कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः १७

विकिस्रोतः तः
← प्रश्नः १६ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः १७
हिरण्यकेशिः/सत्याषाढः
प्रश्नः १८ →

17.1
अथ सप्तदशप्रश्ने प्रथमः पटलः
सर्वक्रतूनां प्रकृतिरग्निष्टोमः ॥ १॥
निकायिनां तु प्रथमः सर्वत्र ॥ २ ॥
यथादिष्टं वा ॥ ३॥
ज्योतिर्गौरायुरिति त्रिकद्रुकाः ।। ४ ॥
प्रथमोऽग्निष्टोम उक्थ्यो वा ॥५॥
सर्वे ॥६॥
ज्योतिषि सहस्रं ददातीति ॥ ७॥
श्यैतनियमाद्बृहत्पृष्ठो गौर्भ्रातृव्यवतः । आयुः स्वर्गकामस्य । अग्निष्टोमः सभ्रातृव्यवतः । विश्वजिदग्निष्टोमः सर्वस्तोमः सर्वपृष्ठ्यः श्रेष्ठ्यकामस्य । सहस्रं दक्षिणाः । सर्ववेदसं वा यावतीर्वा क्रतोः स्तोत्रियाः ॥८॥
सर्ववेदसे ज्येष्ठं पुत्रमपभज्य संविदो विपर्याचेत ॥ ९॥
दक्षिणाकाले सर्वस्वं ददाति ॥ १७.१.१० ॥
यदन्यद्ब्राह्मणानां दिक्षु वित्ताद्भूमेः सेनाभ्यश्च ॥ ११ ॥
उत्तमां दक्षिणां नीत्वोदवसाय वा दक्षिणेनौदुम्बरीं प्राङ्निषद्य ब्रूयाद्यन्मेऽद ऋणं यददस्तत्सर्वं ददामीति ॥ १२॥
उदवसाय रोहिणीं वत्सच्छवीꣳ सकर्णपुच्छाꣳ सखुराꣳ सखुरीकामवाच्यतां परिधत्त । उष्णीषेण शिरो वेष्टयत आदत्त औदुम्बरं चमसम् ।
औदुम्बरीं चाभ्रिम् । खादिरीं वैणवीं वा। कल्माषीꣳ सुषिरामसुषिरां वोभयतःक्ष्णू । तामन्यतरतःक्ष्णू । तां वा मूलभक्षो वा फलभक्षो वाऽरण्ये तिस्र उदुम्बरे वसतः। खनित्रेण जीवतो मूलं परिखायौदुम्बरे पात्रेऽवधायान्योन्यमप्यादयतो मृन्मयेन पिबतो निषादे तिस्रो वैश्ये तिस्रो राजन्ये तिस्रो ब्राह्मण इत्येकेषाम् ।। (ख०१) ॥ १३ ॥
संवत्सरं द्वादशाहं वा न याचेन्न दीयमानं प्रत्याचक्षते ॥ १४ ।।
इन्द्रस्याभिजिदग्निष्टोमोऽनभिजितस्याभिजित्यै । उभे बृहद्रथंतरे भवतः । परोक्षपृष्ठे वा ॥ १५ ॥
बृहत्तु होतुः पशवश्चैकादशैकयूपे ।। १६ ॥
सहस्रदक्षिणा वराणां वा द्वादशशतम् ॥ १७ ॥
सर्वजिताऽग्निष्टोमेन सर्वपृष्ठेन सर्वमाप्नोति सर्वं जयति ॥१८ ।।
अन्नादश्च भवति ॥ १९ ॥
तस्य महाव्रतं पृष्ठ्यमर्क्यं शस्यते ।। १७.१.२० ॥
सहस्रं दक्षिणा । विꣳशतिर्वाऽष्टाविꣳशतीनाम् ॥ २१॥
चत्वारः साहस्राः ॥ २२ ॥
ज्योतिरग्निष्टोमो रथंतरसामा । सहस्राणां प्रथमः । प्राणेष्वन्नाद्ये च प्रतितिष्ठति । गौरुक्थ्यो बृहत्सामा द्वितीयः । पशुषु प्रतितिष्ठति । सर्वज्योतिरग्निष्टोम उभयसामा तृतीयः। सर्वस्याऽऽप्त्यै सर्वस्यावरुद्ध्यै । त्रिरात्रसंमितोऽग्निष्टोमो रथंतर बृहत्सामोभयसामा वा चतुर्थः। त्रिरात्रस्य फलमवाप्नोति ॥ २३ ॥
चत्वारः साद्यस्क्राः ॥ २४ ॥
तेषां विशेषः ॥ २५ ॥
रथंतरसामा बृहत्सामोभयसामा वा प्रथमः। तस्मिन्कामाः सोमाहारे प्राधान्ये स्पर्धायां भ्रातृव्यवतस्तितीर्षा ॥ (ख० २) ॥ स्वर्गः पशवो वा ॥ २६ ॥
पूर्वेद्युराग्नेयः सौम्यो बार्हस्पत्यश्च पशवः ॥ २७ ॥
तदलाभ एतासां देवतानामानुपूर्व्येणाऽऽग्नेयोऽष्टाकपालश्चरू चेतरौ ॥ २८ ॥
धारयत्याहवनीयम् ।। २९ ।।
व्याघारयत्युत्तरवेदिम् ॥ १७.१.३० ॥
सर्पिष्मदशनम् ॥ ३१ ॥
हिरण्यं मुखेऽन्वास्यान्तरौ प्रियायै भार्यायै ब्रह्मचारी शेते ॥ ३२ ॥
इष्ट्या यक्ष्ये । ऋत्विजः समारूढा भवन्ति ॥ ३३ ॥
तान्निधाय श्वोभूते सर्वदिशोऽश्वरथा सक्षीरदृतयः सोमप्रवाका विधावन्ति ॥ ३४ ॥
तेभ्यो यन्नवनीतमुदीयात्तदाज्येऽवनयेत् ॥ ३५ ॥
योजने चतुर्युजा प्राच्यां दिशि युग्यक्रोशोत्सर्गेणेतरासु प्रसव्यꣳ स्थूरिणां ततः परिक्रमयेदश्वतरी रथो वैकप्रदक्षिणं योजनादीनि वा क्रोशान्यश्वरथेन प्रदक्षिणम् ॥ ३६॥
व्याख्यात उत्सर्गः ॥ ३७॥
त्रिवत्सः साण्डः सोमक्रयणः ॥ ३८ ॥
उपसत्सु त्रिः संमीलेत् ॥ ३९॥
संमील्य वा प्रचरेत् ॥ १७.१.४० ॥
यवोर्वरा वेदिः ॥४१॥
यवानीं खल उत्तरवेदिः॥ ४२ ॥
आरोहणे हविर्धाने ॥ ४३ ॥
विमितꣳ सदः॥४४॥
स्फ्यो यूपः स्फ्याग्रः खलेवालीति वा ॥ ४५ ॥
अग्नीषोमीयकालेऽग्नीषोमीयमेकादशकपालं निर्वपति । ईजानस्य गृहाद्वसतीवरीर्गृह्णाति ॥४६॥
सवनीयकाले सह पशूनालभते ॥ ४७॥
अग्नीषोमीयꣳ सवनीयमनूबन्ध्यां च ॥ ४८ ॥
अग्नीषोमीयस्य स्थानेऽग्नीषोमीय एकादशकपालोऽनूबन्ध्यायाः स्थाने मैत्रावरुण्याऽऽमिक्षया यजेत || ४९॥
सदश्वः श्वेतो दक्षिणा ।। १७.१.५०॥
तमाङ्गिरसाय भ्रातृव्याय वा दद्यात् ॥५१॥
द्वेष्यं वा ब्राह्मणं वृत्वा तस्मा अश्वꣳ श्वेतꣳ रुक्मप्रतियुक्तं दद्यात् ॥ ५२ ॥
संवत्सरं नोपर्युपविशेत् । न माꣳसमश्नीयात् । न स्त्रियं नावपद्येत । न पादाववनेनिजीत नाञ्जीत नाभ्यञ्जीत । सा दीक्षा । यदि संवत्सरं नोदाशꣳसीत । द्वादशाहम् ॥ (ख०४) ।। ५३ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे सप्तदशप्रश्ने प्रथमः पटलः ॥

17.2
अथ सप्तदशप्रश्ने द्वितीयः पटलः ।
द्वितीयस्यैकविꣳशतिमग्निष्टोमसाम कृत्वाऽऽमयाविनं याजयेदेतेनान्नाद्यकामं प्रजाकामं पशुकामं वा ॥ १ ॥
तिसृभिस्तिसृभिरावर्तते ॥२॥
तृतीयस्य चतुर्थस्याष्टादशावुत्तरौ पवमानौ वा ॥ ३ ॥
परोक्षपृष्ठौ वा चतुरष्टादशः । पञ्चमो होतुराज्यमष्टादशावुत्तरौ पवमानौ । होतुः पृष्ठं परिक्रीश्चतुर्विꣳशबहिष्पवमानः स्वर्गकामा भवन्ति॥४॥
हीनानुजावरोऽनुक्रिया । तस्य चतुर्विꣳशावुत्तरौ पवमानौ ॥ ५ ॥
अश्वसादः सोमप्रवाकः ॥ ६ ॥
एक एवाश्वारोहः । न रथारोहः ॥ ६ ॥
दधिद्रुतिश्च त्रिकोशेऽन्ततः प्राह ॥ ७ ॥
स्त्रीगौः सोमक्रयणीः ॥ ८॥
प्रक्ष्णुताग्रो यूपः॥९॥
संमीलनं वेदिर्हविर्धानेऽग्नीषोमीयो वसतीवरीर्दक्षिणा च ॥१७.२.१०॥
प्रथमेन समानं चात्र द्वेष्यस्य वरणम् ॥ ११ ॥
यद्यत्स्वाराज्येन सद्यः स्वाराज्यं गच्छति ॥१२॥
अग्नेरग्निष्टोमेन सर्वमन्नाद्यमवरुन्धे ॥ १३॥
प्रजापतेरेकत्रिकोऽग्निष्टोमः । प्रजापतिमाप्नोति ॥ १४ ॥
भ्रातृव्येप्सायामनुक्रियौ पश्वालम्भो भोजनꣳ हिरण्यान्वसनꣳ शय्यावनयनम् । प्रथमेन समानꣳ सदः ॥ १५ ॥
सोमप्रवाको दधिद्र(दृ)तिश्च ॥ १६॥
अत्राश्विपदं परं मध्ये क्रोश ऋत्विजो विरहिता भवन्ति ।। १७॥
त एनं प्रातरुपसमेत्य प्रजापतिर्गोधूमोर्वरा वेदिर्गोधूमानां खल उत्तरवेदिरारोहणे हविर्धाने विमितꣳ सदः । स्फ्यो यूपः स्या( स्फ्या )ग्रः खलेवाली वा । वडवा श्वेता दक्षिणा । ब्रह्मणे देया । यथा प्रकृतीतरेभ्यः परिक्रिया चतुर्विꣳशतिस्तोत्रीयेण भ्रातृव्याय प्रोच्य यजेत । विश्वजिच्छिल्पेन सर्वस्तोमेन सर्वान्कामानवाप्नोति ॥ १८ ॥
श्येनेनाभिचरन्यजेत ॥ १९ ॥
रथौ हविर्धाने ॥ १७.२.२० ॥
तैल्वको बाधको वा स्फ्याग्रो यूपः ॥ २१ ॥
शावनभ्ये अधिषवणफलके भवतः ।। २२ ॥
अग्नये रुद्रवते लोहितः पशुः ॥ २३ ॥
सादयत्युपाꣳश्वन्तर्यामौ ॥ २४ ॥
शरमयं बर्हिः ॥ २५॥
वैभीदक इध्मः ॥ २६ ॥
लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति ॥ २७ ॥
नवनवदक्षिणाः कर्णा बण्डाः कूटाः ॥ २८ ॥
तां दक्षिणाकाले कण्टकैर्वितुदेयुः ॥ २९ ॥
त्रयो वाचस्तोमास्तेषां द्वावाग्निष्टोमौ । सर्वस्तोमोऽतिरात्र उत्तमः । तस्मिन्सर्वा ऋचः सर्वाणि सामानि सर्वाणि यजूꣳषि प्रयुज्येरन् ।। १७.२.३० ॥
व्रात्यानां प्रघासो व्रात्यस्तोमाः॥ ३१ ॥
त्रिवृतोऽग्निष्टोमो रथंतरसामान उक्थ्या द्विषतीः षोडशीः सर्वेषाम् ॥ ३२॥
उष्णीषं प्रतोदो ज्याहोडो रथो विपथः फलकास्तीर्णोऽश्वोऽश्वतरश्च युग्यौ कृष्णं वासः कृष्णवलक्षे अजिने राजतो निष्कः ॥ ३३ ॥
तद्गृहपतेः ॥ ३४ ॥
बलूकान्तानि दामतूषाणीतरेषाम् ॥ ३५ ॥
द्वे (द्वे) दामनी द्वे (द्वे) उपानहौ ।। ३६ ॥
द्विषꣳहितान्यजिनानि ॥ ३७॥
त्रयस्त्रिꣳशता त्रयस्त्रिꣳशता गृहपतिमुपसमायन्ति ॥ ३८ ॥
ता दक्षिणा भवन्ति ॥ ३९ ॥
अपि वा षट्षष्टिर्गावो दक्षिणा भवन्ति ॥ १७.२.४० ॥
अथो खल्वाहुर्यदेवैषाꣳ संपादितꣳ स्यात्तद्दद्युस्तद्धि व्रात्यधनमिति विज्ञायते ॥४१॥
षट्षोडशी निन्दितानाम् । द्विषोडशी कनिष्ठानाम् । अर्ध्वस्तोमो ज्येष्ठानाम् । चतुष्षोडशी सर्वेषाम् ॥ ४२ ॥
आदित्यानां प्रयतिरुक्थ्यो नाकसदां प्रथमः ॥ ४३ ।।
व्यावृत्तिं पाप्मना भ्रातृव्येण गच्छन्ति ॥ ४४ ॥
अग्निष्टोमा इतरे अङ्गिरसां द्वितीयः । साध्यानां तृतीयः । मरुतां चतुर्थेनौजो वीर्यमाप्नोति । त्रयस्त्रिꣳशः पञ्चम इत्येके । प्राजापत्यः पञ्चमः । प्रजाकामोऽभिभवा भ्रातृव्यमभिभवति(ते) । विनुत्त्या भ्रातृव्यं विनुदते ॥(ख० ५) ॥४५॥
चितिस्तोमः प्रजननकामः ॥ ४६॥
गायत्रेणोक्थ्येन रथंतरसाम्ना ब्राह्मणः पुरोधाकामो यजेत् । द्वौ गायत्रौ पूर्वो ब्राह्मणस्य॥४७॥
 उत्तरः क्षत्रियस्य ॥ ४८ ॥
तेजो ब्रह्मवर्चसं ब्राह्मणस्य पूर्वेण क्षत्रियस्योत्तरेणोग्रमव्यथं न तु बहुपशू भवतः ॥४९॥
त्रिवृताऽग्निष्टुताऽग्निष्टोमेनापूतो यजेत ॥ १७.२.५० ॥
आग्नेय्यः पुरोरुचः । आग्नेयी सुब्रह्मण्या ।५१॥
आग्नेयीषु स्तुवतेऽजां हिरण्यं च दक्षिणा ॥५२॥
एतमेव चतुःष्टोमं कृत्वा श्रोत्रियोऽक्षहतः स्त्रीहतः कामहतश्चरणहतो वा यजेत ॥ ५३ ॥
अश्वः श्यावो दक्षिणा ॥ ५४॥
स ब्रह्मणे देयः ॥ ५५ ॥
यथाप्रकृतीतरेभ्यः ॥ ५६ ॥
एतस्यैव वायव्यासु पञ्चदशमग्निष्टोमसाम कृत्वाऽऽमयाविनं याजयेत् । अन्नाद्यकामं प्रजाकामं पशुकामं वा॥५७॥
 (एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामम् ।) एतस्यैव शक्वरीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामम् । एतमेव चतुःष्टोमं कृत्वा ग्रामकामः। ( अप्रवर्ग्या भवन्तीत्येके । ) त्रिवृताऽग्निष्टुता ब्रह्मवर्चसकामः । पञ्च दशेनाग्निष्टुता वीर्यकामः ॥ ५८ ॥
सप्तदशेनाग्निष्टुताऽग्निष्टोमेन यज्ञविभ्रष्टो यजेत । यस्मिन्वा यज्ञक्रतौ विभ्रꣳशेत् ॥ ५९॥
त्रिवृदवाद्यं वदतः ॥ १७.२.६० ॥
पञ्चदशोऽनिहत्यस्य निघ्नतः ॥ ६१ ॥
सप्तदशोऽनाशा(श्या)न्नस्य भोजने प्राश्यैकविꣳशो जनं यतो गान्धारकलिङ्गमागधान्पारस्करान्सौवीरान्वा ॥ ६२ ॥
त्रिणवेनौजस्कामः ॥ ६३ ॥
पञ्चदशेन वीर्यकामः । सप्तदशेन प्रजाकामः । एकविꣳशेन प्रतिष्ठाकामः। (त्रयस्त्रिꣳशेन स्वर्गकामः)॥६४॥
अपिवा ज्योतिष्टोम एव । आनष्टोमे सर्वान्कामान्कामयेत् ॥ (ख०६)॥६५॥
इति सत्याषाढहिरण्यकोशिसूत्रे सप्तदशप्रश्ने द्वितीयः पटलः।

17.3
अथ सप्तदशप्रश्ने तृतीयः पटलः।
त्रिवृताऽग्निष्टोमेनानिरुक्तेनान्नाद्यकामो यजेत ॥१॥
अनिरुक्तं प्रातःसवनमित्येके ॥ २॥
अश्वः श्वेतो दक्षिणा । स ब्रह्मणे देयः ३॥
बृहस्पतिसवो द्वितीयः ॥४॥
ब्राह्मणो ब्रह्मवर्चसकामः पुरोधाकामो वा यजेत। यं वा स्थापत्यायाभिषिञ्चेयुः ॥५॥ परिस्रजी होता भवति ॥ ६॥
अरुणो मिर्मिरस्त्रिशुक्रः ॥ ७॥
बृहस्पते जुषस्व न इति बार्हस्पत्यमतिग्राह्यं गृह्णाति ॥ ८॥
बार्हस्पत्यः पशुरुपालम्भ्यः ॥९॥
प्रातःसवने सन्नेषु नाराशꣳसेष्वेकादश दक्षिणा व्यादिशति ॥ १७.३.१०॥
आज्येन माध्यंदिने सवनेऽग्निमन्वारब्धं कृष्णाजिनेऽभिषिञ्चति । यथाऽग्निचित्यायाꣳ शुक्रामन्थिनोर्वा सꣳस्रावेण ॥ ११ ॥
अश्वद्वादश माध्यंदिने सवने ता उभयीरुपाकरोति । द्वादश तृतीयसवने ॥१२॥
ता वशायामुपाकरोति ॥ १३॥
अपिवाऽष्टौ प्रातःसवन एकादश माध्यंदिने सवने द्वादश तृतीयसवने । अश्वं तृतीयशोऽनुसवनं दद्यादित्येकेषाम् । सर्वा माध्यंदिने सवन इत्येके ॥१४॥
मनसेतरयोः सवनयोर्न वा मनसा च न ॥ १५॥
त्रिवृतोऽग्निष्टोमस्येषुं विकृ(ष्टु)तिं कृत्वाऽभिचरन्यजेत ॥ १६ ॥
समानमितरच्छयेनेन ॥ १७॥
त्रिवृतोऽग्निष्टोमः ॥ १८ ॥
शुनस्कर्णस्तोमः । सर्वस्वारः ॥ १९॥
मरणकामो यजेत यः कामयेतानामयतां स्वर्गं लोकमियामिति विज्ञायते ॥ १७.३.२० ॥
याम्यः पशुः शुकहरित उपालम्भ्यः ॥ २१॥
कृतान्नं दक्षिणा ॥ २२ ॥
आर्भवे स्तूयमाने दक्षिणेनौदुम्बरीमहतेन वाससा पत्तोदशेन प्रावृत्य दक्षिणाशिराः संविशति ब्राह्मणाः समापयतमेतं यज्ञमिति ॥ ( ख० ७) ॥ यज्ञ: सꣳस्थामनु संतिष्ठते ॥ २३ ॥
पृथगरणीष्वग्नीन्समारोह्योत्तरनारायणेनाऽऽदित्यमुपस्थायारण्यमभिप्रैति । यदि ग्रामे विवसेत्पृथगरणीष्वग्नीन्समारोह्योत्तरनारायणेनाऽऽदित्यमुपस्थाय गृहेषु प्रत्यवस्येत् । यद्यनभिप्राप्नुयात्तान्यज्ञक्रतूनाह । तेन भूरुक्थ्यो रथंतरसामा । भूतिकामो यजेत । धेनुर्दक्षिणा ॥ २४ ॥
अक्षय्यꣳ ह वै सुकृतं चातुर्मास्ययाजिनः ॥ २५ ॥
त्रिवृदग्निष्टोमो वैश्वदेवस्य लोके ॥ २६ ॥
वैश्वदेवः पशुः । बार्हस्पत्याऽनुबन्ध्या ॥ २७ ॥
न यूपं मिन्वन्ति ।। २८ ॥
नोत्तरवेदिमुपवपन्ति ॥ २९॥
परिधौ पशुं नियुञ्जन्ति । उल्मुके बर्हिषि वा । उत्तरेषु विमिन्वन्ति । यूपानुत्तरवेदिमुपवपन्ति ॥ १७.३.३० ॥
ततश्चतुर्षु मासेषु वरुणप्रघासानां लोके त्रिरात्रोऽग्निष्टोम उक्थ्योऽतिरात्रः । मारुतः पशुः । वारुणो द्वितीयः । मैत्रावरुण्यनूबन्ध्या ॥ ३१ ॥
ततश्चतुर्षु मासेषु साकमेधानां लोके त्रिरात्रोऽग्निष्टोम उक्थ्योऽतिरात्रः ॥ ३२ ॥
आग्नेयः पशुरैन्द्राग्नो द्वितीयः । ऐकादशिनास्तृतीये प्राजापत्यो वा सौर्यनूबन्ध्या ॥ ३३ ॥
ततश्चतुर्षु मासेषु शुनासीरीयस्य लोके चतुःष्टोमोऽग्निष्टोमः । वायव्यः पशुराश्विन्यनूबन्ध्या ॥ ३४ ॥
सर्वत्राहतं वासो वसानोऽवभृथादुदेत्य क्रत्वन्तरालेषु । नानृतं वदति । न ꣳसमश्नाति । न स्त्रियमुपैति । नोपर्यास्ते । जुगुप्सेतानृतात् । प्राङ् शेते । न मध्वश्नाति । नाञ्जीत । नाभ्यञ्जीत । ऋतौ जायामुपेयात् ॥ (ख०८)॥ ३५॥
इति सत्याषाढहिरण्यकेशिसूत्रे सप्तदशप्रश्ने तृतीयः पटलः ।

