वैतेषु यत्कारी स्यात्पुण्याह एव कुरुतेऽग्निमुपसमाधाय परिधिपरिधानान्तं कृत्वा वधूमानीयमानाꣳ समीक्षते सुमङ्गलीरियं वधूरिमाꣳ समेत पश्यत । सौभाग्यमस्यै दत्त्वायाथास्तं विपरेतनेति दक्षिणतः पतिं भा(त्युर्भा)र्योपविशत्याचान्तसमन्वारब्धायां परिषिञ्चति यथापुरस्तात् ॥ १॥
व्याहृतिपर्यन्तं कृत्वा जुहोति । अग्निरैतु प्रथमो देवतानाꣳ सौऽस्यै प्रजां मुञ्चतु मृत्युपाशात् । तदयꣳ राजा वरुणोऽनुमन्यतां यथेयꣳ स्त्री पौत्रमघं नरोऽदात्स्वाहा । इमामग्निस्त्रायतां गार्हपत्यः प्राजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिप्रबुध्यतामियꣳ स्वाहा । मा ते गृहे निशि घोष उत्थादन्यत्र त्वद्रुदत्यः संविशन्तु । मा त्वम्बिके शूरअविधिष्ठा जीव पत्नी पतिलोके विराज प्रजां पश्यन्ती सुमनस्यमानाꣳ स्वाहा । द्यौस्ते पृष्ठꣳ रक्षतु वायुरूरू अश्विनौ च स्तनं धयतस्ते पुत्रान्सविताऽभिरक्षु । आवाससः परिधानाद्बृहस्पतिर्विश्वे देवा अभिरक्षन्तु पश्चात्स्वाहा। अप्रजस्तां पौत्रमृत्युं पाप्मानमुत वाऽघम् । शीर्ष्णः स्रजमिवोन्मुच्य द्विषद्भ्यः प्रतिमुञ्चामि पापꣳ स्वाहा । देवकृतं ब्राह्मणं कल्पमानं तेन हन्मि योनिषदः पिशाचान् । क्रव्यादो मृत्यूनधरान्पादयामि दीर्घमायुस्तव जीवन्तु पुत्राः स्वाहा ॥ २ ॥
इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि प्रजापत इति ॥ ३॥
अश्मानमास्थापयत्यातिष्ठेममश्मानमश्मेव त्वꣳ स्थिरा भव । प्रमृणीहि दुरस्यून्त्सहस्व पृतनायत इत्यपरेणाग्निं द्वयान्दर्भान्पूर्वापरानुदगग्रान्सꣳस्तीर्य तेषु पूर्वापराववतिष्ठेते ।। (ख० १९)॥४॥
प्राङ्मुखः प्रत्यङ्मुख्या हस्तं गृह्णीयात्प्रत्यङ्मुखः प्राङ्मुख्या वा ॥५॥
यदि कामयेत पुꣳसो जनयेयमित्यङ्गुष्ठं गृह्णीयात् ॥ ६ ॥
यदि कामयेत स्त्रीरित्यङ्गुलीः ॥ ७ ॥
यदि कामयेतोभयं जनयेयमित्यभीव लोमान्यङ्गुष्ठꣳ सहाङ्गुलिभिर्गृह्णीयात् । सरस्वति प्रेदमिव सुभगे वाजिनीवति । तां त्वा विश्वस्य भूतस्य प्रजायामस्यग्रतः । गृह्णामि ते सुप्रजास्त्वाय हस्तं मया पत्या जरदष्टिर्यथाऽसत् । भगो अर्यमा सविता पुरंधिर्मह्यं त्वाऽदुर्गार्हपत्याय देवा इति ॥ ८॥
