कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्/प्रश्नः १६

विकिस्रोतः तः
← प्रश्नः १५ कल्पः/श्रौतसूत्राणि/हिरण्यकेशि-श्रौतसूत्रम्
प्रश्नः १६
हिरण्यकेशिः/सत्याषाढः
प्रश्नः १७ →

16.1
अथ षोडशप्रश्ने प्रथमः पटलः ।
द्वादशाहेन प्रैव जायते ॥ १ ॥
ज्यैष्ठ्यमश्नुते स ह्येनमनुभवति ॥२॥
अहीनः सत्रं च ॥३॥
तस्याग्निकल्पो व्याख्यातः॥ ४ ॥
गतश्रियश्छन्दसा यजेरन् ॥ ५॥
यं कामयेत च्छन्दसा यजते सोऽस्मै कामः समृध्यते । यजते यजन्त इति चोदनं योऽतपस्वी स्यादसꣳश्लिष्टोऽस्य यज्ञः स्यात्तपस्वी स्याद्यज्ञमेव तत्सꣳश्लेषयतीति विज्ञायते ॥६॥
पीवा दीक्षते । कृशो यजते ॥ ७॥
काम्या विद्यादष्टाचत्वारिꣳशतं कामयति ॥ ८॥
पञ्चदश दीक्षेरन्नर्धमासायतनाः ॥ ९ ॥
सप्तदश प्रजाकामाः ॥ १६.१.१० ॥
एकविꣳशतिꣳ रुक्कामाः। त्रयोविꣳशतिं प्रतिष्ठाकामाः । चतुर्विꣳशतिं ब्रह्मवर्चसकामाः । त्रिꣳशतं मासायतनाः। त्रयस्त्रिꣳशतमोजस्कामाः। चत्वारिꣳ शतमिन्द्रियकामाः । चतुश्चत्वारिꣳशतं वीर्यकामाः । अष्टाचत्वारिꣳशतं पशुकामाः॥११॥
अपरिमितं दीक्षेरन्नित्यन्ततो वदन्ति ॥ १२ ॥
तेऽप्यहीनस्य याजमाने स्थानिनः ॥ १३ ॥
ब्राह्मणा ऋत्विजो दीक्षितानामदीक्षितानामहीनस्य तेन ( ते ) याजयन्ति ॥ १४ ॥
तस्माद्वादशाहेन न याज्यं पाप्मनो व्यावृत्त्या इति ॥ १५ ॥
य एवं विद्वान्द्वादशाहेन यजते ॥ १६ ॥
यजमान ऋध्नोति ॥ १७ ॥
य एवं विद्वान्द्वादशाहेन प्रतिगृह्णाति ॥ १८ ॥
ऋत्विजो यजमानं चाधिकृत्य वदति ॥ १९ ॥
ब्राह्मणानां तु सत्रमतो दीक्षितानाꣳ सप्तदशानामासत उपयन्ति ॥ १६.१.२० ॥
चोदना सर्व इष्टप्रथमयज्ञा गृहपतिर्वा ॥ (ख०१)॥ २१ ॥
सर्वे याजमानमार्त्विज्येनाविप्रतिषिद्धं कुर्युः ॥ २२ ॥
गृहपतिः परार्थानि यथा यूपाञ्जनमृतुयाज्यामित्येवꣳरूपाणि धर्मप्रतिषेधे भूयसां धर्मोऽनुग्राह्यते ( गृहपतेर्वा ) ॥ २३ ॥
गृहपतेरेव सामिधेनीकल्पेनेति कुर्वीरन् ॥ २४ ॥
त्वं वरुण इति वसिष्ठराजन्यानाꣳ सामिधेनीपरिधानीया। आजुहोतेतीतरेषां गोत्राणाम् ॥ २५ ॥
नाराशꣳसो द्वितीयः प्रयाजो वसिष्ठशुनकानाम् । तनूनपादितरेषां गोत्राणाम् ॥ २६ ॥
सावित्राणि होष्यन्तः संनिवपेरन्हुत्वा विनिवपेरन् ॥ २७॥
पशुभिर्यक्ष्यमाणाः संनिवपेरन्निष्ट्वा निवपेरन्गृहपतिर्वाऽरण्योः संनिवपेरन् ॥ २८ ॥
य इतोऽग्निर्जनिष्यते स नः सर्वेषां यदनेन यज्ञेन जेष्यामोऽनेन पशुबन्धेन तन्नः सहासह नः साधुतुल्या य एवं पापं करवत्तस्यैव तदित्युक्तम् ।।२९।।
गृहपतिः समारोपयते । स्वयमितरे गृहपतिर्वा ॥१६.१.३०॥
सर्वेषाम् ॥ ३१ ॥
शिशिरे दीक्षन्ते । वसन्त उत्तिष्ठन्त इति विज्ञायते ॥ ३२॥
शिशिरो वै तस्य प्रायणं वसन्त उदयनम् ॥ ३३ ॥
ऋध्नुवन्ते य एवं विद्वाꣳसः शिशिरे दीक्षन्ते वसन्त उत्तिष्ठन्तीति विज्ञायते ॥ ३४ ॥
षट्सु व्युष्टास्वापूर्यमाणपक्षस्य चेष्यमाणा दीक्षेरन् ॥ ३५॥
संवादꣳ संनिवपनं कृत्वा दीक्षणीयाप्रभृतीनि कर्माणि कुर्वते । य इतोऽग्निर्जनिष्यते स नः सर्वेषां यदनेन यज्ञेन जेष्यामोऽनेन सत्रेणेति ।। (ख०२) । अत्र संवादे
ब्रूयुरध्वर्युर्गृहपतिं दीक्षयित्वा मध्यतः कारिणो दीक्षयति होतारं ब्रह्माणमुद्गातारम् । प्रतिप्रस्थाताऽध्वर्युं दीक्षयित्वाऽर्धिनो दीक्षयति मैत्रावरुणं ब्राह्मणाच्छꣳसिनं स्तोतारम् । नेष्टा प्रतिप्रस्थातारं दीक्षयित्वा तृतीयिनो दीक्षयति । अच्छावाकमाग्नीध्रं प्रतिहर्तारम् । उन्नेता नेष्टारं दीक्षयित्वा पादिनो दीक्षयति ग्रावस्तुतं पोतारं सुब्रह्मण्यम् । ततस्तं प्रतिप्रस्थाता दीक्षयति । अन्यो वा दीक्षितो ब्राह्मण एवमनुपूर्वं दीक्षेरन् । नातन्त्रीभावादेकैकमपवर्गयति । अन्यगोत्रव्यवायात् समानगोत्राणामार्षेयाणामभ्यावर्तते । पत्नीनामेकस्थाने पत्नीर्दीक्षयन्ति । तासां याजमानैर्धर्मा व्याख्याताः ॥ ३६॥
अन्वहं दीक्षामेके समामनन्ति ॥ ३७॥
द्व्यहे त्र्यह इति क्रामयति आ द्वादशाहात्।। ३८ ॥
उपसत्सु त्रयोदशो दीक्षेत । तेन [न] ब्रा(ब्र)ह्मणा भवितव्यमुपदीक्षमाणा अग्नीनुपवपन्न्युप्याऽऽत्मसꣳस्कारेण प्रक्रामे (त्)) द्वादश दीक्षाः ॥ ३९ ॥
न सनीहारसꣳशासनꣳ सत्रभूते विद्यते ॥ १६.१.४०॥
षोडशी सोमविक्रयणी ॥ ४१ ॥
द्वादशाहायाऽऽप्तꣳ राजानं क्रीणाति ॥ ४२ ॥
द्वादशोपसदः॥४३॥
अनूपसदमग्निं चिनोति ॥ ४४ ॥
द्व्यहमेकैका चितिः ॥ ४५ ॥
चतुरहमुत्तमा ॥ ४६॥
आ त्रिरात्रं चतुस्तनानि व्रताति भवन्ति ॥ ४७ ॥
एवं त्रिस्तनानि द्विस्तनानि एकस्तनानि ॥४८॥
भूयो व्रतमिच्छन्दध्न एकꣳ स्रुवमभ्युन्नयेत ॥ ४९॥
एकविꣳशतिश्छदिसदः ॥ १६.१.५० ॥
संतृण्णे अधिषवणफलके ॥ (ख०३) ॥५१॥
इति सत्याषाढहिरण्यकशिसूत्रे षोडशप्रश्ने प्रथमः पटलः ॥

16.2
अथ षोडशप्रश्ने द्वितीयः पटलः ।
व्याख्यात एकयूपः ॥ १॥
यदि यूपैकादशिनी स्यादन्वहमेकैकं यूपꣳ संमिनुयात्सर्वान्वा ॥२॥
औपवसथ्येऽहन्यन्वहं मीयमानेष्वहरहरुपशयोऽभ्यावर्तेत ॥ अग्निष्ठ एवोदयनीये पशुमुपाकुर्यात् ।। ३ ।।
श्वोभूते प्रतायते ज्योतिष्टोमः ॥४॥
वैश्वानरोऽतिरात्रः । उपावहरणकाले यावानेकाहायाऽऽप्तस्तावन्तꣳ राजानमन्यस्मिन्वासस्युपनह्योपावहरति ॥५॥
प्रत्युपनह्येतरं निदधाति ॥६॥
एवमहरहः क्रियते । अन्वहं योगविमोक्षणे ॥ ७ ॥
प्रथमेऽहनि युनक्ति । उत्तमे विमुञ्चतीत्येकेषाम् ॥८॥
प्रायणीयोदयनीययोरतिरात्रयोर्दशमे चाह्नि पृश्निप्राणग्रहान्गृह्णात्यभिषवमाणेन प्राकृतस्य यजुर्मानस्य प्रथमेन मन्त्रेण मीत्वा वायुरसि प्राणो नामेति दशभिर्मन्त्रैर्दश पृश्निमानानि मिमीते ॥९॥
उत्तरेणोत्तरेण यजुर्मानेन मीत्वाऽयं पुरो भुव इति दशभिर्मन्त्रैर्दश प्राणग्रहमानानि मिमीते ॥ १६.२.१० ॥
उत्तरोत्तरे यजुर्मानेन व्यतिषजति ॥ ११ ॥
ऐन्द्रवायवाग्रौ प्रायणीयोदयनीयावतिरात्रौ दशमं चाहः । अथेतरेषां नवानामैन्द्रवायवाग्रं प्रथममहरथ शुक्राग्रमथाऽऽग्रयणाग्रमेवं त्र्यनीकास्त्रिः परिवर्तन्ते समूढं छन्दसि ॥ (ख०४) ॥ १२ ॥
अथ व्यूढं छन्दस्यैन्द्रवायवाग्रौ प्रायणीयोदयनीयावतिरात्रोक्थेतरेषां दशानामैन्द्रवायवाग्रं प्रथममहः । अथ शुक्राग्रमथ द्वे आग्रयणाग्रे । अथैन्द्रवायवाग्रमथ द्वे शुक्राग्रे । अथाऽऽग्रयणाग्रमथ द्वे ऐन्द्रवायवाग्रे ।। १३ ।।
तत्र भक्षमन्त्राः पवमानाभिमन्त्रणानि च येन येन च्छन्दसा निगदाश्च तस्य स्थाने ताभिः संनमेत व्यूहेन व्याख्यातम् ॥ १४ ॥
एवमुत्तरेषु पृष्ठ्याहेषु त्रीनतिग्राह्यान्गृह्णाति । आग्नेयमेकविꣳशे । ऐन्द्रं त्रिणवे । सौर्यं त्रयस्त्रिꣳशे ॥१५॥
पूर्वस्मिंस्त्र्यहे वाजसनेयिनः समामनन्ति । यत्र गौरवीतꣳ साम तत्र सर्वान्पूर्णान् ग्रहान्गृह्णीयात् ॥१६॥
अथ पशुक्लृप्तिराग्नेयं प्रायणीयोऽतिरात्र आलभन्ते श्वोभूते सारस्वतीं मेषीम् । एवꣳ हि विहतानैकादशिनानन्वहमालभन्त आग्नेयमुदयनीये सोर्यं ब्रह्मवर्चसकामानाम् ॥ १७ ॥
दक्षिणाकालेऽन्वहं द्वादश शतान्यहीनभूते ददाति ॥ १८ ॥
सत्रे तु दाक्षिणौ होमौ हुत्वेदमहं गां कल्याण्यै कीर्त्यै स्वर्गाय लोकाय दक्षिणां नयामीति यजमानाः कृष्णाजिनानि अन्वन्य उदयो दक्षिणापथेनातियन्ति ॥ १९॥
एवमहरहः क्रियते ॥ १६.२.२०॥
उत्तरेऽहनि कृष्णविषाणाः प्रास्यन्ति ॥ २१ ॥
सख्यानि विसृजन्ते ॥ २२ ।।
पूर्वस्मिन्नहन्युत्तरस्मा अह्ने यज्ञायज्ञीयं प्रति वसतीवरीर्गृह्णाति ॥ २३ ॥
पूर्वस्मिन्नहन्युत्तरस्मा अह्ने स्तोत्रीयमनुरूपं कृत्वा शꣳसति ॥ (ख०५) ॥ २४ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्ने द्वितीयः पटलः ।

16.3
अथ षोडशप्रश्ने तृतीयः पटलः ।
वर्तमानेऽतिरात्रे पयाꣳसि विशास्ति ॥ १॥
श्वः सुत्यामिन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोमपेभ्यः सोमं प्रब्रूतादिति मैत्रावरुणेनोच्यमाने स्वमगारं प्रविश्याऽऽग्नीध्रः श्वः सुत्यामिन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोमपेभ्यः सोमं प्रब्रवीमि ब्रह्मन्वाचं यच्छ सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति संप्रेष्यति ॥ २ ॥
अद्य सुत्यामेतस्मिन्नहनि ब्रूयाल्लुप्येत वा श्वःसुत्यामितरेषु ॥ ३ ॥
पत्नीसंयाजान्तमहः संतिष्ठते ॥ ४ ॥
सꣳस्थिते ब्रह्मा वाचं विसृजते ॥ ५॥
परिहरन्त्युदकं पत्नीभ्यः ॥ ६॥
हरन्ति समिद्धाराः॥७॥
प्रत्येत्याऽऽहवनीये समिधोऽभ्यादधति ॥ ८॥
एवमहरहः क्रियेरन् ॥ ९॥
तस्मिन्नहनि पृष्ठ्यः षडहः ॥ १६.३.१० ॥
त्रिवृदग्निष्टोमो रथंतरसामा ।। ११ ॥
रथशब्देन माहेन्द्रस्य स्तोत्रमुपाकरोति ॥ १२ ॥
उपाकरणमन्त्रस्य शब्दो विकारः ।। १३ ।।
पञ्चदश उक्थ्यो बृहत्सामा ॥ १४ ॥
दुन्दुभिशब्देन माहेन्द्रस्य स्तोत्रमुपाकरोति ॥ १५ ॥
यदि स्तनयित्नुर्भवति स एव स्यादुपाकरणमन्त्रस्य शब्दो विकारः ॥ १६ ॥
सप्तदश उक्थ्यो वैरूपसामा ॥ १७ ॥
आधावेन माहेन्द्रस्तोत्रमुपाकरोति ॥ १८ ॥
बर्हिषो विकारस्तस्मिन्नुपाकृते प्रस्तुत उद्गाताऽऽधावेन धुनुते ॥ १९ ॥
एकविꣳशः षोडशी वैराजसामा ॥ १६.३.२० ॥
न्यूङ्खं भवति हविष्कृता(दा)श्रुतप्रत्याश्रुतेषु प्रतिगरे न्यूङ्खति ॥ २१ ॥
अरणीभ्यां माहेन्द्रस्य स्तोत्रमुपाकरोति बर्हिषो विकारः ।। २२ ॥
तस्मिन्नुपाकृते प्रस्तुते ॥ (ख०६) ॥२३॥
उद्गाता दक्षिणमूरुमवकाभिरवच्छाद्य तत्रारणी संनिधायाग्निं मन्थति ॥ २४ ॥
(तं) जातमुद्गाताऽभिहिंकृत्य प्रस्तोत्रे प्रयच्छति ॥ २५ ॥
प्रस्तोताऽध्वर्यवे ॥ २६ ॥
तꣳ सोऽग्रेण धिष्णियान्पर्याहृत्याऽऽहवनीयेऽनुप्रहृत्य प्रेद्धो अग्ने दीदिहीति विराजाऽभिजुहोति ॥ २७॥
त्रिणव उक्थ्यः शाक्वरसामा ॥ २८ ॥
अद्भिरवकावास्ताभिर्माहेन्द्रस्य स्तोत्रमुपाकरोति । बर्हिषो विकारस्तस्मिन्नुपाकृते प्रस्तुते ॥ २९ ॥
तिस्रः सहर्षभा गावोऽग्रेण सदोऽपरेणाऽऽग्नीध्रमुदीचीनं दक्षिणापथेनातिक्रमयन्ति ॥ १६.३.३०॥
त्रयस्त्रिꣳश उक्थ्यो रैवतसामा [ नम्] ॥३१॥
न्यूङ्खमेतदहर्भवति ॥ ३२ ।
स्वयमृतुयाजं भवति ॥ ३३॥
अध्वर्यू यजतमित्युच्यमाने हविर्धाने प्रविश्याध्वर्युः प्रैष उत्तरयर्चा यजति उत्तरेण वा प्रैषेण ॥ ३४ ॥
अश्विना पिबतं सुतं (मधु) दीद्यग्नी शुचिव्रता। ऋतुना यज्ञवाहसा । ऋतुना सोमं पिबतं वौषडिति यद्यव्यूढः ( बतमित्यव्यूढे यजति) ॥३५॥
निर्देशः पूर्ववत काले ऐन्द्रः, इन्द्राय हा सर्वान्गृहातीति व्यूढे त्वर्वाञ्चमद्य यद्यं नृवाहणꣳ रथं युञ्जाथामिह वां विमोचनम् । पृङ्क्तꣳ हवीꣳषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू । ऋतुना सोमं पिबतं वौषडिति तस्य प्रचरितं मरुत्वतीयैर्भवति ( बतमिति व्यूढे) ॥ ३६ ॥
यत्प्राङ्माहेन्द्रात्तस्मिन्कृते प्रतिप्रस्थाताऽपरेणाऽऽग्नीध्रमुदीचीं तन्ति वितत्य तस्यां वत्सान् बध्नाति ॥ ३७॥
दक्षिणेन मार्जालीयं मातृरुपरुन्धन्ति ॥ ३८ ॥
बर्हिःस्थानेऽद्भिर्दूर्वावास्ताभिर्माहेन्द्रस्य स्तोत्रमुपाकरोति । बर्हिषो विकारः ॥ ३९ ॥
तस्मिन्नुपाकृते प्रस्तुते वत्सान्प्रमुच्य मातृभिः सꣳसृज्योदीचीस्तस्य दक्षिणापथेन संचा[र्य]माना(णा) अतिवित्सन्ति (संतिष्ठते पृष्ठयः षडहः) ॥ (ख०७) ॥ १६.३.४० ॥
इति सत्याषाढहिरण्यकशिसूत्रे षोडशप्रश्ने तृतीयः पटलः ॥