17.4
अथ सप्तदशप्रश्ने चतुर्थः पटलः ।
पञ्चाशद्वैश्वदेवस्य दक्षिणाः। शतं वरुणप्रघासेषु । अध्यर्धशतꣳ साकमेधेषु । द्वादशशतꣳ शुनासीरीये ॥१॥
यथर्तुजा वा यथास्वं चातुर्मास्येषु ॥ २ ॥
वत्साꣳस्तृतीयसवने सह मातृभिः ॥ ३॥
उपहव्येनाग्निष्टोमेन रथंतरसाम्ना बृहत्साम्नोभयसाम्ना वाऽऽमयाविनं याजयेदेतेनानाद्यकामं प्रजाकामं पशुकामं वाऽश्वः श्यावो दक्षिणा । स ब्रह्मणे देयः ॥ ४ ॥
यथाप्रकृतीतरेभ्यः ॥५॥
ऋतु(त)पेयेनाग्निष्टोमेन बृहत्साम्ना ब्राह्मणः सर्वकामः॥६॥
षड्दीक्षाः । षडुपसदः । घृतव्रतो भवति ॥ ७ ॥
यावदिदं प्रथममङ्गुलिकाण्डं तावत्क्रीते सोमे व्रतम् ।। ८ ।।
उत्तरेणोत्तरकाण्डेन व्रतमुपैति ॥ ९॥
नक्तमग्निमभ्यावृत्याऽऽस्ते । दिवाऽऽदित्यम् ॥ १७.४.१०॥
ऋतमुक्त्वा प्रसर्पन्ति। ऋतं वदन्तो भक्षयन्ति ।। ११॥
औदुम्बरश्चमसश्चतुःस्रक्तिः सोमस्य पूर्णः सगोत्राय प्रियाय (विप्राय) ब्रह्मणे देयः ॥ १२ ॥
यथाप्रकृतीतरेभ्यः ॥ १३॥
बहुहिरण्येनाग्निष्टोमेनानडुहो लोकमाप्नोति । ज्योतिष्मतो लोकाञ्जयति ॥ १४ ॥
द्वादशमानं हिरण्यं दीक्षणीयायां ददाति । द्विस्तावत् प्रायणीयायाम् ॥ १५ ॥
एवमत ऊर्ध्वं द्विगुणाभ्यासेनाऽऽतिथ्यायामुपसत्तु प्रवर्येष्वग्नीषोमीयस्य वपायाꣳ हुतायामग्नीषोमीये सवनीयस्य हुतायां वपायाꣳ सवनीये प्रातःसवने ॥१६॥
सन्नेषु नाराशꣳसेष्ववभृथेष्टावुदयनीयायामनूबन्ध्यावपायाꣳ हुतायामनूबन्ध्यायामुदवसानीयायामन्ततः ॥ (ख०९) ॥ १७ ॥
त्रिवृताऽग्निष्टुताऽग्निष्टोमेन रथंतरसाम्ना ब्राह्मणो ब्रह्मवर्चसकामः ॥ १८ ॥
पञ्चदशेनेन्द्रस्तुतेनेन्द्रस्तोमेनोक्थ्येन बृहत्साम्ना राजन्यो वीर्यकामः ॥ १९ ॥ सप्तदशेनाग्निष्टुताऽग्निष्टोमेन कण्वरथंतरसाम्ना वैश्यः पशु (पुष्टि ) कामः ॥ १७.४.२० ॥
प्रतिधुषा प्रातःसवने सर्वान्त्सोमाञ्छ्रीणाति । शृतेन माध्यंदिने सवने । दध्ना तृतीयसवने॥२१॥
नीतमिश्रेण वा ॥ २२ ॥
तीव्रसुतोक्थ्येन रथंतरसाम्ना वृहत्साम्नोभयसाम्ना वा सोमवामिनं याजयेत् ॥ २३ ॥
सोमातिपवितं याजयेद्राजानमपरुद्धं ग्रामकामं प्रजाकामं पशुकामꣳ श्रिया प्रत्यवरूढमभिचरन्यजेताभिचर्यमाणो यजेत ॥ २४ ॥
प्रतिधुषा प्रातःसवने सर्वान्सोमाञ्छ्रीणाति । शृतेन माध्यंदिने सवने । दध्ना तृतीयसवने । नीतमिश्रेण वा ॥ २५ ॥
शृतमाशिरे दुहन्ति ॥ २६ ॥
शृतमाशिरेणाभिवान्यवत्सा दुहन्ति ॥ २७॥
ता दक्षिणा भवन्ति ॥ २८॥
अधिचमसानुन्नयन्ति ॥ २९ ॥
अवजिघ्रन्त्यृत्विजो न भक्षयन्ति ॥ १७.४.३०॥
तानच्छावाकस्य स्तोत्रे भक्षयन्ति ॥ ३१ ॥
ब्रह्मणि होत्रका उपहवमिच्छन्ते ॥ ३२॥
यजमान ऋत्विज उभावध्वर्यू ( र्यवे ) सर्वे चमसाध्वर्यवोऽच्छावाकाय प्रतिगृणन्ति ॥ ३३ ।।
प्राच्येकादशिनी संमीयते ॥ ३४ ॥
यावद्यूपं वेदिमुद्धन्ति ॥ ३५॥
वडवा श्वेता दक्षिणा । सा ब्रह्मणे देया ॥ ३६॥
यथाप्रकृतीतरेभ्यः ॥ ३७॥
मरुत्स्तोमेन राजपुरोहितौ सायुज्यम् ॥ ३८ ॥
अथैष ( षोऽ) राट् । यो राज्यमाशꣳसमानो न लभेत स एतेन यजेत ॥ (ख० १०) ॥ ३९ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे सप्तदशप्रश्ने चतुर्थः पटलः ।

17.5
अथ सप्तदशे पञ्चमः पटलः ।
विराजाऽन्नाद्यकामः । स्वराजा प्रतिष्ठाकामः (प्रजाकामः )॥१॥
(बहु प्रतिगृह्य यो गरगीरिव मन्येत स पुनःस्तोमेन । अनाश्यान्नस्य वा भुक्त्वा । अयाज्यं वा याजयित्वेत्येके । यो लघुरिवाप्रतिष्ठितः स्यात्स एतेन । एकविंशेनौपच्छदेन प्रजाकाम इत्येके ॥ १॥
औपच्छदेन प्रतिष्ठाकामः ॥२॥
एकैकया स्तोत्रिययोपगायते ॥ ३ ॥
गन्धर्वाप्सरसो मादयन्तामिति प्रातःसवनेsधस्तात्पूतभृतः पाꣳसूनु(न)पास्यति ॥ ४ ॥
गन्धर्वा देवा मादयन्तामिति माध्यदिने सवने । गन्धर्वाः पितरो मादयन्तामिति तृतीयसवने॥५॥
अपध्वꣳसत इत्याचक्षते ॥६॥
पुनस्तोमैन बहु प्रतिगृह्य यो गरगीरिव मन्येताभिशस्यमानस्य भूत्वैतेषाम ॥ ७॥
गोतमचतुष्टोमाभ्यां पशुकामः ॥ ८॥
उक्थ्यः षोडशिमानुत्तरः ॥ ९ ॥
नपुꣳसकपशू इव भवतः ॥ १७.५.१० ॥
उद्भिद्बलभिद्भ्यां पशुकामः॥ ११ ॥
उद्भिदेष्ट्वा संवत्सरे बलभिदा यजेत ॥ १२ ॥
आग्नेयेनाष्टाकपालेनान्तरालं प्रतिपद्यते॥ १३ ॥
उभयत्र गायत्रीः संपूर्णा दक्षिणा ददाति ॥ १४ ॥
अष्टौ पूर्वस्मिन्नष्टा उत्तरस्मिन् ॥ १५ ॥
अपचितिकामोऽपचितिभ्याम् ॥ १६ ॥
उभयसामानौ भवतः ॥ १७ ॥
पक्षिभ्यां साग्निचित्याभ्यां यः कामयेत पक्षी ज्योतिष्मतः स्वर्गाँल्लोकाननुसंचरेयमिति ॥१८॥
ऋषभेणाग्निष्टोमेन राजन्यं वीर्यकामम् ॥ १९॥
ऋषभो दक्षिणा ॥ १७.५.२० ॥
गोसवेनोक्थ्येन बृहद्रथंतरसाम्ना स्वाराज्यकामः ॥ २१॥
अयुतं दक्षिणा ॥२२॥
दक्षिणेनाऽऽहवनीयमनुद्धते वेद्यै प्रतिधुषा माहेन्द्रस्तोत्रं प्रत्यभिषिच्यते ॥(ख० ११)॥ रेवज्जातः सहसा वृद्धः क्षत्त्राणां क्षत्त्रभूत्तमो वयोधाः । महान्महित्वे तस्तभानः क्षत्त्रे राष्ट्रे च जागृहि । प्रजापतेस्त्वा परमेष्ठिनः स्वाराज्येनाभिषिञ्चामीति ॥ २३ ॥
गोसवेनेष्ट्वा संवत्सरं द्वादशाहं वा गोव्रतो भवति ॥ २४॥
उपमातरमियादुपस्वसारमुपसगोत्रामुपनिगायोदकं पिबति तृणानि वा च्छिनत्ति ॥ २५ ॥
यत्र यत्रैनं विष्ठा विन्देत्तत्र तत्र वितिष्ठितोऽपवगाहं गौरीव सिषम् ॥ २६ ॥
मरुताꣳ स्तोमेनापरिमितां पुष्टिं पुष्यति ॥ २७ ॥
एतेन त्रीन्याजयेत् ॥ २८॥
इन्द्रस्तोमेनोक्थ्येन रथंतरसाम्ना बृहसाम्नोभयसाम्ना वा तेन द्वौ याजयेत् ॥२९॥
ऋषभेणाग्निष्टोमेन बृहत्साम्ना ब्राह्मणोऽ(ब्रह्मणोऽ)धिपतिः समानानां भवति ॥ १७.५.३० ॥
इन्द्राग्न्योः कुलायेन राजपुरोहितावुभावेकस्यां याजयेत् ॥ ३१॥
तेजो ब्रह्मवर्चसं प्रावरुद्धै(द्ध्यै) विशꣳ राजा प्रविशति ।। ३२ ॥
विध(घ)नेन विपाप्मानं भ्रातृव्यꣳहते । तेन सर्वा मृधो विहते ॥ ३३॥
संदꣳशेन भ्रातृव्यवान् वज्रेण षोडशिनाऽभिचरच्छे(ञ्श्ये)नेन व्याख्यातः ॥ ३४ ॥
त्रयोदशरात्रस्त्रिरात्रो वर्द्धिकामः ॥ ३५ ॥
सर्वस्तोमेन बुभूषन् ॥ ३६ ॥
अप्तोर्यामेण पशुकामः ॥ ३७॥
यस्मात्पशवः प्र प्रेव भ्रꣳशेरन्निति ॥ ३८ ॥
ऐकादशिनाः पशवो भवन्ति ॥ ३९॥
नवसप्तदशेन प्रजाकामः ॥ १७.५.४०॥
विषुवता ज्येष्ठो ज्यैष्ठिनेयो ज्यैष्ठ्यमाप्नोति ॥ ४१ ।।
गोष्टोमेन भ्रातृव्यवता ॥ ४२ ॥
आयुषा स्वर्गकामः ॥ ४३ ॥
अभिजिता पशुकामः ।। ४४ ॥
विश्वजिता ग्रामकामः ॥ ४५ ॥
त्रिवृता ब्रह्मवर्चसकामः ॥ ४६॥
पञ्चदशेन वीर्यकामः ॥ ४७ ॥
सप्तदशेन प्रजाकामः ॥ ४८ ॥
एकविꣳशेन प्रतिष्ठाकामः ॥ (ख०१२) ॥ ४९ ॥
इति सत्याषाढहिरण्यकशिसूत्रे सप्तदशप्रश्ने पञ्चमः पटलः ।

17.6
अथ सप्तदशप्रश्ने षष्ठः पटलः ।
द्विरात्रप्रभृतय उपरिष्टादतिरात्रा अहीना एकादशरात्रात् ॥ १ ॥
तेषां द्वादशाहेनाहीनभूतेन कल्पो व्याख्यातः ॥ २ ॥
द्विरात्रस्य त्रिरात्रस्य चतूरात्रस्य पञ्चरात्रस्य सप्तरात्रस्य नवरात्रस्योत्तममैन्द्रवायवाग्रम् । शुक्राग्रं वा ॥ ३ ॥
द्विरात्रस्योत्तरेऽहन्षोडशिनं गृह्णाति ॥ ४ ॥
मध्यमे त्रिरात्रस्य चतूरात्रप्रभृतिषु नानाऽहीनेषु ॥ ५॥
आङ्गिरसेन यः पुण्योऽहीन इव स्यात्स एतेन यजेत ॥ ६॥
तस्य ज्योतिष्टोमोऽग्निष्टोमः पूर्वमहर्भवति ॥ ७ ॥
सर्वस्तोमोऽतिरात्र उत्तरम् ॥ ८॥
गायत्रं पूर्वेऽहन्साम भवति । त्रैष्टुभमुत्तरे॥९॥
रथंतरं पूर्वेऽहन्साम भवति ॥ १७.६.१० ॥
बृहदुत्तरे ॥ ११॥
वैखानसं पूर्वेऽहन्साम भवति षोडश्युत्तरे ॥१२॥
हविष्मन्निधनं पूर्वमहर्भवति । हविष्कृन्निधनमुत्तरम् ॥ १३ ॥
अमावास्यायां पूर्वमहर्यजनीय उत्तरम् ।। १४ ॥
कापिवनेन यं कामं कामयेत तमेतेनाभ्यश्नुते ॥ १५ ॥
तस्य ज्योतिष्टोमोऽग्निष्टोमः पूर्वमहर्भवति । अतिरात्र उत्तरम् ॥ १६ ॥
चैत्ररथेन सर्वमन्नाद्यमवरुन्धे ॥१७॥
तस्य त्रिवृत्पञ्चदशोऽग्निष्टोमः पूर्वमहरायुरतिरात्र उत्तरम् ॥ १८ ॥
गर्गत्रिरात्रेण वसून् रुद्रानादित्यानभ्यारोहति ॥ १९॥
एषु लोकेषु प्रतितिष्ठति ॥१७.६.२०॥
अग्निष्टोम उक्थ्योऽतिरात्रस्त्र्यहानि रथंतरं वामदेव्यं बृहदिति पृष्ठानि ॥२१॥
आग्नावैष्णव एकादशकपालः सारस्वतश्चरुर्बार्हस्पत्यश्चरुरिति ।। (ख० १३)।
दीक्षणीयां त्रैधातवीया वा ॥ २२ ॥
बभ्रुररुणा रोहिणी पिङ्गाक्ष्येकहायनी सोमक्रयणी ॥ २३ ॥
सहस्रं दक्षिणा प्रथमेऽहꣳस्त्रीणि च शतानि नयेत् । त्रयास्त्रिꣳशतं चैवं द्वितीये (तृतीये च) सहस्र्यातिरिच्यते । द्विरूपा रोहिण्युभयत एन्यन्यत एनी वा ॥ २४ ॥
तां प्रथमेऽहनि नयेत् । उत्तमे वोत्तमा ॥ २५॥
प्रथमेऽहनि देयस्त्वमग्ने सहस्रमानयोद्बलस्याभिनस्त्वम् । सनः सहस्रमानय प्रजया पशुभिः सह पुनर्मा विशताद्रयिरिति ॥ उद्भृष्टिस्तमनुमन्त्रयते । वेहद्द्वितीये त्वमपामोषधीनाꣳ रसेन रसिनी बभूविथ । सा मा सहस्र आभज प्रजया पशुभिः सह पुनर्मा विशताद्रयिरिति वेहतं वामनस्तृतीये प्रतिष्ठाऽसि सहस्रस्य वैष्णवो वामनस्त्वम् । स नः सहस्रमाधेहि प्रजया पशुभिः सह पुनर्मा विशताद्रयिरिति ॥ २६ ॥
वामनं तं ज्येष्ठद्यथैनं सहस्रमुत्सृजति ॥ २७ ॥
यत्तेनैकां प्रतिवरं प्रत्युत्सृजेयुस्तादर्कसहस्रयाजी पुनः सहस्रं प्रजायते ।। २८ ॥
तामुत्तरेणाऽऽग्नीध्रं पर्याणीयाऽऽहवनीयस्यान्ते द्रोणकलशमवघ्रापयेत् ॥ २९ ।।
दक्षिणेन वा वेदिं नीत्वाऽन्तरा यूपमाहवनीयं चावस्थाप्याऽऽग्नीध्रहविर्धानयोर्वाऽऽजिघ्र कलशमिति द्रोणकलशमवघ्रापयेत् ।। १७.६.३० ॥
उदीचीमाग्नीध्रमानीय तस्यां तार्प्यमध्यस्य पुरस्तात्प्रतीच्यां तिष्ठन्त्यामुभा जिग्यथुरिति आग्नीध्रे जुहोति । तस्मिꣳस्तार्प्येऽधिष्णियानां रूपं विग्रथितं भवति ॥ ३१ ॥
प्रतीचीꣳ सदसः स्रक्तिमानीयेडेरन्त इति तस्या दक्षिणे कर्णे जपति ॥ ३२ ॥
तामुत्सृज्य विज्ञानमुपैति यद्यपुरुषाभिवीता प्राची यादरात्सीदयं यजमानः (ख०१४) ।। कल्याणं लोकमजैषीदिति विद्यात् । यदि दक्षिणा क्षिप्रेऽस्माल्लोकात्प्रेष्यतीति विद्यात् । यदि प्रतीची बहुधान्यो भविष्यतीति विद्यात् । यद्युदीची श्रेयानस्मिँल्लोके भविष्यतीति विद्यात् ॥ ३३ ।।
तामग्नीधे वा ब्रह्मणे वा होत्रे वाऽध्वर्यवे वा दद्यात् ।। ३४ ॥
द्वौ वोद्गातारौ कुर्वीत यतरो नाऽऽश्रावयेत्तस्मै दद्यात् । द्वे वा तृतीये ब्रह्मणे दद्यात् । तृतीयमग्नीधे ॥ ३५॥
सा मा सुवर्गं लोकं गमय सा मा ज्योतिष्मन्तं लोकं गमय सा मा सर्वान्पुण्याँल्लोकान्गमय सा मा प्रतिष्ठां गमय प्रजया पशुभिः सह पुनर्मा विशताद्रयिरित्यभिमन्त्र्य ददातीति ॥ ३६॥ तां प्रतिगृह्णीयादेकाऽसि न सहस्रमेकां त्वां भूतां प्रतिगृह्णामि न सहस्रमेका मा भूता विश मा सहस्रꣳ स्योनाऽसि सुषदा सुशेवा स्योना मा विश सुषदा मा विश सुशेवा मा विशेति ॥३७॥
तामन्यया गवा निष्क्रीय यजमानस्य गोष्ठेष्वपि सृजति ॥ ३८॥
यास्तिस्रस्त्रिꣳशत्यधि तामुपसमाहृत्य दश प्रथमेऽहन्याशिरे दुहन्ति । विꣳशतिं द्वितीये त्रिꣳशतं तृतीये ॥ ३९॥
कृतान्नं प्रथमेऽहनि देयम् । हिरण्यं गौर्वास इति द्वितीये । अनो रथोऽश्वो हस्ती पुरुष इति तृतीये ॥ १७.६.४० ॥
य आर्षेयो विद्वाꣳस्तस्मै प्रथमेऽहनि दद्यात् । योऽनार्षेयो विद्वाꣳस्तस्मै द्वितीये। य आर्षेयोऽविद्वाꣳस्तस्मै तृतीये ॥ ४१ ॥
दक्षिणा नयन्न्यूना दशतो नयेद्यस्मा एकां गां दित्सेत्त्रयोदशभ्यो दशतमुपसमाकुर्याद्यस्मै पञ्चभ्यस्तेभ्यो दशतं यस्मै तिस्रस्त्रिभ्यस्तेभ्यो दश तमनेकस्मै वैकां यस्मै पञ्च द्वाभ्यां ताभ्यां दशतमेवमा शतादा वा सहस्रात्सहस्रेति किंचिद्दद्यात् ॥ ४२ ॥
यदि दद्यादनूबन्ध्यावपायाꣳ हुतायां दद्यादुदवसानीयायां वेष्ट्वोत्तमां दक्षिणां नीत्वोदवसाय वा ।। ४३ ॥
शबलि समुद्रोऽसि विश्वव्यचा ब्रह्मा देवानां प्रथमजा ऋतस्यान्नमसि शुक्रमसि ज्योतिरसि तेजोऽस्यमृतमसि तां त्वा विद्म शबलि दीद्यानां तस्यास्ते पृथिवी पादोऽन्तरिक्षं पादो द्यौः पादः समुद्रः पादः परोरजास्ते पञ्चमः पाद एषाऽसि शबलिः सा न इषमूर्जं धुक्ष्व वसोर्धाराꣳ शबलि प्रजाताꣳ श्रविठाव्रतमुपगेषꣳ स्वाहेति शबालिहोमं जुहोति॥४४॥ (तु. सुब्रह्मण्याह्वानम्)
नित्यः काम्यो वा ॥ (ख० १५) ॥ ४५ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे सप्तदशप्रश्ने षष्ठः पटलः ॥