तामग्रेण दक्षिणमꣳसं प्रतीचीमभ्यावृत्याभिमन्त्रयते । अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः जीवसूर्वीरसूः स्योना शं न एधि द्विपदे शं चतुष्पदे । तां नः पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति । या न ऊरू उशती विस्रयातै यस्यामुशन्तः प्रहरेम शेपम् । सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः । तृतीयोऽग्निष्टे पतिस्तुरीयोऽहं मनुष्यजाः। सोमोऽददाद्गन्धर्वाय गन्धर्वोऽग्नयेऽददात् । पशूꣳश्च मह्यं पुत्राꣳश्चाग्निर्ददात्यथो त्वाम् । अमूहमस्मि सा त्वं द्यौरहं पृथिवी त्वम् । सामाहमृक्त्वं तावेहि संभवाव सह रेतो दधावहै । पुꣳसे पुत्राय वेत्तवै रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेमां त्वमिन्द्र मीढ्वः सुपुत्राꣳ सुभगां कुरु । दशास्यां पुत्रानाधेहि पतिमेकादशं कुर्विति ॥ ९ ॥
तां यथायतनमुपवेश्याथास्या अञ्जलावाज्येनोपस्तीर्य लाजान् द्विरावपतीमाँल्लाजानावपामि समृद्धिकरणान्मम । तुभ्यं च संवननं तदग्निरनुमन्यतामयमित्यभिघार्येयं नार्युपब्रूतेऽग्नौ लाजानावपन्ती । दीर्घायुरस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहेति तस्या अञ्जलिना जुहोति ।। १९.६.१०॥
उदायुषेत्युत्थाप्य विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विष इति प्रदक्षिणं परिक्रम्य ॥ ११ ॥
तथैव लाजानावपति द्वितीयं परिक्रम्य ॥ १२॥
तथैव लाजानावपति तृतीयं परिक्रम्य सौविष्टकृतीं जुहोति ॥ १३ ॥
अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात् ॥ १४ ॥
तामपरेणाग्निं प्राचीमुदीचीं वा विष्णुक्रमान्क्रमयति ॥ १५॥
अथैनाꣳ सꣳशास्ति दक्षिणेन प्रक्रम्य सव्येनानुप्रक्राम मा सव्येन दक्षिणमतिकामीरिति ॥ (ख० २०)॥१६॥
एकमिषे विष्णुस्त्वाऽन्वेतु द्वे ऊर्जे विष्णुस्त्वाऽन्वेतु त्रीणि व्रताय विष्णुस्त्वाऽन्वेतु चत्वारि मायोभवाय विष्णुस्त्वाऽन्वेतु पञ्च पशुभ्यो विष्णुस्त्वाऽन्वेतु षड्रायस्पोषाय विष्णुस्त्वाऽन्वेतु सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वाऽन्वेत्विति सप्तमं पदमवस्थाप्य जपति ॥ १७ ॥
सखायौ सप्तपदा बभूव सख्यं ते गमेयꣳ सख्यात्ते मा योषꣳ सख्यान्मे मा योष्ठा इति । अथास्य दक्षिणेन पादेन दक्षिणं पादमवक्रम्य दक्षिणेन हस्तेन दक्षिणमꣳसमुपर्युपर्यन्ववमृश्य हृदयदेशमभिमृशति यथापुरस्तात्प्राणानां ग्रन्थिरसि समाविस्रस इति नाभिदेशम् ॥ १८॥
तामपरेणाग्निं प्राचीमुपवेश्य तस्याः पुरस्तात्प्रत्यङ्तिष्ठन्नद्भिः प्रोक्षत्यापो हि ष्ठा मयो भुव इति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इति चैतेनानुवाकेन॥१९॥
अत्र बीजान्यधिश्रयन्ति ॥ (ख० २१)॥ १९.६.२०॥
इति सत्याषाढहिरण्यकेशिगृह्यसूत्रे एकोनविंशप्रश्ने षष्ठः पटलः ।