16.4
अथ षोडशप्रश्ने चतुर्थः पटलः।
सꣳस्थिते पृष्ठ्ये षडहे । घृतं मधु वा प्राश्नन्ति ॥ १॥
अन्वहमुक्थ्यास्त्रयश्छन्दोमाः॥२॥
चतुर्विꣳशश्चतुश्चत्वारिꣳशोऽष्टाचत्वारिꣳशश्चतुर्विꣳशमविवाक्यम् ॥ दशममहरग्निष्टोमः सोमो रथंतरसामा(नम् ।) ॥३॥
नात्र कश्चन कस्मैच नो (न) व्याहते ॥ ४॥
ये बाह्या दृशीकवः स्युस्ते विब्रूयुर्यदि तत्र न विन्देयुरन्तः सदसाद्व्युच्यम् ॥५॥
यदि तत्र न विन्देयुर्गृहपतिना व्युच्यम् ॥ ६ ॥
गृहपतिमानुष्टुभमुक्त्वा तद्ब्रूयात् ॥ ७॥
यस्मिन्नुपह्वयत्येतावपि वा तेनैव सहाऽऽनुष्टुभꣳ संपादयेत् ।। द्वयोस्तदहः समिध आहरन्ति ।। ८ ॥
नित्या औदुम्बरीश्च ॥९॥
अभ्यादधति नित्याः ॥ १६.४.१० ॥
 उत्तरेणाऽऽहवनीयमौदुम्बरीरुपसादयन्ति ।। ११ ॥
असूर्या उपसूर्ये याभिर्वा सूर्यः सह । ता नो हिन्वन्त्यध्वरमिह रतिरिह रन्तिरिह रमध्वमिह रन्तिरिह रमतिरिह रमध्वमिह वो रमतिः। उपसृजं धरुणमिति द्वाभ्यां गार्हपत्ये जुहोति ॥ १२ ॥
अयꣳ सहस्रभानवो दृशः कवीनां मतिर्ज्योतिर्विधर्मा दध्रुः समीचीरुषसः समैरयदरेपसः समोकसः सरेतसः सचेतसः स्वरमन्युमन्तश्चिदाकोरित्यतिच्छन्दसर्चाऽऽहवनीयमुप
तिष्ठन्ते ।। ( ख०.८ ) ॥ १३ ॥
प्राजापत्याय मनोग्रहाय संप्रसर्पन्ति ॥ १४ ॥
प्रसृप्तेष्वनया त्वा पात्रेणेति पृथिवीं मनसा ध्यायन् प्रजापतये मनवे जुष्टं गृह्णामीति प्राजापत्यं मनोग्रहं गृह्णाति । यथारूपमाकाशात् । तार्तीयसवनि(नी)काद्वा सोमात्परिशाय(श्रप)येद्यावानेकस्मै चमसगणायाऽऽप्तः ॥ १५ ॥
तस्माद्वोपाꣳशुपात्रेण गृह्णीयाद्धोतृचमसमुख्याꣳश्चमसानुन्नयति ।। १६ ।।
स्तुतशस्त्रे भवतः॥१७॥
तस्य सर्वं मनसा क्रियते ।। १८ ।।
मनसा स्तोत्रमुपाकरोति ॥ १९ ॥
मनसा प्रस्तौति ॥१६.४.२०॥
मनसोद्गायति ॥ २१ ॥
मनसा प्रतिहरति ॥२२॥
मनसा तिसृणाꣳ सार्पराज्ञीनाꣳ षट्कृत्वः प्रतिगृह्णाति ॥ २३ ॥
यद्यर्धर्चशः शꣳसति नवकृत्वो यदि पच्छ ओꣳ होतरिति दशहोतुः प्रतिगरः । तथेति चतुर्होतुः । ओमिति पञ्चहोतुः । तथेति षड्ढोतुः । अरात्स्म होतरिति सप्तहोतुः ॥ २४ ॥
मनसाऽऽश्रुतप्रत्याश्रुते याज्या संप्रैषो वषट्कारो भक्षमन्त्रश्च ॥२५॥
हुत्वा हरन्ति भक्षन्ते यत्समीक्षन्ते ससमुपहवधर्मा भवन्ति । गृहपतिं पर्युपविश्य पृच्छन्ति ॥ (ख० ९)॥ २६ ॥
यद्दशहोतारः सत्रमासत । केन ते गृहपतिनाऽऽर्ध्नुवन्। केन प्रजा असृजन्तेत्यध्वर्युः पृच्छति ॥२७॥
प्रजापतिना वै ते गृहपतिनाऽऽर्ध्नुवन्तेन प्रजा असृजन्तेति गृहपतिः प्रत्याह ॥ २८ ॥
यञ्चतुर्होतारः सत्रमासत केन ते गृहपतिनाऽऽर्ध्नुवन्केनौषधीरसृजन्तेति ब्रह्मा पृच्छति । सोमेन वै ते गृहपतिनाऽऽर्नुऽनवन्तेनौषधीरसृजन्तेति गृहपतिः प्रत्याह ॥ २९॥
यत्पञ्चहोतारः सत्रमासत केन ते गृहपतिनाऽऽर्ध्नुवन्केनैभ्यो लोकेभ्योऽसुरान्प्राणुदन्त । केनैषां पशूनवृञ्जतेति होता पृच्छति । अग्निना वै ते गृहपतिनाऽऽर्ध्नुवन्तेनैभ्यो लोकेभ्योऽसुरान्प्राणुदन्त तेनैषां पशूनवृञ्जतेति गृहपतिः प्रत्याह ॥१६.४.३०॥
यत्षड्ढोतारः सत्रमासत केन ते गृहपतिनाऽऽर्ध्नुवन्केनर्तूनकल्पयन्तेति होतृकाः पृच्छन्ति । धात्रा वै ते गृहपतिनाऽऽर्ध्नुवन्तेनर्तूनकल्पयन्तेति गृहपतिः प्रत्याह ॥ ३१॥
यत्सप्तहोतारः सत्रमासत केन ते गृहपतिनाऽऽर्ध्नुवन्केन सुवरायन्केनेमाँल्लोकान्समतन्वन्नित्युद्गाता पृच्छति । अर्यम्णा ते गृहपतिनाऽऽर्ध्नुवन्तेन सुवरायन्तेनेमाँल्लोकान्समतन्वन्निति गृहपतिः प्रत्याह ॥ ३२ ॥
प्रजापतिं परिवदन्ति । ३३ ।।
अकुशलोऽयं प्रजापतिर्यो दꣳशमशकान्सꣳसृजेद्यः स्तेनानिति ॥ ३४॥
अपि वा प्रजापतिपरिवादानां मन्त्रानधीयते - यदरष्यानि प्रजापतिः पुरश्च ससृजे गिरीन् । कर्ताsग्निश्च तद्भद्रं यद्भद्रं तन्म आ सुव ॥ यदूषा तमसा युक्त्वा दिने तेऽक्ष्णिष्ठमातपत् । अम्भश्चात्यतिघर्मश्च तथा तत्ते प्रजापतिः ( तेः ) ॥ यत्स्ते नान्यद्वृकान्दꣳशान्मशकान्यदद्याश(य)वः । तदु ते वृजिनं तेषां तद्विषं तेन तेऽमृतम् ॥प्रजापतिं दशममहर्भजध्वं मतिं कवीनामृषभं जनानाम् । सुषुक्षितिꣳ सुद्रविणं दधानो विपाप्मा लोके निदधाति देवयुमित्येतैः परिवदेयुः ॥ ३५॥
अथ वरं वृण(णु)ते ॥ ३६॥
अदो नोऽस्त्विति यत्कामा भवन्ति ॥(ख० १०)॥३७ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्ने चतुर्थः पटलः । ।

16.5
अपि वा यदेवैतद्भूर्भुवः सुवः सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैरिति तेन चैषाꣳ सर्वे कामा अवरुद्धा भवन्ति ॥१॥
 (चतुर्होतॄन्व्याख्याय द्वारौ संवृत्य ) यथाधिष्णियं पत्नीर्व्यासाद्य द्वारौ संवृत्याथैभ्यो वाचमुपाकरोति ॥ २ ॥
इह धृतिरिह विधृतिरिह रन्तिरिह रमतिरित्यौदुम्बरीं परिष्वजन्त उदरैरिवोपस्पृशन्तः समन्वारभ्योदुम्बरीमासते युवं तमिन्द्रा पर्वता पुरोयुधा यो नः पृतन्यादपतन्तमिद्वन्तं(द्धतं ) वज्रेण तं तमिद्धन्तम् । दूरे च तां यच्छत्सद्गहनं यदि नक्षदस्माकꣳ शत्रून्परि शूर विश्वतो दर्मादर्षिष्ठ विश्वत इति समन्वारब्धा सर्वानुत्तरस्य हविर्धानस्य दक्षिणैः पाणिभिः कटाꣳस्तेजनीभिर्वा तिष्ठमाना अतियन्ति ॥ प्राञ्च ईषद्गत्वा वागैतु वाग्वागैतु वागुपैतु वाक्समैतूपमैतु वाग्भूर्भुवः सुवरिति पञ्च वचाꣳसि व्याहरन्ति ॥ ३ ॥
अधिवृक्षसूर्ये सुब्रह्मण्यया वाचं विसृजन्ते ॥४॥
औदुम्बरीः समिध अभ्यादधाति ॥ ५॥
श्वोभूत उदयनीयः स व्याख्यातरूपः ॥६॥
प्रायणीय उदयनीयो नात्राहीनसंतयो विद्यन्ते ॥ ७ ॥
पूर्वस्मिन्नहन्युत्तरस्मा अह्ने यज्ञायज्ञीयं प्रति वसतीवरीर्गृह्णाति॥८॥
एता अहीनसंततयो भवन्ति ॥९॥
उतो तान्येव दीक्षितवसनानि परिधाय प्रचरेयुः ॥१६.५.१०॥
वपनकाले सशिखानि सत्रभूते वापयन्ते ॥ ११ ॥
उदवसानीयेष्वन्यानृत्विजो वृत्वा तान्वा ज्योतिष्टोमेनाग्निष्टोमेन पृष्ठशमनीयेन सहस्रदक्षिणेन सर्ववेदसदक्षिणेन वा नाना यजेरन् ॥ १२ ॥
संतिष्ठते द्वादशाहः ॥ (ख११) ॥ १३ ॥
गवामयनेन प्रजापतिं भूमानं गच्छन्त्येषु लोकेषु प्रतितिष्ठन्ति ॥ १४ ॥
तस्य द्वादशाहेन सत्रभूतेन कल्पो व्याख्यातः ॥ १५॥
चतुरहे पुरस्तात्पौर्णमास्यै दीक्षेरन् ॥ १६ ॥
माघ्याश्चैत्र्या वा ॥ १७ ॥
प्रायणीयोऽतिरात्रश्चतुर्विꣳश उक्थ्य आरम्भणीयस्त्रिवृद्वा ते शये द्वे अहनी भवतः । ज्योतिरग्निष्टोमो रथंतरसामा गौरुक्थ्यो बृहत्सामा आयुरुक्थ्यो रथंतरसामा गौरुक्थ्यो बृहत्सामाऽऽयुरुक्थ्यो रथंतरसामा ज्योतिरग्निष्टोमो बृहत्सामेति ॥ १८॥
अभिप्लवः षडहः ॥ १९ ॥
एवं विहिताश्चत्वारोऽभिप्लवाः ॥ १६.५.२० ॥
पृष्ठ्यः षडहः समासः ॥ २१॥
सद्वितीयः सतृतीयः सचतुर्थः सपञ्चमः संभार्यः षष्ठः ॥ २२ ॥
त्रयोऽभिप्लवाः ।। २३ ॥
पृष्ठ्यः षडहः ॥ २४ ॥
अभिजित्त्रयः स्वरसामान उक्थ्या अग्निष्टोमा वा ॥ २५ ॥
परे द्वे शये अहनी ।। २६ ॥
इति षण्मासाः ॥ २७ ॥
मध्ये विषूवानेकविꣳशोऽग्निष्टोमो महादिवाकीर्त्यः ॥ २८ ॥
आदित्यव्रतं वा (सामानम् ) ॥ २९ ॥
सामोदित आदित्ये प्रातरनुवाकमुपाकरोति ॥ १६.५.३० ॥
दिवाकीर्त्यमेतदहर्भवति ॥ ३१॥
आवृत्त उत्तरः पक्षस्त्रयः स्वरसामानः॥ ३२ ।।
विश्वजित् ॥ ३३ ॥
चत्वारि शयानि । त्रयस्त्रिꣳशारम्भणः षष्ठ्यः षडहः ॥ ३४ ॥
चत्वारऽभिप्लवाः प्रत्यञ्चः स मासः ॥ ३५ ॥
सद्वितीयः सतृतीयः सचतुर्थः सपञ्चमः ॥ ३६॥
संभार्य उत्तमो द्वावभिप्लवौ ॥ ३७॥
गौश्चाऽऽयुश्च द्वे अहनी ॥ ३८ ॥
द्वादशाहस्य द्वादशाहानि ॥ ३९ ॥
महाव्रतमुदयनीयश्चातिरात्र इति ।। (ख०१२) ॥ १६.५.४० ॥
इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्ने पञ्चमः पटलः ।

16.6
अथ षोडशप्रश्ने षष्ठः पटलः ॥
द्वादशमासाः शाट्यायनकम् ॥ १ ॥
उभयतः संभार्य उत्तरः पक्षस्ताण्डकम् ॥२॥
उपरिष्टाद्विश्वजितः । पृष्ठ्यः षडहस्त्रयोऽभिप्लवा इति द्यू( द्व्यू )नो मास उत्तमे संभार्ये चत्वारोऽभिप्लवा गौश्चाऽऽयुश्च द्वे अहनी द्वादशाहस्य दशाहानि महाव्रतोदयनीभ्यां द्यू( द्व्यू )नो मासः पूर्यते । अथ ह भाल्लविके पूर्वस्मिन्पक्षे पुरस्तात्प्रथमात्पृष्ठ्यादभिजिदग्निष्टोमः । उत्तरस्मिन्पक्ष उपरिष्टादुत्तमात्पृष्ठ्याद्विश्वजितः पृष्ठ्यः षडह आयुरुक्थ्यः स एकस्थाने गौर्भवति । समानमितरच्छाट्यायनकेन । अथैकेषां विज्ञायते संवत्सरे सकृत्पृष्ठान्युपयन्ति । द्वादशाहीने दशरात्रे । तत्र पृष्ठ्यानाꣳ स्थानेऽभिप्लवाः षडहा ऊर्ध्वं द्वादशाहीयात् । दशरात्रान्महाव्रतमुपयन्ति ॥ (ख०१३)॥३॥
श्वोभूते प्रतायते पञ्चविꣳशोऽग्निष्टोमो महाव्रतसामा ॥४॥
यत्प्राङ्माहेन्द्रात् ॥ ५॥
तस्मिन्कृते प्रतिप्रस्थाता महाव्रतशिल्पानि व्यायातयति ॥ ६॥
दश वीणादण्डस्यातिमथितानि भवन्ति ।। ७ ।
एकैकस्मिन्नतिमथिते दश दश तन्तून्प्रवयति ॥ ८॥
स वाणः शततन्तुर्भवति ॥ ९॥
अध्यधिहोतृषदनं प्लेङ्खꣳ होत्रे प्रबध्नन्ति ॥१६.६.१०॥
औदुम्बरीमासन्दीमुद्गात्र उपनिदधाति ॥ ११ ॥
कूर्चफलके अध्वर्यवे ।। १२ ॥
होत्रका उपगातारश्च कूर्चेष्वासते ॥ १३ ॥
निकल्पन्ते सर्वशिल्पानि ॥ १४ ॥
तꣳ संनयति वाक्सत्यं मनो भद्रं तन्नो भद्रमा नो भद्रमिति त्रिपर्वयोत्कटशलाकया वेणुपर्वणा वेतसशाखया वा वादयित्वा बाणेन शततन्तुना माहेन्द्रस्य स्तोत्रमुपाकरोति ॥ १५॥
बर्हिषो विकारः ॥ १६ ॥
तमुद्गाता वादयित्वा प्रस्तोत्रे प्रयच्छति ॥ १७॥
प्रस्तोताऽध्वर्यवे ॥ १८ ॥
तमध्वर्युरन्यस्मै ॥ १९ ॥
तꣳ सोऽग्रेण सदसो दक्षिणे द्वार्बाहौ प्रतिवादयन्नास्ते ॥ १६.६.२० ॥
उपगायन्ति पत्न्योऽपाघाटलिकास्तालुकवीणाः काण्डवीणाः पिच्छोला अलाबुकपिशीर्ष्ण्य इति ॥ २१ ॥
वादयन्त्यः संप्रवदन्ति । सर्वशिल्पे तृतीये ॥ २२ ॥
पुꣳश्चलुर्ब्रह्मचारी चोत्तरस्यां वेदिश्रोण्याꣳ संवर्तेते ।। २३ ॥
मागधः पुꣳश्चलुश्च दक्षिणस्यां वेदिश्रोण्यां परिश्रयेते ॥ २४ ॥
दुन्दुभीन्समाघ्नन्ति । दिक्षु प्रबन्धान् ॥ २५ ॥
स्रक्तिष्वेव महावेदेः ॥ २६ ॥
अपरेणाऽऽग्नीध्रमर्धमन्तवेद्यर्धं बहिर्वेदि जानुदघ्नमवटं खात्वाऽऽर्द्रेण चर्मणाऽभिवितत्य शङ्कुभिः परिणिहत्य भूमिदुन्दुभिः पुच्छकाण्डेन भूमिदुन्दुभिमाघ्नन्ति ॥ २७ ॥
अपरेणाऽऽग्नीध्रꣳ शूद्रार्यौ चर्मकर्त्रे(कृते) व्यायच्छेते ॥ २८ ॥
श्वेतमार्द्रं परिमण्डलं भवति ॥ २९ ॥
अन्तर्वेदि ब्राह्मणस्तिष्ठति । बहिर्वेदि शूद्रः ॥ १६.६.३० ॥
इमेऽरात्सुरिमे सभूतमक्रन्निति ब्राह्मणो ब्रूयात् ॥ इम उद्वासीकारिण इमे दुर्भूतमक्रन्निति शूद्रः ॥ ३१ ॥
तं ब्राह्मणः संजित्याऽऽग्नीध्रे चर्माध्यस्यति ॥ ३२ ॥
अग्रेणाऽऽग्नीध्रं कटसंघाते॥ (ख०१४)॥ तेज निसंघाते वा । वितत्योच्छ्रितं लम्बयति ॥३३॥
अग्रेणाऽऽहवनीयꣳ रथेषु राजपुत्राः कवचिनः संनह्य व्यथ(ध)नार्थं चर्मानु परिवर्तन्ते ॥३४॥
तेषामेकैकꣳ सꣳशास्ति ॥३५॥
माऽपरात्सीर्माऽतिव्यात्सीरिति ॥ ३६॥
तत्ते विद्धा(द्ध्वा)नातिपातयन्ति ॥ ३७॥
उदञ्चोऽपरिमितमवकाशं यात्वा प्रत्यायाय विमुञ्चन्ति ॥ ३८॥
अष्टौ दासकुमार्य उदकुम्भाञ्छीर्षन्नधि निधाय त्रिः प्रदक्षिणं मार्जालीयं धिष्णियं परिनृत्यन्तीः परियन्ति दक्षिणान्पदो निघ्नतीरिदं मधु गायन्त्यो वाग्वेदभिल्लुका सैनान्गायतु प्राणस्य वादिते सेमान्गीता यजमानानिहावत्विति ।। ३९ ॥
भिल्लुकां द्वे गायतः। वाग्वेदहिंविनीति द्वे वाग्वेदहस्तावारामिति द्वे संवत्सरगाथा द्वे एताः संवत्सरगाथा भवन्ति ॥ १६.६.४० ॥
गाव एव सुरभयो गावो गुल्गुलुगन्धयः। गावो घृतस्य मातरस्ता इह सन्तु भूयसीः ॥ ननु गावो मङ्कीरस्य गङ्गाया उदकं पपुः । पपुः सरस्वतीं नदीं प्राचीश्चोज्जगाहिरे। इमा वयं प्लवामहे शम्याः प्रतरतामिव । निकीर्य तुभ्यं मध्य आकर्श्ये कर्श्यो यथा । यदा भेंङ्य््श्विनौ वदत ऋतपर्णक योऽवधीः। आविष्कृतस्य दूषणमुभयोरकुतः कृतस्य च ॥ यदा राखाट्यौ वदतो ग्राम्यमङ्कीरदाशकौ । क्षेमे वृ(व्यृ)द्धे ग्रामेणानड्वांस्तप्यते वहन् ॥ इदं कल्माष्यो अपिपन्निदं सोमो असूयत । इदꣳ हिरण्यैः खीला आवा यन्मास्थिभञ्जनम् ॥ हैमहा इदं मधुहिल्लु हिल्ल्वहमहर्मिमीति हस्तावाराश्च सर्वास्वनुषजन्ते ॥४१॥
तत्रैवोदकुम्भानुपनिनीय यथार्थं गच्छन्ति ॥ ४२ ॥
माहेन्द्रस्तोत्रमनुघोषाः शाम्यन्ति ॥ ४३ ॥
स्तुतमनुशाम्य(शस्य)ते ॥ ४४ ॥
कूर्चयोः फलकयोर्वा तिष्ठन्नध्वर्युः प्रतिगृणाति ॥ ४५ ॥
संतिष्ठते महाव्रतम् ।। (ख० १५)॥ ४६ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्ने षष्ठः पटलः।