17.7
अथ सप्तदशप्रश्ने सप्तमः पटलः । ।
बैदत्रिरात्रेण यो राज्यमाशꣳसमानो ( ने ) न लभेत स एतेन यजेत ॥ १ ॥
तस्य त्रयस्त्रिवृतोऽतिरात्राः सर्वे षोडशिमन्तो रथॆतरं वामदेव्यं बृहदिति पृष्ठानि गर्गत्रिरात्रेणोत्तरेषां त्रयाणामहानि व्याख्यातानि ॥ २ ॥
छन्दोमपवमानेन पशुकामः ॥ ३॥
अन्तर्वसूनां पशूनाप्नोति ॥४॥
पराकेण स्वर्गकामः ॥ ५॥
अत्रेश्चतुर्विꣳशश्चतूरात्रश्चत्वारोऽस्य वीरा आजायन्ते सुहोताः सूद्गाता स्वध्वर्युः सुसभेयः ॥ ६॥
अग्निष्टोमः प्रथममहः ॥ ७॥
उक्थ्यो मध्यमोऽतिरात्रश्चतुर्विꣳशाः पवमाना उद्यन्तस्तोमा एवमितरेषां त्रयाणामहानि व्याख्यातानि ॥ ८ ॥
जामदग्न्येन । पूर्वान्पोषान्पुष्यन्ति ॥ ९॥
पुरोडाशिन्य उपसदो भवन्ति । आग्नेय एककपाल आश्विनो द्विकपालो वैष्णवस्त्रिकपालः सौम्यश्चतुष्कपालः । सावित्रः पञ्चकपालः। धात्रः षट्कपालः । मारुतः सप्तकपालः । बार्हस्पत्योऽष्टाकपालः । मैत्रो नवकपालः । वारुणो दशकपालः । ऐन्द्र एकादशकपालः । वैश्वदेवो द्वादशकपालः ॥ (ख.१६)॥ दर्विहोमा भवन्ति । अग्ने वेर्होत्रं वेरध्वरमा पितरं वैश्वानरमवसेऽकरिन्द्राय देवेभ्यो जुषताꣳ हविः स्वाहा। देवावश्विना मधुकशयाद्यास्मि यज्ञं यजमानाय मिमिक्षतम् । देव विष्णवुर्वद्येमं यज्ञं यजमानायानुविक्रमस्व । देव सोम रेतोधा अद्यास्मिन्यज्ञे यजमानायैधि । देव सवितः सुषावित्रमद्यास्मिन्यज्ञे यजमानायानुसुवस्व । देव धातः सुधाताऽद्यास्मिन्यज्ञे यजमानायैधि । देवा ग्रावाणो मधुमतीमद्यास्मिन्यज्ञे यजमानाय वाचं वदत । देव्यदितेऽन्वद्येमं यज्ञं यजमानायैधि । देव्यदिते स्वादित्यमद्यास्मिन्यज्ञे यजमानाय सुनवस्व । देव्यनुमतेऽन्वद्येमं यज्ञं यजमानाय मन्यस्व । दिव्या आपोऽत्र नम्यध्वमद्यास्मिन्यज्ञे यजमानाय । सदः सदः प्रजा वा नृभुर्जुषाणः । देवेन्द्रेन्द्रियमद्यास्मिन्यजे यजमानायैधि । देव त्वष्टः सुरेतोधा अद्यास्मिन्यज्ञे यजमानायैधि । इति प्रतिनिगद्य होमाः । इन्द्राय देवेभ्यो जुषताꣳ हविः स्वाहेति सर्वत्रानुषजति ॥१७.७.१०॥
वसिष्ठस्य सꣳसर्पः। यः पुण्योऽहीन इव स्यात् स एतेन यजेत ॥ ११ ॥
विश्वामित्रस्य संजयो भ्रातृव्यवान्यजेत ।। (ख०१७) ॥ १२ ॥
संवत्सरस्य पञ्चाहेन प्रैव जायते ॥ १३ ॥
प्र सहस्रं पशूनाप्नोति ॥ १४ ॥
वाचः प्रवदिता भवति ॥ १५ ॥
त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः । सप्तदश उक्थ्यः । पञ्चविꣳशोऽग्निष्टोमो महाव्रतवान् ।। १६ ।।
विश्वजित्सर्वपृष्ठोऽतिरात्रः ॥ १७ ॥
अभ्यासङ्ग्येन ॥१८॥
यं कामं कामयते तमभ्यश्नुतेऽग्निष्टोमस्त्रय उक्थ्योऽतिरात्रः । त्रिवृतो द्वे सबने पञ्चदशमेकं पञ्चदशे द्वे सवने सप्तदशमेकꣳ सप्तदशे द्वे सवने एकविꣳशमेकमविꣳशे द्वे सवने त्रिणवमेकं त्रिणवे द्वे सवने त्रयस्त्रिꣳशमन्यम् ।। १९ ॥
पञ्चशारदीयेन बहोर्भूयान्भवति ॥ १७.७.२० ॥
अनुसंवत्सरं पशुबन्धेन यजेत ॥ २१ ॥
सप्तदश पृश्नीरुक्ष्णः पञ्चवर्षानानयन्ति सप्तदश पृश्नीर्वत्सतरीस्त्रिवत्सा अप्रवीताः ॥ २२ ॥
तान्प्रोक्षितान्पर्यग्निकृताने(नि)तरानालभन्ते ॥ २३॥
इतरानुत्सृजन्ति ॥ २४ ॥
ततः संवत्सरे नवनीतपृश्नीररुणा आनयन्तीतराꣳश्चैवोक्ष्णस्तान्प्रोक्षितान्पर्यग्निकृताने( नि )तरानालभन्ते । प्रेतरान्सृजन्ति ॥ २५ ॥
ततः संवत्सरे पिशङ्गीः सारङ्गीरानयन्ति । ताꣳश्चैवोक्ष्णस्तान्प्रोक्षितान्पर्यग्निकृताने( नि )तरानालभन्ते । प्रेतरान्सृजन्ति ।। २६ ॥ ततः संवत्सरे राजीवा आनयन्ति । ताꣳश्चैवो क्ष्णस्तान्प्रोक्षितान्पर्यग्निकृताने(नि)तरानालभन्ते ।. प्रेतरान्सृजन्ति ।। (ख०१८ )॥ २७ ॥
पञ्चमे वर्षे सोमा भवन्ति । त्रिवृदग्निष्टोमः । पञ्चदश उक्थ्यः । सप्तदश उक्थ्यः । पञ्चदशोऽग्निष्टोमः । सप्तदशोऽतिरात्रः । पूर्वां पौर्णमासीमुत्थानꣳ संपादयेदेत उक्षाणः सवनीया भवन्ति । अजोऽग्नीषोमीयोऽन्वहꣳस्त्रीꣳस्त्रीनालभते एवमेवोत्तरेणैन्द्रमारुता उक्षाणो मारुत्यो वत्सतर्यः ॥२८॥
यद्युक्ष्णो रुद्रोऽभिमन्येताग्नये रुद्रवते पुरोडाशमष्टाकपालं निरुप्याथान्यमुपाकुर्यात् । यद्यप्सु म्रियेतापोनप्त्रीयं चरुम् । यद्यवसीदेन्नैर्ऋतं चरुम् । यदि सꣳशीर्येत भौममेककपालम् । यदि श्वभ्रं पतेद्वैष्णवं त्रिकपालम् । यदि श्लोणः कूटो वा बार्हस्पत्यं चरुम् । यद्यन्धः काणो वा सौर्यमेककपालम् । यदि प्रसहाऽऽनयेयुरिन्द्राय प्रसह्वत (न) एकादशकपालम् । यदि सेनाया अभीत्वरीं विन्देच्छार्दूलो वा हन्यादिन्द्राय यजत एकादशकपालम् । यदि नश्येद्वायव्यं चरुम् । यद्यनेन मृत्युना प्राजापत्यं द्वादशकपालम् ॥ २९ ।।
महाव्रते स्पर्धमानस्त्रिवृदाग्निष्टोमः । गौरुक्थ्यो महाव्रतं गौरुक्थ्य आयुरतिरात्रः॥ (ख०१९) ॥ १७.७.३०॥
इति सत्याषाढहिरण्यकेशिसूत्रे सप्तदशप्रश्ने सप्तमः पटलः ।
अथ द्वादशाहप्रस्तावे सर्वतोमुखं प्रतिजानीते--
सर्वतोमुखेन यः कामयेत सर्वमिदं भवेयमिति । मध्ये गार्हपत्यः । प्रतिदिशं सौमिका विहाराः । त्रिवृत्प्राच्यां दिशि । पञ्चदशो दक्षिणतः । सप्तदशः पश्चात् । एकविꣳश उत्तरतः॥

17.8
अथ सप्तदशप्रश्नेऽष्टमः पटलः ।
साध्यानाꣳ षडहेन सुवर्गकामः ॥ १ ॥
पृष्ठ्यः षडहः ॥ २॥
बृहद्रथंतराभ्यां यन्ति ॥३॥
आश्वत्थी हविर्धानं चाऽऽग्नीध्रं च भवतः ॥ ४ ॥
चक्रीवती भवतः ॥ ५॥
उलूखलबुध्नो यूपो भवति ॥ ६॥
प्राञ्चो यान्ति ॥७॥
सरस्वत्या यान्ति । आक्रोशन्तो यान्ति ॥ ८॥
यदा दशशतं कुर्वन्त्यथैकमुत्थानम् ॥ ९ ॥
यदा शतꣳ सहस्रं कुर्वन्त्यथैकमुत्थानम् ॥ १७.८.१० ॥
यदैषां प्रमीयेत । यदा वा जीयेरन् । अथैकमुत्थानम् ॥ ११ ॥
ऋतूनां षडहेन सुवर्गकामः ॥ १२॥
पृष्ठ्यः षडहेन ॥ १३ ॥
देवानामुपरिष्टात्त्रिकद्रुकेण सर्वमायुरेति वसीयान् भवति ॥ १४ ॥
त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्य
आयुर्गौज्योतिरतिरात्रः सत्रसंमितेनान्नाद्यं प्रजां पशूनोजो वीर्यमाप्नोति । अभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः ॥ १५ ॥
कौसुरुबिन्देन सप्तरात्रेण पशवस्तानेवावरुन्धे । पञ्च पृष्ठाहानि । पञ्चविꣳशोऽग्निष्टोमो महाव्रतवान्विश्वजित्सर्वपृष्ठोऽतिरात्रः ॥ १६॥
सप्तर्षीणामृद्धिकामः ॥ १७॥
पृष्ठ्यः षडहस्त्रयस्त्रिꣳशं महाव्रतमतिरात्रे ॥ १८॥
प्राजापत्यस्तृतीयः प्रजाकामः ॥ १९ ॥
पृष्ठ्यः षडहः प्राजापत्यस्त्रयस्त्रिꣳशं महाव्रतमतिरात्रे ॥ १७.८.२०॥
पृष्ठ्यावलम्बेन प्रतिष्ठाकामः । पृष्ठ्यः षडहः
पृष्ठ्यावलम्ब्यस्त्रयस्त्रिꣳशं महाव्रतमतिरात्रे ॥२१॥
छन्दोमपवमानेन पशुकामः । पृष्ठयः षडहश्छन्दोमपवमानं महाव्रतमतिरात्रे ॥ (ख०२० ) ॥ २२ ॥
जनकः सप्तरात्रेण पुरुषकामः ॥ २३ ॥
तस्य चत्वारि त्रिवृन्त्यहान्यग्निष्टोममुखानि । विश्वजिन्महाव्रतमतिरात्रे । ऐन्द्रेण सप्तरात्रेणात्यन्या प्रजा भवति । ओजिष्ठो भवति । त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः । सप्तदश उक्थ्योऽभिजिदग्निष्टोमः । सर्वस्तोमोऽतिरात्रः ॥ २४ ॥
अष्टरात्रेण ब्रह्मवर्चसकामः । पृष्ठ्यः षडहः पञ्चविꣳशोऽग्निष्टोमो महाव्रतवान्विश्वजित्सर्वपृष्ठोऽतिरात्रः ॥ २५॥
त्रयो नवरात्रा आयुष्कामो यजेत ॥ २६ ॥
पृष्ठ्यः षडहो गौश्चाऽऽयुश्च द्वे अहनी विश्वजिदतिरात्रः ।। २७॥
द्वितीयेन ब्रह्मवर्चसकामो ज्योतिर्गौरायुस्त्र्यहोऽभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः ।। २८ ॥
शललीपिशङ्गेन । यं कामं कामयेत तमभ्यश्नुते ज्योतिर्गौरायुस्त्र्यहो ज्योतिर्गौरायुस्त्र्यह आयुर्गौरायुरतिरात्रः ॥ (ख० २१ ) ।। २९ ॥
चत्वारो दशरात्राः ॥ १७.८.३० ॥
दशरात्राय दीक्षिष्यमाणो दशहोतारं जुहोति ॥ ३१ ।।
भुवत इन्द्रस्य त्रिककुद्दशरात्रो यः कामयेत त्रिककुदेव समानानाꣳ स्यामिति । स एतेन यजेत ॥ ३२ ॥
त्रिवृदग्निष्टुदग्निष्टोमः । पञ्चदश उक्थ्यस्त्रिवृदग्निटोमः सप्तदशोऽग्निष्टोम एकविꣳश उक्थ्यः । सप्तदशोऽग्निष्टोमास्त्रिणवोऽग्निष्टोमस्त्रयस्त्रिꣳश उक्थ्य
स्त्रिणवोऽग्निष्टोमः । विश्वजित्सर्वपृष्ठोऽतिरात्रः ॥ ३३ ॥
पुर इतरा अभिचर्यमाणो यजेत । त्रिवृदग्निष्टोमो ज्योतिरग्निष्टोमस्त्रिवृदग्निष्टोमो ज्योतिरुक्थ्यो गौरुक्थ्य आयुरुक्थ्योऽभिजिदग्निष्टोमो विश्वजिदग्निष्टोमः सर्वजिदग्निष्टोमः सर्वस्तोमोऽतिरात्रः॥३४॥
कौसुरुबिन्दो दशरात्रः । यः कामयेत सर्वमिदं भवेयमिति । स एतेन यजेत । तस्य त्रयस्त्रिवृतोऽग्निष्टोमास्त्रयः पञ्चदशा उक्थ्याः । त्रयः सप्तदशा उक्थ्या अतिरात्रः ॥३५॥ पौण्डरीक एकादशरात्रः । अयुतं दक्षिणा । अश्वसहस्रमेके। दश दक्षिणाः। सर्वामृद्धिमृध्नोति। परमेष्ठितां गच्छति । अभ्यासङ्ग(ङ्यः्र) पञ्चाहः षडहः स्यादह्नस्त्रयस्त्रिꣳशं द्वे सवने षट्त्रिꣳशतमन्त्यश्चतुष्टोमोऽग्निष्टोमस्त्रयश्छन्दोमा विश्वजित्सर्वपृष्ठोऽतिरात्रः । अन्वहं दश सहस्राणि दद्यात् । अश्वसहस्रमुत्तमेऽहन्यश्वसहस्रमुत्तमेऽहनि ॥ (ख०२२)॥३६॥ इति सत्याषाढहिरण्यकेशि सूत्रे सप्तदशप्रश्नेऽष्टमः पटलः ।
 इति सत्याषाढहिरण्यकशिसूत्रे सप्तदशप्रश्नः ।

1889 आनन्दाश्रमसंस्कृतग्रन्थावलिः।

ग्रन्थाङ्कः ५३

सत्याषाढविरचितं श्रौतसूत्रम् ।

महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् ।

सप्तदशाष्टादशप्रश्नात्मकः सप्तमो भागः ।

एतत्पुस्तकं

वे. शा० सं० रा. शंकरशास्त्रीमारूलकर

इत्येतैः संशोधितम् ।

तच्च

बी. ए. इत्युपपदधारिभिः

विनायक गणेश आपटे

इत्येतेः पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये

आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् ।

शालिवाहनशकाब्दाः १८५०

ख्रिस्ताब्दाः १९२८

( अस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः ।)

मूल्यमेको रूपकः पञ्चाऽऽणकाश्च (१=५) पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/५ ॐ तत्सद्रह्मणे नमः।

सत्याषाढविरचितं श्रौतसूत्रम् ।

महादेवशासिंकलितपयोगचन्द्रिकाव्याख्यासमेतम् ।

अब सप्तदशप्रश्ने प्रथमः पटलः

विनेययुक्ताखिलसिद्धयर्य- लसच्चिदानन्दमुखं मुनीन्द्रम् । नमामि सूत्रार्थविदे मुदाऽहं हिरण्यकेशाज्यगुरु कृपाब्धिम् ॥ ईरितः पोडशनने द्वादशाहविधिमया । एकाहादिविधि धे)म्तन्त्रं प्रश्ने सप्तदशे ह्यथ ।। अकाहानां कर्बोच्यते-

सर्वक्रतूनां प्रकृतिरग्निष्टोमः ॥ १॥

' य एवं विद्वानग्निष्टोमेन यजते, इत्यारभ्य तस्मादाहुये॒ष्ठयज्ञ इति । ( तै० सं० ७-१-१ ) । यमा सर्वेषां देवानां मध्ये ज्येष्ठः प्रजापतिः सृष्टिसाधनत्वेनाग्र एतेना- यजत तस्माज्येष्ठेनेष्टत्वात्-थसमिष्टत्वाच्चायमशिष्टोमो ज्येष्ठयज्ञः सर्वेषामुक्थ्यादीनां मूल- प्रकृतिभूत इत्यर्थः । अशिविषयेण · यज्ञायज्ञा वो आय: ' इति मन्त्रेण संपाद्यमानो योऽयमेकविंशस्तोमम्तेन समाप्यमानत्वादयमशिष्टोम इत्युच्यते ॥ १ ॥

निकायिनां तु प्रथमः सर्वत्र ॥ २ ॥

निकायिनां तु प्रथमसहस्रादयो निकायिनः । चत्वारः साहलाश्चत्वारः साद्यस्का. श्चत्वारो द्विरात्रा इत्येवंविधा निकायिनः ॥ २ ॥

यथादिष्टं वा ॥ ३॥

एकाहेप्वहीनेप्विति प्रतिक्षिणा ददाति । यथासमाम्नातं वा चोदकप्राप्तानामनुवा- दकसूत्रद्वयमिति भाष्यकारमतिः सूत्रस्यात्रोभयाग्रथाश्रुतम् ॥ ३ ॥

ज्योतिर्गौरायुरिति त्रिकद्रुकाः ॥ ४ ॥ सत्याषाढविरचितं श्रौतसूत्रम्- [१७ प्रश्ने--

केचिदत्र विरोधे त्वेकाहाहीनसत्राणां प्रायेण च्छन्दोगब्राह्मण आम्नातत्वम् । तस्माच्छन्दोगब्राह्मणस्य तत्सूत्रमभ्यस्य तस्मिन्नाम्नातानामस्मिन्नागमनं कर्तव्यम् । यथा ऋतवे ये यजन्त इत्युक्त्वा प्रसर्पन्ति, इत्यापस्तम्बेनोक्तम् । तस्य स्वरूपं नोक्तम् । तच्छन्दोगसूत्रकारेणोक्तम् । छन्दोगसूत्रे यदाम्नातमेकाहादिविषयं तत्सर्वं प्रायेण सूत्रकारेणोक्तमनुक्तानि यानि तानि सम्यग्व्याख्यास्यामः । एवं बढचशाखाया अप्यागमनं कर्तव्यम् । च्छन्दोग उपहढ्यो नामकाहोऽनेककामार्थतयाऽऽन्नातः । तत्र सूत्रकारेण भगवताऽऽयुः स्वर्गकामस्येति तत्र सर्वेषां कामानामुपसंहारः कर्तव्यः दक्षिणा दीक्षोपसदश्चाध्वर्युशाखाया एवोपसंहर्तव्येति भगवता कपर्दिनोक्तम् । सत्राणां मध्य ऊहमप्यनुक्तं छन्दोगबढचेभ्य आगमयितव्यमिति । एकाहेष्वनिरुक्त- वेदिर्वा विकल्पेन भवितव्यम् । पक्षिभ्यामित्यादौ नियत एव महाग्निः साद्यस्क उत्तर- वेदिनियता सत्राहीनेषु काठको महाग्निर्वा ॥ ४ ॥

प्रथमोऽग्निष्टोम उक्थ्यो वा ॥ ५ ॥

अग्निष्टोमस्य तु प्राथम्यम् । तस्मादाहुज्येष्ठयज्ञः' इति वाक्येनोक्तम् । तत्प्राथम्यव. प्राथम्यमुक्थ्यस्यापि वैकल्पिकमस्ति ॥ ५ ॥

सर्वे ॥६॥

अग्निष्टोमादय इत्यर्थः ॥ ६ ॥

ज्योतिषि सहस्रं ददातीति ॥ ७॥

विज्ञायत इति शेषः । एवं भरद्वाजोऽपि ॥ ७ ॥

श्यैतनियमाद्बृहत्पृष्ठो गौर्भ्रातृव्यवतः । आयुः स्वर्गकामस्य । अग्निष्टोमः सभ्रातृव्यवतः । विश्वजिदग्निष्टोमः सर्वस्तोमः सर्वपृष्ठ्यः श्रेष्ठ्यकामस्य । सहस्रं दक्षिणाः । सर्ववेदसं वा यावतीर्वा क्रतोः स्तोत्रियाः ॥८॥

अथ सर्वस्तोमेन यजेत ( तै० सं० ७-१-३) इति वचनात्स्तोममनुतिष्ठेदितिविधि- रुन्नेयः । अग्निष्टोमे चत्वार एव स्तोमास्त्रिवृदादयः । अतिराने तु त्रिणवत्रयस्त्रिंशावपि स्तोमो विद्यते । तस्मादयं सर्वस्तोमः । एकाहेषु सहस्रदक्षिणायुक्तेषु नाचिकेतः । अथोच्यते संस्थापृष्ठ्यदक्षिणा आगूर्वा- 1 क्येऽनुद्रुत्यमानामेवं विधिषु निर्दिश्यते यत्र पृष्ठयविकल्पः । यत्र यत्र पृष्ठ्यस्यैकनियतिः, यत्र संस्थाविकल्पस्तत्रैकस्याः संस्थायाः, यत्र दक्षिणाविकल्पस्तत्रान्यतरस्य नियतिः । यत्र त्रयाणां समुच्चयेन नियतिस्तत्र त्रयाणां समुच्चयेन विकल्पः । यत्र त्रयाणामन्य- ,

१ पटलः] महादेवशास्त्रिसंकलितमयोग चन्द्रिकाव्याख्यासमेतम् । ३९७

तमस्य नियतिस्तत्र त्रयाणामन्यतमस्य विकल्पः । यत्र द्वयोर्विकल्पस्तत्र द्वयोरन्यतरस्यैवं संकल्पः । ज्योतिषा त्रिकद्वकेण साग्निचित्येनाग्निष्टोमेन रक्ष्ये स्वर्गार्थम् । ज्योतिषा त्रिकद्रुकेणोक्थ्येनेति वा । केचिदेकाहेषु सर्वत्र पृष्ठ्यसंस्था दक्षिणाश्च सर्वत्रेच्छन्ति । अथ वैकल्पिके च तदैव ज्योतिषा त्रिकद्रुकेण साग्निनित्येनाग्निष्टोमेन रथंतरसाम्ना द्वादशशतक्षिणेन यक्ष्ये । स्वर्गार्थमिति वा । ज्योतिषा त्रिकद्धकेण साग्निचित्येनोक्थ्येन बृहत्सान्ना सहस्रदक्षिणेन यक्ष्ये । केचिद्गायत्रीत्रिकद्वकेण यक्ष्य इति । सर्वमुक्थ्यवत् । कच्चिन्नाहीन इत्युक्ते नाहीनस्त्रिकद्रुको गोरिति त्रिंशत्रयस्वैधातवीया च । साग्निको नाचिकेतो वा । ___ आयुरुक्थ्योऽग्निष्टोमवद्भातृव्यवतः । आयुरित्यत्राऽऽमयाविनस्तासामनुक्रमेण तस्य कर्माऽऽयुषा त्रिकदकेणोक्थ्येन रवंतरसाना द्वादशशतदक्षिणेन यक्ष्ये स्वर्गार्थमायुषा त्रिकद्रुकेणाग्निष्टोमेन यक्ष्ये सर्ववेदसेन वा । कच्चिन्नाहीन इत्युक्ते नाहीनो विश्वजित् सर्वपृष्ठ इति प्रतिवचनम् ॥ ८॥