19.7
अथैकोनविंशप्रश्ने सप्तमः पटलः ।
तां ततः प्रवाहयन्ति प्र वा हारयन्ति ॥ १ ॥
समोप्यैतमग्निमनुहरन्ति ॥ २॥
नित्यो धार्यः ॥ ३॥
अनुगतो मन्थ्यः श्रोत्रियागाराद्वाऽऽहार्यः ॥ ४॥
उपवासश्चानुगते भार्यायाः पत्युर्वा ॥ ५ ॥
अगारं प्राप्याथैनाꣳ सꣳशास्ति दक्षिणं पादमग्रेऽतिहर देहलिं माऽधिष्ठा इति ॥ ६॥
पूर्वार्धे शालायां न्युप्योपसमादधात्यपरेणाग्निं लोहितमानडुहं चर्म प्राचीनग्रीवमुत्तरलोमाऽऽस्तृणाति ॥ ७ ॥
तस्मिन् प्राङ्मुखावुदङ्मुखौ वोपविशतः पश्चात्पतिं भार्योपविशतीह गावो निषीदन्त्विहाश्वा इह पूरुषाः। इहो सहस्रदक्षिणोऽपि पूषा निषीदत्विति ॥ ८॥
वाचंयमावासाते आ नक्षत्राणामुदयात् ॥ ९ ॥
उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य देवीः षडुर्वीरिति दिश उपतिष्ठते।॥ १९.७.१० ॥
मा हास्महि प्रजयेति नक्षत्राणि ॥ ११ ॥
मारधाम द्विषते सोमराजन्निति चन्द्रमसम् ॥ १२ ॥
सप्तर्षयः प्रथमां कृत्तिकानामरुन्धतीं ये ध्रुवताꣳ ह निन्युः । षट्कृत्तिकामुख्ययोगं वहन्तीयमस्माकं भ्राजत्वष्टमीति सप्तर्षीनुपस्थाय ध्रुवमुपतिष्ठते । ध्रुवक्षितिर्धुवयोनिर्ध्रुवमसि ध्रुवमस्थितं त्वं नक्षत्राणां मेध्यसि स मा पाहि पृतन्यतः। नमो ब्रह्मणे ध्रुवायाच्युतायास्तु नमो ब्रह्मणः पुत्राय प्रजापतये नमो ब्रह्मणः पुत्रेभ्यो देवेभ्यस्त्रयस्त्रिꣳशेभ्यो नमो ब्रह्मणः पुत्रपौत्रेभ्योऽङ्गिरोभ्यो यस्त्वा ध्रुवमच्युतꣳ सपुत्रꣳ सपौत्रं ब्रह्म वेद ध्रुवा अस्मिन् पुत्राः पौत्रा भवन्ति प्रेष्यान्तेवासिनो वसनं कम्बलानि कꣳसꣳ हिरण्यꣳ स्त्रियो राजानोऽन्नमभयमायुः कीर्तिर्वर्चो यशो बलं ब्रह्मवर्चसमन्नाद्यमित्येतानि मयि सर्वाणि ध्रुवाण्यच्युतानि सन्तु॥(ख०२२) ॥ ध्रुवं त्वा ब्रह्म वेद ध्रुवोऽहमस्मिँल्लोकेऽस्मिꣳश्च जनपदे भूयासम् । अच्युतं त्वा ब्रह्म वेद माऽहमस्माल्लोकादस्माच्च जनपदाच्च्योषि द्विषन्मे भ्रातृव्योऽस्माल्लोकादस्माच्च जनपदाच्च्यवताम् । अचेष्टं त्वा ब्रह्म वेद माऽहमस्माल्लोकादस्माच्च जनपदाच्चेष्टिषि द्विषन्मे भ्रातृव्योऽस्माल्लोकादस्माच्च जनपदाच्चेष्टताम् । अव्यथमानं त्वा ब्रह्म वेद माऽहमस्माल्लोकादस्माच्च जनपदाद्व्यथिषि द्विषन्मे भ्रातृव्योsस्माल्लोकादस्माच्च जनपदाद्व्यथताम् । नभ्यं त्वा सर्वस्य वेद नभ्यमहमस्य जनपदस्य भूयासम् । मध्यं त्वा सर्वस्य वेद मध्यमहमस्य जनपदस्य भूयासम् । तन्तिं त्वा सर्वस्य वेद तन्तिरहमस्य जनपदस्य भूयासम् । मेथीं त्वा सर्वस्य वेद मेथ्यहमस्य जनपदस्य भूयासम् । नाभिं त्वा सर्वस्य चेद नाभिरहमस्य जनपदस्य भूयासं यथा नाभिः प्राणानां विषूवानेवमहं विषूवानेकशतं तं पाप्मानमृच्छतु योऽस्मान्द्वेष्टि यं च वयं द्विष्मो भूयाꣳसि मामेकशतान्पुण्यान्यागच्छन्त्विति॥ १३ ॥