16.7
अथ षोडशप्रश्ने सप्तमः पटलः ।
श्वोभूत उदयनीयः स व्याख्यातः ॥ १ ॥
यः प्रायणीयः स उदयनीयः ॥२॥
त्रिषु परःसामसु त्रीनतिग्राह्यान्गृह्णाति ॥ ३ ॥
उपयामगृहीतोऽस्यद्भ्यस्त्वौषधीभ्यो जुष्टं गृह्णामीति प्रथमेऽहनि गृह्णाति । उपयामगृहीतोऽस्योषधीभ्यस्त्वा प्रजाभ्यो जुष्टं गृह्णामीति द्वितीय उपयामगृहीतोऽसि प्रजाभ्यस्त्वा प्रजापतये जुष्टं गृह्णामीत्येतानेवाऽऽवृत्तानर्वाक्सामसु गृह्णीयात् ॥४॥
तानुभयानूर्ध्वानप्रवृत्तांश्च विषुवत्युदु त्यं जातवेदसमिति तेषां मध्ये सौर्यꣳ सप्तमं मध्यमं गृह्णाति ॥५॥
वाचस्पतिं विश्वकर्माणमूतय इति विश्वजिति वैश्वकर्माणम् । महीमू षु मातरमित्यपरेद्युरादित्यं ते च व्यत्यासमा महाव्रतात्तावुभौ सह महाव्रते गृह्येते ॥६॥ त्रयस्त्रिꣳशदेतदहरतिग्राह्या गृह्यन्ते ॥ ७ ॥
प्राकृतैर्वा वैकृतान्यभ्य स्येत् । वैकृतैर्वा प्राकृतान्दशाऽऽग्नेयान्गृह्णीयात् ॥ ८॥
दशैन्द्रान्दश सौर्यान्वैश्वकर्मणादित्यग्रहौ प्राजापत्यं च ॥ ९ ॥
पञ्चपात्रमतिग्राह्यायतने प्रतिदिशं चत्वारि पात्राणि निहितानि भवन्ति ॥ १६.७.१० ॥
मध्ये पञ्चमम् ॥ ११ ॥
इन्द्रमिद्गाथिन इत्यनुद्रुत्योपयामगृहीतोऽसीन्द्राय त्वाऽर्कवते जुष्टं गृह्णामीति पूर्वार्धे गृह्णाति । एष ते योनिरिन्द्राय त्वाऽर्कवत इति सादयति॥१२॥
समानौ सर्वत्र ग्रहणसादनौ ॥ १३ ॥
अभि त्वा शूर नोनुम इति दक्षिणार्धे । त्वामिद्धि हवामह इति पश्चार्धे ॥१४॥
इमा नु कं भुवना सीषधेमेत्युत्तरार्धे ।। (ख०१६)॥ तदिदासु(स)भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेष नृम्णः । सद्यो जज्ञानो निरिणाति शत्रूननु यं विश्वे मदन्त्यूमा इति मध्यमे ॥१५॥
तानेकस्मिन्पात्रे समवनीय त्वे क्रतुमपि वृञ्जन्ति विश्व इत्यनुद्रुत्योपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामीति मध्यमे पात्रे गृह्णात्येष ते योनिः प्रजापतये त्वेति सादयति ॥१६।।
यन्नाना जुहुयादात्मनोऽङ्गानि विच्छिन्द्यात् । समानीयाऽऽहुतीः सꣳरुन्ध्यात्तदनु यजमानाः सꣳरुन्धेरन् । स्तोका एवाऽऽत्मानं प्रत्यानीय होतव्याः प्रत्यङ्गानि दधति नाऽऽहुतीः सꣳरुणद्धि (इति) हुत्वा हरति भक्षम् ॥ १७ ॥
तं भक्षयति महस्ते भक्षयामि गर्भं ते भक्षयामि (भुजं ते भक्षयामि) भुक्तिस्ते भक्षयामि सर्वं ते भक्षयामि सर्वस्याऽsप्त्यै सर्वस्यावरुद्ध्या इति ।। १८ ॥
त्र्यनीकां व्याख्यास्यामः ॥१९॥
तेषां प्राकृतैरतिग्राह्यैः कल्पो व्याख्यातः ॥ १६.७.२० ॥
ऐन्द्रवायवाग्रं प्रथममहरथ शुक्राग्रमथाऽऽग्रयणाग्रम् ॥ २१ ॥
एवं त्र्यनीकाः परिवर्तन्त इत ऊर्ध्वं प्राग्विषुवत ऊर्ध्वं विषुवत आवृत्तावृत्तेषु ॥२२॥
शुक्राग्रो विषुवानित्यात्रेयः । यथादृष्टमिति बादरायणः ॥ (ख० १७) ॥ २३ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्ने सप्तमः पटलः ।

16.8
अथ षोडशप्रश्नेऽष्टमः पटलः
 अथ पशुक्लृप्तिः ॥ १॥
आग्नेयं प्रायणीयेऽतिरात्र आलभन्ते । श्वोभूते सारस्वतीं मेषीम् ॥२॥
एवं विहितानैकादशिनानन्वहमालभन्ते ॥ ३॥
समित्य समित्य पुनः पुनरेकादशिनीमभ्यावर्तयन्ति ॥ ४ ॥
तेषामेवमुपाकुर्वतां द्वादशाहस्य सप्तदश उक्थ्ये द्वात्रिꣳशतमेकादशिन्योऽपवृज्यन्ते ॥ ५॥
नवाहान्यतिरिच्यन्ते ॥ ६॥
तेषु गव्यानतिरिक्तपशून् ॥ ७॥
वैष्णवं वामनमेकविꣳशे । ऐन्द्राग्नं त्रिणवे । वैश्वदेवं त्रयस्त्रिꣳशे । द्यावापृथिव्यां धेनुं प्रथमे छन्दोमे । तस्या एव वायव्यं वत्सं मध्यमे । आदित्यामविवशामुत्तमे मैत्रावरुणीमविवाक्ये । प्राजापत्यमृषभं तूपरं महाव्रते । आग्नेयमुदयनीय । इति पालिङ्गायनिकान् ॥ ८ ॥
अथ काठका ऐकादशिनान्प्रतिविभज्याप्रतिविभज्य वा प्रायणीयोदयनीययोरालभन्ते ॥ ९॥
आग्नेयमन्तर्धौ रथंतरपृष्ठेष्वैन्द्रं बृहत्पृष्ठेषु ।। १६.८.१० ॥
अपिवाऽऽग्नेन्द्र( यं )रथंतरपृष्ठेष्वैन्द्राग्नं बृहत्पृष्ठेषु ॥ ११ ॥
सौर्यं विषुवत्युपालभन्तेऽथ गव्यानतिरिक्तपशून् ॥ १२ ॥
शितिपृष्ठं बार्हस्पत्यं त्रयस्त्रिꣳशे । द्यावापृथिव्यां धेनुं प्रथमे छन्दीमे । तस्या एव वत्सं वायव्यं मध्यमे । वाचे पृश्निमुत्तमे । मैत्रावरुणमविवाक्ये। वैश्वकर्मणमृषभं तूपरं महाव्रत इति वाजसनेयकम् ॥ १३ ॥
आग्नेयमग्निष्टोम आलभन्ते । ऐन्द्राग्नमुक्थ्ये द्वितीयमैन्द्रं वृष्णिꣳ षोडशिनि तृतीयꣳ सारस्वतीं मेषीमतिरात्रे चतुर्थीमित्येकेषां ते यदि प्रभवः पशवः स्युरेवमेवाहरहरालभेरन् ॥ १४ ॥
यदि पश्वेकादशिन्येयुराग्नेयमेव प्रथमेऽहन्नालभेरन्नथेतराननूचो यथापूर्वं वारुणं पेत्त्वमुत्तमं यूनमपर्यवे तेष्वाग्नेयमेव प्रथमेऽहन्नालभेरन्नथेतराननृचो यथापूर्वं वारुणं पेत्वमुत्तमं तैरेव विपर्यासमीयुः ॥ (ख० १८) ॥ १५ ॥
उत्सर्गिणामयनं व्याख्यास्यामः ॥१६॥
गवामयनेन व्याख्यातम् ॥ १७॥
संवत्सरस्य पौर्णमासीममावास्यामुत्सृजेयुः ॥ १८ ॥
तान्योपेयाद्वा नोत्सृजेयुस्तदेव श्वः कुर्युः । अन्तेऽमावास्यां पौर्णमासीं वोत्सृजेयुः । अन्तमस्याह्नस्त्रिवृद्बहिष्पवमानं वायो शुक्रो अयामित एतमु त्यं दशक्षिप इति ॥ १९ ॥
यदहरुत्सृजेयुस्तदहरिष्टिं निर्वपेयुस्त आग्नेयमरुत्वतीयपुरोडाशौ निरुप्येते ऐन्द्रावैष्णवा ऐन्द्राबार्हस्पत्या ऐन्द्रावैश्वदेवा वाऽध्वरकल्पा वा ॥१६.८.२०॥
तेषां ये पुरोडाशिनस्त उपवसन्ति । ये सांनायिनस्त एतदहर्वत्सानपाकुर्वन्ति । पशुश्च ॥ २१ ॥
प्राजापत्यः पयाꣳसि च ॥ २२ ॥
यथा वैश्यस्तथा तामस्येन्द्राय वसुमत इन्द्राय हरिवत इन्द्राय बृहस्पतिवते विश्वदेव्यावते पुरोडाशाः । अष्टावेकादश द्वादश कपाला आनुपूर्व्येण । सवनकाला व्याख्याताश्च ॥ २३ ॥
उत्सृष्टार इति ते वत्सानपाकुर्वन्ति ॥ २४ ॥
प्रातः पशुमालभन्ते तस्य वपया प्रचरन्ति । ततो वैश्वदेवो द्वादशकपालः । वैश्वदेवश्चरुस्तृतीयसवनः संतिष्ठते । पृषदाज्येन चरिते पत्नीः संयाजयन्ति पत्नीः संयाजयन्ति ॥(ख०१९) ॥२५ ॥
इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्नेऽष्टमः पटलः ।
इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्नः ॥

-१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाब्याख्यासमेतम् । ३४५

यत्पूर्वस्मिन्नहन्युत्तरस्मा अह्ने स्तोत्र्यमनुरूपं कृत्वा शꣳसति । तेनाहरभ्यासजति । तेन यज्ञꣳ संतनोति । यदतिप्रेष्यति तेनाहरभ्यासजति तेन यज्ञꣳ संतनोतीति ॥ ४७ ॥

यज्ञायज्ञियं प्रति यज्ञायज्ञियकाले । पयांसि आशीराइर्थानि विशास्ति । विविध .. प्रेष्यति । सूक्तवाककाले श्वः सुत्यामिन्द्राग्निभ्यामित्यादिनाऽपि । शेषं पूर्ववत् ॥ ४७ ॥

एतेषामेकस्मिन्नक्रियमाणे नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि स्वाहेत्येतत्प्रायश्चित्तं जुहुयादेतत्प्रायश्चित्तं जुहुयात् ॥ (ख०३२) ॥ ४८ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशप्रश्नेऽष्टमः पटलः ।

इति सत्याषाढहिरण्यकेशिसूत्रे पञ्चदशः प्रश्नः ॥

एतेषामेकस्मिन्नपि कर्मणि पूर्वेयुरेवाक्रियमाणे जुहुयादेते आहुती । किं पुनर्द्वयोबहुषु वेत्यर्थः । द्विरुक्तिः प्रश्नसमाप्त्यर्थी ॥ ४८॥

... इति. सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां पञ्चदशप्रश्वेऽष्टमः पटलः । इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां पञ्चदशः प्रश्नः ।।


16.1 अथ षोडशप्रश्ने प्रथमः पटलः ।

विनेययुक्ताखिलसिद्धवर्यः लसच्चिदानन्दसुखं मुनीन्द्रम् । नमामि सूत्रार्थविदे मुदाऽहं हिरण्यकेश्याख्यगुरुं कृपाब्धिम् ॥ प्रायश्चित्तं पञ्चदशे प्रश्न च समुदीरितम् । व्याचष्टे षोडशप्रश्ने द्वादशाहविधिं ततः ।। अथ द्वादशाहस्य कर्मोच्यते

द्वादशाहेन प्रैव जायते ॥ १ ॥

सत्याषाढविरचितं श्रौतसूत्रम्- [१६ प्रश्ने

अनेन सूत्रेण द्वादशाहयागविधिरुन्नेयः । तथा चारमच्छाखायां विधिः श्रूयते----'यः कामयेत प्रनायेयेति स द्वादशरात्रेण यजेत प्रैव जायते' (ले० सं०७-२-५ । ७-२-९) इति । स च द्वादशाहो द्विविधः-समूढो न्यूटश्च । तत्र समूढप्रकार: सूत्रकारेण दर्शितः-त्र्यनीकां व्याख्यास्यामः । ऐन्द्रवायवाग्रौ प्रायणीयोदयनीयौ दशमं चाहः । अथेतरेषां नवानामैन्द्रवायवाग्रं प्रथममहः । अथ शक्राप्रमथाऽऽअयणाग्रमेवं विहिता त्रिख्यनीका परिवर्तते यद्यव्यूढः' इति । एवं समूढप्रकारमुक्त्वा न्यूढप्रकारोऽपि तेनैव दर्शित:---न्यूढे स्वैन्द्रवायवायौ प्रायणीयोदयनीयावथेतरेषां द्वादशानामैन्द्रवायवानं प्रथममहः । अथ शुक्राग्रमथ द्वे आग्रयणाने अथैन्द्रवायवाग्रमथ द्वे शुक्राने अथाऽऽअयणाग्रमथ द्वे ऐन्द्रवायवाग्ने' इति ।। १ ।।

अथ द्वादशाहं प्रकारान्तरेण प्रशंसति-

ज्यैष्ठ्यमश्नुते स ह्येनमनुभवति ॥२॥

यो द्वादशाहोऽस्त्यसा ज्येष्ठस्य यज्ञः । तथा च शाखान्तरे श्रूयते-ज्येष्ठयज्ञो वा एष यद्वादशाहः स वै देवानां श्रेष्ठ। य एतेनाग्रे यजते । (ऐ० ब्रा० १९-३) इति ॥ २ ॥

अहीनः सत्रं च ॥३॥

सोऽयं द्वादशरात्रो द्विविधः । सत्ररूपोऽहीनरूपश्च । नन्वस्ति द्वादशाहस्याहीनत्वं सत्रत्वं च । तत्रैव चिन्त्यते –किमहीनसत्रयोर्लक्षणभेदो नास्त्युतास्तीति । तत्र नास्तीति तावत् प्राप्तम् । कुतः । ज्योतिष्टोमावृत्तिरूपस्य समानत्वात् । यथा द्विरात्रादीनामेकादशरात्रान्तानामहीनानामावृत्तौ ज्योतिधोमस्वरूपं तथा त्रयोदशरात्रादीनां सत्राणामिति प्राप्ते ब्रुमः-आसीरन्नुपेयुरिति चोदनाद्वयं यजमानबहुत्वं च सत्रलक्षणम् । यजतिचोदना यजमानबहुत्वचोदनाभावश्चाहीनलक्षणम् । वैदिकप्रयोगेषु तयोरव्यभिचारादिति सिद्धान्तः ।। ३ ।।

तस्याग्निकल्पो व्याख्यातः॥ ४ ॥

तस्य द्वादशाहस्य चित्योऽग्निनियतः काठको वा ॥ ४ ॥

गतश्रियश्छन्दसा यजेरन् ॥ ५॥

गता प्राप्ता श्रीयन स गतश्रीः शुश्रुवान् ग्रामणी राजन्यः । गतश्रिय इति बहुवचनं । सत्रे च बहुयजमानकत्वनियमात्तदर्थमिति भावः ॥ ५ ॥

यं कामयेत च्छन्दसा यजते सोऽस्मै कामः समृध्यते । यजते यजन्त इति चोदनं योऽत

१ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाच्याख्यासमेतम् । ३४७

पस्वी स्यादसꣳश्लिष्टोऽस्य यज्ञः स्यात्तपस्वी स्याद्यज्ञमेव तत्सꣳश्लेषयतीति विज्ञायते ॥६॥

यजत इति यजमानमधिकृत्योच्यते, एकवचनात् । यजमानबहुत्वाद्वहुवचनं वक्ष्यमाणनियमात् । योऽतपस्वी स्यात्स एवाधिकारी, इति ॥ ६ ॥

पीवा दीक्षते । कृशो यजते ॥ ७॥

पीवाशब्दः शारीरबलदाार्थे प्रसिद्धः । कृशो यजत इति शरीरगतमांसादिधातु. शोषणेन पापक्षयो भवति । तथा चाऽऽश्वलायनेनोपसंहृतम् ‘यदा वै दीक्षितः कृशे भवति । अथ मेध्यो भवति ' इति ॥ ७ ॥

तत्र चोदकेन दीक्षादिसंख्याविकल्पः प्राप्त एका दीक्षा तिस्रो दीक्षा वा इत्यादिविकल्पस्य प्रकृतौ श्रुतत्वात्तं विकल्पमपवदितुं दीक्षासंख्यानियमं सूत्रयति

काम्या विद्यादष्टाचत्वारिꣳशतं कामयति ॥ ८॥

काम्या जानात्यष्टाचत्वारिंशदिनपर्यन्तमत्यन्तसंयोग इह द्वितीया स्यात् । द्वादशाह एकैकमहः सदीक्षोपसत्कमपवृत्त्ये(ज्ये)त कर्मणां पृथक्त्वेन तेषां प्रत्येकं ज्योतिष्टोमप्रकृतिकत्वा ( ११-४-५ ) दिति ॥ ८ ॥

पञ्चदश दीक्षेरन्नर्धमासायतनाः ॥ ९ ॥

क्रामयतीत्यन्वयः । आयतनाः परिमाणाः ॥

सप्तदश प्रजाकामाः ॥ १६.१.१० ॥

पजाकामा इति बहुवचनं यजमानबहुत्वाभिप्रायमिति गम्यते ।। १० ॥

एकविꣳशतिꣳ रुक्कामाः। त्रयोविꣳशतिं प्रतिष्ठाकामाः । चतुर्विꣳशतिं ब्रह्मवर्चसकामाः । त्रिꣳशतं मासायतनाः। त्रयस्त्रिꣳशतमोजस्कामाः। चत्वारिꣳ शतमिन्द्रियकामाः । चतुश्चत्वारिꣳशतं वीर्यकामाः । अष्टाचत्वारिꣳशतं पशुकामाः॥११॥

गतार्थः ॥ ११ ॥

अपरिमितं दीक्षेरन्नित्यन्ततो वदन्ति ॥ १२ ॥

ब्रह्मवादिनो वदन्ति । अपरिमितं यावत्कृशं भवति तावदित्यर्थः ॥ १२ ॥

तेऽप्यहीनस्य याजमाने स्थानिनः ॥ १३ ॥

येऽन्ये सप्तदशम्यो वादा अहीन एव ते स्थानिन इत्यापस्तम्बः ॥ १३ ॥

सत्यापाढविरचितं श्रौतसूत्रम्- [१६.प्रश्ने

ब्राह्मणा ऋत्विजो दीक्षितानामदीक्षितानामहीनस्य तेन ( ते ) याजयन्ति ॥ १४ ॥

सप्तदशानामेव याथाकामी । सर्वे याजमाने स्थानिनः । सर्वे याजमानं कुर्युर्यत्किचाऽऽविज्येनाविवाधकम् । विवाधमान आविज्यं बलीयः' ( आप० २१-१-२०) इत्यापस्तम्बोऽप्याह । याजमानं यस्य यस्य यो यो दीक्षायता स स इति भाप्यकृत् । ननु-सत्राणि किं कामिन एवैकैकशः कुर्युरुत बहवः संहत्येति । चोदकानुग्रहाहुवचनस्य चैकैकशोऽपि लोके बहवः कामिनः सत्रं कुर्वन्तीत्यनेनाभिप्रायेणानुवादत्वोपपत्तेरेकैकशः कुर्यः । नैवम् । आख्यातगता हि कर्तृसंख्या प्रकृतिवदिहापि प्रयोगाङ्गतया विवक्षिता । न हि तस्याः किंचिदविवक्षाकारणमस्ति । सा च चोदकप्राप्तमेकत्वं बाधते । तस्मादहवः प्रयुञ्जीरन् ( जै० सू० १०-६-१४ ) ॥ १४ ॥ पुनरपि सत्रे दक्षिणाप्रतिग्रहलोभातिशयेन प्रसक्ति निन्दति

तस्माद्द्वादशाहेन न याज्यं पाप्मनो व्यावृत्त्या इति ॥ १५ ॥

यस्मादहीनद्वादशाहे दक्षिणाप्रतिग्रहो निषिद्धस्तस्मात्कारणात्विग्भूत्वा द्वादशाहेन यजमानं न याजयेत् । तदेतदयाजनं पाप्मनो व्यावृत्त्य संपद्यते । याजने तु शास्त्रोक्तं प्रायश्चित्तं कर्तव्यम् । सन्नाहीनयोरेतावान् विशेष:-सत्रे तु स्वयमस्यापि यजमानस्य प्रतिग्रह एव नास्ति । अहीने तु विद्यमानस्य प्रतिग्रहस्य दुष्टत्वात्प्रतिगृह्य प्रायश्चित्तं कर्तव्यमिति । ननु-सोप्वपि किमन्यैरात्विज्यमुत यजमानरेवेति संदेहे चोदकानुग्रहादन्यैः । ये यजमानास्त ऋत्विजः, इति वचनं यच्छब्दोपबद्धयजमानोद्देशेन तत्संस्कारार्थतयाऽsत्विज्यविधिर्न त्वात्विज्ये यजमानविधिः । तेनाऽऽविज्यमन्यैः कार्यम् । यद्वाऽध्वर्युर्गहपतिं दीक्षयित्वेत्यनेन ऋत्विजां संस्कारार्थेन दीक्षा विधीयत इति तद्योगाहविगेव यजमानशब्दगोचर इत्यनुवादः । नैवम् । अप्राकृतकार्यत्वप्रसङ्गाद्वंचनानर्थक्याच्च । न चाऽऽविज्यस्य यजमानसंस्कारत्वम् । अप्राकृतकार्यत्वप्रसङ्गादेव । तस्मात्प्राकृतकार्यस्यैवाऽऽविज्यस्य यजमानाः कारों विधीयन्ते । अतोऽन्येषां चोदकाप्राप्तानां वाधः(जै. अर्थतस्य द्वादशाहस्याहीनरूपतां विधत्ते