सर्ववेदसे ज्येष्ठं पुत्रमपभज्य संविदो विपर्याचेत ॥ ९॥

सर्ववेदसे ज्येष्ठपुत्रस्य विभागं कृत्वा दानं सहस्रादधिकम् । सर्ववेदसं समाप्य पुनः पुनः पुत्रं याद्वेतसो (नो) (चेन्नो) विद्याद्वाऽन्यद्भूमेः पुरुषेभ्यश्च ॥ ९ ॥

दक्षिणाकाले सर्वस्वं ददाति ॥१०॥

दक्षिणाकाले प्राप्ते सहस्रं ददाति, सर्ववेदसं वोभयत्राश्वतरीदानम् । सर्ववेदसे वा सहस्त्रे वाऽवक्लप्तः' (तै० सं०७-१-१) इति वचनाद्यावती स्तोत्रियास्तावतीदक्षिणा विश्वजितः ॥ १० ॥

यदन्यद्ब्राह्मणानां दिक्षु वित्ताद्भूमेः सेनाभ्यश्च ॥ ११ ॥

गतः ॥ ११ ॥

उत्तमां दक्षिणां नीत्वोदवसाय वा दक्षिणेनौदुम्बरीं प्राङ्निषद्य ब्रूयाद्यन्मेऽद ऋणं यददस्तत्सर्वं ददामीति ॥ १२॥

यदुक्थ्यो विश्वनिच्छाखान्तरवचनात्तदाऽपि त्रयोऽतिग्राह्या गृह्यन्ते । विश्वनिति सर्वपृष्ठे ग्रहीतव्याः ( तै० सं० ७-१-१ )इति वचनादुत्तमां दक्षिणां नीत्वोदवसाय दाक्षिणेनौदुम्वरी प्रानिषद्य जुहुयायन्मेऽद इति ॥ १२ ॥

उदवसाय रोहिणीं वत्सच्छवीꣳ सकर्णपुच्छाꣳ सखुराꣳ सखुरीकामवाच्यतां परिधत्त । उष्णीषेण शिरो वेष्टयत आदत्त औदुम्बरं चमसम् ।

३९८ .. सत्यापाढविरचितं श्रौतसूत्रम् - [ १७ प्रश्ने

औदुम्बरीं चाभ्रिम् । खादिरीं वैणवीं वा। कल्माषीꣳ सुषिरामसुषिरां वोभयतःक्ष्णू । तामन्यतरतःक्ष्णू । तां वा मूलभक्षो वा फलभक्षो वाऽरण्ये तिस्र उदुम्बरे वसतः। खनित्रेण जीवतो मूलं परिखायौदुम्बरे पात्रेऽवधायान्योन्यमप्यादयतो मृन्मयेन पिबतो निषादे तिस्रो वैश्ये तिस्रो राजन्ये तिस्रो ब्राह्मण इत्येकेषाम् ॥ (ख०१) ॥ १३ ॥

उदवसानीयां कृत्वा रोहिणीं वत्सच्छवीमिति पूर्वमेवोक्तम् ॥ १३ ॥

संवत्सरं द्वादशाहं वा न याचेन्न दीयमानं प्रत्याचक्षते ॥ १४ ॥

संवत्सर दादशाहं वा विकल्पः ।।. १.४ ॥

इन्द्रस्याभिजिदग्निष्टोमोऽनभिजितस्याभिजित्यै । उभे बृहद्रथंतरे भवतः । परोक्षपृष्ठे वा ॥ १५ ॥

इन्द्रस्याभिजिदग्निष्टोम इन्द्रेण दृष्टः इन्द्रस्याभिजिग्निष्टोमेनोभयसाम्ना सहस्रदक्षिणेन यक्ष्ये । अनभिजितस्य स्वर्गस्याभिजयाथै स्वर्गलोकप्राप्त्यर्थमित्यर्थः । एतच्च साग्निकोऽनग्निको वा । केचिदिन्द्रस्याभिजिता यक्ष्य इति । कञ्चिन्नाहीन इत्युक्ते नाहीन इन्द्रस्याभिजित् । त्रिंशत्रय ज(अंशत्रयोऽ)श्वतरश्चोभयत्र त्रैधातवीया च ॥ १५ ॥

बृहत्तु होतुः पशवश्चैकादशैकयूपे ॥ १६ ॥

यूपच्छेदनकाल एक एव यूपः । अग्निकोऽप्यु ग्शयश्च, न पात्नीवतः । अग्नीषोमीय काले द्वाभ्यां रशनाभ्यां यूपे परिव्ययणमाश्विनं गृहीत्वा वित्रस्य त्रिवृद्भ्यां परिवीय । एकयूप एकादशिनीनाम् । उपाकरणमाग्नेयादिवारुणपर्यन्तानामुपशयं निधाय कृष्णमृ. गस्ते पशुरिति निर्देशः ॥ १६ ॥

सहस्रदक्षिणा वराणां वा द्वादशशतम् ॥ १७ ॥

दक्षिणाकाले सहस्रं ददाति । अश्वतरं च । समाप्य त्रैधातवीया साग्निश्चेत् सौत्रामणी मैत्रावरुणी च नाचिकेतो वेति भाष्यकृत् ॥ १७ ॥

सर्वजिताऽग्निष्टोमेन सर्वपृष्ठेन सर्वमाप्नोति सर्वं जयति ॥१८ ॥

प्रातराग्निहोत्रं हुत्वा सर्वजिताऽग्निष्टोमेन साग्निचित्येन महाव्रतपृष्ठेन सहस्रदाक्षिणेन . यक्ष्ये, सर्वावाप्त्यर्थमिति संकल्पः । षष्ठ्युत्तरपञ्चशतेन दक्षिणेन, इति वा सर्वजयो विफलमन्नादनसामर्थ्य सर्वपापक्षयो' विफलपाप्मानं तरति । 'सर्व पाप्मानं तरतीति च्छन्दोगब्राह्मणवचनात् । सर्वावाप्तिमुक्तिः । कचिन्नाहीन इत्युक्ते नाहीनः सर्वजित् । ।

.१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३९९

सहस्रपक्षेऽशत्रयोऽग्निश्च नियतो नाचिकेतो वेति । केचिदग्निवदीपवमथ्यान्तं महाराने बुद्धत्यादि सर्व महाव्रतवत् । नात्र त्रयस्त्रिंशदतिग्राह्याः किंतु प्राकृता एव त्रयः । न तु प्राजापत्यः पशुः । आग्नेयश्छाग एव तस्य प्रचरणमित्यादिसर्व पूर्ववत्,.. याजनं प्रति मैत्रावरुणी च ॥१८॥

अन्नादश्च भवति ॥ १९ ॥

पूर्ववत्फलनिर्देशः ॥ १९ ॥

तस्य महाव्रतं पृष्ठ्यमर्क्यं शस्यते ॥ १७.१.२० ॥

तस्य सर्वपृष्ठस्य महाव्रतं पृष्ठयमक्य शस्यते प्रशंसतीत्यर्थः ॥ २० ॥

सहस्रं दक्षिणा । विꣳशतिर्वाऽष्टाविꣳशतीनाम् ॥ २१॥

सहस्रदक्षिणेन षष्टयुत्तरशतपञ्चशतेन वा ॥ २१ ॥

चत्वारः साहस्राः ॥ २२ ॥

चत्वारः सहस्रदाक्षिणा निकायिनः ।। २२ ।।

ज्योतिरग्निष्टोमो रथंतरसामा । सहस्राणां प्रथमः । प्राणेष्वन्नाद्ये च प्रतितिष्ठति । गौरुक्थ्यो बृहत्सामा द्वितीयः । पशुषु प्रतितिष्ठति । सर्वज्योतिरग्निष्टोम उभयसामा तृतीयः। सर्वस्याऽऽप्त्यै सर्वस्यावरुद्ध्यै । त्रिरात्रसंमितोऽग्निष्टोमो रथंतर बृहत्सामोभयसामा वा चतुर्थः। त्रिरात्रस्य फलमवाप्नोति ॥ २३ ॥

ज्योतिरग्निष्टोमो स्थंतरसामा प्रथमः प्राणेप्वन्नाये च प्रतीतिषु त्रिषु ( प्रतितिष्ठतीति) सर्वमायरेतीत्यर्थः । सहज्योतिपोऽहः सान्नाऽग्निष्टोमेन (साना) सहस्रदक्षिणेन यक्ष्ये । सर्वेमायुप्यमवाप्नवानीति संकल्पः । केचित्सहस्त्रैर्यक्ष्य इति संकल्प्य सर्वमग्नि टोमवत् । कच्चिन्नाहीन इत्युक्ते नाहीनः साहस्रो ज्योतिरिति । अंशत्रयः सहस्रदक्षिणा अश्वतरश्चोभयत्र धातवीया । गोरुक्थ्यो बृहत्सामा द्वितीयः । पशुषु प्रतितिष्ठतीति । सहस्तक्ष्ये पशुमान्भूयासमिति नामधेयप्राप्तानां गोधर्माणामविरोधेन निकायधर्माः । नामधेयाबृहत्पृष्ठनिकायादशिष्टोमः । शेषं पूर्ववत् । सर्वज्योतिरग्निष्टोमस्तृतीयः । सहत्रेण सर्वज्योतिषा यक्ष्ये । सर्वलोकनयार्थम् । शेषं पूर्ववत् । । - उभयपृष्ठतस्त्रिरात्रधर्मतोऽग्निष्टोमश्चतुस्विरात्रस्य फलमवाप्नोति गर्गावरात्रस्य यत्फलं तदवाप्नोति । प्रजापति भूमानामत्यादि वसुरुद्रानिति वा सहस्रेण निरावसंमितेन

सत्याषाढविरचितं श्रौतसूत्रम्- [१७ प्रश्ने-- यक्ष्ये । उक्तानामन्यतरकामानां सर्वमग्निष्टोमवत्। एतेष्वग्न्युत्तरवेद्योर्विकल्पः । ताण्डिनां . चत्वारः साहस्रा ज्योतिरग्निष्टोमः प्रथमः सर्वज्योतिद्वितीयोऽग्निष्टोमो विश्वज्योतिरुक्थ्यस्तृतीय उभयसामाऽतिरात्रसंमित एव चतुर्थः ॥ २३ ॥

चत्वारः साद्यस्क्राः ॥ २४ ॥

चत्वारः साद्यस्का निकायिनो दीक्षानभूति सद्यः क्रियन्त इति सायस्काः ॥ २४ ॥

तेषां विशेषः ॥ २५ ॥

तेषां प्रथमस्य कर्मोच्यते ॥ २५ ॥

रथंतरसामा बृहत्सामोभयसामा वा प्रथमः। तस्मिन्कामाः सोमाहारे प्राधान्ये स्पर्धायां भ्रातृव्यवतस्तितीर्षा ॥ (ख० २) ॥ स्वर्गः पशवो वा ॥ २६ ॥

वसन्ते त्रयोदश्यां प्रातरग्निहोत्र हुत्वा साद्यस्केण यक्ष्ये स्वर्ग लोकमवाप्तवानीति पशुमान्भूयासमिति वा । विद्युदसि चतुरने सोमप्रवाकान्वृणीते । वर्गचतुष्टयस्य वरणार्थमृत्विजो नानाविश्ववस्थिता भवन्ति । एकः सोमप्रवाकोऽश्वचतुष्टययुक्तं रथमारुह्य तथैव द्रुतिं कृत्वा तथैवोत्तरतखिक्रोशं गच्छति । एकोऽश्वद्वययुक्तं रथमारुह्य प्रतीची दिशं प्रति क्रोशमात्रमेक एकाश्वयुक्तं रथमारुह्य तथैव द्रुतिं कृत्वा दक्षिणां दिशं प्रति क्रोशं गच्छति । तस्मिंस्तस्मिन्नवस्थिता ऋत्विनो भवन्ति । प्राच्या दिश्वध्वर्युरुत्तरस्यां ब्रह्मा पश्चाद्धोता दक्षिणत उद्गाता एवं गत्वा पूर्वस्यां दिश्यध्वर्युः पृच्छति । आङ्गिरसो भ्रातृव्यो यजमानस्य तं प्रति सोमप्रवाकमाह यज्ञशर्मणस्तृतीयेऽहनि सोमो भविष्यति कच्चिन्नाहीन इति पृष्टे नाहीनः साद्यस्क इति महाव्रतमेवोच इति जपितवन्तं रथेऽवस्थाप्य यजमानगृहं गच्छति सोमप्रवाकोऽध्वर्युः-पन्या नामासी (सि ) देवो देवमेविति च रथस्थ एव यजमागृहं गत्वा पितरो भूः, एवं ब्रह्माणमानयति उत्तरतः पश्चाद्धोतारं दक्षिणत उद्गातारम् । होत्रोद्गात्रोः स्वस्वसूत्रोक्तप्रश्नप्रतिवचनमिति भाष्यकृत् ।। - तानृस्विजो वृणीते होतृप्रभृतीन् । अथ मधुपर्कः सक्षेदं नान्दीश्राद्धं विधाय सक्षेदान्तं प्रकृतिवत् ॥ २६ ॥

पूर्वेद्युराग्नेयः सौम्यो बार्हस्पत्यश्च पशवः ॥ २७ ॥

पशुबन्धेन यक्ष्ये । उदवसाय न विद्युत्षड्ढोता पश्चिष्टयादौ शाखाहरणादिवेदिमान. काले आदित्यं मन्ना ( ना ) मीतिवत् । तत्र मध्ये दक्षिणतो यूपस्थानमिति यद्वदिह वेदिमानम् । तस्माद्वादशाङ्गुलवृद्धिमानदण्डस्य दशपदोत्तरवेदिरिति केचित् । अपरे तु शम्यामात्रामिति । यूपच्छेदनकाले यूपत्रयस्य ( यूपत्रीन् ) च्छेदनमुपशयस्य च धार

१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाच्याख्यासमेतम् । ४०१

यत्याहवनीय व्यापारयत्युत्तरवेदि यथाप्राप्तानुवादो द्वयहकालः पशुरिति न्यायः । न सद्यस्कालः । अतः परं धारयत्याहवनीयमित्यादि । श्वोभूते व्याधारणप्रभृति तस्मिन्नहनि प्रोक्षणान्तं कृत्वा विरामः । सर्पि. ष्मदशनं जायापत्योरावश्यकमिति भाष्यकृत् । रात्रौ शयनकाले हिरण्यं मुखे न्यस्य (निधाय ) प्रियाया ( भार्याया) वोरू (रों) शेते ब्रह्मचारी भूत्वा यजमानः । उपधानस्थानमूरुं कृत्वा रात्रौ न मैथुनादि । ब्रह्मचारिवचनात् ।। श्वोभूतेऽग्निप्रणयनादि आज्यानि सादयित्वा युनजिम तिन इति केचित् । एता असदन्निति यूपत्रयस्योच्छ्यणं, पशुभिरेहीत्यादि । केचिदाझेयं कृष्णग्रीवमुपाकरोति । श्वेतपृष्ठं बार्हस्थत्यमुपाकरोति । एकादशिनीवदिति । अग्नये त्वा जुष्टं ० सोमाय त्वा जुष्टं० बृहस्पतये त्वा जुष्टं० उपशयनीयानामानिर्देशः सर्वमेकादशिनीवत् वपाहोमान्तं कृत्वा शेष पूर्ववत् । केचिद्धाता रातिरिति नव समिष्टयजूंषि जुहोतीति । ब्राह्मणतर्पणान्तोऽयं पशुरिति भाष्यकृत् ॥ २७ ॥

तदलाभ एतासां देवतानामानुपूर्व्येणाऽऽग्नेयोऽष्टाकपालश्चरू चेतरौ ॥ २८ ॥

अथवा -एतासां देवतानामष्टाकपालः प्रथमः पुरोडाशः, इतरौ चरू । एवमि.ष्टिवा पशु भवतीति भरद्वाजवैखानसावाहतुः ॥ २८ ।।

धारयत्याहवनीयम् ॥ २९ ॥

पाशुकवदत्रापि द्रष्टव्यम् ।। २९ ॥

व्याघारयत्युत्तरवेदिम् ॥ १७.१.३० ॥

आधारो यज्ञस्य शिरःस्थानीयः। प्राधान्यात् प्राथम्याद्वा । गतमन्यत् ।। ३०॥

सर्पिष्मदशनम् ॥ ३१ ॥

दंपत्योः ॥ ३१ ॥

हिरण्यं मुखेऽन्वास्यान्तरौ प्रियायै भार्यायै ब्रह्मचारी शेते ॥ ३२ ॥

व्याख्यातम् ॥ ३२ ॥

इष्ट्या यक्ष्ये । ऋत्विजः समारूढा भवन्ति ॥ ३३ ॥

एवमिष्टिकर्म पशुकर्म वा समाप्याग्नीन्समारोप्य देवयजनम् ॥ ३३ ॥

तान्निधाय श्वोभूते सर्वदिशोऽश्वरथा सक्षीरदृतयः सोमप्रवाका विधावन्ति ॥ ३४ ॥ तेभ्यो

.४०२ . . सत्यापादविरचितं श्रौतसूत्रम्- - [१७ प्रश्ने

यन्नवनीतमुदीयात्तदाज्येऽवनयेत् ॥ ३५ ॥ योजने चतुर्युजा प्राच्यां दिशि युग्यक्रोशोत्सर्गेणेतरासु प्रसव्यꣳ स्थूरिणां ततः परिक्रमयेदश्वतरी रथो वैकप्रदक्षिणं योजनादीनि वा क्रोशान्यश्वरथेन प्रदक्षिणम् ॥ ३६॥

व्याख्यातमिदम् ॥ ३४ ॥ ३५ ॥ ३६ ।।

व्याख्यात उत्सर्गः ॥ ३७॥

एवं देवयजनं गत्वाऽध्यवसायाग्निहोत्रहोम हुत्वा महाराने वुद्ध्वा प्रातरनिहोत्रं जुहोतीति च्छन्दोगवचनात् । हुत्वाऽऽज्यं पशव इत्यादि रात्रावेव संभारयजुः । अथ सोमपरिवेषणाद्यथं सप्तहोता, उदित आदित्ये पुनः प्रणीय स्वे दक्ष इत्युपस्थाय दीक्षणीयाद्यभिधानान्तम् । अत्र व्रतलोपः । व्रतं कृणुतेति वाग्विसर्ग एवाग्निोतिष्मत इति प्रकृतिवन्न जागरणं, न पृषा सन्नेति केचित्कुर्वन्ति । एष्ट्री स्थेत्यन्तं कृत्वाऽहं तदस्मि० आजुह्वान इत्यादि व्याख्यातम् ॥ ३७ ॥

त्रिवत्सः साण्डः सोमक्रयणः ॥ ३८ ॥

प्रायणीयया प्रचर्य सोमक्रयणः । त्रिवत्सः साण्डः सोमक्रयणः । तत्र सोमक्रयप्रकाशकानां मन्त्राणामूहो मीमांसकैरभिहितः । केचिदृहेन तस्या आत्मा तस्या रूपमिति तत्र दशक्नुथ एव ऋतुपरत्वेन विधानादेव द्रष्टव्या। अन्ये त्वेवं मीत्वा सोमं तत आतिथ्यप्रचारो न तु वृत्तं कालाभावात् । तानूनप्त्रादि । न तु प्रवर्यः काललोपात् । केचिदिच्छन्ति । या त अग्न इत्यादि मार्जनान्तम् ॥ ३८ ॥

उपसत्सु त्रिः संमीलेत् ॥ ३९॥

उपसदः कर्मोपसत् संवर्तमानासुः त्रिः संमालेत् । एकासामुपसदामसंमीलनेन त्रिरा. प्रभक्तिः ।। ३९ ॥

संमील्य वा प्रचरेत् ॥ ४०॥

अपि वा नापराह्निक्योपसदस्तस्माद्विकल्पः । पौर्वाङ्गिकीनां लोप एव । पौर्वाहणिक्या प्रचर्य संमील्य वेदिमानम् || ४० ॥

यवोर्वरा वेदिः ॥ ४१ ॥

भवतीति शेषः । यवभूमिः सस्यायति(स्ययुता) वेदिर्भवति तां यवभूमि विमत्वेति मिनोति इमां नराः कृणुतेति न भवति । पश्वादिषु खननार्थस्य वेदं कृत्वा स्तम्बयनुरादि क्रियते । खनि प्रत्यवेक्ष्य वसवस्त्वा० अपाररुमेत्यस्य लोपः । इमां नरा इति च लुप्यते । देवस्य सवितुः, चतुःशिखण्डा तस्यां सुपर्णाविति भवति ॥ ४१ ।।

१-पटल:-] . महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । ४.३

यवानीं खल उत्तरवेदिः॥ ४२ ॥

यवखल उत्तरवेदिस्थाने स्यात्तदनुसारेण वेदिः । तत्खले वित्तायनी मेऽसीत्यादि क्रियते । एवं चात्वालदेशेऽम्याधानादि लुप्यते । ध्रुवोऽसि० देवेभ्यः कल्पस्वेत्यादि सर्वं भवति । न तूत्तरनाभिनिवपनम् । चतुःशिखण्डा । इन्द्रघोषस्त्वा० इत्यादि प्रच्छादनान्तम् | न त्वत्र व्रतप्रदानम् । सर्वत्र साद्यस्के तदानीमेवाऽऽपराणिक्या प्रचर्याप्रचर्य वा पौर्वाहाणिक्या, असे त्व५ सुजागृहीत्यादेर्लोपः । अग्निं ज्योतिष्मत इत्यादेश्च पौर्वाङ्गिक्या प्रचर्य तदानीमेवाऽऽपराणिक्या प्रचर्याप्रचर्य वाऽग्निप्रणयनं व्याघारणादि क्रियते उत्तरवेदेः परिग्रहश्च भवति । अग्निवत्युत्तरं परिग्राहम् ॥ ४२ ॥

आरोहणे हविर्धाने ॥ ४३ ॥

आरोहणे हविर्धाने देशगमनार्थे शकट इत्यर्थः । हविर्धानप्रवर्तनाद्याग्नीध्रमण्डपसंमार्जनं प्रकृतिवद्बोध्यम् ।। ४३ ॥