अत्र मनोज्ञेन संभाष्यागारं प्राप्याथैनामाग्नेयेन स्थालीपाकेन याजयति ॥ १४ ॥
पत्न्यवहन्ति ॥ १५ ॥
श्रपयित्वाऽभिघार्योद्वास्याग्नये हुत्वाऽग्नये स्विष्टकृते जुहोति ॥ १६ ॥
तेन ब्राह्मणं विद्यावन्तं परिवेवेष्टि ॥ १७॥
योऽस्यापचितो भवति तस्मा ऋषभं ददाति ॥ १८॥
नित्यमत ऊर्ध्वं पर्वस्वाग्नेयेन स्थालीपाकेन यजते ॥ १९॥
नित्यं सायंप्रातर्व्रीहिभिर्यवैर्वा हस्तेनैते आहुती जुहोति अग्नये स्वाहा प्रजापतये स्वाहेति ॥१९.७.२०॥
सौरीं पूर्वां प्रातरेके समामनन्ति ॥ २१॥
त्रिरात्रमक्षारालवणाशिनावधःशायिनावलंकुर्वाणौ ब्रह्मचारिणौ वसतः ॥ २२ ॥
चतुर्थ्यामपररात्रेऽग्निमुपसमाधाय प्रायश्चित्तिपर्यन्तं कृत्वा नव प्रायश्चित्तीर्जुहोति ॥ (ख०२३)। अग्ने प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै घोरा तनूस्तामितो नाशय स्वाहा। वायो प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै निन्दिता तनूस्तामितो नाशय स्वाहा । आदित्य प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम उपधावामि याऽस्यै पतिघ्नी तनूस्तामितो नाशय स्वाहा । आदित्य प्रायश्चित्ते वायो प्रायश्चित्तेऽग्ने प्रायश्चित्तेऽग्ने प्रायश्चित्ते वायो प्रायश्चित्त आदित्य प्रायश्चित्त इति हुत्वा ॥ २३ ॥
अथास्यै मूर्ध्नि सꣳस्रावं जुहोति भूर्भगं त्वयि जुहोमि स्वाहा ।।भुवो यशस्त्वयि जुहोमि स्वाहा।। सुवः श्रियं त्वार्य जुहोमि स्वाहा ॥ भूर्भुवः सुवस्त्विषिं त्वयि जुहोमि स्वाहेति ॥ २४ ॥
अत्रैवोदपात्रं निधाय प्रदक्षिणमग्निं परिक्रम्या परेणाग्निं प्राचीमुदीचीं वा संवेश्याथास्यै योनिमभिमृशत्यभि त्वा पञ्चशाखेन शिवेनाभिद्विषावता ॥ सहस्रेण यशस्विना हस्तेनाभिमृशामसि सुप्रजास्त्वायेति ॥ २५ ॥
अथैनामुपयच्छते सं नाम्नः सꣳ हृदयानि सं नाभिः सं त्वचः ॥ सं त्वा कामस्य योक्त्रेण युञ्जान्यविमोचनायेति ॥ २६ ॥
अथैनां परिष्वजते मामनुव्रता भव सहचर्या मया भव॥ या ते पतिघ्नी तनूर्जारघ्नीं त्वेतां करोमि शिवा त्वं मह्यमेधि क्षुरपविर्जारेभ्य इति ॥ २७ ॥