य एवं विद्वान्द्वादशाहेन यजते ॥ १६ ॥

अत्र वेदनं प्रशंसति ॥ १६ ॥

यजमान ऋध्नोति ॥ १७ ॥

अन्योऽप्यत्विक्षु मध्ये द्वादशाहयागेन समृद्धिं प्राप्नोति । पूर्वत्र यजमानबहुत्वादासि

१ पटलः ] महादेवशास्त्रिसंकलितप्रयोग चन्द्रिकाच्याख्यासमेतम् । ३४९ चोदनया विधानाच्च द्वादशाहस्य सन्त्रत्वम् । इह तु यजमानकत्वाइजतिचोदनया - विधानाचाहीनत्वमिति विशेषः ॥ १७ ॥ इदानीं सत्ररूपद्वादशाहप्रयोगे दक्षिणानिषेधमाह

य एवं विद्वान्द्वादशाहेन प्रतिगृह्णाति ॥ १८ ॥

एष ह वै कुणपत्ति यः सत्रे प्रतिगृह्णाति ( तै० सं० ७-२-१० ) इति निषेधात् । सो हि ये यजमानास्त ऋत्विज इत्येवं यजमानत्वव्यवहारवहत्विक्त्वव्यवहारोऽप्यस्ति । अत एव शाखान्तरे- 'अध्वर्युगहपति दीक्षयित्वा ब्रह्माणं दीक्षयति । इत्यादावध्वर्युब्रह्मादिशब्दैर्व्यवह्रियन्ते । एवं सति ऋत्विक्त्वबुद्धचा यागान्तरवदन यो दक्षिणां प्रतिगृह्णाति स प्रतिग्रहीता शवभक्षणेन य: प्रत्यवायस्तं प्राप्नोति । नात्र पश्चनखशवो विवक्षितः, किंतु प(१)रुषाश्चादिशवः । किंचानेन यदन्नं भक्ष्यते तद्गारेव भवति गोमांसभक्षणसमः प्रत्यवायो भवतीत्यर्थः । किंचैनं प्रतिग्रहीतारमुद्दिश्य यस्मिकांस्यपात्रे भाण्डे चान्नं धारयन्ति तत्पात्रं यदि शास्त्रोक्तमार्गेण शोधितं न भवेत्ततः शोधाभावात्तद्युक्तगृहेऽधिकं मलं जायते तेन पात्रेण व्यवहर्तृणामधिकः प्रत्यवायो भवतीत्यर्थः ॥ १८ ॥ एवं दक्षिणानिषेधेन सनप्रयोग दृढीकृत्य यजमानैक्येनाहीनप्रयोगमपि दृढी करोति

ऋत्विजो यजमानं चाधिकृत्य वदति ॥ १९ ॥

एक एव यजेत ( तै० सं० ७-२-१० ) इति श्रुतेरेकस्य कर्तृत्वात्फलभाक्त्वाचाहीनत्वं सिद्धम् ॥ १९ ॥

ब्राह्मणानां तु सत्रमतो दीक्षितानाꣳ सप्तदशानामासत उपयन्ति ॥ १६.१.२० ॥

प्रकृतितो ब्राह्मणकर्तृकत्वमात्विज्ये प्राप्तम् । (जै० सू०६-६-३) इति तथाविधस्यैव यजमानसंस्कारत्वाद्यजमानसंस्कारत्वेन राजन्यवैश्यप्राप्तिः । सदस्याः सप्तदश कौषीतकशाखायां समाम्नानाच्छाखान्तरत्वाचास्मिन्कमणि दीक्षिताः सहदश इत्यर्थः ॥ २० ॥

चोदना सर्व इष्टप्रथमयज्ञा गृहपतिर्वा ॥ (ख०१)॥ २१ ॥

एवमापस्तम्बोऽपि । 'सर्व ऋत्विज इष्टप्रथमयज्ञास्तस्मादाहुज्येष्ठयज्ञ ' (ते० सं० ७-१-१ ) इति । तस्माज्ज्येष्ठेनेष्टत्वात्प्रथममिष्टत्वाच्चायमग्निष्टोमो ज्येष्ठयज्ञः सर्वेषामुक्थ्यादीनां मूलप्रकृतिभूत इत्यर्थः । एतेन सर्व ऋत्विज आहिताग्मय एव भवेयुरिति

३५० सत्याषाढविरचितं श्रौतसूत्रम्- [१६ प्रश्ने

चोदना । तान्वृणुयादित्यर्थः । अथवा-विहारस्याग्नीनामन्यदीयानामप्यन्योपकारे प्रभुत्वादनाहिताग्नीनामपि द्वादशाहसत्रं स्यादिति मीमांसकाः ॥ २१॥

सर्वे याजमानमार्त्विज्येनाविप्रतिषिद्धं कुर्युः ॥ २२ ॥

सर्व ऋत्विजो यजमानस्य कर्म न विप्रतिषिद्धं कुर्युः ॥ २२ ॥

गृहपतिः परार्थानि यथा यूपाञ्जनमृतुयाज्यामित्येवꣳरूपाणि धर्मप्रतिषेधे भूयसां धर्मोऽनुग्राह्यते ( गृहपतेर्वा ) ॥ २३ ॥

तत्रापि परार्थादविकारेणेति केचित् । गृहपतिर्यजमानः । गतम् ॥ २३ ॥ सामिधेनीषु चोदकप्राप्तं नियममाह.

गृहपतेरेव सामिधेनीकल्पेनेति कुर्वीरन् ॥ २४ ॥

अत्राप्यापस्तम्बीये तु विशेषः- गृहपतेरेव सामिधेनीकल्पेनावदानकल्पेनेति प्रकामेयुर्यानि चान्यान्येवंरूपाणि स्युः' ( आप० श्री० २१-२-३ )। तस्य सप्तदश सामिधेनीरनुब्रूयात् ' (ऐ० ब्रा० १९-४) इति बचब्राह्मणम् । गृहपतिरेव सामिधेनीकल्पः । केचिञ्चित्तिः सू(स्नु)गित्यादिवले प्रत्यगाशीरिष्ट्वा तुच्यन्वारब्धो गण. पतिरेव समारभ्येति मन्त्रे यज्ञपतीनामिन्द्रावान्त्स्वाहेति । होता-भार्गवच्यावनाप्नवानऔर्वजामदग्ग्य इति । आर्षेयवरणमन्यैगोत्रैर्वा यावदम्यावर्तत इत्येकः पक्षः । आश्वलायनकरूपेऽप्येवं द्रष्टव्यः । अग्ने महार असीत्यग्निनात्येकत्वात्तदा समानगोत्राणां तन्त्रेण वरणमितरेषां भेदेन समानविषये तन्त्रेणोहेन वा प्रकृतिः ॥ २४ ॥

त्वं वरुण इति वसिष्ठराजन्यानाꣳ सामिधेनीपरिधानीया। आजुहोतेतीतरेषां गोत्राणाम् ॥ २५ ॥

सामिधेनीपरिधानीया त्रिरन्वाहेत्युभयत्र संबन्धः ॥ २५ ॥

नाराशꣳसो द्वितीयः प्रयाजो वसिष्ठशुनकानाम् । तनूनपादितरेषां गोत्राणाम् ॥ २६ ॥

आपस्तम्बेऽप्येवम् । ननु- राजन्यवासिष्ठादीनां नाराशंसो द्वितीयः प्रयाजः । तनूनपादितरेषाम् ' इत्यादि । स दीक्षणीयादिष्वनिर्दिष्टः सत्रेष्वनेककर्तृकेषु प्राप्तस्तत्र संदिह्यते । किं भिन्नकल्पा अपि संहत्य सत्रमासीरन्नुत तुल्यकल्पा एवेति । तदर्थमिदं विचार्यते-किं वासिष्ठादयो नाराशंसाद्यङ्गत्वेन कर्तारो विधीयन्ते, उत वासिष्ठादीनुद्दिश्य नाराशंसादि तादर्थेन विधीयत इति । तत्र वासिष्ठार्थत्वेन विधाने फलकल्पना

१ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३५१ प्रसङ्गात्प्रकरणवाधाञ्च वासिष्ठादय एव नाराशंसाद्यङ्गत्वेन विधीयन्ते । षष्ठी च संबन्धवाचिनी । सत्रेषु च सत्रिणां प्रत्येकमेव कर्तृत्वमिति स्थितम् । अतस्तत्र वासिष्ठावासिष्ठैः क्रियमाणो नाराशंसो वासिष्ठेनापि तावत्क्रियत एवेति अविगुणस्तथा तनूनपादप्यन्यैरतोऽयं कंचित्कल्पमाश्रित्य भिन्नकल्पा अप्यधिक्रियेन्नित्येवं प्राप्ते ब्रूमःवासिष्ठादीन्स्वामित्वेनोद्दिश्य तादयेन नाराशंसादि विधीयते । तादर्थ्य च ऋतुपकारद्वारेणोपपन्नमिति न फलकल्पनापत्तिः । एवं च धात्वर्थस्यान्यत्र विधानात्संनिकृष्टविधिर्भवति । प्रयाजोद्देशेन तु वासिष्ठादिविधौ धात्वर्थेऽन्यस्य विधानाद्विप्रकृष्टार्थविधानं स्यात् । ततश्च सत्रेऽन्यतरकल्पाश्रयणेऽन्येषां तेन ऋतूपकारालाभाद्विगुणः ऋतुर्न फलं साधयेत् । तस्मात्तुल्यकल्पानामेवाधिकारः ॥ २६ ॥

सावित्राणि होष्यन्तः संनिवपेरन्हुत्वा विनिवपेरन् ॥ २७॥

सावित्राणि जुहोति ( तै० सं० ५- १ ) इति विधिराग्निकः ॥ २७ ॥

पशुभिर्यक्ष्यमाणाः संनिवपेरन्निष्ट्वा निवपेरन्गृहपतिर्वाऽरण्योः संनिवपेरन् ॥ २८ ॥

पशभिरिति पश्चपश्चर्थम् । सर्वे याजमानं कुर्युः । जपानमन्त्रणोपस्थानादिषु प्रथममाविज्यं ततो याजमानमरण्योर्द्वयोर्गृहपतिर्वा । समारोपणादिनियम एका स्यादित्यर्थः ॥ २८ ॥

य इतोऽग्निर्जनिष्यते स नः सर्वेषां यदनेन यज्ञेन जेष्यामोऽनेन पशुबन्धेन तन्नः सहासह नः साधुतुल्या य एवं पापं करवत्तस्यैव तदित्युक्तम् ॥२९॥

पशुबन्धेन वायव्येन वा तदर्थं षड्ढोत्रादि निरूढपशुबन्धवदित्यर्थः ॥ २९ ॥

गृहपतिः समारोपयते । स्वयमितरे गृहपतिर्वा ॥१६.१.३०॥

अरण्योरात्मनि वा गृहपतेरेवाधिकार इतरे, अन्वारम्भणमात्रमिति भावः ॥३०॥

सर्वेषाम् ।। ३१ ।।

ऋत्विजामेव ।। ३१ ॥ अथ द्वादशाहे दीक्षायाः कालविशेष विधातुं शाखान्तरमतं च विधत्ते

शिशिरे दीक्षन्ते । वसन्त उत्तिष्ठन्त इति विज्ञायते ॥ ३२॥

३५२ : .... सत्यापाढविरचितं श्रौतसूत्रम्- . [ १६ प्रश्नै

दीक्षा ३ देवेभ्योऽपाक्रामत्ता वासन्तिकाभ्यां मासाभ्यामन्वयुज्जत, ( ऐ० ब्रा० -१९-४) इत्यादि बचब्राह्मणं प्रस्तौति । एवमापस्तम्बेऽपि ॥ ३२ ॥

शिशिरो वै तस्य प्रायणं वसन्त उदयनम् ॥ ३३ ॥

शिशिरो वा एतस्य प्रायणं वसन्त उत्थानमिति ( का० ब्रा० ३४-९) काठकबामणम् ॥ ३३ ॥

ऋध्नुवन्ते य एवं विद्वाꣳसः शिशिरे दीक्षन्ते वसन्त उत्तिष्ठन्तीति विज्ञायते ॥ ३४ ॥

शिशिरे दीक्षाप्रशंसायं श्रुतिरुदाहृता ॥ ३४ ॥

षट्सु व्युष्टास्वापूर्यमाणपक्षस्य चेष्यमाणा दीक्षेरन् ॥ ३५॥

एतेन महाग्निपक्षमाश्रित्य प्रयोगः- सप्तदशावरााः पुरुषाः शिशिर एकाष्टकायामिष्टाप्रथमयज्ञास्ततआत्मन्यरण्योर्वा समारोप्यकत्र गत्वा स्वाऽग्निसंनिधौ सर्वे सपत्नीका द्वादशाहेन सत्रभूतेन साग्निचित्येन यक्ष्यामह इति प्रजायेमहीति संकल्पः । स्वर्गोऽपि फलम् । विद्युत् । न सोमप्रवाकवरणम् । न ऋत्विग्वरणम् | अन्योन्यं त्वस्माकं गृहपतिस्त्वं ब्रह्मेत्यादिदीक्षाक्रमेण परस्परं विज्ञापयेयुर्न मधुपर्कः । देवयजनं देवतोपस्थानं द्रव्यनिर्देशः साधारणद्रव्येण । गृहपतिर्नान्दीश्राद्धं कृत्वा पूर्ववदग्निं मथित्वा विहृत्य दीक्षार्थिनः कचित्पशु विधत्ते- 'स पुरस्ताद्दीक्षायाः प्राजापत्यं पशुमालभते' (ऐ० ब्रा० १९-४) इति । यो दीक्षां वाञ्छति स पुमान्दीक्षोपक्रमात्पुरा प्रजापतिदेवताकं पशमालमेत । द्विविधो हि द्वादशाहः-साग्निचित्यो निराग्निचित्यश्च । तत्राग्निचयनयुक्ते पशुस्यमवगन्तव्यः । वायव्यो बाऽस्मच्छाखायां समानातः ॥ ३५ ॥ प्रथमं सावित्रहोमााखासंभरणान्तं कृत्वा पुरुषशिरोहरणं मृदोपलेपनं ततः पर्वणि पूर्ववत् । समारोप्य देवयजनं प्राप्य पशुवन्धेन यक्ष्यामह इत्याधुदवसाय देवयजनं कृत्वा पूर्ववन्मथित्वाऽऽयतने निधाय ।

संवादꣳ संनिवपनं कृत्वा दीक्षणीयाप्रभृतीनि कर्माणि कुर्वते । य इतोऽग्निर्जनिष्यते स नः सर्वेषां यदनेन यज्ञेन जेष्यामोऽनेन सत्रेणेति ॥ (ख०२) । अत्र संवादे ब्रूयुरध्वर्युर्गृहपतिं दीक्षयित्वा मध्यतः कारिणो दीक्षयति होतारं ब्रह्माणमुद्गातारम् । प्रतिप्रस्थाताऽध्वर्युं दीक्षयित्वाऽर्धिनो दीक्षयति मैत्रावरुणं ब्राह्मणाच्छꣳसिनं स्तोतारम् । नेष्टा प्रतिप्रस्थातारं दीक्षयित्वा तृतीयिनो दीक्षयति । अच्छावाकमाग्नीध्रं प्रतिहर्तारम् । उन्नेता

१ पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३५३

नेष्टारं दीक्षयित्वा पादिनो दीक्षयति ग्रावस्तुतं पोतारं सुब्रह्मण्यम् । ततस्तं प्रतिप्रस्थाता दीक्षयति । अन्यो वा दीक्षितो ब्राह्मण एवमनुपूर्वं दीक्षेरन् । नातन्त्रीभावादेकैकमपवर्गयति । अन्यगोत्रव्यवायात् समानगोत्राणामार्षेयाणामभ्यावर्तते । पत्नीनामेकस्थाने पत्नीर्दीक्षयन्ति । तासां याजमानैर्धर्मा व्याख्याताः ॥ ३६॥

अत्र दविहोमपश्विष्टिभ्य एवं प्रयोगः । सर्वे यजमाना याजमानं कुर्यः । अग्निं गृह्णा. मीत्यादि गोमज्जपान्तं सर्वे कुर्युरिति वचनादध्वर्वाद्याविज्यं कृत्वा पश्चाद्याजमानम् । सर्वासां पत्नीनां दीक्षाक्रमेण योक्त्रवन्धनम् । गतमन्यत् ।। ३६ ॥

अन्वहं दीक्षामेके समामनन्ति ॥ ३७॥

अन्वहं सद्यः ॥ ३७॥

द्व्यहे त्र्यह इति क्रामयति आ द्वादशाहात्॥ ३८ ॥

अग्निवाद्विकल्पः । द्वयहे दीक्षेत व्यहे दीक्षतेत्येवं कामत्या द्वादशाहात् ॥ ३८॥

उपसत्सु त्रयोदशो दीक्षेत । तेन [न] ब्रा(ब्र)ह्मणा भवितव्यमुपदीक्षमाणा अग्नीनुपवपन्न्युप्याऽऽत्मसꣳस्कारेण प्रक्रामे (त्)) द्वादश दीक्षाः ॥ ३९ ॥

दीक्षाविशेषं तु-द्वादश रात्रीर्दीक्षितः स्यात् (ले० सं० ७-२-१०) इत्याधुपसद्विशेष विधत्ते–'चतुर्धा वा एतास्तिस्वस्तिस्रो रात्रयो यद्वादशोपसदो याः प्रथमा यज्ञं ताभिः संभरति या द्वितीया यज्ञं ताभिरारभते यास्तृतीयाः पात्राणि तामिनिर्गेनिक्ते याश्चतुरिपि ताभिरात्मानमन्तरतः शुन्धते (ते८ सं० ७-२-१०) इति । अत्रानुष्ठेया द्वादशदिनसाध्या उपसदो याः सन्ति तास्तिस्त्रस्तित्र एकैका राशिरूपेण चतुर्धा विभज्यन्ते । तत्र प्रथमराशिगताभिस्तिसभिर्यज्ञसाधनसंपादनं भवति । द्वितीयराशिगताभिस्तिसृभिर्यज्ञमुपक्रमते । तृतीयराशिगताभिस्तिसृभिर्यज्ञपात्राणि शोधयति । चतुर्थराशिगताभिस्तिसृभिः स्वात्मनोऽन्तःशुद्धिं करोति ॥ ३९ ॥

न सनीहारसꣳशासनꣳ सत्रभूते विद्यते ॥ १६.१.४०॥

न सनीहारान्प्रहिण्वन्ति सत्रे ॥ ४० ॥

षोडशी सोमविक्रयणी ॥ ४१ ॥

षोडशिवत्सोमक्रयणी ॥ ४१ ॥

द्वादशाहायाऽऽप्तꣳ राजानं क्रीणाति ॥ ४२ ॥

राजानं क्रीत्वोपना निदधाति द्वादशाहायाऽऽधमिति ॥ ४२ ॥

३५४ सत्यापाढविरचितं श्रौतसूत्रम्-- [१६ प्रश्ने--

द्वादशोपसदः ॥ ४३ ॥

द्वादशाह इति शेषः । उपसत्सु द्वादशाहे संभारयजूंषि व्याचष्ट इत्यापस्तम्बः॥४३॥

अनूपसदमग्निं चिनोति ॥ ४४ ॥

पूर्ववद्व्याख्येयम् ॥ ४४ ॥

द्व्यहमेकैका चितिः ॥ ४५ ॥

द्वयहं व्यहमेकैका चितिर्भवति ॥ ४५ ॥

चतुरहमुत्तमा ॥ ४६॥

चितिर्भवति ॥ ४६ ॥

आ त्रिरात्रं चतुस्तनानि व्रताति भवन्ति ॥ ४७ ॥

आडिति मर्यादा ।। ४७ ॥

एवं त्रिस्तनानि द्विस्तनानि एकस्तनानि ॥४८॥

चतुस्तनं त्रिस्तनं द्विस्तनमेकस्तनमिति व्यहं व्यहं व्रतानि भवन्तीति शेषः ॥ १८ ॥

भूयो व्रतमिच्छन्दध्न एकꣳ स्रुवमभ्युन्नयेत ॥ ४९॥

य एषां व्रतमिच्छेदभिपूरयितुं दध्न एकं नुवमुन्नीय नापरमुन्नयेतेति ॥ ४९ ॥

एकविꣳशतिश्छदिसदः ॥ १६.१.५० ॥

एकविशस्तोमानां प्रतिष्ठेति (ले० सं०६-२-१.) त्रिवृदादीनां ज्योतिषां तत्रान्तर्भावात् प्रतिष्ठार्थं भवति । देवतातद्धितग्रहणात् 'इन्द्रस्य सदः' (ते सं० १-३. १) इति मन्त्रगता षष्ठी व्याख्यायत इत्येके । शाखान्तरीयं पदं ब्राह्मणं दर्शयतीत्यन्ये । छदिरधिनिदधाति ( तै० सं०६-१-३०) छादनार्थ कटमुपरि निदधाति । देवता बन्धेन हि सद ऐन्द्रम् । तस्मादिन्द्रस्य सदः सदनमित्युच्यते । इन्द्रस्य प्राधान्यात् ॥ ५० ॥

संतृण्णे अधिषवणफलके ॥ (ख०३) ॥५१॥

इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्ने प्रथमः पटलः ॥

यस्मात्संतपणे हन तस्मादधिषवणफलके न संतृणत्ति विध्वा प्रोते न करोति । यदविषवणे न संतृगत्ति ( तै० सं० ६-२-११) इति ब्राह्मणम् । संतृण्णे अधिषवणाफलके भवत इति सूत्रे शेषः ॥ ५१ ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोग चन्द्रिकायां षोडशप्रश्ने प्रथमः पटलः समासः ॥ .

२ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाध्याख्यासमेतम् । ३५५

अथ षोडशप्रश्ने द्वितीयः पटलः ।

व्याख्यात एकयूपः ॥ १॥

गतः ॥ १ ॥

यदि यूपैकादशिनी स्यादन्वहमेकैकं यूपꣳ संमिनुयात्सर्वान्वा ॥२॥

अन्वहं सद्यः । यूपं मिनोति उच्छ्यति । एकयूपाभिप्रायेणैकवचनम् ॥ २ ॥

औपवसथ्येऽहन्यन्वहं मीयमानेष्वहरहरुपशयोऽभ्यावर्तेत ॥ अग्निष्ठ एवोदयनीये पशुमुपाकुर्यात् ॥ ३ ॥

उपेत्य शेतेऽत्र यत्रोपेत्यासुरान्वाधन्ते देवा इत्युपशयः । पचाद्यच् । तस्मायेन कारणेन दक्षिणत उपशये उपशेते तद्भातृव्यापनुत्त्यै भवतीत्यर्थः ॥ ३ ॥

श्वोभूते प्रतायते ज्योतिष्टोमः ॥४॥

अग्निष्ठान्तं सर्वेषां यूपसंमार्जनकाल एकादश यूपमि(पानि)च्छन्ति । यूपाञ्जनं गृहपति(उप)शयनी(नि)धानं दक्षिणतः सर्वेषां सकृदेव निदधाति । अस्मिन्पक्षेऽग्नीषोमीयदिने परिस्तरणान्तं महाग्निकानां मन्त्राणामुपदेशेन विकृत्यर्थत्वादनुहः । केचिदहमिच्छन्ति । उहस्तु यजमानाभिधायकानां त्वग्नयभिधायकानामपि विशिष्टेषु मन्त्रेषु सर्व. रोहः । यजमानाभिधाने-श्वोभूते प्रतायत इति । महारा। बुद्ध्वा ज्योतिष्टोमः ॥४॥

वैश्वानरोऽतिरात्रः । उपावहरणकाले यावानेकाहायाऽऽप्तस्तावन्तꣳ राजानमन्यस्मिन्वासस्युपनह्योपावहरति ॥५॥ प्रत्युपनह्येतरं निदधाति ॥६॥

वैश्वानरप्रायणीयोऽतिरात्रः । वैश्वानरेण दृष्टः । सौमिकपात्रासादनकाले ध्रुवं प्रयुज्य षोडशीपात्रमपां क्षयालोकं यजमानेनामिवहत ( इत्यादि ) पाशुकपात्रे( त्राणि )द्वे यूपरशने । एकः पशुः । एवं कुम्भ्यादयः । आ राज्ञ उपावहरणात्कृतायां ( त्वा ) यावन्तं सोममेकस्मा अह आप्तं मन्यते, तावन्तमन्यस्मिन्वाससि बद्ध्वा प्रत्युपनोतरेषामहूनामितरस्मिन्वाससि बद्ध्वा प्रत्यारोप्य तमुपावहरति ॥ ५ ॥६॥

एवमहरहः क्रियते । अन्वहं योगविमोक्षणे ॥ ७ ॥

एवमहरहरुत्तमवजे कृत्वाऽग्निं युनज्मि० इत्यादि सर्वं प्रकृतिवत् ॥ ७ ॥

प्रथमेऽहनि युनक्ति । उत्तमे विमुञ्चतीत्येकेषाम् ॥८॥

३५६ सत्यापाढविरचितं श्रौतसूत्रम्- [१६ प्रश्ने

अयं कल्पः शाखान्तरस्थः ॥४॥

प्रायणीयोदयनीययोरतिरात्रयोर्दशमे चाह्नि पृश्निप्राणग्रहान्गृह्णात्यभिषवमाणेन प्राकृतस्य यजुर्मानस्य प्रथमेन मन्त्रेण मीत्वा वायुरसि प्राणो नामेति दशभिर्मन्त्रैर्दश पृश्निमानानि मिमीते ॥९॥ उत्तरेणोत्तरेण यजुर्मानेन मीत्वाऽयं पुरो भुव इति दशभिर्मन्त्रैर्दश प्राणग्रहमानानि मिमीते ॥ १६.२.१० ॥

उपांश्वमिषवणकाले पृश्निप्राणग्रहे विमानम् । एवं प्रयोगः-प्राकृतं यजुर्माननमनुद्रुत्य-इन्द्राय त्वा वृत्रघ्न इत्युक्त्वा वायुरसि प्राणो नामेत्यादि ऋतस्य त्वा ज्योतिष इत्यन्तैर्दशभिः पृश्निनहेमन्त्रैर्दश मानानि मिमीते । नवनवांशमाने सर्वत्रोत्तरं यजुर्मानमनुद्रुत्य-इन्द्राय त्वा वृत्रतुर इत्युक्त्वाऽयं पुरो भुव इति दशभिः प्राणग्रहैं. दश मानानि मिमीते । अयं पुरो भुव इति प्रजापतिगृहीतया त्वया प्राणं गृह्णामीत्येवं मन्त्राः । एवमुक्तानि मानानि व्यतिषजति । इन्द्राय त्वाऽभिमातिन इत्युक्त्वा वायुरसि प्राणो नाम० ज्योतिष इत्यन्तैर्दश । इन्द्राय त्वाऽऽदित्यवते, अयं पुरो भुवो गृह्णामीत्यन्तैर्दश । इन्द्राय त्वा विश्वदेव्यावते वायुरसीति दश नामानि पूर्ववत् । ततः पञ्चकृत्वस्तूष्णीं नवनवांशवत्सर्वेषु मानेषु तूष्णीकेषु च ॥ ९॥ १० ॥

उत्तरोत्तरे यजुर्मानेन व्यतिषजति ॥ ११ ॥

उत्तरपक्षो विकल्पार्थः ॥ ११ ॥

भूयसां प्रातःसवनायेत्यादिसमूढपक्षमाश्रित्य विधिं वक्ष्यामः

ऐन्द्रवायवाग्रौ प्रायणीयोदयनीयावतिरात्रौ दशमं चाहः । अथेतरेषां नवानामैन्द्रवायवाग्रं प्रथममहरथ शुक्राग्रमथाऽऽग्रयणाग्रमेवं त्र्यनीकास्त्रिः परिवर्तन्ते समूढं छन्दसि ॥ (ख०४) ॥ १२ ॥

ऐन्द्रवायवग्रहमाग्रयणकाले द्यावापृथिवीम्यां पवते, एभ्यः सुन्वद्भ्यो यजमानेभ्यः पवते मह्यमित्यादि वागने प्राणान्पशुषु प्रजां मयि च यजमाने चेत्यादि सर्वेषां पशुकाल आग्नेयः पशुः । तत्राग्निर्देवीनामिमे सुन्वन्तो यजमाना इत्यूहः । परिभूरग्निमित्यादि श्रुतस्त्वमित्यन्तं सर्वेषाम् । केचिद्वौ समुद्रावित्यादि अध्वर्युर्ब्रह्मा चाऽऽविज्यं कृत्वा स्फ्यस्वस्तिरित्यादि आगन्त पितर इत्यन्तं सर्वेषाम् । सवनीयाभिमर्श- गृहपतिरेव द्विदेवत्यप्रचारे भूरसीत्यादि त्रिकं सर्वेषाम् । शुक्रान्वारम्भो गृहपतिरेव तौ देवौ शुक्राम .. .

२ पटलः ] महादेवशास्त्रिसंकलित्तमयोगचन्द्रिकान्याख्यासमेतम् । ३१७

थिमौ० प्रजा मयि च यनमानेषु । इडामक्षणं सर्वेषां हविःशेषमता च । सोमक्षणकालें सर्वे यजमानाश्चमसान्भक्षयन्त्याविज्यभक्षणं कृत्वा याजमानम् । एवं समासणेषु । चतुर्होत्रादि सर्वेषामग्निं नरादि दूरे दृशं गृहपत्तिमथर्तुमनूहो वा परार्थत्वात् । एवं प्रातःसवने प्रत्यगाशिषों सर्वेयजमानः प्रयोगः कार्यः । माध्यंदिन ज्योतिषे हिं कुरु सर्वेषां चातुर्होत्रादि सुपर्णोऽसि० विष्णो त्वं नः० इति च सर्वेषां दधिधर्मभक्षणं च दाक्षिणौ होमो हुत्वा उदु त्य० चित्रमित्यादि रूपेण व इत्यादेलोपः । यजमानाः कृष्णाजिनानि धन्वन्तो दक्षिणापथेन गच्छन्त्युदङ्मुखोऽन्तराऽऽग्नीनं च सदश्च गत्वाऽने त्वाऽऽझे)बदान गृहपतेरेव तिव्यात्वालोत्करावन्तरेण दक्षिणा गच्छति । एष दक्षिणापथः । ततः सदोवीस तवयमसाध्वर्युश्च प्रसर्पका सदस्येभ्यो दानं गृहपतेरेच । स तु [ऋत्वियो] न दक्षिणा पृथगत्विग्वरणामावात् । एवमहरहः, इत्यापस्तम्बः । न विषाणमासनं वैश्वकर्मणेषु यज्ञपतीनित्यूहः । शेष पूर्ववत् ॥ . आदित्यारम्भणं तृतीयसवनं यजमाना अग्निः पातु थास्ते विश्वा देवा बसे सलमानेभ्यः शर्म आदित्यान्वारम्भः, आशिराफ्नयनं च गृहपतेरेव । केथिस्- सर्वेषां पानमानजपमिच्छन्ति । एतादृशेषु होतृचमसलावणं धारया गृहपतिरेव पहोमा: - मानः सर्पणं च सर्वेषामिति केचित् । ब्रह्माणमारभ्य आयुषे हिंकुविति सबैको पिकप्रदानं च नमो वः पितर इति सर्वेषां बढोता गृहपतरेष । अगदेवानेषु सुम्पस यजमानेष्वाशिषः । यज्ञायज्ञिये एकया प्रस्तुतं भवत्यथ नमस्ते अस्तु मामा हिश्सीः, इति । अहरहःपक्षे वा पोजनीनयनं सर्वानां पत्नीनां, ग्रहणकाले पृथमेव ग्रहाति । अस्मिन्काल उत्तरस्मा[दा]वसतिं परिगृह्णाति यथा त्वं सूर्यासीति सर्वेषामायुमै इन्द्रियमिति च वर्तमान एवातिरात्रे षोडशी चमसेषु प्रक्षालितेषत्तरस्मा[दा]आ या यजमानस्य व्रतधुगित्यादिभिः पयांसि विशास्ति दोहं गाजमानं च सर्वेषामन्त्र प्रतिप्रस्थाता पयस्वार्थ सायदोहं दोहयति मैत्रावरुण्याः । एवमादयः सत्रे अहीने च साधारणाः ।। नन्वस्ति द्वादशाहे ज्यनीका ! ऐन्द्रवायवानौ प्रायणीयोदयनीयौ दशमं चाहा। अथेतरेषां नवानामहामैन्द्रवायषाग्रं प्रथममहः । अथ शुक्राप्रमथाऽऽप्रयणामाचन्द्रवायवाग्रमथ शुक्रामथाऽऽअयणाप्रमथैन्द्रवायवानमथ शुक्राप्रमयाऽऽप्रयणामिति । द्वादशाहगतेषु द्वितीयतृतीयचतुर्थेषु विष्वहःसु क्रमेणेन्द्रवायचासत्यशुक्रायत्याप्रयाणाप्रत्वानि विहितानि । तेष्वाद्यं रथंतरानिमित्तम् । द्वितीयं बृहनिमित्तम् । एतच्च प्रकृती च्यवस्थितम् । तदुभयमत्र चोदकेन प्राप्तम् । तत्र चतुर्धा संशय:-- अनुवादो या परिसंख्या वाऽर्थवादो वा विधिति । तत्र प्राप्तत्वादनुवाद इति येन वैयापसे न शाह

३४ . .. सत्यापादविरचितं श्रौतसूत्रम्... [१६ प्रो-मास्तरपरिसल्याऽस्विति चेन्न दोषत्रयापत्तेः । चतुर्थेऽहन्यप्राप्तस्याऽऽप्रयणामत्वस्य -विधित्सितस्य प्रशंसार्थोऽयमर्थवादः, इति चेन्न लक्षणावृत्तिप्रसङ्गात् । तस्मादाग्रयणा मत्वे यथा विधिस्तथेतरयोरपि द्रष्टव्यः । न च प्राप्तत्वादविधिरिति वाच्यम् । तस्य विधेरनैमित्तिकत्वाभ्युपगमात् । रथंतरादिनिमित्तकयोरेव हि चोदकेन प्राप्तिः । प्रयोजनं तु द्वादशाहविकृतिषु यत्र क्वापि रथंतरादिनिमित्तत्वाभावेऽप्यन्द्रवायवायत्वसिद्धिः । P ॥१५॥.

अथ व्यूढं छन्दस्यैन्द्रवायवाग्रौ प्रायणीयोदयनीयावतिरात्रोक्थेतरेषां दशानामैन्द्रवायवाग्रं प्रथममहः । अथ शुक्राग्रमथ द्वे आग्रयणाग्रे । अथैन्द्रवायवाग्रमथ द्वे शुक्राग्रे । अथाऽऽग्रयणाग्रमथ द्वे ऐन्द्रवायवाग्रे ॥ १३ ॥

[भरत]द्वादशाहस्य कर्मफलं पूर्ववत् । भरतद्वादशाहेन साग्निचित्येन सत्रभूतेन पक्ष्यासह इति सत्रे, अहीने तु अहीनभूतेनेति विशेषः । एकश्चेद्यक्ष्ये काठकामिना पो काठकाभियुक्तेनेति द्वादशातिरात्राअग्निष्टोमा रथंतरसामानः प्रायणीयोदयनीयौ चातिरात्रावग्निष्टोमी तथाऽप्येकविंशतिश्छदिःसदः । न. पृष्ठधर्माः । अन्यत्सर्वं पूर्ववत् । पृश्निप्राणग्रहणादि (दीन्) ग्राह्यघृतमध्वशनाविवाक्यमानसादीनि भवन्ति । समूढवत्व्यनीका पूर्ववत् । काठकोऽपि न लभ्यते न व्यूढः ॥ . .. ......... नमु द्विविधो हि द्वादशाहः-समूढो न्यूढश्च । तत्र समूढः पूर्वमुदाहृतः । अथ व्यूद उदाहियते- ऐन्द्रवायवाग्री प्रायणीयोदयनीयौ । अथेतरेषां दशानामहामैन्द्रवाय वाने प्रथममहः । अथ शुक्रांप्रमथ द्वे आग्रयणाये । अथेन्द्रवायवाग्रमथ द्वे शुक्राग्ने अथाऽऽग्रयणाग्रमथ द्वे ऐन्द्रवायवा इति । तत्र समुदस्य तावत् 'प्रकृतित्वमविवादम् । तद्वदन्यूढोऽपि किं प्रकृतिः किं वा विकृतिरिति संशये प्रकृतिरिति प्राप्तम् । कुतः-विधिसाम्यात् । यथा समूढप्रकारः क्रत्वर्थों विहितस्तथा व्यूढप्रकारोऽपि । न चात्र कश्चिद्धिशेषोऽस्ति । येन तयोः प्रकृतिविकृतिभावो निश्चीयेत । न च प्रकारद्वयस्य प्रकृतित्वमदृष्टचरम् । रयंतरवृहत्पृष्ठयोर्कोतिष्टोमप्रकारयोस्तद्दर्शनादिति पूर्वः पक्षः । न्यूढः समूहस्य विकृतिः । कुतः । लिङ्गदर्शनात् । ऐन्द्रवायवस्य वा एतदायतनं यच्चतुर्थमहः' इति न्यूदे श्रूयते । एतच्च विकृतित्वे सति भवति नान्यथा । तथा हि-न्यूढे प्रायणीयोदयनीयव्यतिरिक्तेषु दशस्वहःसु यच्चतुर्थं तदारयणामत्वादैन्द्रवायवस्याऽऽयतनम् । समूढे तु तदहर्नवानामहां. मध्ये द्वितीयत्रिकादित्वादैन्द्रवायवायम् । तच्च व्यूढस्य विकृतितामा बोदकेन प्राप्यमाणं विधिसिताप्रथणामत्वस्तुतयेऽनयत इत्युक्तम् । किं च यः

२ पटलः ] : महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । ३५९ कामयेत बहु स्यां प्रजायेयेति कामाय न्यूढो विधीयते । तथा च सति समूढवत् ऋत्वर्थे विध्यभावाद्यंतरबृहपृष्ठवैषम्येण विकल्पितप्रकृतित्वं नास्ति । ततः समूढस्य द्वादशाहस्य विकृतिः । अहर्मणेष्वनयोरन्यतरस्यातिदेशः पूर्वपक्षिणः प्रयोजनम् । समूढस्यै वातिदेश इति सिद्धान्तः (१-५-२४) ॥. १३. ॥

तत्र भक्षमन्त्राः पवमानाभिमन्त्रणानि च येन येन च्छन्दसा निगदाश्च तस्य स्थाने ताभिः संनमेत व्यूहेन व्याख्यातम् ॥ १४ ॥

ननु--व्यूढे द्वादशाहे भक्षमन्त्रमानं तदुभयमन्त्रपरिधिकपालानि चोदकप्राप्तानि । तब भक्षमन्त्रेषु सवनत्रयगतेषु गायत्रीछन्दसस्त्रिष्टुप्छन्दसो जगतीछन्दत इति पदत्रय श्रूयते । तथा परिधिस्तावकेऽर्थवाद.. पठ्यते-गायत्रो मध्यमः परिधिस्नेष्टुभो दक्षिणो जागत उत्तर इति । तथा कपालविषयं वाक्यं पठ्यते-अष्टाकपालः प्रातःसवनीय एकादशकपालो. माध्यंदिनीयो द्वादशकपालस्तातीयसवनिक इति । अत्रा यत्वादिभिस्त्रिभिः संख्याभिर्गायत्र्यादिच्छन्दांसि तत्तत्पादाक्षरस्मृतिद्वारेणोपस्थाप्यन्ते । एवं स्थिते सति व्यूढप्रकरणे छन्दोव्यतिकमः पठ्यते-'छन्दास वा अन्योन्यस्य लोकमभ्यूध्यायन्— गायत्री त्रिष्टुभस्त्रिष्टुब्जगत्या जगती गायच्याः, इति । तत्र 'संशयः । सोऽयं छन्दोव्यतिक्रमो भक्षपवमानपरिधिकपालरूपाणामर्थानामुभयावधमन्त्रगतच्छन्दोवाचिशब्दानां च कर्तव्यः किं वा तेषां शब्दानामेवेति । तत्र मन्धंगतानामेवेति विशेपानवणात्सर्वत्र व्यतिक्रम इत्याद्यः पक्षः । तेन - गायत्रीशब्दनिर्दिष्टः प्रात:सवनीयो भक्षस्त्रिष्टुप्शब्दितस्य माध्यंदिनीयस्य भक्षस्य स्थाने । स च तृतीयसवनीयस्य स्थाने, सोऽपि प्रातःसवनीयस्य स्थाने | तथा बहिष्पमानो माध्यंदिनपवमाने माध्यंदिनपवमानस्तृतीयसवने । आर्भवपवमानः प्रातः सवने । तथा मध्यमः स्थविष्ठः परिधिर्दक्षिणतः । अणीयान् द्राधीयानुत्तरतः, अणिष्ठो हसिष्ठो मध्यतः । तथाऽष्टाकपालो माध्यदिने सवने । एकादशकपालस्तुतीयसवने । द्वादशकपालः प्रातःसवने । सोऽयमर्थव्यतिक्रमः । मन्त्रद्वयशब्देष्वप्येवं योजनीयमिति प्राप्ते ब्रूमः छन्दांसीति वाक्येऽर्थानां व्यतिक्रमो नोक्तः । अतो मन्त्रगतगायच्यादिशब्दानामवे व्यतिक्रमः । यस्त्वर्थेषु गायन्यादिशब्दप्रयोगः स प्रशंसार्थः । भक्षाद्यांना मुख्यच्छदस्त्वाभावादिति सिद्धान्तः (१०-९-२५) ॥ १४ ॥

एवमुत्तरेषु पृष्ठ्याहेषु त्रीनतिग्राह्यान्गृह्णाति । आग्नेयमेकविꣳशे । ऐन्द्रं त्रिणवे । सौर्यं त्रयस्त्रिꣳशे ॥१५॥