विमितꣳ सदः॥४४॥

पारमित सदो व्याख्यातम् । पूर्वमेव कृतं भवति सद इति भरद्वाजः ॥ ४ ४ ।।

स्फ्यो यूपः स्फ्याग्रः खलेवालीति वा ॥ ४५ ॥

स्फ्यो यूपो भवति । स्पष्टमन्यत् । केचिदौदुम्बर्यादेलोप ऐन्द्रमसीति संमितामिमर्शनमौदुम्बर्यादिहोमश्च लुप्यते । केचित्तत्स्थाने स्थाणुमिच्छन्ति ॥ ४५ ॥

अग्नीषोमीयकालेऽग्नीषोमीयमेकादशकपालं निर्वपति । ईजानस्य गृहाद्वसतीवरीर्गृह्णाति ॥४६॥

अग्नीषोमीयपशुकालेऽनीषोमीयेष्टिरेव । प्रस्तरादिहरणं नत्वातिथ्याया बर्हिः पारीस्तरणादि कर्मणे वा । यज्ञपात्रसादनादि प्रचरणीं खुचं पञ्चमी प्रयुनक्त्येकादशकपा. लानि स्फ्यश्च द्वंद्व ( कृष्णाजिनादिषट्सर्वाण्यष्टकादीनि ) पवित्रकरणं यजमान वाचं यच्छ संविशन्तां वाग्यतः पात्राणि वानस्पत्याऽसीत्यादि । अग्नीषोमाभ्यां जुष्टमित्यादि । से ब्रह्मणः पृच्यस्त्वेत्येवमन्तं कृत्वा वेदिकरणादि । प्रोक्षणीरासादयेत्याज्यस्य ग्रहणकाले प्रचरणमादित इत्यादि गृहीत्वा प्रैतु ब्रह्मणस्पत्नीत्यादि नत्वजमनुनयन्ति तथे. ध्मावहिषोः प्रोक्षणादि आज्यान्यभिमन्व्य युपमानं सामिधेनीभ्य इत्यादि । अग्नीषोमीयेन पुरोडाशेन प्रचर्य पिता पुत्रीयार्थ संप्रेष्यति । तमाह्यार( ये )जानस्य गृहाबहुयाजिनो गृहादित्यर्थः । तस्माच्च वसतीवरीर्गृह्णाति । अपरेण शालामुखीयमुपसादयित्वा स्विष्टकृदादिसिद्धमिष्टिः सतिष्ठते । - संस्थितायां वा वसतीवरीः परिहृत्य संप्रेष्यति । या यजमानस्येत्यादि पञ्चदोहार्थ शाखाद्वयाहरणमातिथ्याया बर्हिस्तूष्णीमुपसन्नह्यति । तान्परिधीपाशुक इध्म उपसन्ना

सत्यापाविरचितं श्रौतसूत्रम्- . [१७ प्रश्नेत्येवं परिस्तरणान्तम् । सवनायवत्तदान मेवाग्नये नयेत्यादिसौमिकं कर्म । पशुपाप्रसादनकाले तिस्रः पशुरशना द्वे यूपरशने । तथैव वपाश्रपण्यादयः । आश्विनं गृहीत्वा यूपं संमार्जनकाले खलेवाली यूपो भवति । यूपः स्थाने पूर्वमेव निहितो भवति । तदनुसारेण . यूपकल्पनादि वृक्षनियमतक्षणच्छेदनाष्टास्त्री(श्री)करणश्चयणसंमार्जनादयो निवर्तन्ते । अपरः संस्कारश्च निवर्तते । स्फ्याकृतिर्वा लेङ्गले(लाङ्गली)षाकृतिर्वा । खलेवाली लोकप्रसिद्धैव । आश्विनग्रहणोत्तरकालं खलेवाल्याज्यमानीयानुब्रहीत्यादि । यजमानो येन यूपान्कालेनानक्ति कालोऽपि स चषालो दृतमित्यर्थः। दृतं चषालभाग इति च्छन्दोगवचनात् । अद्वतमैन्द्रमसीत्यनक्ति सुपिप्पलेति प्रतिमुञ्चति । देवस्य त्वेति लुप्यते । रशनादेशे संमृशति । खलेवाल्यै परिव्ययमाणायानुब्रूहीत्यादि। द्वाभ्यां परिव्ययणं न स्वरुगूहनं, येन केनचिद्यज्ञियकाष्ठेनोपवेषवत् ॥ ४६॥

सवनीयकाले सह पशूनालभते ॥ ४७॥

अत्र सवनीयकाले सह पशूनालभते प्रथममाग्नेयं सवनीयमुपाकरोति स्थानात्।।४७॥

अग्नीषोमीयꣳ सवनीयमनूबन्ध्यां च ॥ ४८ ॥

अग्नीषोमीयानूबन्ध्ययोः प्रतिनिधिर्वक्ष्यते । न च सवनीयस्येति वाच्यम् ।। ४८ ॥

अग्नीषोमीयस्य स्थानेऽग्नीषोमीय एकादशकपालोऽनूबन्ध्यायाः स्थाने मैत्रावरुण्याऽऽमिक्षया यजेत ॥ ४९॥

गतः ॥४९॥

सदश्वः श्वेतो दक्षिणा ॥ १७.१.५०॥

बाह्रीकजातः सैन्धवोऽश्च इत्यर्थः । रुक्मप्रतिमु(यु)क्तं दद्यादित्यापस्तम्बः ॥ ५०॥

तमाङ्गिरसाय भ्रातृव्याय वा दद्यात् ॥५१॥

तमश्वमाङ्गिरसायाध्वर्यवे शत्रवे वा दानं वचनात् ॥ ११ ॥

द्वेष्यं वा ब्राह्मणं वृत्वा तस्मा अश्वꣳ श्वेतꣳ रुक्मप्रतियुक्तं दद्यात् ॥ ५२ ॥

कृ(क)तोरारम्भात्पूर्वमेव भ्रातृव्यः पश्चान्मित्रभूतः । एवं भूताय भ्रतृव्यायाध्वर्यवआङ्गिरसाय दद्यात् । अश्वं दक्षिणाऽपनीय इतरेषां केचिदुद्गातुरेव दीयत इति च्छन्दोगवचनात् । सुत्येऽहनि समाप्ते कतौ प्रतिपूरुषमितरेषां प्रतिपुरुषमेका गोर्दीयते छन्दोगवचनात् । सुत्येऽहनि ऋत्विग्भ्यः कश्चिद्दद्यादित्येवमश्चदानं कृत्वा विषाणप्रासनं सर्वमग्नि(ग्नी)षोमवत् । प्रागस्तमयादवभृथः । अनुबन्ध्यायाः स्थाने मैत्रावरुण्याऽऽमिक्षया, उदवसानीयान्तं, अस्य क्रतोराङ्गिरसोऽध्वर्युर्भवति ।। ५२ ॥

१ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । ४०५

संवत्सरं नोपर्युपविशेत् । न माꣳसमश्नीयात् । न स्त्रियं नावपद्येत । न पादाववनेनिजीत नाञ्जीत नाभ्यञ्जीत । सा दीक्षा । यदि संवत्सरं नोदाशꣳसीत । द्वादशाहम् ॥ (ख०४) ॥ ५३ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे सप्तदशप्रश्ने प्रथमः पटलः ॥

संवत्सर द्वादशाहं वा पादावनेजनादि व्रतम् ॥ तत्र श्लोकः--

एकोहेष्विति यत्सूत्रं प्राप्तस्याप्यनुवादकम् । केचिद्विधायक ब्युरानर्थक्यमयात्ततः ॥ बृहत्पृष्ठे कृतावेवं सहस्र तत्र दक्षिणाः ।। श्यैतस्य विद्यमानत्वात्सहस्रेणैव शिक्षति ॥ ' अग्निरुत्तरवेदिश्च विकल्पेन विधीयते । ज्योतिस्त्रिकद्रुकस्त्वाद्या गोत्रिकद्रुक एव च ॥ आयुत्रिकद्रुकस्त्वायुर्वाक्यानामद्वयं भवेत् । . . एकाहेषु च साद्यस्के नाग्निः पक्ष्योश्चितिर्बुवा || ...' एकाहेषु सहस्रेषु नाचिकेतस्तु वा भवेत् । । नियतं केचिदिच्छन्ति सहस्रेऽश्वतरः स्मृतः ॥ त्रैधातवीययाऽऽदौ स्यादन्ते चैव ततः परम् । : ..... दक्षिणापृष्ठसंस्थाननिर्देशे नियमो न हि ॥ एषु त्रैधातवीया हि सर्वपृष्टस्तु विश्वजित् । अनावश्यतरं प्रोक्तं दीयते सकलं धनम् ।। ज्येष्ठ्यस्य च विभज्यैवं दत्त्वा धावेत्सुतं पुनः । उत्तमा दक्षिणां नीत्वा यन्मेदस्तु जपेत्ततः ॥ संस्थाप्य रोहिणीमादि शेषमुत्तरतः परम् । इन्द्रस्याभिजिता यज्ञे सहस्रं तत्र दीयते ॥ एकयुपे ह्यनग्नौ च तथैकादशिनाः स्मृताः । उत्तरं सर्वजित्कर्म पापस्याद (पापानाम') पनोदकम् ॥ चयनं नियतं प्रोक्तं व्रतं वत्सरमेव च ॥ १३ ॥.. ... इति सत्यापाढहिरण्यकोशसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां सप्तदशप्रश्ने प्रथमः पटलः । . . . .।

१० सत्यापादविरचितं श्रौतसूत्रम्-... [१७ प्रश्ने

अथ सप्तदशप्रश्ने द्वितीयः पटलः ।

द्वितीयस्यैकविꣳशतिमग्निष्टोमसाम कृत्वाऽऽमयाविनं याजयेदेतेनान्नाद्यकामं प्रजाकामं पशुकामं वा ॥ १ ॥

एतेनोत्तरे व्याख्याता:-द्वितीयस्य कर्म साद्यरक्रेण यक्ष्ये चिररोगमुक्त्यर्थमामयाव्यन्नादिकामी पशुकामी वा । एतेन यजेत. । शेषं पूर्ववत् । पञ्चदशमग्निष्टोमसाम कृत्वा ( १२-४-२ ) इत्यापस्तम्बः । पञ्चदशस्तोममग्निष्टोमसामः । छन्दोगानामेकविं. शमग्निष्टोमसाम द्वितीयस्य कर्म ॥१॥

तिसृभिस्तिसृभिरावर्तते ॥२॥

ऋम्भिरित्यर्थः ॥ २ ॥

तृतीयस्य चतुर्थस्याष्टादशावुत्तरौ पवमानौ वा ॥ ३ ॥

हीनानुजावरोऽनुक्रिया । तस्याष्टादशावुत्तरौ पवमानौ चेत्यापस्तम्बः ॥ ३ ॥

परोक्षपृष्ठौ वा चतुरष्टादशः । पञ्चमो होतुराज्यमष्टादशावुत्तरौ पवमानौ । होतुः पृष्ठं परिक्रीश्चतुर्विꣳशबहिष्पवमानः स्वर्गकामा भवन्ति॥४॥

छन्दोब्राह्मणमतात् ॥ १

हीनानुजावरोऽनुक्रिया । तस्य चतुर्विꣳशावुत्तरौ पवमानौ ॥ ५ ॥

हीनानुजावरोऽधिकारी | आनुजावरो व्याख्यातः । स एव हीनः दुःखभीर्दारिद्र्यादिभीर्वा न मन्त्रिरिति कर्म नाम । श्वः सुत्येति च । तस्य कर्म साद्यस्वेणानुक्रियया श्वः सुत्या यक्ष्ये । आदित्यानवाप्नवानीति संकल्पः सर्व प्रथमवत् ॥ ५ ॥

अश्वसादः सोमप्रवाकः ॥ ६ ॥

एक एवाश्वारोहः । न रथारोहः ॥ ६ ॥

दधिद्रुतिश्च त्रिकोशेऽन्ततः प्राह ॥ ७ ॥

क्षीरद्रुतिस्थाने दधिद्वतिर्भवति । त्रिकोशेऽन्ततो गव्यूत्यन्तत इत्यर्थः ॥ ७ ॥

स्त्रीगौः सोमक्रयणीः ॥ ८॥

योजने प्रथमं तत्राऽऽङ्गिरसमध्वर्युमथ क्रोशे दक्षिणतो ब्राह्मणोऽथ द्विकोशे पश्चिमे भारद्वानं होतारमत्रोत्तरतस्त्रिक्रोशेऽन्तत उद्गातारमेवं सोमप्रवाके तत्र तत्र गत्वा वरणं


- २ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ४४७

कुर्यात् । कच्चिन्नाहीन · इत्युक्ते नाहीनः साद्यस्कोऽनुक्रीत्ववः श्वः सुत्येत्यश्वारूढा ऋत्विज आग्नेयाद्यदिष्टिा पशुर्वा पूर्ववत् ।। शयनं चाशयन च तथैव दीक्षणीयादि प्रायणीयान्तं विधाय विरामः । श्वोभूते सोमक्रयप्रभत्युदवसानीयान्तं छन्दोगवचनात्तस्य क्रयप्रभृत्युत्तराहः स्यादिति वचनात्रि(स्त्री) गौः समक्रयणी प्रकृतिवत् ॥ ८॥

प्रक्ष्णुताग्रो यूपः॥९॥

.स्तक्ष्णतायो यपो भवति ॥९॥

संमीलनं वेदिर्हविर्धानेऽग्नीषोमीयो वसतीवरीर्दक्षिणा च ॥१७.२.१०॥

बीयुर्वरा वेदिः । ब्रीहीणां खल उत्तरवेदिः ॥ १० ॥

प्रथमेन समानं चात्र द्वेष्यस्य वरणम् ॥ ११ ॥

गतः ॥ ११ ॥

यद्यत्स्वाराज्येन सद्यः स्वाराज्यं गच्छति ॥१२॥

यद्यत्स्वाराज्येन च्युत इत्यर्थः ॥ १२॥

अग्नेरग्निष्टोमेन सर्वमन्नाद्यमवरुन्धे ॥ १३॥

अन्नं ददातीति ह्यन्नाद्यं प्रतिबध्नातीत्यर्थः ॥ १३ ॥

प्रजापतेरेकत्रिकोऽग्निष्टोमः । प्रजापतिमाप्नोति ॥ १४ ॥

तेन प्रजापतिस्वाराज्यमाप्नोति ॥ १४ ॥

भ्रातृव्येप्सायामनुक्रियौ पश्वालम्भो भोजनꣳ हिरण्यान्वसनꣳ शय्यावनयनम् । प्रथमेन समानꣳ सदः ॥ १५ ॥

- गतः ॥ १५ ॥

सोमप्रवाको दधिद्र(दृ)तिश्च ॥ १६॥

व्याख्यातः ॥ १६॥

अत्राश्विपदं परं मध्ये क्रोश ऋत्विजो विरहिता भवन्ति ॥ १७॥

ऋत्विनोऽध्वादयः ॥ १७ ॥

त एनं प्रातरुपसमेत्य प्रजापतिर्गोधूमोर्वरा वेदिर्गोधूमानां खल उत्तरवेदिरारोहणे हविर्धाने विमितꣳ सदः । स्फ्यो यूपः स्या( स्फ्या )ग्रः

१ ख. "ध्येध्यैकोशः । पान

१४०४ सत्यापाठविरचितं श्रौतसूत्रम्- १७ प्रश्

खलेवाली वा । वडवा श्वेता दक्षिणा । ब्रह्मणे देया । यथा प्रकृतीतरेभ्यः परिक्रिया चतुर्विꣳशतिस्तोत्रीयेण भ्रातृव्याय प्रोच्य यजेत । विश्वजिच्छिल्पेन सर्वस्तोमेन सर्वान्कामानवाप्नोति ॥ १८ ॥

मुख्यं षोडशिमन्तं कृत्वा पुनश्च क्रम एवमग्निष्टोममिन्द्रस्तुतं विश्वजित्सर्वपृष्ठोऽतिरात्रो दशमाहविकारः पूर्ववन्मानादि । तैत्तिरीयाणां क्लप्तिः । तृतीयच्छन्दो[नु]क्रमाच्छन्दोवतां दशरात्रेण यक्ष्ये पुरुषं पशुमोजो विद्मामी(न्दानी:)ति फलनिर्देशः । अहविशेष:-अभ्यासङ्ग्यः षडन्तः । यत्र च्छन्दोमातिरात्रस्तत्रापि मानसम् । अभ्यासङ्ग्य इति कोऽर्थः । तृतीयसवनषट्त्रिंशस्तोत्राणां समुदायः । अथैतेषामभ्यासग्यः पञ्चाहश्चत्वारः छन्दोमा अतिरात्रपृष्ठव्यमहरतिरात्रो धि( विधी )यते । उभयपक्षे चतुर्थ पोडशी, चत्वारश्छन्दोमा इति । अपि वाऽन्येन सहातिराने छन्दोमानां चतुर्थस्य नामातिदेशान्मानसप्रातिरतिरावस्य स्थानात्प्राप्तिः । एवं सत्युभयत्र केचित्कुर्वन्ति । अतिरात्र एवोभयपक्षेऽनिषोमीयपशुक्लप्तिश्च पूर्ववत् । कौसुरबिन्दश्चतुर्थः-कौसुरबिन्देनातिरात्रेण यक्ष्ये । बहवो भूयादिपूर्ववत् । अह. योगविशेषः -वृतोऽग्निष्टोमः पाठिकस्य पूर्व यह विकारः, त्रयः पञ्चदश उक्थ्याः । उत्तरत्र्याइविकारास्नयः सप्तदश उक्थ्याः । छन्दोमानामविरामः । एकविंशोऽतिरात्रः । अत्रापि मानसमनाका पशुक्लातिश्च पूर्ववत्पयस्यान्तम् । पौण्डरीक एकादशरात्रोऽयुतदाक्षिणाऽत्र कर्म द्वादशाहवत् । शिशिर एकाष्टकायां पौण्डरीकेण यक्ष्ये सर्वामृद्धिमवाप्नबानीति । अथवा परमेष्ठितां गच्छामीति । अथवास्वर्गार्थमिति । महाग्निः काठको वौपवसथ्यान्तं द्वादशाहवत् । अग्नीषोमीये रात्री वसतीवरीः परिहृत्य पयसां विशसनं कृत्वाऽभ्यासङ्ग्यः षडहस्याऽऽरम्भः । अभ्यासङ्ग्यः षडहश्चतुष्टोमोऽग्निष्टोमस्त्रयश्छन्दोमातिरात्रश्छन्दोमानामिति वाक्यधर्माः केचित्स(षड)हान्तः । मध्वशनादि । अथ चतुष्टोमच्छन्दोमानां पृथग्विकारोऽन्वहं सहस्राणि ददाति । अश्वसहस्रमुत्तमेऽन्वहं शतमाना अत्र गावः । अथ ग्रहः-ऐन्द्रवायवामः शुकाम आग्रयणाय एव त्रिरावृत्तिर्भवत्यहा दशम ऐन्द्रवायवाग्र इत्यादि । अथ कापेयानामन्वह एकैकेन ध्यत्यासेनामो यूपः प्राकृत एव । चषालो युपो भवति । बीयुत्तस वेदिः वीहीणां खल उक्ता (तरा)वेदिः । भारद्वाजो होता भवतीत्यापस्तम्बः । आस्मन्क्रताविति शेषः । शेषं पूर्ववत् ॥

- २ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । ४०९

विश्वजिच्छिल्पश्चतुर्थः । तस्य कर्म-साद्यस्क्रेण विश्वनिच्छिल्पेन यक्ष्ये । सर्वस्यानाद्यस्य प्रस्व(प्रसवं) गच्छेयमिति नामधेयाद्विश्वजिति विरोधेन निकायिनां धर्माः । सबै प्रथमवत् । ऋत्विावरणादयो नाहीनो विश्वनिच्छिल्पः साधस्क्रः पश्च(शव)श्च । तथैवोदित आदित्ये दीक्षणीयादिद्वयहसाद्यस्कः सुत्या च च्छन्दोगवचात् । अथ वा व्यहसाद्यो(ध्यो) वा दीक्षाप्रभृतिप्रायणीयान्तः प्रथमाहः क्रयप्रभृत्युदवसायान्तं सवनीयपरिस्तरणान्तं द्वितीयं सौम्यमुत्तमे च विश्वजिद्धर्माः सर्वपृष्ठसर्वस्तोमादयः सर्ववेदसदक्षिणा विश्वनिच्छिल्प इति । शिल्पयुक्त इत्यर्थः । वालखिल्यवृषाकपिकुन्तादिमिरित्येके । तत उदवसानीयान्तं विधाय रोहिणी वत्समित्यादि । ततः पादावनेजनादिसायस्क्रधर्मा भवन्तीत्यर्थः ॥ १८ ॥

श्येनेनाभिचरन्यजेत ॥ १९॥

श्येनादिशब्दास्तेष गुणविधिरुत कर्मनामधेयं वेति संशयः । अत्यन्तनिरूढत्वाद्गुणविधिज्योतिष्टोमादिषु काम्यत्वाच्च नित्यमुत्पत्तिशिष्टमपि सोमं बाधते । यद्वा गुणविशिष्टकर्मविधानमप्रसिद्धार्थकल्पनातो वरं मत्वर्थलक्षणा सोमादिवत् । नच यथा वै श्येनो निपत्येत्यादिवाक्यशेषदार्शतक्रियासामान्येन कर्मणि गौणत्वेन कर्मवचनत्वं युक्तम् । अत्यन्तविप्रकृष्टार्थत्वाद्रौणत्वस्य लक्ष्यमाणगुणैर्योगाद्वत्तिर्गौणीति वक्ष्यति । तदरं लक्षगैवाऽऽश्रिता । गौणत्वे चात्यन्तार्थान्तरपरत्वाच्छूतिबाधः | लक्षणायां तु तद्वत्यपि वर्तमानः श्येनशब्दो लोहितोष्णीपादिवदुपसर्जनार्थश्येनविधिपर एव करणीभूतेन तु यागेन करणीभूतस्यैकवाक्यता नान्तरेण मत्वर्थलक्षणां लम्यत इत्येकवाक्यत्वार्थ लक्षणाश्रयणम् । तात्पर्य तु श्रुत्यर्थ एवेति न श्रुतिबाधः । उच्यते-गणविधी तावत्स एव स्तोतव्यः । तस्य चाऽऽत्मनैवोपमानमनुपपन्नमिति तद्वयपदेशात्मकवाक्यशेषानुपपत्तिः । विशिष्टविधिस्तु गौरवादेवायुक्तः । न च सोमादिवत्पदान्तरस्यानन्यगतित्वं यथा वै श्येन इति वाक्यशेषानुसाराद्गौणत्वेन नामत्वसंभवात् । अवश्यं हि वाक्यशेषस्येदमेव प्रयोजनम् -कथं नाम श्येनशब्दस्य यागनामधेयता विज्ञायतेति । तस्मानामधेयम् ( जै० सू० १-४-५)। तस्य कर्म श्येनेन यक्ष्ये । शत्रुमरणार्थमिति संकल्पः । ऋस्विग्वरणकाले नास्यपुत्रान्छस्त्रशास्त्रकुशलाननूचानान्वा ऋत्विनो वृणीते । बति(वाता)नवनीतमाज्यप्रतिनिधिः । सर्वेषामङ्गानामाज्यकार्याणां वाताया दुग्धम् । अभिवाता व्याधिगता इति चान्दोगवचनात् द्रु(इ)तो क्षिप्तं भवति ॥ १९ ॥