अथास्यै मुखेन मुखमीप्सते मधु हे मध्विदं मधु जिह्वा मे मधुवादिनी । मुखे मे सारघं मधु दत्सु संवननं कृतम् । चाक्रवाकꣳ संवननं यन्नदीभ्य उदाहृतम् । यद्युक्तो देवगन्धर्वस्तेन संवनिनौ स्वक इति ॥ २८ ॥
त्रिरात्रं मलवद्वासा ब्राह्मणव्याख्यातानि व्रतानि चरति ॥ २९॥
चतुर्थ्याꣳ स्नातां प्रयतवस्त्रामलंकृतां ब्राह्मणसंभाषामाचम्योपह्वयते ॥ (ख० २४॥१९.७.३०॥
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिꣳशतु ॥ आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते । गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति । गर्भं ते अश्विनावुभावाधत्तां पुष्करस्रजौ । हिरण्ययी अरणीयं निर्मन्थतो अश्विना । तं ते गर्भꣳ हवामहे दशमास्याय सूतवै । यथाऽग्निगर्भा पृथिवी द्यौर्यथेन्द्रेण गर्भिणी । वायुर्यथा दिशां गर्भ एवं गर्भं दधामि ते । यस्य योनिं प्रति रेतो गृहाण पुमान्पुत्रो जायतां गर्भो अन्तः । तं माता दशमासो बिभर्तु स जायतां वीरतमः स्वानाम् । आ ते गर्भो योनिमेतु पुमान्बाण इवेषुधिम् । आवीरो अत्र जायतां पुत्रस्ते दशमास्यः । करोमि ते प्राजापत्यमा गर्भो योनिमेतु ते । अनूनः पूर्णो जायतामनन्धोऽश्लोणोऽपिशाचधीरः । यानि प्रभूणि वीर्याण्यृषभा जनयन्तु नः । तैस्त्वं गर्भिणी भव स जायतां वीरतमः स्वानाम् । यो वशायां गर्भो यश्च वेहतीन्द्रस्तं निदधे वनस्पतौ । तेन त्वं गर्भिणी भव सा प्रसूर्धेनुगा भव । सं नाम्नश्चाक्रवाकमिति च ॥ ३१ ॥
भूः प्रजापतिनाऽत्यृषभेण स्कन्दयामि वीरं धत्स्वासौ । भुवः प्रजापतिनाऽत्यृषभेण स्कन्दयामि वीरं धत्स्वासौ । सुवः प्रजापतिनाऽत्यृषभेण स्कन्दयामि वीरं धत्स्वासाविति वीरꣳ हैव जनयति ॥ ३२ ॥
सर्वाण्युपगमनानि मन्त्रवन्ति भवन्तीत्यात्रेयः ॥ ३३ ॥
यच्चाऽऽदौ यच्चर्ताविति बादरायणः ॥ ( ख० २५) ॥ ३४ ॥
पाणिग्रहणादिरग्निस्तमौपासनमित्याचक्षते। तस्मिन्गृह्याणि कर्माणि क्रियन्ते । तस्यौपासनेनाऽऽहिताग्नित्वम् । यथा पार्वणेन चरुणा दर्शपूर्णमासयाजित्वं चेति । द्वादशाहं विच्छिन्नः पुनराधेयः । प्रतिसंख्याय वा सर्वान्होमाञ्जुहुयात् । परिश्रित उद्धतेऽवोक्षिते सिकतोपोप्त उदुम्बरशाखाभिः प्लक्षशाखाभिर्वा प्रच्छाद्य । यथालाभं तूष्णीꣳ संभारान्संभृत्य । याज्ञिकात्काष्ठादग्निं मथित्वा लौकिकं वाऽऽहृत्य सते कृत्वा प्रज्वालयित्वाऽभ्यादधाति भूर्भुवः सुवरों प्रतिष्ठेति । अथैनमग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा द्वे मिन्दाहुती जुहोति यन्म आत्मनो मिन्दाभूत्पुनरग्निश्चक्षुरदादिति । तिस्रस्तन्तुमतीर्जुहोति तन्तुं तन्वन्नुद्बुध्यस्वाग्ने त्रयस्त्रिꣳशत्तन्तव इति । चतस्रोऽभ्यावर्तिनीर्जुहोत्यग्नेऽभ्यावर्तिन्नग्ने अङ्गिरः पुनरूर्जा सह रय्येति । एकैकशो व्याहृतीः समस्ताश्च हुत्वा । अयाश्चाग्नेऽस्यनभिशस्तीश्च सत्यमित्त्वमया असि । अयसा मनसा धृतोऽयसा हव्यमूहिषे या नो धेहि भेषजꣳ स्वाहेत्येताम् । मनस्वतीं प्राजापत्याꣳ सप्तवतीं च हुत्वा दशहोतारं मनसाऽनुद्रुत्य सग्रहꣳ हुत्वा इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचमित्येके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथापुरस्ताद्ब्राह्मणानन्नेन परिविष्य पुण्याहꣳ स्वस्त्ययनमृद्धिमिति वाचयित्वा प्रसिद्धमाग्नेयेन स्थालीपाकेन यजते। अत्र गुरवे वरं ददाति वाससी धेनुमनड्वाहं वा । यदि प्रयायाद्व्याख्यातो होमकल्प आत्मन्नरण्योर्वा समारोपणꣳ समिधि वा समारोपयेदरणीकल्पेन खादिरः पालाश औदुम्बर आश्वत्थश्चात्रैकतरस्मिन् । यत्रावस्येत्तस्मिञ्छ्रोत्रियागारादग्निमाहृत्याऽऽजुह्वान उद्बुध्यस्वेति द्वाभ्यां यस्याꣳ समारूढस्तामादधाति । व्याख्यातो होमकल्पः । यदि पार्वणो विच्छिद्येत तस्मिन्पाथिकृतेन याजयेत् । यदि द्वौ वैश्वानरपाथिकृतौ । यदि बहून्पुनराधेयः । यदि नाशे विनाशे वाऽन्यैरग्निभिरग्नौ सꣳसृष्टे वा पुनराधेयः ॥ ( ख० २६ ) !॥ ३५ ॥
इति सत्याषाढहिरण्यकेशि गृह्यसूत्र एकोनविंशप्रश्ने सप्तमः पटलः ।

19.8
अथैकोनविंशप्रश्नेऽष्टमः पटलः।
शालां कारयिष्यन् ॥१॥
उदगयन आपूर्यमाणपक्षे रोहिण्यां त्रिषु चोत्तरेष्वग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोतीमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचमिति चात्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथापुरस्ताद्ब्राह्मणानन्नेन परिविष्य पुण्याहꣳ स्वस्त्ययनमृद्धिमिति वाचयित्वा ॥२॥
अहतं वासः परिधायाप उपस्पृश्य ॥ ३ ॥
देवस्य त्वेत्यभ्रिमादाय परिलिखितमिति त्रिः प्रदक्षिणं परिलिख्य यथार्थमवटान्खात्वाऽभ्यन्तरपाꣳसून्करोति ॥ ४॥
इहैव ध्रुवां निमिनोमि शालां क्षेमे तिष्ठ घृतमुक्षमाणा । तां त्वा शाले सुवीराः सर्ववीरा अरिष्टवीरा अनुसंचरेमेति दक्षिणां द्वारस्थूणामुच्छ्रयति ॥ ५ ॥
इहैव ध्रुवा प्रतितिष्ठ शाले अश्वावती गोमती सूनृतावती । ऊर्जस्वती पयसा पिन्वमानोच्छ्रयस्व महते सौभगायेत्युत्तराम् ॥ ६॥
आ त्वा कुमारस्तरुण आ वत्सो जगता सह । आ त्वा हिरण्मयः कुम्भ आदघ्नः कलशैरयन्निवेति संमितावभिमृशति ॥ ७ ॥