१० .. सत्यापाविरचितं श्रौतसूत्रम्- ... [१६ प्रश्ने: उत्तरेषु पृछयाग्विति वचनात्तत्र ॥ १५ ॥

पूर्वस्मिंस्त्र्यहे वाजसनेयिनः समामनन्ति । यत्र गौरवीतꣳ साम तत्र सर्वान्पूर्णान् ग्रहान्गृह्णीयात् ॥१६॥

परिपठन्ति वाजसनेयब्राह्मणे ॥ १६ ॥

अथ पशुक्लृप्तिराग्नेयं प्रायणीयोऽतिरात्र आलभन्ते श्वोभूते सारस्वतीं मेषीम् । एवꣳ हि विहतानैकादशिनानन्वहमालभन्त आग्नेयमुदयनीये सोर्यं ब्रह्मवर्चसकामानाम् ॥ १७ ॥

अल पाक्लपिः प्रदश्यते । आलभन्त इति बहुयजमानाभिप्रायम् । श्वोभूते महाराने बुद्धका प्रायणीयमुदयनीयमुपयन्ति । उभौ षोडशिमन्तौ द्वादशाहस्य षोडसी ( शी). भूतिरात्र इत्यायकल्पसूत्रवचनात् । अग्ने नयेत्यादिसमं सर्वमुपावहरति अग्निं युनज्मीति । उपांवभिषवकाले पृभिप्राणग्रहानं पूर्वमेवोक्तम् । प्रायणीयोदयनीययोर्दशमेऽहनीति त्रयः कल्पाः सूत्रकारेणोक्ताः । त्रिष्वहःसु यथासंख्यमिति केचित् । सर्वत्र विकल्प इति केचित् । ऐन्द्रवायवाग्रं पशुकाल आग्नेयः खण्डः । ए (ऐ) कादश (शि) नेऽमिष्ठ उपाकरोति । ऐन्द्राग्लो वेति भाष्यकृत् । सारस्वती मेषीमिति सूत्रकारमतिः । सूर्य मावर्चसकामस्योपशयनिर्देशः कृष्णमृगस्ते पचरित्यहरह!पमानपक्षे । अग्नीषोमीयमा--एक मिनोति तत्त प्रायणीये मानं, तस्मिन्नेव मिमीते आग्नेयमपाकरोति तस्य दक्षिणत उपश्यनीयनिर्देशश्च । श्वोभूते सारस्वतमुपाकरोति द्वितीय मिन्वन्ति पश्चर्थत्वायूपस्य ( ब्रह्मवर्चसपशुकामाः कामाः । ) प्रधानं तस्माद्दक्षिणतोऽपवर्गः । यूपानामवि (मि.) नोदपवर्गतो ( तः ) सारस्वतस्य यूपस्य दक्षिणत उपशयः स्थाप्यते । सारस्वतमुपाकृत्योपशयनिर्देशः । एवमहन्युत्तरोत्तरः पशुः । यूपैकादशिन्यां पूर्ववत् ॥ १७ ॥

दक्षिणाकालेऽन्वहं द्वादश शतान्यहीनभूते ददाति ॥ १८ ॥

बाबा शतानि ददात्यहीने ॥ १८ ॥

सत्रे तु दाक्षिणौ होमौ हुत्वेदमहं गां कल्याण्यै कीर्त्यै स्वर्गाय लोकाय दक्षिणां नयामीति यजमानाः कृष्णाजिनानि अन्वन्य उदयो दक्षिणापथेनातियन्ति ॥ १९॥

३ पटले:] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३६१

सत्रे त्वयं विशेषः ॥ १९ ॥

एवमहरहः क्रियते ॥ १६.२.२०॥

एवमुक्तप्रकारेण ॥२०॥

उत्तरेऽहनि कृष्णविषाणाः प्रास्यन्ति ॥ २१ ॥

गतः ॥ २१ ॥

सख्यानि विसृजन्ते ॥ २२ ॥

उत्तम एवाहनि सख्यानि विसृजन्ते ॥ २२ ॥

पूर्वस्मिन्नहन्युत्तरस्मा अह्ने यज्ञायज्ञीयं प्रति वसतीवरीर्गृह्णाति ॥ २३ ॥

यज्ञायझीयकाले वर्तमाने वसतीवरीः ॥ २३ ॥

पूर्वस्मिन्नहन्युत्तरस्मा अह्ने स्तोत्रीयमनुरूपं कृत्वा शꣳसति ॥ (ख०५) ॥ २४ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्ने द्वितीयः पटलः ।

अनुरूपं सदृशम् । ' नावाहीनसंततयः' इति वचनाम्न्यायप्राप्तमेतत् ॥ २४ ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचं न्द्रिकायां षोडशप्रश्ने द्वितीयः पटलः ।

16.3 अथ षोडशप्रश्ने तृतीयः पटलः ।

वर्तमानेऽतिरात्रे पयाꣳसि विशास्ति ॥ १॥

वर्तमान एवातिरात्र उत्तरस्मा अढे पयासि विशास्तीत्यापस्तम्बः । वर्तमान एवातिरात्रे पोडशिचमसेषु प्रक्षालितेषुत्तरस्मा अहने या यजमानस्य व्रतधुगित्यादिभिः पयांसि विशास्ति । दोहनादयो गताः ॥ १ ॥

श्वः सुत्यामिन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोमपेभ्यः सोमं प्रब्रूतादिति मैत्रावरुणेनोच्यमाने स्वमगारं प्रविश्याऽऽग्नीध्रः श्वः सुत्यामिन्द्राग्निभ्यां विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोमपेभ्यः सोमं प्रब्रवीमि ब्रह्मन्वाचं यच्छ सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति संप्रेष्यति ॥ २ ॥

अहरहोगविमोक्षपक्षे हारियोजने हुते श्वः सुत्यामिति । तदाऽऽग्नीध्र आग्नीध्रमण्डपं प्रविश्य संप्रेष्यति । श्वः सुत्यामिति ॥ २ ॥

३६२ : -- सत्यापाढविरचितं श्रौतसूत्रम्- १६ प्रश्ने

अद्य सुत्यामेतस्मिन्नहनि ब्रूयाल्लुप्येत वा श्वःसुत्यामितरेषु ॥ ३ ॥

‘स वै खलु श्वः सुत्यामिति बेयादित्याश्मरथ्यः । अद्य सुत्यामित्यालेखनः' (आप० श्री० २१-६-३) इत्यापस्तम्बः । अत उर्व श्व: सुत्यामिति नात्र संख्या ॥३॥

पत्नीसंयाजान्तमहः संतिष्ठते ॥ ४ ॥

पत्नसिंयाजान्तं कर्म समाप्यते ॥ ४ ॥

सꣳस्थिते ब्रह्मा वाचं विसृजते ॥ ५॥

संस्थितेऽहनि पत्नीसंयाजान्ते ब्रह्मा वाग्विसर्ग करोति ॥ ५ ॥

परिहरन्त्युदकं पत्नीभ्यः ॥ ६॥

एकस्मिन्काले परिहरन्ति पत्नीभ्य उदकं पानार्थमित्यर्थः ॥ ६ ॥

हरन्ति समिद्धाराः॥७॥

यजमानपुरुषाः समिदाहरणम् ॥ ७ ॥

प्रत्येत्याऽऽहवनीये समिधोऽभ्यादधति ॥ ८॥

पुनरागत्यैताः समिध आदायाऽऽदधति आहवनीये ॥ ८ ॥

एवमहरहः क्रियेरन् ॥ ९॥

गतः ॥९॥

तस्मिन्नहनि पृष्ठ्यः षडहः ॥ १६.३.१० ॥

अयोत्तरस्मा अड्ने वसतीवरीणां परिहरणं, सन्नाभिमन्त्रणे कृते । सवनीयस्य च शाखाच्छेदनमिध्माबहिषोराहरणादि । उभयपक्षे वसतीवरीग्रहणं पूर्वेयुरेव । एतेषामेकस्मिन्नप्याक्रियमाणे नमो ब्रह्मण इत्याहुतिः ॥ १० ॥

त्रिवृदग्निष्टोमो रथंतरसामा ॥ ११ ॥

उपयन्तीविशेषः । सौमिकपात्रप्रयोगकाल आग्नेयातिग्राह्यपात्रमेव पूर्वमिस्त्र्यह इति विधौ ऋतुकरणकाले न होमः, यजुरुक्त्वा प्रतपनमैन्द्रवायवा, पशुकाले त्रिवृद्भ्यः सवनीयसारस्वती मेषीमुपाकरोति । उत्तरतोऽग्निष्ठस्योपशयनिर्देशो न तु विधिः । पूर्ववद्दक्षिणाकाले कुर्युः ॥ ११ ॥

रथशब्देन माहेन्द्रस्य स्तोत्रमुपाकरोति ॥ १२ ॥

न्यायसूत्रे सूत्रान्तरे व्याख्यानात्परिभाषार्थमिदं सूत्रमापस्तम्बेऽप्येवम् ॥ १२ ॥

उपाकरणमन्त्रस्य शब्दो विकारः ॥ १३ ॥

माहेन्द्रस्तोत्रोपाकरणकाले स्थघोषेण माहेन्द्रस्तोत्रोपाकरणं, शब्दों मन्त्रस्थाने

३ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । ३६३

तदाऽपि विभर्षि च पूर्ववत् । यज्ञायज्ञीये स्तूयमाने वसतीवरीः पारगृह्णाति । प्रतिदिनपक्षे न विषाणप्रासनं पत्नीसंयाजान्तं समिदाधानान्तं पूर्ववत् ॥ १३ ॥

पञ्चदश उक्थ्यो बृहत्सामा ॥ १४ ॥

श्वः सुत्यामित्यादि । रात्रौ वसतीवरीपरिहरणादि परिस्तरणान्तं तन्त्रम् । श्वोभूते महाराने बुद्ध्वा पञ्चदश उक्थ्यो वृहत्साम, सोमपात्रासादनकाल ऐन्द्रातिग्राह्यपात्रमेव वाजसनेयिमतपक्षे पूर्ववत् । सोमोपाहरणम् , अग्निं युनज्मि, प्रतिदिनपक्षे शुक्राममेक एवातिग्राह्य ऐन्द्र एव । पशुकाले सौन्यो व्यत्यासेन दक्षिणे यूपेऽग्निष्ठस्य सोपशयनिदेशः ॥ १४ ॥

दुन्दुभिशब्देन माहेन्द्रस्य स्तोत्रमुपाकरोति ॥ १५ ॥

माहेन्द्रस्तोत्रोपाकरणकाले दुन्दुभिशब्देन मुरजः प्रसिद्धस्तस्य घोषेण स्तोत्रोपाकरणमित्यर्थः ॥ १५॥

यदि स्तनयित्नुर्भवति स एव स्यादुपाकरणमन्त्रस्य शब्दो विकारः ॥ १६ ॥

स्तनयित्नुघोषेण वा पूर्ववत् । दक्षिणाकाले यज्ञायज्ञीये वसतीवर्यादि पत्नीसंयाजान्तं समिदाधानं च पूर्ववत् । अहीनसंततयो रात्री पारस्तरणान्तम् ॥ १६ ॥

सप्तदश उक्थ्यो वैरूपसामा ॥ १७ ॥

श्वोभूते महारा। बुद्ध्वा सप्तदश उक्थ्यो वैरूपसामा । पात्रासादनकाले सौर्यातिग्राह्यपात्रमेकमेव । ऋतुकरणमुक्थ्यवत् । आग्रयणाप्रमाग्रयणाने सौर्योऽतिग्राह्यः । पशुकाले त्रिवृया परिवीय पोष्णं श्याममग्निस्ष्ठस्योत्तरे यूप उपशयनिर्देशः ।। १७ ।।

आधावेन माहेन्द्रस्तोत्रमुपाकरोति ।। १८ ॥

तस्मिन्काल आधावनम् ॥ १८ ॥

बर्हिषो विकारस्तस्मिन्नुपाकृते प्रस्तुत उद्गाताऽऽधावेन धुनुते ॥ १९ ॥

माहेन्द्रस्तोत्रोपाकरणकाल आधावेन बहिःस्थानेन धुनुते स्तोत्रोपाकरणम् । प्रस्तुते उद्गाताऽऽधावेन धुनुते । पूर्ववक्षिणाकाले ददाति । यज्ञायज्ञीयकाले वसतीवर्यादिसमिदाधानान्तं पूर्ववदहीनसंततयः परिस्तरणान्तम् ॥ १९ ॥

एकविꣳशः षोडशी वैराजसामा ॥ १६.३.२० ॥

महाराने बुद्ध्वा श्वोभूत एकविंशं षोडशिनं वैराजसामानमुपयन्तीति शेषः । अथवोक्थ्यवन्न षोडशीये ( याs) न्तरेष्टा । स उक्थ्य इति वचनात् । अत्र यदि षोडशी त्रीनतिग्राह्यानेव पूर्वस्मिरूयहपक्ष उत्तरमिरूयहपक्षे, अद्यप्रभृत्याग्नेयमतिग्राह्यं गृह्णाति ।

३६४ . सत्यापाढविरचितं श्रौतसूत्रम्- . [ १६ प्रश्न

-- ऐन्द्रवायवाग्रः । पशुकाले शितिपृष्ठो बार्हस्पत्यः पशुरग्निष्ठस्य दक्षिणस्य दक्षिण उपशयनिर्देशः ।। २०॥

न्यूङ्खं भवति हविष्कृता(दा)श्रुतप्रत्याश्रुतेषु प्रतिगरे न्यूङ्खति ॥ २१ ॥

अस्मिन्नहनि भवन्ति न्यूाः । अधीकारादयो न्यूला ओ ओ इत्यादि हौत्रवि. षयम् । तदाश्वलायनेन भगवता चतुर्थेऽहनि प्रातरनुवाकप्रतिपदीत्यादिना प्रपञ्चितम् । तत्तदुक्तेनैव मार्गेण प्रतिगरः ॥२१॥

अरणीभ्यां माहेन्द्रस्य स्तोत्रमुपाकरोति बर्हिषो विकारः ॥ २२ ॥

पूर्ववद्दक्षिणाकाले ददाति । माहेन्द्रस्तोत्रोपाकरणकाले बर्हिःस्थानेऽरणी दर्मद्वयं चोपाकृतम् ॥ २२ ॥

तस्मिन्नुपाकृते प्रस्तुते ॥ (ख०६) ॥२३॥ उद्गाता दक्षिणमूरुमवकाभिरवच्छाद्य तत्रारणी संनिधायाग्निं मन्थति ॥ २४ ॥ (तं) जातमुद्गाताऽभिहिंकृत्य प्रस्तोत्रे प्रयच्छति ॥ २५ ॥ प्रस्तोताऽध्वर्यवे ॥ २६ ॥

साम प्रस्तुतं भवति स्तोमभागेऽप्युक्तेऽथोद्गातुर्दक्षिणमूरुं शैवालेरेवावीर्य तस्मिन्नरणीद्वयं निधाय मथनाद्य( नीतोऽ)ध्वर्युप्रतिप्रस्थातारौ । तं जातमुद्गाताऽभिहिंकृत्यारुपरि हिंकरोति । तमुद्गाता प्रस्तोत्रे प्रयच्छति ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥

तꣳ सोऽग्रेण धिष्णियान्पर्याहृत्याऽऽहवनीयेऽनुप्रहृत्य प्रेद्धो अग्ने दीदिहीति विराजाऽभिजुहोति ॥ २७॥

तं प्रस्तोताऽध्वर्यवे । अध्वर्युरुत्तरेण धिष्णियापर्याहृत्याऽऽनधियिस्येवोत्तरेण नत्विाऽऽहवनीये क्षिपति प्रेद्धो अग्न इति विराजाऽभिजुहोति । गतमन्यत् ।। २७ ॥

त्रिणव उक्थ्यः शाक्वरसामा ॥ २८ ॥

केचित्-यज्ञायज्ञीयकाल इत्यादि पत्नीसंयाजान्तं समिदाधानान्तं पूर्ववत् । अहीनसंततयः पूर्ववत्परिस्तरणान्तम् । श्वोभूते महाराने बुद्ध्वा त्रिणवमुक्थ्यं शाक्वरसामानमुपयन्तीति शेषः । महानाम्नी पृष्ठं न त्वातग्राह्याः । पूर्ववत्त्र्यहपक्ष ऐन्द्र एकः शुक्रायः । पशुकाले शिल्पो वैश्वदेवः । अग्निष्ठप्रभृत्युत्तरतश्चतुर्थे उपशयनिर्देशः पूर्ववद्दक्षिणाकाले ॥ २८॥ .

३ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । ३१५

अद्भिरवकावास्ताभिर्माहेन्द्रस्य स्तोत्रमुपाकरोति । बर्हिषो विकारस्तस्मिन्नुपाकृते प्रस्तुते ॥ २९ ॥

माहेन्द्रस्य स्तोत्रोपाकरणकाले बर्हिःस्थानेऽद्भिरवकावास्तामिरवका यास्वप्सु क्षिप्तास्ताभिस्तोत्रोपाकरणं बर्हिम्यां चोपाकृतं साम प्रस्तुते भवति ( आप० श्री. २१-७-१०) इत्यापस्तम्बः ॥ २९ ॥

तिस्रः सहर्षभा गावोऽग्रेण सदोऽपरेणाऽऽग्नीध्रमुदीचीनं दक्षिणापथेनातिक्रमयन्ति ॥ १६.३.३०॥

तिस्रः सर्षभास्तिस्रो गावः सह बलीवर्देनाग्रेण सदोऽपरेणोऽऽग्नीध्रमुदीचीनयन्ति । दक्षिणापथेनाहीने दक्षिणादानमृत्विजाम् । सने तु न दान न 'दक्षिणाधर्माः । पत्नीसंयाजादि पूर्ववत्समिदाधानान्तमहीनसंततयः पारस्तरणान्तम् ॥ ३० ॥

त्रयस्त्रिꣳश उक्थ्यो रैवतसामा [ नम्] ॥३१॥

उपयन्तीति शेषः । श्वोभूते महाराने घुद्ध्वा त्रयस्त्रिंश उक्थ्यो रैवतसामानमुपयन्ति न त्वतिग्राह्याः । पूर्ववत्त्र्यहपक्ष उत्तरत्र्यहपक्षे च सौर्यातिग्राह्यमेकमेव प्रयुनक्ति । पूर्ववत्व्यहपक्षोत्तरयोर्न त्वतिग्राह्याः । प्रथमे सर्वान्गृहातीति केचित् । आमिष्टोमत्वादाग्रयणानः । पशुकाले ऐन्द्रः, इन्द्राय त्वा जुष्टमुपाकरोमीति । दक्षिणतश्चतुर्थ उपशयनिर्देशः पूर्ववत् ॥ ३१॥

न्यूङ्खमेतदहर्भवति ॥ ३२ ।

न्यूङ्खास्तदनुसारेण प्रतिगरः ॥ ३२ ॥

स्वयमृतुयाजं भवति ॥ ३३॥

स्वयं गृहपतिः ( आप० श्री० २१-७-१४) इत्यापस्तम्बः ॥ ३३ ॥

अध्वर्यू यजतमित्युच्यमाने हविर्धाने प्रविश्याध्वर्युः प्रैष उत्तरयर्चा यजति उत्तरेण वा प्रैषेण ॥ ३४ ॥

स्वयमध्वर्युर्ऋतुयानं यजति । स्वयं गृहपति(ते) यजेत्यभिज्ञायाध्वर्युहविर्धार्ने प्रविश्य प्रैष उत्तरयों । स्पष्टमन्यत् ।। ३४ ॥

अश्विना पिबतं सुतं (मधु) दीद्यग्नी शुचिव्रता। ऋतुना यज्ञवाहसा । ऋतुना सोमं पिबतं वौषडिति यद्यव्यूढः ( बतमित्यव्यूढे यजति) ॥३५॥

वौषडिति वषट्करोति । एवं गृहपतेर्यद्यन्यूढः ॥ ३५ ॥

१६ . : 'सत्यापादविरचितं श्रौतसूत्रम्-- . . [ १६ प्रभ

व्यूढे त्वर्वाञ्चमद्य यद्यं नृवाहणꣳ रथं युञ्जाथामिह वां विमोचनम् । पृङ्क्तꣳ हवीꣳषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू । ऋतुना सोमं पिबतं वौषडिति तस्य प्रचरितं मरुत्वतीयैर्भवति ( बतमिति व्यूढे) ॥ ३६ ॥

न्यूढपक्षेऽश्चिमोति दक्षिणाकाले प्रत्तस्य प्रचरितं मरुत्वतीयैर्भवति ।। ३६ ॥

यत्प्राङ्माहेन्द्रात्तस्मिन्कृते प्रतिप्रस्थाताऽपरेणाऽऽग्नीध्रमुदीचीं तन्ति वितत्य तस्यां वत्सान् बध्नाति ॥ ३७॥

अगृहीतो माहेन्द्रः ।, भक्षिते मरुत्वतीये । अत्र प्रतिप्रस्थाता करोति कर्मोत्तरेणाऽऽ. ग्नीध्रागारमण्डपमुदीची वत्सतन्ति वितत्य प्रसार्य तस्यां वत्सान्वन्नाति ॥ ३७॥

दक्षिणेन मार्जालीयं मातृरुपरुन्धन्ति ॥ ३८ ॥

मन्तिवत्सांनाम ॥ ३८॥ " !!