रथौ हविर्धाने ॥ २० ॥

भवत इति शेषः ॥ २० ॥

४१० . सत्यापाढविरचितं श्रौतसूत्रम्- १७ प्

तैल्वको बाधको वा स्फ्याग्रो यूपः ॥ २१ ॥

चपालस्थाने विद्यते ॥ २१ ।।

शावनभ्ये अधिषवणफलके भवतः ॥ २२ ॥

चोदनाद्भवतः ।। २२ ॥

अग्नये रुद्रवते लोहितः पशुः ॥ २३ ॥

लोहितवर्णः पशुः ।। २३ ॥

सादयत्युपाꣳश्वन्तर्यामौ ॥ २४ ॥

हविर्धाने इति शेषः ॥ २४ ॥

शरमयं बर्हिः ॥ २५॥

भवतीति शेषः । यत्र यत्र बहिर्भवति तत्र तत्र औद्धवः प्रस्तर इत्यापस्तम्बः॥२५॥

वैभीदक इध्मः ।। २६ ॥

वैभीतक इध्मः सर्वत्र । बाणवन्तः परिधय इत्यापस्तम्बः ॥ २६ ॥

लोहितोष्णीषा लोहितवसना निवीता ऋत्विजः प्रचरन्ति ॥ २७ ॥

छन्दोमवचनात्प्रधानधर्मा हिरण्यमालावद्यजमानस्य लोहितोष्णीषादिनियमः । याग. काले निवीताः कण्ठालम्बितयज्ञोपवीता ऋत्विजः प्रचरेयुः ॥ २७ ॥

नवनवदक्षिणाः कर्णा बण्डाः कूटाः ॥ २८ ॥

खण्डा काणा इत्यापस्तम्बीये विशेषः ।। २८ ॥

तां दक्षिणाकाले कण्टकैर्वितुदेयुः ॥ २९ ॥

तो लोहितोष्णीषादिकाम् । वितुदेयुः पीडयेयुरुद्गाता लोहितोष्णीषादिभिवितुदेयुः समाख्यानात् । अत्राप्यापस्तम्बीये विशेषः- इच्छन्हन्येतेति कण्वस्थतरपवमाने कुर्याबृहत्पृष्ठम् । जीयेतेत्येतद्विपरीतम् । परां परावतं गच्छेन्न प्रतितिष्ठेदिति पूर्ववप्लवं च ब्रह्मसाम कुर्यात् । प्रजापतेरेकत्रिकोऽग्निष्टोमः सर्वस्य पाप्मनो निर्दिश्य गच्छति । 'चतुर्विशतिं गा दक्षिणा ददाति' ( आप० औ० २२ ४-२९) इति । यदीच्छन्हन्येतेति तथा रथंतरपवमाने माध्यंदिने बृहत्पृष्ठो भवत्येतद्वा विपरीतसानोः सर्वज्यानि जीयतेति श्येन आरब्धश्चेत्तदानी विपरीतं बृहत्पवमाने रथंतरपृष्ठ इति सर्व. ज्यानि पक्षे परां परावतं गच्छेद्यत्र तत्रापि न प्रतितिछेदिति श्येन आरब्धस्तदा पूर्वव. समानविधिः, रथंतरपवमाने (वा) बृहपृष्ठ इति तदा प्लवं ब्रह्मसाम कुर्यात् । इतरयोस्तु पक्षयोः प्लव आहवे वरमाणं सर्वज्यानिश्च । यत्र कुत्रचित्प्रतिष्ठानिवृत्तिश्च श्येनफलं शेषमुक्तं साद्यस्को वा श्येन एकत्रिकस्ताः षट्साद्यस्का इति शौचि(!) वक्षति(वक्ष्यति )

२. पटलः ] महादेघशास्त्रिसंकलितमयोगचन्द्रिकाध्याख्यासमेतम् । ४११: इति च्छन्दोगवचनात् । आपस्य साद्यस्क्र इति शबरस्वामिना व्याख्यातं जैमिनीयतृतीयाध्याये । तदा प्रथमसाद्यस्कवरछे( च्छ्ये )नधर्माश्च वर्तन्ते । प्रजापतेरेकत्रिकोणग्निटोमो भवति । तस्य कर्म-प्रजापतेरेकत्रिकेण यक्ष्ये । सर्वपापक्षयार्थमिति संकल्पः । शेष सर्वमग्निष्टोमवत् ॥ २९ ॥

त्रयो वाचस्तोमास्तेषां द्वावाग्निष्टोमौ । सर्वस्तोमोऽतिरात्र उत्तमः । तस्मिन्सर्वा ऋचः सर्वाणि सामानि सर्वाणि यजूꣳषि प्रयुज्येरन् ॥ १७.२.३० ॥

साग्निकोऽनग्निको वा भ्रूणहत्यापनोदकं सर्वपापापनोदकमेतत्कर्म तृतीयो वाचस्तोमा निकायिनः पूर्वावग्निष्टोमी सरथंतरसामानौ । प्रथमस्य कर्म | वाचस्तोमेन यक्ष्ये । सर्वभूतानामाधिपत्यार्थमिति । तस्याग्निष्टोमवत्कल्पः । नाहींनो वाचस्तोमस्तत्र विशेषः - तस्मिन्निति । सर्वा ऋचः सर्वाणि सामानि सर्वाणि यजूंषि प्रयुज्यन्ते । तत्रैव समाम्नातमेकया बहिष्पवमानं सहस्त्रेणाज्यान्ययुतं नियुतमवुदं न्यर्बुद निखर्वकं समुद्र सलिलमन्तमिति स्तोत्राणां संख्यामुक्त्वाऽऽह-तस्मिन्सर्वा ऋच ' इति । ऋग्वेदविहिताः सर्वे (वा.) जप्याः । यत्र यजुषो यजुर्वेदविहिताश्चार्यश्चाकरणा जपोपस्थानानुमन्त्रणाः सर्वे ( ाः ) समुच्चयेन प्रयोक्तव्याः । केचित्-करणा विप्रयोगा यथाभागं व्यावते. थाम् । पूषा वां बिले विष्यतु । देवो वां विभजतु । अर्यमा वां विभजतु इत्येवमादीनामपि चतुर्भिरभ्रिमादत्ते । अष्टामिः संभरति, इत्येवमादीनां समुच्चयः । साम्येकया, प्रथमया बहिष्पवमानं दशमिर्द्वितीयया अन्तेन तृतीयया सहस्रेण चतुथ्येवं समाम्नातश्छन्दोगः, । तत्र चत्वारो वाचस्तोमा एवं शंसत्वे सति अनेकाध्वर्यन्वृणीते। तथैव गोमृगाणां तथैवोद्गातगणाननन्तत्वाहक्सामयजुपामनन्तवेदाध्यारिन ऋत्विजो भवन्ति । तथा कात्यायनेन भगवतोक्तम्- छन्दोगोऽश यावद्भिद्गातृगणैः । इति । इहानन्तवेदाध्यायिनोऽभावादस्मिन्कालेऽस्मदादीनां नाधिकार इति । केचिदाहुः--ऋष्यधिकारत्वादस्मिन्कालेऽस्मदादीनां नाधिकारः । मनुष्या विद्यमाना इत्यस्मिन्काले नाप्याधिकारोऽस्ति, । तस्मात्सर्वाणि यजूंषि सर्वाणि सामानि प्रयुज्यन्त इत्यर्थवादे सहस्रप्रयोगः । अनेका ऋच आवपेच्छंशेदावापस्थाने (घु) स्तोमातिशंसनवद्यजुषस्तथा जपोपस्थानादयस्त्वथ सामानि पवमानेष्वावापो विदृ (वा)चस्तोमवद्ये ( दे )वं सर्वभग्निष्टोमवत् कार्यम् । द्वितीये सामनि विशेषः-तृतीयस्य वाचस्तोमेन सर्वस्तोमेन यक्ष्ये । सर्वभूतानामाधिपत्यार्थमिति । सर्वं ज्योतिष्टोमातिरात्रवदिति गुणविधिपरत्वान्न सर्वस्तोमविकारः । उक्ता वाचस्तोमधर्माः । चतुर्थः सामवेदोत्तस्याप्येवं प्रयोग इति भाष्यकृत् ॥ ३० ॥

४१२, सत्याषाढविरचितं श्रौतसूत्रम्-.. [१७ प्रश्ने

व्रात्यानां प्रघासो व्रात्यस्तोमाः॥ ३१ ॥

व्याख्यास्याम इति शेषः । ब्रात्यः संस्कारहीनः । प्रवासोऽन्यत्र द्वीपान्तरनिवासः । अन्यत्र वास: प्रवास इति भाष्यकृत् ।। ३१ ॥

त्रिवृतोऽग्निष्टोमो रथंतरसामान उक्थ्या द्विषतीः षोडशीः सर्वेषाम् ॥ ३२॥

उक्थ्या रथंतरसामानु ( नो ) द्वितीयो वाऽग्निष्टोमो वाक्या (बात्या )नां प्रवा. सेभ्यः पुनरागमने व्रात्यस्तोमैर्यजेतेत्यर्थः । षट्षोडश्य इति व्रात्यस्तोमविशेषः । त्रीणि पवमानानि त्रीण्यच्छावाकसामान्याज्यपृष्ठयोक्तगतानि । त्रिषोडश्यध्वर्युस्तोमो. ज्येष्ठाना नात्यानां क्यसा ज्येष्ठानां वा पुण्यकर्मभिर्वा व्रात्यस्तोमः कुर्यादिति स्मृत्यन्त- . रात् । तत्र पञ्चदशसप्तदशैकविंशस्तृ ( त्रि ) णवत्र्य (स्त्र ) यस्त्रिंशः स्तोमो भवति । चतुषोडशी सर्वेषां नात्यानां मीने रवौ बा यजन्ते, इति वचनम् । एते हीयन्ते, एते हीयन्ते यूयं व्रात्याः प्रवसन्ति नहि ब्रह्मचर्यं चरन्ति नहि कृषिवाणिज्यं गि(च) रन्ति । अदीक्षितवाचं वदन्ति इति च षोडशो वा एतेषां स्तोमः प्पामानं निहन्तुमर्हति । य एते चत्वारः षोडशा भवन्ति, तेन पाप्मनो निर्मुच्यत इति च्छन्दोगब्राह्मणम् । (अ) हीना वा, इत्यादिना य उक्तास्ते चतुःषोडशिनमुपेयुः । वाक्या(वात्या) उपनयनादिसंस्कारहीना अप्यन्यस्य पूर्व समानगोत्रोद्भवां भार्यात्वेन परिगृहीतवन्तस्तेषामपि अवकीर्णिवह (द)पतिका एवोपेयुः पृथक्पृथगहि यज्ञोपकरणादीनि पात्रादीनि च कृत्वा प्रथमयज्ञेनेष्ट्वा व्रात्यस्तोमर्यजेरान्निति द्राह्यायणमतिः । दविद्युतमिति ब्रात्याय प्रतिपदं कुर्यादिति ज्योतिष्टोमे विहितं, तस्माज्ज्योतिषेष्ट्वा ब्रात्यस्तोमैर्यजेन्निति निदानकारमतिः । ब्रात्या बहवः सह त्रयस्त्रिंशदिति केचिदनियतपरिमाणा इति । बहुयजमाना अहीनभूतद्वादशाहवत्प्रयोगः-न शिशिरे दक्षिन्त इत्यादि सर्वं ज्योतिष्टोमवत् ॥३२॥

उष्णीषं प्रतोदो ज्याहोडो रथो विपथः फलकास्तीर्णोऽश्वोऽश्वतरश्च युग्यौ कृष्णं वासः कृष्णवलक्षे अजिने राजतो निष्कः ॥ ३३ ॥

उष्णीषं च प्रतोदश्चेत्यादयोऽप्याहाऽऽपस्तम्बः । उष्णीषं शिरसो वेष्टनवस्त्रम् । प्रतोदो ज्याहोडः कशा | रथः प्रसिद्धः । फलकास्तीर्णः फलकाभिरेवाऽऽस्तीणों न कलशामिः । केचिदधिकफलकाभिरिति । अश्वोऽश्वतरश्च युग्यो स्थान्तरवाही । कृष्णं वासः । कृष्णदशमित्यर्थः । कृष्णवलक्षे अजिने आविके द्वे चर्मणी एकमेव द्वाम्यामाविन्या क्रीतं भवति । तयोश्चर्मणोः पार्थे संहिते कृष्णवलले अजिने भवतः। कृष्ण

२ पटलः ] .महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । ४१३.

धेते इत्यर्थः । राजतो निष्को रजतेन सहितो निष्को योजितो नात्यानामलंकरणार्थ आभरणविशेष इत्यर्थः ३३॥

तद्गृहपतेः ॥ ३४ ॥

गृहपतिर्यजमानः । एतत्सर्वं गृहपतेराहरेत् । एतानि द्रव्याणि गृहपतेः संभार्याणि त्रयस्त्रिंशद्गाच(तं गाश्च गृहपतेराहरेदिति च्छन्दोगेन स्पष्टमुक्तम् ॥ ३४ ॥

बलूकान्तानि दामतूषाणीतरेषाम् ॥ ३५ ॥

इतरेषां यजमानानां वक्ष्यन्ति बलूकान्तानि दामतूषाणतिरेषामिति भावः ।। ३५ ॥

द्वे (द्वे) दामनी द्वे (द्वे) उपानहौ ॥ ३६ ॥

स्पष्टम् ॥ ३६ ॥

द्विषꣳहितान्यजिनानि ॥ ३७॥

संहितं संधिः ॥ ३७॥

त्रयस्त्रिꣳशता त्रयस्त्रिꣳशता गृहपतिमुपसमायन्ति ॥ ३८ ॥

गवां त्रयस्त्रिंशञ्चैवमेकैकस्य यजमानस्य, एषा व्याख्या । बलूकान्तानि दामतूपाणि वासांसीत्यर्थः । केचिलकान्तानीति आविकानि लोहिनि(तप्रा) याणि वसनानि स्युः। रत्नकम्बलमिव वासांसीत्यर्थः । द्वे द्वे दामनी द्वे वे एकैकस्य देशे स्यातामेकं वस्त्रमुभ-. यत्र दशायुक्तं भवतीत्यर्थः । एकैकस्य यजमानस्य द्वे द्वे उपानहावेकैकस्य द्विषंहितान्यजिनानि त्रीणि पूर्वाभ्यामजिनाम्यां व्याख्यातान्याविके द्वे चर्मणी ।एकमेकं द्वाम्यामा.. विम्यामिति । व्याख्याता गवां त्रयस्त्रिंशच्चैकैकस्य बलूकप्रभृत्येतदन्तानि, इतरेषां यजमान(नानाम्)। (१) हनं नवेत्युपोषणं पृथक् सर्वस्यैव । दहनम् । यदि जीवेत्तदोदवसानीयान्तं करोति ॥ ३८॥

ता दक्षिणा भवन्ति ॥ ३९ ॥

गतः ॥ ३९ ॥

अपि वा षट्षष्टिर्गावो दक्षिणा भवन्ति ॥ १७.२.४० ॥

अथ वा षट्षष्टिा दद्यादित्यापस्तम्बसूत्रम् ॥ ४० ॥

अथो खल्वाहुर्यदेवैषाꣳ संपादितꣳ स्यात्तद्दद्युस्तद्धि व्रात्यधनमिति विज्ञायते ॥४१॥

अथ व्रात्येभ्यो यानि निचाय्युरुष्णीषप्रतोदादिवलूकान्तानि च ये व्रात्याचार्यायाव्रताः स्युस्तेभ्यो ब्रह्मबन्धवे परमागधाय वेति च्छन्दोगवचनात् । एवमुदवसानीयान्तम्

सत्याषाढविरचितं श्रौतसूत्रम्- . [१७ प्रश्ने

षट्षोडशी निन्दितानाम् । द्विषोडशी कनिष्ठानाम् । अर्ध्वस्तोमो ज्येष्ठानाम् । चतुष्षोडशी सर्वेषाम् ॥ ४२ ॥

वाचः स्तोमेन यजेत । न च वसन्ते व्रात्यस्तोमः । वात्यस्तोमेन चतुःषोडशिना यक्ष्यामह इति संकल्पः । अकाम्यार्थः प्रायश्चित्तार्थस्तस्मान्न फलनिर्देशः । नाहींनो वात्यस्तोमश्चतुःषोडशी सर्वेषां गृहपतीनां दक्षिणतो दण्डस्थानीया । तदुक्तं भाष्यकारेण कपर्दिना-इतरेषां प्राकृत एव दण्ड उष्णीषं प्रतोदो यूपः । यथा प्रतोद उष्णीपेण सह पशुनियोजनार्थो भवति । उष्णीषो रशनास्थानीयः । पशोरुपकरणेऽसमर्थत्वाप्रतोदस्य काष्टान्तरं समर्थ (तेन) सह मिनोति । अथवा प्रतोदाकृतियूप उष्णीषण सह सर्वेषां यजमानानां कुर्यदिशावत् दक्षिणाकाल एवं कुर्वन्ति । एते भवा(भावा)स्त्रयस्त्रिंशदृत्विग्भ्यो दद्युरिति च्छन्दोगवचनम् । . ___षट्षोडशीयेनाशंसा निन्दिता वाक्या(वात्या) उपेयुः । पूर्ववद्वात्यस्तोमेन षट्पोडशिना यक्ष्ये । शेषं पूर्ववत् । स्तोत्रे वा शेषः । द्विषोडशी कनिष्ठा प्रथमवद्यु(दु)पेयुः । पूर्ववठ्ठात्यस्तोमेन द्विषोडशिना यक्ष्ये । शेषं पूर्ववत् । ऊर्ध्वस्तोमश्चतुर्थो ज्येष्ठनात्या उपेयुः । अथैष शमनीयानां मेध्यानां स्तोमा ये ज्येष्ठा इति च्छन्दोगब्राह्मणम् । प्रजननात्ते शमनीया इति च्छन्दोगसूत्रकारवचनात् । प्रजननसामर्थ्याज्ज्येष्टनात्या, व्रात्यस्तोमेनोर्ध्वस्तोमेन यक्ष्यामह इति । शेषं पूर्ववविधाय स्मृतिचोदितप्रायश्चित्तानि कृत्वा त्रैविधवृत्ति समवतिष्ठेयुः । ऊर्ध्वमन्यैः सह भोजनादयः । तत इतरेषां याजयेचैतान् । वाजपेयादिभिरुपनयनं कृत्वेति च्छन्दोगवचनात् । अथ नाकसदः पञ्च निकायिनस्तेषां प्रथम आतिथ्यानामत्यनिरुक्तमितरेऽग्निष्टोमा द्वितीया नाकसदो मरुतां चतुर्थो नाकसत्रयस्त्रिंशत्सामवेदविशेष आगमायतन्यः, न च्छन्दोगे विद्यते तस्मात्साम वेदान्तरं दृष्ट्वा पदार्थविज्ञानं कर्तव्यमिति भाष्यकारेणोक्तम् ॥ ४२ ॥

आदित्यानां प्रयतिरुक्थ्यो नाकसदां प्रथमः ॥ ४३ ॥ व्यावृत्तिं पाप्मना भ्रातृव्येण गच्छन्ति ॥ ४४ ॥ अग्निष्टोमा इतरे अङ्गिरसां द्वितीयः । साध्यानां तृतीयः । मरुतां चतुर्थेनौजो वीर्यमाप्नोति । त्रयस्त्रिꣳशः पञ्चम इत्येके । प्राजापत्यः पञ्चमः । प्रजाकामोऽभिभवा भ्रातृव्यमभिभवति(ते) । विनुत्त्या भ्रातृव्यं विनुदते ॥(ख० ५) ॥४५॥

आदित्यानां नाकसदा प्रयतिना यक्ष्ये पापक्षयार्थमिति संकल्पः । द्वितीयस्याङ्गिरसां नाकसदा प्रयतिना यक्ष्ये, स्वर्गार्थं पापक्षयामिति वा । निकायिनां तृतीयस्य साध्यानां

२ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । ४१५

नाकसदा (प्रयतिना) यक्ष्ये । पूर्ववत्फलम् । चतुर्थस्य मस्तां नाकसदा प्रयतिना यक्ष्ये, तेजस्वी भूयास वीर्यार्थमिति वा । पञ्चमस्य नाकसदा त्रयस्त्रिंशेन प्रयतिना यक्ष्ये । प्राजापत्येन वेति स्वर्गार्थमिति । अथाभिभूरभिभुवा यक्ष्ये भ्रातृव्यमभिभवानीति । सर्व. मग्निष्टोमवत् । अथ विनुदत विनुदुक्थ्या यक्ष्ये, भ्रातृव्यविनोदनार्थमिति । शेष पूर्ववत् ॥ ४३ ॥ ४४ ॥ ४५ ॥....