एवमेव स्थूणाराजावुच्छ्रयति ॥ ८ ॥
एवमभिमृशति ॥ ९॥
ऋतेन स्थूणावधिरोह वꣳशोर्ध्वो विराजन्नपसेध शत्रून् । अथास्मभ्यꣳ सहवीराꣳ रयिंदा इति पृष्ठवꣳशमारोपयते ॥ १९.८.१० ॥
मा नः सपत्नः शरणः स्योना देवो देवेभिर्विमितास्यग्ने । तृणं वसानाः सुमना असि त्वꣳ शं न एधि द्विपदे शं चतुप्पद इति च्छन्नामभिमृशति ॥ ११ ॥
ततोऽनुराधैर्वास्तुशमनं निशायामन्तरागारेऽग्निमुपसमाधाय व्याहृतिपर्यन्तं कृत्वा जुहोति ॥ (ख० २७) ॥ १२ ॥
वास्तोष्पते वास्तोष्पत इति द्वे वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो । अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व स्वाहा । अपैतु मृत्युरमृतं न आगन्वैवस्वतो नो अभयं कृणोतु । पर्णं वनस्पतेरिवाभि नः शीयताꣳ रयिः सचतां नः शचीपतिः स्वाहा। परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इतरो देवयानात् । वास्तोष्पते शृण्वते ते ब्रवीमि मा नः प्रजाꣳ रीरिषो मोत वीरान्स्वाहा । इदमू नुः श्रेयोवसानमागन्म यद्गोजिद्धनजिदश्वजिद्यत् । पर्णं वनस्पतेरिवाभि नः शीयताꣳ रयिः सचतां नः शचीपतिः स्वाहेमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचमिति चात्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति यथा पुरस्ताद्राितह्मणानन्नेन परिविष्य पुण्याहꣳ स्वस्त्ययनमृद्धिमिति वाचयित्वा ॥ १३ ॥
एवं विहितꣳ संवत्सरे संवत्सरे वास्तुशमनम् ॥ १४ ॥
ऋतावृतावित्येके ॥ (ख० २८ )॥ १५ ॥
गृहा मा बिभीत मा वेषिढ्वमूर्जं बिभ्रत एमसि । ऊर्जं बिभ्रद्वसुवनिः सुमेधा गृहानेमि मनसा मोदमानः । येषामभ्येति प्रवसन्नेति सौमनसो बभुः। गृहानुपह्वयामहे ते नो जानन्तु जानतः । उपहूता इह गाव उपहूता अजावयः । अथो अन्नस्य कीलाल उपहूतो गृहेषु नः । उपहूता भूरिसखाः सखायः स्वादुसंमुदः । अरिष्टाः सर्वपूरुषा गृहा नः सन्तु सर्वदा ऊर्जस्वन्तः पयस्वन्त इरावन्तो हसामुदः । अनश्या अतृष्या गृहा माऽस्मद्विभीतनेति गृहानभ्येति ॥ १६॥
क्षेमाय वः शान्त्यै प्रपद्ये शिवꣳ शग्मꣳ शंयोः शंयोरिति प्रविशति । न तदहरागतः कलहं करोति ॥ १७ ॥
गृहानहꣳ सुमनसः प्रपद्ये अवीरघ्नो वीरतमः सुशेवान् । इरां वहन्तः सुमनस्यमानास्तेष्वहꣳ सुमनाः संविशामीति संविशति ॥ विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विष इति भार्याꣳ समीक्षते समीक्षते ॥ ( ख २९ ) ॥१८॥
इति सत्याषाढहिरण्यकेशिगृह्यसूत्र एकोनविंशप्रश्नेऽष्टमः पटलः प्रश्नश्च ।