बर्हिःस्थानेऽद्भिर्दूर्वावास्ताभिर्माहेन्द्रस्य स्तोत्रमुपाकरोति । बर्हिषो विकारः ॥ ३९ ॥

तत्र स्थिता भवन्ति । बद्धा अबद्धा वा । ततो माहेन्द्रो गृह्यते बर्हिःस्थानेऽद्भिर्वावास्ताभिर्या अप्सु दूर्वाः क्षिप्तास्ताभिः स्तोत्रोपाकरणभित्यर्थः ॥ ३९ ॥

तस्मिन्नुपाकृते प्रस्तुते वत्सान्प्रमुच्य मातृभिः सꣳसृज्योदीचीस्तस्य दक्षिणापथेन संचा[र्य]माना(णा) अतिवित्सन्ति (संतिष्ठते पृष्ठयः षडहः) ॥ (ख०७) ॥ १६.३.४० ॥

इति सत्याषाढहिरण्यकशिसूत्रे षोडशप्रश्ने तृतीयः पटलः ॥

ताभिः स्तोत्रोपाकरणं बर्हियौ चोपाकृतं सामाप्रस्तुतमथैतान्वत्साम्मातृभिः संसृज्योत्तरेणा सीधे सांकाशिनं कुर्वन्ति गवां वत्सानां च प्रेष्याः । ता अग्रेण सदोऽपरेणाssसीधमण्डपमुदीची नीत्वा दक्षिणापयेनाधिन्युच्छ्य(तिवित्स)न्ति त्वरितं नयन्तीत्यर्थः । सत्रे तु न दानं निषेधात् । अहीने तु ऋत्विग्भ्यो ददाति । पूर्ववद्यज्ञायज्ञीयकाले पत्नसियानान्तम् । समिपक्षे पञ्च सतिष्ठते पृष्ठयः षडहः ॥ ४० ॥ इति सत्यापादहिरण्यकेशिस्तन्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोग चन्द्रिकायां षोडशप्रश्ने तृतीयः पटलः ।।

. ..

५: पटछः ] महादेवशाखिसंकलितप्रयोगचन्द्रिकाच्याख्यासमेतम् । ३७

16.4 अथ षोडशप्रश्ने चतुर्थः पटलः।

सꣳस्थिते पृष्ठ्ये षडहे । घृतं मधु वा प्राश्नन्ति ॥ १॥

संस्थिते घृतं मधु वा प्राभन्ति । सत्रिणां मधुप्राशनं विरुद्धमिति मीमांसकाः । सत्रिणां मधुप्राशनस्य विद्यमानत्वात्सूत्रकारस्याप्यविरुद्धमेव । अहीने नियमः-सर्पिर्मधुभ्यामृत्विनो मोजयेदहीनेष्विति च्छन्दोगवचनात् । सत्रे तु धृतमधुम्यामित्यादि । पूर्ववदहीनसंततयः । परिस्तरणान्तम् ॥ १॥

अन्वहमुक्थ्यास्त्रयश्छन्दोमाः॥२॥

श्वोभूते महाराने बुद्ध्वा दशममहरविवाक्यं चतुर्विशमनिष्टोममुपयन्ति ॥ अझे नयेत्यादिप्रायणीयोदयनीययोर्गणमु(ग उ)च्यते ..

चतुर्विꣳशश्चतुश्चत्वारिꣳशोऽष्टाचत्वारिꣳशश्चतुर्विꣳशमविवाक्यम् ॥ दशममहरग्निष्टोमः सोमो रथंतरसामा(नम् ।) ॥३॥

दशममहरस्मिन्दशमेऽहनीत्यर्थः ॥ ३ ॥

नात्र कश्चन कस्मैच नो (न) व्याहते ॥ ४॥

कश्चन कश्चिदपि उपहताय विनाशिताय पदार्थान् विभ्रष्टाय न न्याहते न व्याख्यातन्यमिदं त्वया विनाशितमेतत्प्रायश्चित्तमिति भावः ॥ ४ ॥ .

ये बाह्या दृशीकवः स्युस्ते विब्रूयुर्यदि तत्र न विन्देयुरन्तः सदसाद्व्युच्यम् ॥५॥

ये बाह्या दृशीकवो बहिः सदसो दृशीकवः स्युः प्रेक्षकास्ते विवयुः । इदं त्वया विनाशितमेतत् प्रायश्चित्तमिति बोध्यम् ॥ ५॥

यदि तत्र न विन्देयुर्गृहपतिना व्युच्यम् ॥ ६ ॥

यदि तत्र न विजानीयुर्विनष्टार्थमेकं प्रायश्चित्तमिति गृहपतिना व्युच्यमाख्यातव्यमिदं विनाशितमिदमत्र प्रायश्चित्तमिति भावः ॥ ६॥

गृहपतिमानुष्टुभमुक्त्वा तद्ब्रूयात् ॥ ७॥

वक्तव्यकालेऽनुष्टुप्छन्दसमृचमुक्त्वाऽस्मिन्विनाशितमौतत् प्रायश्चित्तम् ॥ ७॥

यस्मिन्नुपह्वयत्येतावपि वा तेनैव सहाऽऽनुष्टुभꣳ संपादयेत् ॥ द्वयोस्तदहः समिध आहरन्ति ॥ ८ ॥

यद्वक्तव्यमुपहताय तदनुष्टुवाख्यश्लोकेन वक्तव्यम् । तत्रोक्तप्रकारः श्लोकः

टाः सत्यापाठविरचितं श्रौतसूत्रम्- [१६ प्रथे

अध्वर्यो भवता चास्मिन्विपर्यासो विधीयते । अग्ने नयेत्यूचा स्पष्ट्वा हविर्धानं तु ऋद्वयम् ।। अनुष्टुभमृचमुक्त्वा एतेन श्लोकेन वा प्रायश्चित्तकथनम् । प्रायश्चित्तविधायकश्लोकः.......: त्वं नो अग्ने च स त्वं नो भूर्भुवः सुव(स्व)स्तथैव च । . -- ... अनाज्ञातजपं चैव मुरारेः स्मरणं परम् ॥ इति । . . * एवं प्रायश्चित्तविधानमग्ने नयेत्यादि । सन्त्यतिग्राह्यास्त्रयः । यदा गौरवीतं साम विद्यते तदाऽतिग्राह्याणां ग्रहणं दशमेऽहनि । अग्निष्टोमेऽपि यत्र गौरवीतसाम तद्बहूनतिग्राह्यान्गृह्णातीति वचनात् । उपांश्वभिषवकाले पृश्निप्राणग्रहानं पूर्वमेवोक्तम् । वायवायम् । पशुकाले वारुणः पेत्वः । दक्षिणतोऽत्य उपशयनिदेशः पूर्ववत् । दक्षिणाकाले पूर्ववद्यज्ञायज्ञीये च पत्नीसंथानान्तं कृत्वा विधिरेतदहः समिध आहरन्ति ॥ ८ ॥

नित्या औदुम्बरीश्च ॥९॥

समिध आहरन्तीत्यनुकर्षः ॥ ९॥

अभ्यादधति नित्याः ॥ १६.४.१० ॥

आहवनीय इति शेषः ॥ १०॥

उत्तरेणाऽऽहवनीयमौदुम्बरीरुपसादयन्ति ॥ ११ ॥

स्थापयन्तीत्यर्थः ॥ ११ ॥

असूर्या उपसूर्ये याभिर्वा सूर्यः सह । ता नो हिन्वन्त्यध्वरमिह रतिरिह रन्तिरिह रमध्वमिह रन्तिरिह रमतिरिह रमध्वमिह वो रमतिः। उपसृजं धरुणमिति द्वाभ्यां गार्हपत्ये जुहोति ॥ १२ ॥

समन्वारब्धेषु द्वाभ्यामृग्म्यां गार्हपत्ये जुहोति ॥ १२ ॥

अयꣳ सहस्रभानवो दृशः कवीनां मतिर्ज्योतिर्विधर्मा दध्रुः समीचीरुषसः समैरयदरेपसः समोकसः सरेतसः सचेतसः स्वरमन्युमन्तश्चिदाकोरित्यतिच्छन्दसर्चाऽऽहवनीयमुपतिष्ठन्ते ॥ ( ख०.८ ) ॥ १३ ॥

अथाऽऽहवनीयं गत्वाऽतिच्छन्दसोपतिष्ठन्ते-अयर सहस्त्रमानव इति प्रगीयत इति मीमांसकाः । सूत्रकारवचनं छन्दोगानामिति प्रतीयते ॥ १३ ॥

प्राजापत्याय मनोग्रहाय संप्रसर्पन्ति ॥ १४ ॥

ततः पाजापत्याय मनोनहाय संप्रसर्पन्ति ब्रह्माध्वर्युयनमानाः ।। १४ ॥

- ४ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३६९

प्रसृप्तेष्वनया त्वा पात्रेणेति पृथिवीं मनसा ध्यायन् प्रजापतये मनवे जुष्टं गृह्णामीति प्राजापत्यं मनोग्रहं गृह्णाति । यथारूपमाकाशात् । तार्तीयसवनि(नी)काद्वा सोमात्परिशाय(श्रप)येद्यावानेकस्मै चमसगणायाऽऽप्तः ॥ १५ ॥

प्रसृप्तेषूपांशु पात्रेण गृह्णाति, इति विधिः । अनया त्वा प्रजापतये जुष्टं गृह्णामीति । आकाशाद्यथारूपं ध्यात्वा गृह्णाति । आकाशैकदेशमथवाऽग्निष्टोमचमसोन्नयनकाल एकस्मै चमसगणाय गृह्णाति । आप्तो यावान्परिमितः ।। १५ ।।

तस्माद्वोपाꣳशुपात्रेण गृह्णीयाद्धोतृचमसमुख्याꣳश्चमसानुन्नयति ॥ १६ ॥ स्तुतशस्त्रे भवतः॥१७॥

गतः ।। १६ ॥ १७॥

तस्य सर्वं मनसा क्रियते ॥ १८ ॥ मनसा स्तोत्रमुपाकरोति ॥ १९ ॥ मनसा प्रस्तौति ॥१६.४.२०॥ मनसोद्गायति ॥ २१ ॥ मनसा प्रतिहरति ॥२२॥ मनसा तिसृणाꣳ सार्पराज्ञीनाꣳ षट्कृत्वः प्रतिगृह्णाति ॥ २३ ॥


तस्माद्ग्रहणं वा स्तोत्रोपाकरणं प्रस्तोता उद्गाता प्रतिहर्ता च मनसा सार्पराज्ञीनाम् ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥ २३ ॥

यद्यर्धर्चशः शꣳसति नवकृत्वो यदि पच्छ ओꣳ होतरिति दशहोतुः प्रतिगरः । तथेति चतुर्होतुः । ओमिति पञ्चहोतुः । तथेति षड्ढोतुः । अरात्स्म होतरिति सप्तहोतुः ॥ २४ ॥

एवं मनसा प्रतिगरः । शंसनमनुमन्त्रणं च मनसेति बौधायनादयः ॥ २४ ॥

मनसाऽऽश्रुतप्रत्याश्रुते याज्या संप्रैषो वषट्कारो भक्षमन्त्रश्च ॥२५॥

मनसाऽऽश्रुतप्रत्याश्रुते । उक्थशा यज सोमानां सोमपक्ष उक्थशा यज सोममिति । आकाशपक्षे मनसैव । याज्यान्ते चिह्नं वषट्कारानुवषट्कारौ । सोममाकाशं वा हरति । भक्षार्थं वक्ष्यति स्वयं सूत्रकारः ।। २५ ॥

हुत्वा हरन्ति भक्षन्ते यत्समीक्षन्ते ससमुपहवधर्मा भवन्ति । गृहपतिं पर्युपविश्य पृच्छन्ति ॥ (ख० ९)॥ २६ ॥

१३७० । ..... सत्याषाढविरचितं श्रौतसूत्रम्- .. [१६ प्रश्ने

श्वो भू(हु)त्वा सोममाकाशं वा हरन्ति भक्षार्थ ते भक्षयितारः समीक्षन्ते परस्पर समुपहवो मनसाऽग्रे होता ततोऽध्वर्युः स्वं स्वं चमसं चमसिनः समाख्या भक्षणं, मनसा मन्त्रमुक्त्वा सोमं प्रत्यक्षेण भक्षयन्ति । आकाशपक्षे भक्षणमन्ने विशेषःभलेहीत्यादि प्रियो मे हृदोऽस्यश्विनोस्त्वा बाहुभ्या५ सन्यासं नृचक्षसं त्वा देवाकाश सुचक्षा अवख्येषं मन्द्राऽभिभूतिर्वाग्जुषाणाऽऽकाशस्य तृप्यतु इत्यादि । गणस्याऽऽकाशदेवते मतिविदः, इत्येवं भक्षणम् । विनिविश्य गृहपति ब्रह्मकथा वक्तव्याः:-इदं वा अनेनैव किंचनाऽऽसीदित्येवमाद्याः ॥ २६ ॥

यद्दशहोतारः सत्रमासत । केन ते गृहपतिनाऽऽर्ध्नुवन्। केन प्रजा असृजन्तेत्यध्वर्युः पृच्छति ॥२७॥

अथवा गृहपतिमवेक्ष्य महाविजः पर्युपविशन्ति समन्ततः पृच्छेयुः । ब्रह्म वै चतु. होतारः ( तै० वा. ३-१२-४ ) इति चतुर्होतॄणां ब्रह्मत्वात्तमध्वर्युः प्रथमं पृच्छति यद्दशहोतारः सत्रमासतेति ॥ २७ ॥

प्रजापतिना वै ते गृहपतिनाऽऽर्ध्नुवन्तेन प्रजा असृजन्तेति गृहपतिः प्रत्याह ॥ २८ ॥

प्रतिवचनम् ॥२८॥

यञ्चतुर्होतारः सत्रमासत केन ते गृहपतिनाऽऽर्ध्नुवन्केनौषधीरसृजन्तेति ब्रह्मा पृच्छति । सोमेन वै ते गृहपतिनाऽऽर्नुऽनवन्तेनौषधीरसृजन्तेति गृहपतिः प्रत्याह ॥ २९॥ यत्पञ्चहोतारः सत्रमासत केन ते गृहपतिनाऽऽर्ध्नुवन्केनैभ्यो लोकेभ्योऽसुरान्प्राणुदन्त । केनैषां पशूनवृञ्जतेति होता पृच्छति । अग्निना वै ते गृहपतिनाऽऽर्ध्नुवन्तेनैभ्यो लोकेभ्योऽसुरान्प्राणुदन्त तेनैषां पशूनवृञ्जतेति गृहपतिः प्रत्याह ॥१६.४.३०॥ यत्षड्ढोतारः सत्रमासत केन ते गृहपतिनाऽऽर्ध्नुवन्केनर्तूनकल्पयन्तेति होतृकाः पृच्छन्ति । धात्रा वै ते गृहपतिनाऽऽर्ध्नुवन्तेनर्तूनकल्पयन्तेति गृहपतिः प्रत्याह ॥ ३१॥ यत्सप्तहोतारः सत्रमासत केन ते गृहपतिनाऽऽर्ध्नुवन्केन सुवरायन्केनेमाँल्लोकान्समतन्वन्नित्युद्गाता पृच्छति । अर्यम्णा ते गृहपति

४ पटला . महादेवशास्त्रिसंकलितप्रयोग चन्द्रिकाव्याख्यासमैतम् । ३७१

नाऽऽर्ध्नुवन्तेन सुवरायन्तेनेमाँल्लोकान्समतन्वन्निति गृहपतिः प्रत्याह ॥ ३२ ॥

सर्वत्र प्रतिवचनं गृहपतेरेव । अहीनभूतेऽप्येवम् ॥ २९ ॥ ३० ॥ ३१ ॥ ३२ ॥

प्रजापतिं परिवदन्ति । ३३ ॥

प्रजापति परिवदन्तीति विज्ञायते ( २१-११--१३ ) इत्यापस्तम्बसूत्रम् ॥३३॥

अकुशलोऽयं प्रजापतिर्यो दꣳशमशकान्सꣳसृजेद्यः स्तेनानिति ॥ ३४॥

प्रजापतिपरिवादाः प्रजापतेराराधनाथ मुक्त्यर्थमित्यर्थः । ३४ ॥

अपि वा प्रजापतिपरिवादानां मन्त्रानधीयते - यदरष्यानि प्रजापतिः पुरश्च ससृजे गिरीन् । कर्ताsग्निश्च तद्भद्रं यद्भद्रं तन्म आ सुव ॥ यदूषा तमसा युक्त्वा दिने तेऽक्ष्णिष्ठमातपत् । अम्भश्चात्यतिघर्मश्च तथा तत्ते प्रजापतिः ( तेः ) ॥ यत्स्ते नान्यद्वृकान्दꣳशान्मशकान्यदद्याश(य)वः । तदु ते वृजिनं तेषां तद्विषं तेन तेऽमृतम् ॥प्रजापतिं दशममहर्भजध्वं मतिं कवीनामृषभं जनानाम् । सुषुक्षितिꣳ सुद्रविणं दधानो विपाप्मा लोके निदधाति देवयुमित्येतैः परिवदेयुः ॥ ३५॥

अत्र श्रुतिः-प्रजापति परिवदन्त्याप्त्येवेन तद्व्याचक्षते, इति फलार्थवादः, इति मीमांसकाः । अपि वा प्रजापतिपरिवादानां मन्त्रान्पठन्ति केचिच्छाखिनस्ते ते प्रत्येतव्याः ॥ ३५ ॥

अथ वरं वृण(णु)ते ॥ ३६॥

प्रजापतिपरिवादानन्तरं वरं वृण(ण)ते यजमानः ।। ३६ ॥

अदो नोऽस्त्विति यत्कामा भवन्ति ॥(ख० १०)॥३७ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्ने चतुर्थः पटलः ॥

.. यत्कामयते तस्य नाम गृह्णातीति भरद्वाजः । ' उत. वै ब्राह्मणोऽनेककामो भवति' (२१-१२-१ ) इत्यापस्तम्बः । यत्कामयते तदुच्चारयतीत्यर्थः ।। ३७ ॥ इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां - प्रयोगचन्द्रिकायां पोडशप्रश्ने चतुर्थः पटलः । ....