चितिस्तोमः प्रजननकामः ॥ ४६॥

चितिस्तोमेन यक्ष्ये प्रजननामिति संकल्पः । सर्वमग्निष्टोमवत् ॥ ४६॥

गायत्रेणोक्थ्येन रथंतरसाम्ना ब्राह्मणः पुरोधाकामो यजेत् । द्वौ गायत्रौ पूर्वो ब्राह्मणस्य॥४७॥

गायत्रेण रथंतरसाम्नाऽग्निष्टोमेन ब्रह्मवर्चसकामो यजेतेत्यापस्तम्बः । अस्मिन्कर्मणि ब्राह्मणस्यैवाधिकारः । गायत्रावग्निष्टोमौ प्रथमयज्ञावित्यापस्तम्बीये विशेषः ॥ ४७ ॥

उत्तरः क्षत्रियस्य ॥ ४८ ॥

पूर्ववद्व्याख्यानम् ॥ १८ ॥

तेजो ब्रह्मवर्चसं ब्राह्मणस्य पूर्वेण क्षत्रियस्योत्तरेणोग्रमव्यथं न तु बहुपशू भवतः ॥४९॥

बृहस्पतिसवनं तस्य कर्म-त्रिकद्रुकेणाग्निष्टोमेनोभयोः संकल्पः । ब्राह्मणस्य ब्रह्मवर्चसं फलम् । क्षत्रियस्य राष्ट्रं जनपदमुग्रमायुधीयपुरुषप्राप्त्यर्थी मविचल्यु(अविचाल्यो)भवन्ति । राष्ट्रनिवासिनोऽपि चाल्पास्तथाऽऽयुधीयजनाच तथैव फलनिर्देशः । न तु बहुपशु इव भवत इति निन्दार्थवादः । ब्राह्मणक्षत्रिययोर्यजमानयोः कर्तव्यौ प्रथमयज्ञाविति ॥४९॥

त्रिवृताऽग्निष्टुताऽग्निष्टोमेनापूतो यजेत ॥ १७.२.५० ॥

त्रिवृताऽग्निष्टुताऽग्निष्टोमेनापूतो यजेत ब्रह्महत्यादिदोषदुष्टः सर्वपापक्षयामिति । सोमप्रवाकादि सर्वमग्निष्टोमवत् ॥ ५० ॥

आग्नेय्यः पुरोरुचः । आग्नेयी सुब्रह्मण्या ।५१॥

दशक्रय एव । केचिद्विकारेण अश्शुरशुस्ते देव सोमाऽऽप्यायतामग्नय एकधनविद आ तुभ्यमग्निः प्यायतामा त्वमन्नेनाऽऽप्यायस्वेत्यादि ॥ ११ ॥

आग्नेयीषु स्तुवतेऽजां हिरण्यं च दक्षिणा ॥५२॥

अग्निरजयोः साम्यत्वात्प्रतिनिधित्वाच्च ॥ १२ ॥

एतमेव चतुःष्टोमं कृत्वा श्रोत्रियोऽक्षहतः स्त्रीहतः कामहतश्चरणहतो वा यजेत ॥ ५३ ॥

१क. ख. चित्तिस्तो।

४१६ .. सत्याषाढविरचितं श्रौतसूत्रम्- [१७ प्रश्ने

एतमेव चतुःष्टोममिति । एतमेवाग्निषु तं चतुःष्टामं कृत्वा श्रोत्रियोऽक्षहतो ब्राह्मणो । - यूतकारः । कितव इत्यर्थः । स एतेन चतुःष्टोमेनाग्निष्टुता यजेत । सर्वं पूर्ववत् । एतेन .. चतुःष्टोमेन स्त्रीहतो यजेत स्त्रीषु परिक्रि(रकी)यासु सक्तः । सबै पूर्ववत् । कामहतोऽ.. प्येतेन चतुःष्टोमेन यजेत । स्पष्टमन्यत् ॥ १३ ॥

अश्वः श्यावो दक्षिणा ।। ५४ ॥

गतः ॥ ५४ ॥

स ब्रह्मणे देयः ॥ ५५ ॥

सोऽश्वः ॥ ५५ ॥

यथाप्रकृतीतरेभ्यः ॥ ५६ ॥

अध्वर्वादिभ्यो दक्षिणा अग्निष्टोमवदिति भावः ॥ ५६ ॥

एतस्यैव वायव्यासु पञ्चदशमग्निष्टोमसाम कृत्वाऽऽमयाविनं याजयेत् । अन्नाद्यकामं प्रजाकामं पशुकामं वा॥५७॥

याजयेदित्यन्वयः सर्वत्र । एतस्यैव वायव्यास्विति कर्मान्तरोपदेशः। अग्निघुघ(ष्टुद्ध)र्मात्मकस्तेन मेधावी यजेत । अग्निष्टुता यक्ष्ये, चिररोगमुक्त्यर्थं सर्वं पूर्ववत् । । अनाद्यकामोऽप्येतेन यजेत । अग्निष्टुता यक्ष्ये अन्नाद्यमवाप्नवानीति । प्रजाकामः प्रना! मवाप्नवानीति । पशुकामः पशूनवाप्नवानीति विशेषः ॥ १७॥

(एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामम् ।) एतस्यैव शक्वरीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामम् । एतमेव चतुःष्टोमं कृत्वा ग्रामकामः। ( अप्रवर्ग्या भवन्तीत्येके । ) त्रिवृताऽग्निष्टुता ब्रह्मवर्चसकामः । पञ्चदशेनाग्निष्टुता वीर्यकामः ॥ ५८ ॥

एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा ब्रह्मवर्चसकामो यजेत । तस्य कर्म पूर्ववत् । ब्रह्मवर्चसमवासवानीति । प्रजाकामः प्रजामवाप्तवानीति भरद्वाजापस्तम्बौ । फलनिर्देशः सर्वत्र द्रष्टव्यः । एतयैव चतुःष्टोमं कृत्वा ग्रामकामो माममवासवानीति फलनिर्देशः । एतेष्वप्रवर्या इति केचित् । त्रिवृताऽग्निष्टुताऽन्नाद्यकामः । पञ्चदशेना-.. निष्टुता वीर्यकामः ( आप० श्री० २२-६-१३ ) इत्यापस्तस्वः ॥ ५८ ।।

सप्तदशेनाग्निष्टुताऽग्निष्टोमेन यज्ञविभ्रष्टो यजेत । यस्मिन्वा यज्ञक्रतौ विभ्रꣳशेत् ॥ ५९॥

२ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ४१७

सप्तदशेनाग्निष्टुता यज्ञविभ्रष्टो यजेत । नैमित्तिकमेतत् । यस्मिन्कर्मणि विभ्रंशिते पुनः पुनः क्रिया । अथवा यस्मिन्क्रती विभ्रंशितस्तं ऋतुं पुनः कुर्यात् । अग्निष्टोमवत्कुर्यादिति माष्यकृत् । तन्न समञ्जसम् । सूत्रार्थस्तु-यज्ञविभ्रष्टः प्रमादादालस्याद्वा चेत्पुनः संकल्पादारभ्य सर्वं कुर्यात् । छन्दोगसूत्रेऽप्येवम् ॥ ५९ ।।

त्रिवृदवाद्यं वदतः ॥ १७.२.६० ॥

अवाद्यं पैशून्यादि राजगामि । त्रिवृदग्निष्टुत् ॥ १० ॥

पञ्चदशोऽनिहत्यस्य निघ्नतः ॥ ६१ ॥

अनिहत्यस्य शास्त्रे योऽनिहनत्सहस्रेण यातयादित्येवमादिविशिष्टस्य पञ्चदशोऽग्निष्टुत् ॥ ११ ॥

सप्तदशोऽनाशा(श्या)न्नस्य भोजने प्राश्यैकविꣳशो जनं यतो गान्धारकलिङ्गमागधान्पारस्करान्सौवीरान्वा ॥ ६२ ॥

सप्तदशेन ब्रह्महादेरन्नस्य भक्षितेन यजेत प्रायश्चित्तम् । एकविंशमानं यतो गान्धारादिदेशान् गत्वैकवि शेनाग्निष्टुता यजेत । एतेन पापदेशगमननिषेधः प्रतीयते ॥ ६॥

त्रिणवेनौजस्कामः ।। ६३ ॥

यजेनेति शेषः । ओनो बलमिन्द्रियं वीर्यमिति मन्त्रवर्णाच्च । ओजस्कामस्त्रिण-. वेनाग्निष्टुता, नियमोऽत्र द्रष्टव्यः ।। ६३ ॥

पञ्चदशेन वीर्यकामः । सप्तदशेन प्रजाकामः । एकविꣳशेन प्रतिष्ठाकामः। (त्रयस्त्रिꣳशेन स्वर्गकामः)॥६४॥

गतः । त्रयस्त्रिशोऽग्निष्टुत्स्वर्गकामस्य ।। ६४ ॥

अपिवा ज्योतिष्टोम एव । आनष्टोमे सर्वान्कामान्कामयेत् ॥ (ख०६)॥६५॥

इति सत्याषाढहिरण्यकेशिसूत्रे सप्तदशप्रश्ने द्वितीयः पटलः।

अथवा यदग्निष्टुत्फलमानातं नैमित्तिकं तत्सर्वं प्रकृते ज्योतिष्टोम एव विकारे काम येत.। तत्र प्रजननं ज्योतिः' (तै० सं० ७-१-१) इत्यधिकृत्य यदेतत्फल.. माम्नातं । यं कामयते तमेतेनाभ्यश्नुते' इति ज्योतिःप्रकृतिविकारोऽग्निष्टुतां सर्वेषां अवार्य विकल्पः । सर्वेषामग्निष्टुता यक्ष्ये सर्वान्कामानवाप्तवानीति फलनिर्देशः । गत.

५३

४१८ सत्यापाढविरचितं श्रौतसूत्रम्- [१७ प्री

मन्यत् ॥ १५॥ . - इति सत्याषाढहिरण्यकेशिसूत्रन्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोग चन्द्रिकायां सप्तदशप्रश्ने द्वितीयः पटलः ।

17.3 अथ सप्तदशप्रश्ने तृतीयः पटलः।

त्रिवृताऽग्निष्टोमेनानिरुक्तेनान्नाद्यकामो यजेत ॥१॥

चत्वारास्त्रिवृतोऽग्निष्टोमा रयंतरसामानः । तेषां प्रथमेनानिरुक्तेन ग्रामकामो यजेत, ( आप० श्री० २२-७-१२) इत्यापस्तम्बः । निकायिनत्रिवृत्स्तोमा अग्निष्टोमसंस्था रथंतरसामानः । त्रिवृता यक्ष्ये ग्रामसिद्धयर्थमग्निष्टुदुपहवेन यक्ष्ये, ( यक्ष्यामहे) इत्यादि शेषं पूर्ववत् ।। १ ॥

अनिरुक्तं प्रातःसवनमित्येके ॥२॥

एक इति शाखान्तरोक्तं सर्वमग्निष्टोमवदित्यर्थः ।। २ ॥

अश्वः श्वेतो दक्षिणा । स ब्रह्मणे देयः ॥ ३॥

व्याख्यातमेतत्साद्यस्के । इतरेषां किंचिदानमुक्तम् ॥ ३ ॥

बृहस्पतिसवो द्वितीयः ॥ ४॥

द्वितीयो द्वितीययज्ञः । गतमन्यत् ॥ ४ ॥

ब्राह्मणो ब्रह्मवर्चसकामः पुरोधाकामो वा यजेत। यं वा स्थापत्यायाभिषिञ्चेयुः ॥ ५॥

ब्राह्मणस्य यज्ञो न राजन्यवैश्ययोः । त्रिवृता बृहस्पतिसवेन यक्ष्ये, बृहस्पतिमवाप्रवानि, पुरोधार्थमिति वा संकल्पः । सर्वमग्निष्टोमवत् ॥ ५ ॥

परिस्रजी होता भवति ॥६॥

परिसृद्भवतीति वचनाद्धोतृवरणकाले परिखनी होता भवति ॥ ६ ॥

अरुणो मिर्मिरस्त्रिशुक्रः ॥ ७॥

अरुणो वर्णतः । अक्षिणी यः पुनः पुनरुन्मीलति स मिर्मिरः त्रिशुक्रः कर्मभिः श्रेष्ठः । मातृतः पितृतश्च स्वयमभिजनविद्यावृत्तैर्वा । एवंभूतं होतारं वृणीत. इत्यर्थः॥७॥

बृहस्पते जुषस्व न इति बार्हस्पत्यमतिग्राह्यं गृह्णाति ॥ ८॥

अतिग्राह्यकाले प्राकृती द्वौ गृहीत्वा बार्हस्पत्यमतिमाह्यं गृह्णात्याझेयैन्द्रसौर्याणामन्यतमस्य विकारः । अपिवा समुच्चय एव न विकारः । अन्ते निवेशः प्राकृतानगृहीत्या स्थानापनत्वात्सौर्यविकारः । बृहस्पते जुषस्व न इत्युचमुक्त्वोपयामगृहीतोऽसि बह

१ पटलः] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । ४१९

स्पतये भ्राजस्वते । सौर्यपक्षे तथैव -एष ते योनिरिति ॥ ८ ॥

बार्हस्पत्यः पशुरुपालम्भ्यः ॥९॥

आग्नेयं सवनीयं पशुमुपाकृत्य बार्हस्पत्यमुपाकरोति' इति वचनाच्च । प्रजापतये त्वा जुष्टमुपाकरोमीत्यादि । प्रजानन्त इत्यादि(षु) द्विवचनेनोहः । सर्वमेकादशिनीवदेक एव यूपः । केचित्पृथगिच्छन्ति । तदोपशयपानीवतौ । एकयूपपक्षे द्वे रशने इत्यादयः स्वरुद्वित्वं सर्वदात्वेन । चोदनाभावाद्गणगणधर्मा न प्रवर्तन्त इति केचित् ॥९॥

प्रातःसवने सन्नेषु नाराशꣳसेष्वेकादश दक्षिणा व्यादिशति ॥ १७.३.१०॥

प्रातःसवने सन्नेषु नाराशंसेष्वेकादश दक्षिणा गावस्तुथो वो विश्ववेदा विभजत्विति विभज्य दानम् । दाक्षिणादिहोमो नयनादि च ब्यादिशति ॥१०॥

आज्येन माध्यंदिने सवनेऽग्निमन्वारब्धं कृष्णाजिनेऽभिषिञ्चति । यथाऽग्निचित्यायाꣳ शुक्रामन्थिनोर्वा सꣳस्रावेण ॥ ११ ॥

माध्मदिने प्रातःसवनवहानमात्रं दक्षिणाहोमं कृत्वा प्रातःसक्ने दक्षिणा दत्ता इह न दीयमानास्तृतीयसवने दातव्याश्चास्मिन्काले तीर्थेन नेयाः ॥ ११ ॥

अश्वद्वादश माध्यंदिने सवने ता उभयीरुपाकरोति । द्वादश तृतीयसवने ॥१२॥

ता वशायामुपाकरोति ॥ १३॥

अश्वद्वादश माध्यंदिने ददात्येकोऽश्वोऽन्या गावस्ता उभयीरुपाकरोतीति या माध्यंदिन आग्नेयीस्तृतीयसवनार्थास्तासां सर्वासामुभयोः पृथक्करणमित्यर्थः । माहेन्द्रस्तोत्रं प्रत्यभिषेक आज्येन । कृष्णाजिनमास्तीर्य तस्मिन्नासीनं यजमानमाभिषिञ्चति । शुक्रामन्थिनो । संसावेण · बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । धत्तं रयिर स्तुवते किरथे चियूयं पात स्वस्तिभिः सदा नः, इति सूत्रान्तरोक्तमन्त्रेणातिग्राह्यकाले बृहस्पते भ्रानस्विन्ध्राजस्वी त्वमित्यादि सुवच्छदसीत्यनुमन्त्रणम् । सौर्यपक्षे तृतीयसक्ने सम्नेषु नाराशंसेष्वेकादश गावः प्रदीयन्ते ।। १२ ।। १३ ।।

अपिवाऽष्टौ प्रातःसवन एकादश माध्यंदिने सवने द्वादश तृतीयसवने । अश्वं तृतीयशोऽनुसवनं दद्यादित्येकेषाम् । सर्वा माध्यंदिने सवन इत्येके ॥१४॥

अपि वेति विकलः ॥१४॥ सत्यापादविरचितं श्रौतसूत्रम्-

मनसेतरयोः सवनयोर्न वा मनसा च न ॥ १५ ।।

अयं कल्पः शाखान्तरस्थोऽपि वेत्यापस्तम्बीये दर्शनाच ॥ १५ ॥

त्रिवृतोऽग्निष्टोमस्येषुं विकृ(ष्टु)तिं कृत्वाऽभिचरन्यजेत ॥ १६ ॥

शेषं सर्वमग्निष्टोमवदिति न्यायाच्च । इषुस्तृतायोऽभिचारार्थः । इषुणा तृ ( त्रिी ) वृता यक्ष्ये परमरणार्थम् । श्येनवत् ।। १६ ।। तत्र विशेष:-

समानमितरच्छयेनेन ॥ १७ ॥

व्बतम् ॥ १७ ॥

त्रिवृतोऽग्निष्टोमः ।। १८ ।।

२० ० ‘अश्वः श्यावो दक्षिणा । स ब्रह्मणे देय : ' ( आप ० श्रौ ० २२ - ७ - १९ ) इत्यादि पूर्ववत् ॥ १८ ॥

शुनस्कर्णस्तोमः । सर्वस्वारः ॥ १९ ॥

। चतुर्थ: सर्वस्वार इत्यापस्तम्बः । सर्वस्वार उत्तरे वयस्यधिकारः । साद्यस्कादीनि कर्माणि कृत्वा जातपुत्रवानस्मिन्कर्मण्यधिक्रियते । त्रिवृताऽग्निष्टोमेन शुनस्कर्णस्तोमेन सर्वस्वारेण यक्ष्य इत्यादि । शेषं पूर्ववत् ॥ १९ ॥

मरणकामो यजेत यः कामयेतानामयतां स्वर्गं लोकमियामिति विज्ञायते ॥ २० ।।

त्रिवृता शुनस्कर्णस्तोमेन सर्वस्वारेण यक्ष्ये । स्वर्गलोकमवाप्नवानीति संकल्पः । सर्वमग्निष्टोमवत् । दीक्षाप्रभृति यजमानस्याऽऽर्मवकाले मरणं यथा संभविष्यति तथा यत्नः कर्तव्यः । छन्दोगवचनात् । सर्वभक्षाप्राणभक्षान्भक्षयति । न त्रतादीनि । अनशनमेव मासापवर्गदक्षिाः । आरब्धे यान्मक्षान् गर्तेऽवनयेत् । सूक्तवाक आयुरादिलोपो मरणका- मार्थत्वाच ॥ २० ॥

याम्य: पशुः शुकहरित उपालम्भ्यः ॥ २१ ॥

पशुकाळ आग्नेयं सवनीयं पशुमुपाकृत्य यमदेवत्यं पशुं शुकवर्णमालभते । यमाय त्वा जुष्टमुपाकरोमित्येवं निगमो भवति ॥ २१ ॥

कृतान्नं दक्षिणा ॥ २२ ॥

गतः ॥ २२ ॥

आर्भवे स्तूयमाने दक्षिणेनौदुम्बरीमहतेन वाससा पत्तोदशेन प्रावृत्य दक्षिण [-१.७ प्रभे३ पटलः ] महादेवशास्त्रि संकलितमयोगचन्द्रिकाव्याख्यासमेतम् | ४२१

ब्राह्मणाः समापयतमेतं यज्ञमिति ॥ ( ख० ७ ) ॥ यज्ञ: सꣳस्थामनु संतिष्ठते ॥ २३ ॥

आर्भवे स्तूयमाने ( पवमाने ) स्तूयमाने दक्षिणेनौदुम्बरी कृष्णाजिनमास्तीर्य दक्षिणा शिराः पत्तोदशेनाहतेन वाससा संवेष्टय ब्राह्मणाः समापयतमेतं यज्ञमिति प्रैषमुक्त्वा तत्रैव सतिष्ठते परिसमाप्यते ॥ २३ ॥

पृथगरणीष्वग्नीन्समारोह्योत्तरनारायणेनाऽऽदित्यमुपस्थायारण्यमभिप्रैति । यदि ग्रामे विवसेत्पृथगरणीष्वग्नीन्समारोह्योत्तरनारायणेनाऽऽदित्यमुपस्थाय गृहेषु प्रत्यवस्येत् । यद्यनभिप्राप्नुयात्तान्यज्ञक्रतूनाह । तेन भूरुक्थ्यो रथंतरसामा । भूतिकामो यजेत । धेनुर्दक्षिणा ॥ २४ ॥

गतार्थः । भूतिकामो भूतथ्येन यक्ष्ये भूतिमयाप्नवानीति संकल्पः । सर्वमुनथ्य वत् ॥ २४ ॥

अक्षय्यꣳ ह वै सुकृतं चातुर्मास्ययाजिनः ॥ २५ ॥

अक्षय्यं ह वा इति । चतुर्षु चतुर्षु मासेषु क्रियन्त इति चातुर्मास्यानि तत्प्रयुक्- तानि वैश्वदेवादीनि, तैरिष्टवाञ्चातुर्मास्ययाजी ' करणे यजः १ (पा सू० ३ - २८९) इति भूतकाले यजतेर्णिनिः । तस्य चातुर्मास्ययाजिनः सुकृतं यागजनितफलसाधनधर्मा- परपर्यायमपूर्वमक्षय्यं क्षेतुमशक्यं न कदाचिदपि भोगेन क्षपयितुं शक्यते । 'क्षय्य यौ शक्या' (पा० सू० ६-१-८१) इति । क्षि क्षये (म्वा० घा० २३६) इत्यस्मान्नि- पातितः । व्याख्यातमन्यत् ॥ शिशिरे द्वादश दीक्षाः कृत्वा द्वादशोपसदश्च कृत्वा फाल्गुन्यां पौर्णमास्यां सुत्या यथा भवति तथोपक्रमः । अथ वा चैत्र्यां या यथा स्याद्वैश्वदेवस्याहान वैश्वदेवशुनासी- रीये स्याताम् । प्रतिपदीत्यर्थः । उत्तरं च वारुणप्राघासिकं वारुणप्रवासियोरुत्तर पर्वण प्रतिपद्युत्तरसाकमेधयानामतिरात्रं पञ्चदश्यां द्वादशी (श ) दीक्षाद्याविरोधेनोपक्रम- श्छन्दोगवचनात् । फाल्गुन्यां पौर्णमास्यामिति पक्षमाश्रित्य प्रयोग : - शिशिरे षष्ठ्यां प्रातरग्निहोत्र ५ हुत्वा चातुर्मास्यैर्यक्ष्ये अक्षय्यं मे सुकृतं स्यादिति संकल्पः । नित्यभिदं कर्मेति मगवता मनुनोक्तम् । सोमचातुर्मास्यैर्थक्ष्ये इति संकल्पं कृत्वा त्रिवृता यक्ष्ये, विद्युदसि० सोमप्रवाकादि सर्वमग्निचयनवदिति भाष्यकृत् । यज्ञदत्तशर्मणश्चातु- मस्यानि भविष्यन्ति तत्रभवता इत्यादिना । चातुर्मास्यानीति सूत्रवचनमतिरात्रप्रभु - तयश्चाहर्गणा अन्यत्र चातुर्मास्यानि राजसूयाभ्याम् इति च्छन्दोगवचनात्तस्मिन्नेवाहनि ४२२ सत्यापाढविरचितं श्रौतसूत्रम् - [ १७ प्र- दीक्षा द्वादशाहवदनापि अन्वारम्भणीलोपं केचिदिच्छन्ति । द्वादशोपसदश्च कृत्वा द्वादशाहवद्यूपच्छेदनकाले न यूपच्छेदनम् | उत्तरवेदिकाले नोपवपति चात्वालस्य लोपः । वेद॒मानं॑ कृत्वा चतुः शिखण्डेत्यवोक्ष्योत्करं कृत्वा वित्तायनीत्यादि सर्वे लुप्यते प्रच्छादनान्तं शिष्टं सर्वमहीनभूतद्वादशाहवत् । पयस्यार्थं वत्सानपाकृत्य पश्चाद्वैश्वदेव- स्याऽऽमिक्षाया अपाकरणमनीषोमीयस्येमसनहनकाले आतिथ्यायां प्रयुक्तान्पारधी-प्र- युनक्ति (परिदध्यात्) पशुनियोजनसमर्थं संनह्यति । आतिथ्ये काले अनीषोमायस्या- ज्याभिमन्त्रणान्तं कृत्वाऽम्यादानादि लुप्यते । यवमतीभिः प्रोक्षणं पृथिव्यै त्वेति पारधेः सर्वा अपः परिसंयोज्यमानायानुब्रूहीति संप्रैषः । येन केनचिच्छकलेनानक्ति | न चषालः, नियोजनकाले परिधौ नियोजनम् । दक्षिणे परिधो, वपया प्रचर्य पुरोडाशमनु वैश्वान - रपार्जन्यहविष निर्वपति, इति आश्वलायनोक्तं पयसो विशसनं कृत्वा वैश्वदेव्या आमि क्षाया दोहनं पूर्ववदुक्तम् ( ततो ) वत्सापाकरणं कृत्वा ( त ) मेवं पारस्तरणा- न्तम् ॥ २५ ॥

त्रिवृदग्निष्टोमो वैश्वदेवस्य लोके ॥ २६ ॥

श्वोभूते महारात्रे बुद्ध्वाऽझे नयेत्यादि ( त्रिवृद) ग्निष्टोमो वैश्वदेवस्य लोके वैश्व- देवस्य स्थाने सवनीयानां निर्वापः काले सवनीयार्थानि सर्वाणि वैश्वदेवानि सर्वाणि च पात्राणि प्रयुनक्ति । (अपरतः ) सवनीयकपालानि भर्जनार्थमेकं बृहत्कपालं च वैश्वदेव कपालानि चरुस्थाल्यौ स्फ्यश्च द्वंद्वं ( परतः ) पात्रीद्वयमवशिष्टानि तन्त्रेण सवनी- यवत्प्रातर्दोहपात्रं वाजिनपात्रं चेत्यादीनि । तन्त्रेण वानस्पत्याऽसीत्यादि वेषाय व सवनीयान्निरुध्य वैश्वदेवहवींष्यनुनिर्वपति निरुप्तान्त्रीही निति शूर्पे निर्वापों भारत्यर्थः सहेत्यर्थः | उभ्यार्थी निरुप्य सणादयः । अवहननकाले सवनीयानवहत्य श्रीही- नष्टधा कृत्वा सप्त भागान्संसृज्य यथाभागं व्यावर्तध्वमिति लाजार्थान्विभजत्युमयोर्यथा- दैवतानि॑र्देशः । कनिष्ठा लाजार्था भवेयुः । भूयिष्ठा वैश्वदेवार्था तानवहत्य पर्यायेण त्रिष्फलीकरणं वैश्वदेवसवनीयार्थानां निधानं तन्त्रेण सवनीयानां पेण्यान्विभज्य देवान्पेप्यान्विभजति सवनीयानामैन्द्रमपि वा वैश्वदैविकानां पूष्णान्तोनि सर्वाणि कपा- लान्युपधाय मैत्रावरुण्या दोहनम् । ततो वैश्वदेव्या दोहनम् । मदन्तीरधिश्रयीत इत्यादि । एकस्यां पात्र्यां पिष्टानन्वास्य पिष्टानुत्पूय ऋहिनुत्पुनाति । क्रमेण यवपिण्डं कृत्वा चातुर्मास्यवद्विभज्य निर्दिश्य क्रमेणोद्वासनम् | उद्धासनकाले सक्नीयानुद्वास्य वाजिनसेच- नान्तं कृत्वा चातुर्मास्यानामुद्वासनं वाजिनसेचनान्तं क्रमेणालंकरणमित्यादि ॥ २१ ॥ १ "न्तानां । ३ पटलः ] महादेवशास्त्रि संकलितम योग चन्द्रिकाव्याख्यासमेतम् । ४२३

वैश्वदेवः पशुः । बार्हस्पत्याऽनुबन्ध्या ॥ २७ ॥

भवतीति शेषः । प्रोक्षणादि कृत्वा प्रदक्षिणं परिधिं परिवीय वैश्वदेवं पशुमुपाकरोति । ऐकादशिनावृत्तिः । पूर्ववत्सवनीयपशोर्नियोजनं पारधौ । सवनीयानासाद्य चातुर्मा- स्यानासादयति । द्वयोर्वाजिनं संसृज्योत्करे सादयति । प्रचरणकाले सवनीयैः प्रचर्य वैश्वदेवहविर्मिः प्रचरति ॥ २७ ॥

न यूपं मिन्वन्ति ॥ २८ ॥

परिधिनियमाच्च ॥ २८ ॥

नोत्तरवेदिमुपवपन्ति ॥ २९ ॥

नियमाच ॥ २९ ॥

परिधौ पशुं नियुञ्जन्ति । उल्मुके बर्हिषि वा । उत्तरेषु विमिन्वन्ति । यूपानुत्तरवेदिमुपवपन्ति ॥ ३० ॥

प्रातः सवनीयान्वैश्वदेव हवी प्यनु निर्वपति । समानं तु स्विष्टकृदिडम् । न यूपं मिन्वन्ति । नोत्तरवदिमुपवपन्ति । परिधौ पशुं नियुञ्जन्ति । उल्मुके बर्हिषि वा । मिन्वन्त्युत्तरेषु यूपान् । उत्तरवेदिमुपवपन्ति ( आप० श्री० २२-८- ११८ ) इत्या- प्रस्तम्बः | समानं तु स्विष्टकृतन्त्रेणेत्यर्थः । वसाप्राशित्रयोश्च तन्त्रेशोभयोरुभयोः पयस्ययोरेकैव शाखां तन्त्रेणोत्कर्षपक्षे उत्कर्ष इति । दक्षिणाकाले पञ्चाशद्दाक्षिणां ददाति । न यूपोपस्थानम् । न परिधिप्रहरणं कृतमिति चात्वालकार्य सर्वे लुप्यते उपस्थानादि सर्वमग्नीषोमीयवत् । पाक्षिकस्यातिप्राह्यस्य निवृत्तिः, त्रीणि गृह्णाति केचित्पाक्षिकमेवेति तस्या अत्रापि परिधौ नियोजनम् । अथोदवसानीयान्तं विधाया हतं वासः परिषाय चातुर्मास्यव्रतान्युपेयुः | समाप्तो वैश्वदे॒वः ॥ ३० ॥

ततश्चतुर्षु मासेषु वरुणप्रघासानां लोके त्रिरात्रोऽग्निष्टोम उक्थ्योऽतिरात्रः । मारुतः पशुः । वारुणो द्वितीयः | मैत्रावरुण्यनूबन्ध्या ॥ ३१ ॥

आषादयां पौर्णमास्यां सुत्यारम्भो यथा स्यात्पूर्ववद्वादश दीक्षा द्वादशोपसदश्य कृत्वा, एवं कालं प्रतीक्ष्याऽऽरम्भः | वरुणप्रवासानां लोके द्विदिवस इति च्छन्दोग- वचनात् । षष्ठ्यां द्वितीयेन यक्ष्ये, केचिद्विरात्रेणेति सर्वे च दशाहवत् । तस्मिन्नहन्येव दक्षिणीया । यूपच्छेदनकाले एक्यूपं छिनत्ति, उत्तरवेदिमुपवपत्यौपवसथ्येऽहन्यग्निवदु- त्तरं परिग्राहं कृत्वा प्रतिप्रस्थाता शाखामाहरति मारुत्या: शाखाया अपि वत्सापाकरणं, ४२४ सत्यापाढविरचितं श्रौतसूत्रम् - [ १७ प्र- यूपकाले यूपं मिन्वन्ति, पयमां विशसनं कृत्वा मारुत्या दोहनं सवनीयेमा बहिराहर- णम् । प्रसूनमयं त्रेधा संनद्धमित्यादि परिस्तरणान्तम् |

श्वोभूते महारात्रे बुद्ध्वाऽग्ने नयेत्यादि अग्निष्टोमवत् । सवनीयनिर्वापकाले वैश्वदेव- वद्वारुणप्राचासिकानि हवींषि निर्वपति पूर्वस्मिन्नहन्युत्तरस्मिन्नहनि सर्वाणि विभज्य वा ( आप० ० २२ - ८ - ११ ) इत्यापस्तम्बसूत्रम् | कपर्दिना भाष्यकारेणाप्यनुक्तं तस्मादेवं विचारः कर्तव्यः । अस्मिन्नहाने सर्वाणि वारुणप्राघासिकानि हवींषि कर्तव्या- नीति विभज्यास्मिन्नुत्तरस्मिन् | अथवेोत्तरस्मिन्वेति संशयः ।

प्रथमेऽहनि सर्वेषां निर्वापः, इति केचिद्वर्णयन्ति । अथ प्राथम्यात्प्रथम- मतिक्रम्योत्तरस्मिन्निर्वापिकरणाभावात् । तस्मात्पूर्वेऽह्नि विभज्य पूर्वस्मिन्नुत्तरस्मिन्निति सिद्धान्तः । लिङ्गदर्शनादापस्तम्वेन भगवता साकमेधहवींष्य पच्छियोक्तमिति । पुनश्च लिङ्गं चातुर्मास्येष्वैष्टिकेषु सर्वत्र पयस्या देवता इह सोमेषु पशुदेवता वैश्वदेवे वैश्वदे॒वः पशुः । वरुणनवासद्वचहे मारुतः पशुः । द्वितीयस्य वारुणः । साकमेधे पयस्या नास्ति तस्मादन्यः पशुः शुनासीरीये वायव्यं पयः | ऐष्टिके वायव्यः पशुरिति दर्शनान्मारुतः पशुः पूर्वस्मन्विद्यमानत्वात् । मारुतपश्चन्तानि सप्त हवींषिपूर्वीस्मन्नेवाहन द्वितीय उत्तरस्मिन्नहनि वारुणस्य विद्यमानत्वाद्वारुणी पयस्यामेकश्च कायश्चोत्तरस्मिन्नहाने अपि च प्रतिपद्दर्शनाच्च कायमप्युत्तरस्मिन्नहनि कथं साकमेधे त्र्यहे वारुणप्राघासिकेभ्यो द्वयहे च साकमेधे वरुणप्रयासयोरेककपालदेवते कश्चिद्विश्वकर्मा च तद्दैवत्यं प्रतिपद्द्वयं विधीयते वरुणप्रघासयोरह्नोरुत्तरस्मिन्नहनि प्रतिपदि विहितं साकमेघे त्र्यहमेवोत्तरेऽहनि वैश्वकर्माणि प्रतिपदि विहितं तस्मिन्कायम प्युत्तरस्मिन्नहनि कर्तव्यमेवं प्रयोगः कर्तव्यः । अत्र प्रकृतमनुसरामः ।

सबनीयानां पात्रप्रयोगकाले सबनीयार्थानां वारुणप्रात्रासिकानां च पात्राणि प्रयुनकि, सवनयनिरुप्य तस्मिन् शेर्पे यानि वारुणप्राघासिकानि ऐन्द्रानपर्यन्तानि निरुप्य प्रति प्रस्थाता मरुद्रयस्त्वा • ततः करम्भपात्रार्थान् सहैव प्रोक्षणादयः प्रागधिवपनान्तं कृत्वेन्द्रामिंत्रस्य पूषण्वतः सोमस्य सरस्वत्या इति तण्डुलानिदमिन्द्रस्याग्नेः सवितुः पूष्ण इन्द्राग्न्योर्मरुतामिति पेषणार्थत्वान्नैवमधियापः | क्रमेण चतुर्थ्यन्तेन कपालान्युपधाय- मैत्रावरुण्या दोहनम् । मदन्तीरधिश्रयति इत्यादिपिण्डं कृत्वा प्रथमतण्डुलान्यथाभागं व्यावर्तध्वमिदमिन्द्रस्य हरिक्त इन्द्रस्य पूषण्वत इत्येकं भागमिदं सोमस्य सरस्वत्या इत्युक्तं भागमथ पुरोडाशानां न्यावर्तध्वमिति पुनश्च व्यावर्तध्वमथ तण्डुलानां व्यावर्तेयां व्यावर्तव्वं ज्यावर्तेथामिदं सोमस्य सरस्वत्या इति चरोः । इदमिद्राग्न्योर्मरुतामुत्तमो मेषमध्वर्युः करोति । अथ यवानामधिश्रयणादिला जानैन्द्रमथ मैत्रावरुण्या दृध्यानयन ३ पटल:] महादेवशास्त्रि संकलितप्रयोग चन्द्रिका व्याख्यासमैतम् । ४२५ मथ वारुप्पप्रघासिकानां यथाक्रमं मेषमधिश्रयति । ततो दध्यानयनमन्तरितं सर्वेषामु द्वासनकाले सर्वेषां क्रमेणोद्वासनम् । द्विरात्रवदग्निष्टोमसामानुसारेणेति । केचित्पशु.. काले मारुतः पशुः । विहरणादूर्ध्वं काले मार्जालीयस्य रक्षणं सवनीयपशोरने वाजजिदितिः कृत्वा माजीलीये करम्भपात्रैः प्रचारः | अक्रन्निति जपित्वा सवनमसीत्यादिसवनीयैः प्रचर्य वारुणप्रघासिकैर्मेषान्तैः प्रचरति । समानं तु स्विष्टकृदिडम् । वैशेषिकाणां च । पञ्चाशदक्षिणा ददाति पत्नीसंयाजान्तमहः संतिष्ठते ।

द्वादशाहवदहीनसंततयः । मैत्रावरुण्या वत्सापाकरणं कृत्वा तदानीमेव वारुण्या- ध्वर्युः करोति | मैत्रावरुण्या दोहनं कृत्वा वारुण्या दोहनमध्वर्युरेव । केचित्-प्रतिप्र- स्थातैव "सवनीयस्य परिस्तरणान्तम् ।

महासत्रे बुद्ध्वा अग्ने नयेत्यादि । सवनीय निर्वापकाले द्वे भर्जनार्थे कपाले एका- दश कपालानि मेष्यर्थमंष्टौ वा कायार्थमेककपालं स्फ्यश्च द्वंद्वम् । शिष्टं सर्वं पूर्ववत् । सवनीयान्निरुप्य तस्मिन्नेवाग्नये जुष्टं० प्रागधिवपनात् । यथाभागं व्यावर्तध्वमिदमिन्द्रस्य हरिवत इन्द्रस्य पूषण्वत इदमिन्द्रस्य वरुणस्य कस्यैन्द्राशीनां च क्रमेणाधिवापं कृत्वा कपा- लान्युपधाय मैत्रावरुण्या दोहनं कृत्वा यथाभागं व्यावर्तध्वं व्यावतैयामिदं वरुणस्येद कस्येत्यादि प्रथममैन्द्रं सवनीयक्रमेणाधिश्रित्य सायंदोहाद्यन्तरितमित्यादि । उद्धासन- काले क्रमेणोद्वासनम् । नात्र मेष्यमेषयोर्व्यतिहारः | (स्वस्यां स्वस्यां ) पशुकाले वारुणः पशु चरणकाले सवनीयैः प्रचर्य ततो वारुण्याः प्रचारं करोति । अध्वर्युः काया- नुब्रूहि इत्यादि, समानं स्विष्टक्वदिडं प्रशित्रं च पञ्चाशद्दाक्षिणा । अवभृथकाले बिन्दु- स्पर्श कृत्वा पिष्टनिष्कासयोस्तूष्णीं प्रक्षेपः । - मैत्रावरुण्यनुबन्ध्या भवति । उदवसानीयान्तं, ततश्चातुर्मासत्रतानि भवन्तीति ।

अथवाऽऽश्वलायनमतादुत्तरेधुरेव वारुणप्रायासिकानां सर्वेषां निर्वापः करम्भपात्राणां च । अथैवं प्रयोगः– पूर्वस्मिन्नहाने पयस्यात्रयस्य दोहनं मैत्रावरुणस्य मारुत्या वारु ण्याश्च । श्वोभूते सवनीयकाले उभयार्थानि पात्राणि प्रयुज्य सवनीयानि निरुप्य तासु यवासु वारुणप्रघासिकानि सर्वाणि निर्वपति करम्भपात्रार्थानि उभया (नि) निगद्योपसादनमु- भयं निगद्य प्रागधिवापनात्कृत्वा यथाभागं व्यावर्तध्वमिदमिन्द्रस्य हरिवत इदमिन्द्रस्य पूषण्वत इदं सोमस्येदं सरस्वत्या इति चर्वर्थान् ( इदमिन्द्राग्योः) इदमिन्द्रस्य : सवितुः पूष्ण इन्द्राग्योर्मरुतां वरुणस्येति पौष्णान्तान्कमेणाधिवापः | क्रमेण कपाला- न्युपधाय मैत्रावरुण्या दोहनम् । ( ततो मारुत्या वारुण्याश्च ) | मदन्ती रश्रियणं पिण्डं कृत्वा पृथक्तण्डुलान्यथाभागं व्यावर्तध्वमिदमिन्द्रस्य हरिक्त इदमिन्द्रस्य पूषण्वत इत्येकं भागम् । इदं सोमस्य सरस्वत्या इत्येकं भागं पुरोडाशस्य व्यावर्तध्वमथैन्द्रपुरोडाशमथ L ५४ ४२६ सत्याषाढविरचितं श्रौतसूत्रम्- [ १७ प्र- तण्डुलान्, व्यावतेंथां व्यावर्तध्वामिति त्रिः, पुनर्व्यावर्तध्वं (या) सा मेषी पुनर्व्यावर्तेथां वारुणकायौ । इदं सोमस्येदं सरस्वत्या इति चरू । इदं वरुणस्येदं कस्येत्युक्तमितरेषां यथाक्रममधिश्रयणं धर्माः स्त (स्थ) धर्मोऽसि (लाजा ) इत्यैन्द्रमथ मैत्रावरुण्या दध्यान- यनमथान्नेयमथ सौम्यं चरुमय सावित्राद्यैन्द्रा नपर्यन्तानधिश्रित्य मेषीमधिश्रित्य मारुत्या ध्यानयनमथ कायमन्तरितं सर्वेषाम् | उदासनकाले सवनयानुद्वास्य द्वयोः पात्रयोरुद्धरणं कृत्वा वारुणप्रवासिन्युवासयति क्रमेण । पशुकाले वारुणः पशुः | धिष्णियविहरणस्यो मालीयस्य धारणं सवनीयस्य पशो:० अग्ने वाजनिदिति कृत्वा मार्जालीये करम्भपात्रैः प्रचारः | अक्रन्निति जपित्वा भुवनमसीत्यादि सवनीयैः प्रचर्य वारुणाद्यैः सर्वैः समानं तु स्विष्टक्कदिडं वैशेषिकाणां च । दक्षिणाकाले पञ्चाशद्द. दतीति पूर्वकल्पेन समानम् । केचित्प्रथमेऽहनि सर्वेषां निर्वापः । तदा प्रयोगोऽनन्तरोक्ते तुस्र्यः । तदाऽप्यवभृथ।दुदेत्योदवसानीयान्तमिति | समाप्ता वरुणप्रघासाः॥ ३१ ॥ ततश्चतुषु मासेषु साकमेधानां लोके त्रिरात्रोऽ मिष्टोम उक्थ्योऽतिरात्रः ।। ३२ ।। अथ कार्तिक्यां पौर्णमास्यां त्रिरात्रस्य प्रथमेऽहनि सुत्या यथा भवति तथा द्वादश दीक्षा द्वादशोपसदश्च कृत्वा तद्नु आरम्भः | अथवा छन्दोगमतात्तस्य त्रिरात्र- स्योत्तममहः पर्वणि यथा स्यात्तथाऽऽरम्भः । द्वादश दीक्षा विधाय द्वादशाहवत्तस्य कर्म-अतिरात्रेण यक्ष्ये विद्युदसि सर्व द्वादशाहवत् | नाग्निचयनं न सावित्रः | उत्तरवेदिविधानात् । प्रसिद्धमोपत्र सध्यान्तं कर्म वसतीवरीमरि (भिद्रुत्य पयांसि विशास्ति । अस्मिन्कर्मणि ग्रूप मिन्वन्ति, अग्नी- षोमीयकाले सवनीयपरिस्तरणान्तम् । महारात्रे बुद्ध्वाऽन्ने नथेत्यादि अशिष्टोमः | प्रातः सवनीयानां पुरोडाझानां निर्वाप - काले प्रातः सवनीयानां निरुप्याग्नयेऽनीकवते जुष्टं निर्वपामीति | यवपक्षे निरुतयवेषु व्रीहिपक्षे निरुतत्रीहिषु । अवहननात्पूर्व विभागः | श्रीहिप व्यावर्तेयामिति । इतस्था प्रागधिवपनाद्विभागः। व्यावर्तध्वमिन्द्रस्य हरिवत इन्द्रस्य पूषण्वत इदमिन्द्रस्यारी- कषतः । शिष्टं यथोक्तम् ॥ ३२ ॥ आग्रेयः पशुरैन्द्राग्नो द्वितीयः । ऐकादशिनास्तृतीये प्राजापत्यो वा सौर्यनूबन्ध्या ॥ ३३ ॥ प्राप्त आय: पशुः | ऐन्द्रवायामः | पौष्णीकस्य प्रथममहर्विकारत्वा- तस्य व्यहस्य तद्वदतिमाह्याः । सवनीयैः प्रचर्याग्नयेऽनीकवते प्रचारः । माध्यदिने सवनीयैः सह मरुद्रयः सांतपमेभ्यो निर्षापश्चरुः | मरुद्धयः सांतपनेभ्यो जुष्टं निर्व'स्थूलाक्षरैः युक्तः भागः'पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/३८ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/३९ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/४० पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/४१ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/४२ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/४३ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/४४ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/४५ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/४६ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/४७ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/४८ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/४९ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/५० पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/५१ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/५२ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/५३ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/५४ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/५५ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/५६ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/५७ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/५८ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/५९ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/६० पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/६१ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/६२ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/६३ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/६४ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/६५ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/६६ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/६७ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/६८ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/६९ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/७० पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/७१ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/७२ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/७३ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/७४ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/७५ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/७६ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/७७ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/७८ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/७९ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/८० पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/८१ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/८२ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/८३ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/८४ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/८५ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/८६ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/८७ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/८८ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/८९ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/९० पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/९१ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/९२ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/९३ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/९४ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/९५ पृष्ठम्:सत्याषाढ श्रौतसूत्रम्(१७-१८ प्रश्नाः) Satyaashada Srautasutra.pdf/९६