३७२ . सत्यापादविरचितं श्रौतसूत्रम्-- [१६ प्रश्भे--

16.5 अथ षोडशप्रश्ने पञ्चमः पटलः ।

अपि वा यदेवैतद्भूर्भुवः सुवः सुप्रजाः प्रजया भूयासꣳ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैरिति तेन चैषाꣳ सर्वे कामा अवरुद्धा भवन्ति ॥१॥

प्रजापतिकामनार्थोऽयं मन्त्रः । यदि कामा न विद्यन्ते तदाऽवरुद्धावरणनिवृत्तिः ॥ १॥

(चतुर्होतॄन्व्याख्याय द्वारौ संवृत्य ) यथाधिष्णियं पत्नीर्व्यासाद्य द्वारौ संवृत्याथैभ्यो वाचमुपाकरोति ॥ २ ॥

चतुतन्न्याख्याय यजमानार्थये ( दयः ) सर्वे द्वारौ संवृत्य यथाधिष्णिय व्यवस्थिता उद्गपवर्गास्तथा पत्नय आसते । अथैभ्यो वाचं मृत्पात्रमध्वर्युर्वी ॥२॥

इह धृतिरिह विधृतिरिह रन्तिरिह रमतिरित्यौदुम्बरीं परिष्वजन्त उदरैरिवोपस्पृशन्तः समन्वारभ्योदुम्बरीमासते युवं तमिन्द्रा पर्वता पुरोयुधा यो नः पृतन्यादपतन्तमिद्वन्तं(द्धतं ) वज्रेण तं तमिद्धन्तम् । दूरे च तां यच्छत्सद्गहनं यदि नक्षदस्माकꣳ शत्रून्परि शूर विश्वतो दर्मादर्षिष्ठ विश्वत इति समन्वारब्धा सर्वानुत्तरस्य हविर्धानस्य दक्षिणैः पाणिभिः कटाꣳस्तेजनीभिर्वा तिष्ठमाना अतियन्ति ॥ प्राञ्च ईषद्गत्वा वागैतु वाग्वागैतु वागुपैतु वाक्समैतूपमैतु वाग्भूर्भुवः सुवरिति पञ्च वचाꣳसि व्याहरन्ति ॥ ३ ॥

इह धृतिरित्यनेन मन्त्रेणोदुम्बरी परिष्वज्य समन्वारभ्य यजमाना वाग्यतास्तिष्ठन्ति । यथोदरैरुपस्पर्शनं भविष्यति तथा कर्तव्यम् । अहीनेऽप्येका । तथैकैकस्य पत्नी वाग्यतातिष्ठति । न सर्वाः । अधिवृक्षसूर्ये प्राञ्चः परस्परं समन्वारब्धाः सर्पन्ति । अहीनेऽप्येक एव युवं तमिन्द्रा पर्वतेति प्रयोगमन्त्रः सर्वेषामुत्तरेण हविर्धानं गच्छन्तिः।। प्राङ्मुखा दक्षिणहस्तैकः कटास्तेजनीभिरवलम्बमानाः प्राश्चो गत्वाऽऽहवनीयस्योत्तरे पञ्च वांसि व्याहरन्ति । वागैत्वित्यादि ॥ ३ ॥

१ ख. ग. रम इह रमतामित्यौ ।

५. पटलः] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाच्याख्यासमेतम् । ३७३

अधिवृक्षसूर्ये सुब्रह्मण्यया वाचं विसृजन्ते ॥४॥

अधिवक्षसूर्ये वर्तमान एवं चरद्भिः क्रियते सुब्रह्मण्यान्तं वाग्विसर्गः ॥ ४ ॥

औदुम्बरीः समिध अभ्यादधाति ॥ ५॥

पूर्वमेवौदुम्बरीसमिधः परिष्वञ्जनं कृतवाग्यमनस्येह वाग्विसर्गः सर्वेषामौदुम्बरीः समिधः पूर्वमेवोपसादिता आह्वनीये यजमानाः । अथ दशमेऽहनि यज्ञायज्ञीयकाले वसतीवर्यादि, अहीनसंततयः पारस्तरणान्तम् ॥ ५ ॥

श्वोभूत उदयनीयः स व्याख्यातरूपः ॥६॥

गतार्थः ॥ ६॥

प्रायणीय उदयनीयो नात्राहीनसंतयो विद्यन्ते ॥ ७ ॥

श्वोभूते महाराने बुद्ध्वा प्रायणीयवदुदयनीयमुपयन्ति । उभौ षोडशीमन्तों द्वाद-: शाहस्य षोडशीमतिराने इति कल्पान्तरवचनात् । अग्ने नयेत्यादि समं सर्वमुपावहरति । अग्निं युनज्मि अत्रोपांश्वभिषवकाले पृश्निप्राणग्रहानं पूर्वमेवोक्तम् । प्रायणीयोदयनीयोदशमेऽहनि इति त्रयः कल्पाः सूत्रकारेणोक्ताः । त्रिष्वहःमु यथासंख्यमिति केचित् । सर्वत्र विकल्पा इत्यपरे । पशुकाल आग्नेयः । ऐकादंशिनेऽग्निष्ठ उपाकरोति ऐन्द्राग्नो वा । न खण्डः सूर्याय ब्रह्मवर्चसकामस्योपशयनिर्देशः। कृष्णमृगस्ते पशुरित्यह रहर्युपमानपक्षे अग्नीषोमीयकाल एक मिनोति । तत्तु प्रायणीये मानम् । तस्मिन्नेव मिमीते | आग्नेयमुपाकरोति तस्य दक्षिणत उपशयनिर्देशश्च । श्वोभूते सारस्वतंमुपाकरोति इत्यादि द्वितीयेऽहि मिनोति । पश्चर्थत्वाचूपस्य पशुक्रमः प्रधानत्वादक्षिणतोऽपवगंता यूपानां नोदगपर्वगता । सारस्वतस्य यूपस्य, दक्षिणत उपशयः स्थाप्यते सारस्वतमुपाकृत्योपशयनिर्देशः । एवमहन्यहन्युत्तरोत्तरः पशुः । यूपैकादशिन्यां पूर्ववत् ॥७॥

पूर्वस्मिन्नहन्युत्तरस्मा अह्ने यज्ञायज्ञीयं प्रति वसतीवरीर्गृह्णाति॥८॥

दक्षिणाकाले यज्ञायज्ञीयं काले वर्तमाने वसतीवरीः ॥ ८॥

एता अहीनसंततयो भवन्ति ॥९॥

नात्राहीनसंततयः ( स०श्री० ३६-५-५ ) इति वचनान्यायप्राप्तमेतत् | नमस्ते अस्त्विति भवत्येव ॥ ९ ॥

उतो तान्येव दीक्षितवसनानि परिधाय प्रचरेयुः ॥१६.५.१०॥

कृष्णविषाणं प्रविध्यन्ति । षोडशीहोमे कृते रात्रिपर्यायैः प्रचर्य श्वोभूते तिरोअह्रियान्तमन्त्र सल्य ( वाग् ) विसर्गः । एकादश समिष्टयजूंषि । अथ यज्ञपुच्छप्रभृति सर्वमग्निष्टोमवत् ॥ १० ॥

३७४ .... सत्यापाढविरचितं श्रौतसूत्रम्---...१६ प्रश्ने

वपनकाले सशिखानि सत्रभूते वापयन्ते ॥ ११ ॥

अनूबन्ध्यायां वपायां हुतायां वपनकाले सशिखानि शिरांसि वपन्ते मुण्डानीत्यर्थः । शिखामनुप्रवपन्ते (तै : सं०७-२-) इति श्रुतेः । अहीने तु शिखावर्जम् । ततः पात्नीवतं कर्म ततोऽग्नेर्विमोकादि ॥ ११ ॥

उदवसानीयेष्वन्यानृत्विजो वृत्वा तान्वा ज्योतिष्टोमेनाग्निष्टोमेन पृष्ठशमनीयेन सहस्रदक्षिणेन सर्ववेदसदक्षिणेन वा नाना यजेरन् ॥ १२ ॥

उदवसानीयान्तमग्निष्टोमवत् । सक्तुहोमो गृहपतेरेव शिष्टं सर्वं ( पूर्ववत् ) । सर्वेषामुदवसानीयनेष्ट्वा, एकैको यजमानोऽन्यान्षोडशर्विजो वृत्वा पृथक्पृष्ठशमनीयैर्यजेरन् । केचित्-पृष्ठशमनीयस्य सर्वनियमं नेच्छन्ति ( अनन्तरे पर्वणि ) पृष्ठशमनीयेन यक्ष्य इति संकल्पः । सहस्रदक्षिणा । तत्र नियतोभयत्र त्रैधातबीया । केचिन्नेच्छन्ति । अनन्तरे पर्वणि · सौत्रामणी मैत्रावरुणी वां । एवं सत्रात्मकस्य क्लाप्तिः समाप्ता ॥ १२॥

संतिष्ठते द्वादशाहः ॥ (ख११) ॥ १३ ॥

गतः । त्रैधात या भयन चेष्टा । केचित्तु नेच्छन्ति मनीषिणस्तत् । सौत्रामणी स्यात्तु तथा वयस्या सतिष्ठते तत्र समूढसत्रम् ॥ १३ ॥ अथ गवामयनस्य कर्मोच्यते

गवामयनेन प्रजापतिं भूमानं गच्छन्त्येषु लोकेषु प्रतितिष्ठन्ति ॥ १४ ॥

भूमान स्थानम् ॥ १४ ॥

तस्य द्वादशाहेन सत्रभूतेन कल्पो व्याख्यातः ॥ १५॥

तस्य द्वादशाहस्य गुणविशेषमवलोक्य पक्षान्तरमाह

चतुरहे पुरस्तात्पौर्णमास्यै दीक्षेरन् ॥ १६ ॥

माघपौर्णमास्याः पुरस्ताच्चतुरहे शुक्लकादश्यां दीक्षरन् । तथा सति माघकृष्णपुसम्यां द्वादशदीक्षाणां समाप्तत्वात्तदनन्त रवर्तिन्यामेकाष्टकायां सोमक्रयः संपद्यते । ननु-'चतुरहे पुरस्तात्पौर्णमास्यै दक्षिरस्तेषामेकाष्टकायां ऋयः संपद्यते । (ले० सं० ७-४-९) इति गवामयने श्रूयते । पौर्णमास्याः पूर्वस्मिंश्चतुरहे दीक्षेरन्नेकादश्यां दीक्षामारमेत । तथा सति पौर्णमास्याः उपरितने सप्तमे दिने द्वादश दीक्षाः पर्यन्ते । . तत उपरितन्यामष्टम्यां सोमक्रय इत्यर्थः । तत्र विशेषस्यादृष्टत्वाद्या काचित्पुर्णिमत्येक

. ५. पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाच्याख्यासमेतम् । . ३७५ पक्षः । 'चित्रापूर्णमासे दीक्षरन्मुखं वा एतत्संवत्सरस्य यच्चित्रापूर्णमासः, (७-४-९) इति प्रशस्यमानतया चैत्री पौर्णमासीति द्वितीयः पक्षः। याज्ञिकसमाख्यया माघकृप्णाष्टम्येकाष्टका। तत्र सोमक्रयसंपत्तये माध्याः पौर्णमास्याः पूर्वस्यामेकादश्यांदीक्षाऽऽरब्धव्या ॥ चतुर्विंशतिपरमा इष्टप्रथमयज्ञा एकाष्टकायां प्रातरग्निहोत्र हुत्वा विज्ञानमुपयन्ति, ( अहां विधान्यामेकाष्टकायाम् (तै० सं० ३-३-८) इत्यादीनामहां विधान्यामेकाटकायां सा संवत्सरसत्रस्याहनां विधात्री तस्यां दीक्षा । एकाष्टकायां प्रातःकाले चतुःशरावपरिमितेन पिष्टेन निर्मितमपुपं पक्त्वाऽपूपमादायोल्मुकं चाऽऽदाय कक्षेऽपूपं निधायोल्मुकेन कक्षं दहेत् । यदि दहति पुण्यसमं भवति निरुपद्भवः संवत्सरं भवति । यदि न दहति पापसममक्षादिभिः पीडाकरो भवति । एवं विज्ञानमुपयन्ति । ) एवं विज्ञानं कृत्वा गवामयनस्याऽऽरम्भः । साग्निचित्यो गवामयनो नाचिकेतयुक्तो वा यत्र वा भूयिष्ठा आहुतयो हूयेरन्, इति । अस्मिन् गवामयने न भूयिष्ठा ग्रहा गृह्यन्त इति वचनात् । नाचिकेतपक्षेऽपि तस्यामेव दीक्षा । एकाष्टकायां दीक्षरन्नित्यापस्तम्बोऽप्याह । अस्यामेकाष्टकायां विज्ञानं कृत्वा गवामयनेन साग्निपित्येन यक्ष्यामहे स्वर्गार्थमिति संकल्पः । प्राजापत्यादयो वा फलं सर्वकामार्थो वाऽऽश्वलायनमतात् । 'अथ गवामयनं सर्वकाम इति । सर्व सत्रभूतद्वादशाहवत् । अस्मिन् (पक्षे) उखासभरणं पर्वणि पशुबन्धो (वायव्यः) पञ्च पशवो वा ।। १६ ॥

माघ्याश्चैत्र्या वा ॥ १७ ॥

चैत्र्याः पौर्णास्याः पूर्वस्यामेकादश्यामग्निवद्दीक्षणीया। एवं द्वादश दीक्षाः ॥१७॥

आगामिन्यामष्टम्यां प्रायणीया तत्राऽऽह

प्रायणीयोऽतिरात्रश्चतुर्विꣳश उक्थ्य आरम्भणीयस्त्रिवृद्वा ते शये द्वे अहनी भवतः । ज्योतिरग्निष्टोमो रथंतरसामा गौरुक्थ्यो बृहत्सामा आयुरुक्थ्यो रथंतरसामा गौरुक्थ्यो बृहत्सामाऽऽयुरुक्थ्यो रथंतरसामा ज्योतिरग्निष्टोमो बृहत्सामेति ॥ १८॥

अष्टम्यां प्रायणीयया प्रचर्य सोमक्रयादि । चैत्रपक्षमाश्रित्य प्रयोग:- आगामिन्यां चतुर्थ्यामग्नीषोमीयः । तस्मिन्नेकादश यूपान्मिन्वन्ति रात्री परिस्तरणान्तं श्वोभते महारात्रे बुद्ध्वाऽग्ने नयेत्यादि द्वादशाहवत् । प्रायणीयमतिरात्रमुपयन्ति । अत्रापि पृश्निप्राणग्रहादयो नामधेयात्केचिन्नेच्छन्ति । ऐन्द्रवायवाग्रः । पशुकाल ऐकादशिनानां विकृतीनामेक आग्नेयो वा।

३७६ . सत्याषाढविरचितं श्रौतसूत्रम्- [१६ प्रश्ने.."

श्वोभूते तिरोहियान्तं द्वादशाहवत्संततयः । द्वादशाहस्य द्वितीयवत् चतुर्विंशति मुक्थ्यमारम्भणीय एवास्तीर्यानतिग्राह्यः शुक्रामः । पशुकाले सारस्वती मेषीम् । पत्नी'संयाजान्तम् । एतस्मिन्नहनि शय(सत्र) संज्ञके पूर्ववदहीनसंततयः ॥ १८ ॥

अभिप्लवः षडहः ॥ १९ ॥

उपयन्तीति शेषः ॥ १९ ॥

एवं विहिताश्चत्वारोऽभिप्लवाः ॥ १६.५.२० ॥

तेषामभिप्लवानां ज्योतिष्टोमोऽग्निष्टोम रथंतरसामानमुपयन्ति । आग्रयणानः । पशुकाले बभ्रुः सौम्यः । एवं व्यनीका परिवर्ततेऽविषुवतः ॥ १ ॥ गोरुक्थ्यो बृहत्पृष्ठः । न त्वतिग्राह्याः । पशुकाले पौष्णः श्मामः ॥ २ ॥ आयुषमुवथ्यं रथंतरसामानं ना त्वतिमाह्याः । पशुकाले शितिपृष्ठो वार्हस्पत्यः ॥ ३ ॥ गौरुक्थ्यो बृहत्पृष्ठः । पशुकाले शिल्पो वैश्वदेवः ॥ ४ ॥ अथाऽऽयुरुक्थ्यः पशुकाल ऐन्द्रोऽरुणः ॥५॥ `अथ ज्योतिष्टोममग्निष्टोमं बृहत्सामानमुपयन्ति । पशुकाले मारुतः कल्माषः ॥ ६॥ एतानि पत्नीसयाजान्तानि । एवंप्रकारांश्चतुरोऽभिप्लवानुपयन्ति । ऐकादशिनं शिष्टाः ॥ २० ॥

पृष्ठ्यः षडहः समासः ॥ २१॥

ऐकादशिनानाम् ॥ २१ ॥

सद्वितीयः सतृतीयः सचतुर्थः सपञ्चमः संभार्यः षष्ठः ॥ २२ ॥

एवं विहितान्पञ्च मासानुपयन्ति । ततः संभार्य इत्यापस्तम्बः ॥ २२ ॥

त्रयोऽभिप्लवाः ।। २३ ॥

अभिप्लव ऐकादशिनानां द्वादशाहवदावृत्तिः ॥ २३ ॥

पृष्ठयः षडहः ॥ २४ ॥

द्वादशाह उच्यत्त इति शेषः । उत्तरत्रयाहे पूर्वत्रयाहे वाऽतिमाह्या आग्नेयाद्याः । एवम(व)संपत्ति(न)पृष्ठ्यषडहान्ते मध्वशनादयः ॥ २४ ॥

अभिजित्त्रयः स्वरसामान उक्थ्या अग्निष्टोमा वा ॥ २५ ॥

एवं विहितान्पञ्च मासानुपयन्ति । ततोऽनन्तरमस्य संमार्य पृष्ठ्यं मासमुपयन्ति । त्रीनभिप्लवानथ पृष्ठ्यषडहमभिजितमग्निष्टोमं त्रीन्साम्नोक्थ्यानग्निष्टोमान्वा ॥ २६॥

परे द्वे शये अहनी ।। २६ ॥

परे द्वे शये अहनी इति । अतिरात्रश्चतुर्षु अंशेषु पूर्व एव प्रयुज्यते ॥ २६ ॥

इति षण्मासाः ॥ २७॥

षण्मासा गण्यन्ते । अत्र गणनामात्रमेवं षण्मासाः परःसामसूक्थ्यानग्निष्टोमविनिवेशनवाहकारिण एकविंशत्यह इति च्छन्दोगविशेषः । नवाहकारिणोऽग्निष्टोमा एकवि

५ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । ३७७

शत्यहकारिणीरुक्थ्याः । परःसामसु पुनश्च विशेषः----अतिग्राह्येषु प्रथमेऽहनि उपयामगृहीतोऽस्यौषधीभ्यो जुष्टं गृहणामीति एकमेवाऽऽग्नेयविकारः । ओषधयः पार्थिव इति एष ते योनिरन्यस्त्वौषधीम्य आप ओषधयस्तेजोऽसीत्येवं यूयं देवेषु भूयास्तेजस्वन्तं मामायुष्मन्तं वर्चस्वन्तं मनुप्येषु कुरुत दीक्षाय च त्वेत्यादि । तेजोविंदसीति प्रकृतिवत्। मयि मेघां मयि प्रजा मय्याप ओषधयस्तेजो दधात्विति भक्षणम् । द्वितीये परःसामनि ओषधीभ्यस्त्वा प्रजाभ्यो गृह्णामीति । ता अप्याग्नेयाविकाराः । एष ते योनिरोषधीभ्यस्त्वा प्रजाभ्य ओषधयः प्रजास्तेजस्विन्य अयं देववित्यादि मनुष्येषु कुरुत दक्षिायै च त्वेत्यादि पूर्ववदनुमन्त्रणं च । मयि मेधां मयि प्रजा मय्योषधयः प्रजास्तेजो दधात्विति भक्षणम् । तृतीये परःसामनि प्रजाभ्यस्त्वा प्रजापतये जुष्टं गृह्णाम्येष ते योनिः प्रजाभ्यस्त्वा प्रजापतय इत्याग्नेयविकार एक एव । प्रजापते तेजस्विन्यस्तेजस्विन्यो यूयं देवेषु भूयास्त मनुष्येषु कुरुत दीक्षायै च त्वेत्यादि पूर्ववदनुमन्त्रणं च । मयि मेधां मयि प्रजां प्रजापतिस्तेनो दधात्विति भक्षणम् । अन्ते अहीनसंततयः ॥ २७ ॥

मध्ये विषूवानेकविꣳशोऽग्निष्टोमो महादिवाकीर्त्यः ॥ २८ ॥

ततो विषुवन्तमुपयन्ति । एकवि शमग्निष्टोमं दिवाकीय॑सामानम् । अग्ने नयेत्यादिसौमिकपात्रप्रयोगकालेऽष्टावतिग्राह्यपात्राणि प्रयुनक्ति ॥ २८ ॥ "

आदित्यव्रतं वा (सामानम् ) ॥ २९ ॥

उपयन्तीत्यर्थः ॥ २९॥

सामोदित आदित्ये प्रातरनुवाकमुपाकरोति ॥ १६.५.३० ॥

गतः ॥ ३० ॥

दिवाकीर्त्यमेतदहर्भवति ॥ ३१॥ आवृत्त उत्तरः पक्षस्त्रयः स्वरसामानः॥ ३२ ॥

पूर्वपदार्थानां पूर्वमेवानुष्ठानमिति न्यायात् । अग्ने नयेत्यादित एवेति शुक्रायं गृह्णाति । यदि जगत्सामा विषुवान्दिवाकीय॑सामेत्यर्थः । तदाऽऽप्रयणामः, अतिग्राह्यकाल ऊ/नावृत्तांश्च गृह्णाति । तत्रैव प्रयोगः-उपयामगृहीतोऽस्यद्भयस्त्वौषधीम्यो जुष्टं गृह्णामीति । उपयामगृहीतोऽस्यौष वीभ्यस्त्वा प्रजाभ्यो गृह्णामीति । उपयामगृहीतोऽसि प्रजाभ्यस्त्वा प्रजापतये गृह्णामीति ऊन्वान्गृहीत्वा सौ गृह्णाति-उदु त्यमित्यूचमुक्त्वा, उपयामगृहीतोऽसि सूर्याय त्वा भ्राजस्वत इत्येवं सादनम् । तत आवृत्तान्गृह्णाति । उपयाम प्रजाभ्यस्त्वा० उपयाम० ओषधीभ्यस्त्वा० प्रजाभ्यस्त्वा प्रजाभ्यः। उपयाम अभ्यस्त्वौषधीम्य इत्यादि पूर्ववत् । गृह्णामीत्यादयः(दिभिः) सादनं च । ततो वैश्वकर्माणं गृह्णाति-वाचस्पति विश्वकर्माणमित्यूचमुक्त्वोपयाम० विश्वकर्मणे स्वा. ओजस्वते ४८

३७८ सत्याषाढविरचितं श्रौतसूत्रम्- १६ प्रश्ने

जुष्टं गृह्णामीति ऐन्द्रवदेष ते योनिर्विश्वकर्मणे त्वौजस्वते । पशुकाले शितिपृष्ठं बाहस्पत्यमुपाकरोति । ततः सौ(सू )र्यमुपालम्भं करोति सूर्याय त्वा जुष्टमुपाकरोमीति सौर्य विषुवत्युपालभ्यमुपाकरोतीति वचनात् । द्विवचनेनोहः सर्वत्र । अतिग्राह्यकाल ऊर्ध्वान पूर्ववदुक्त्वाऽनुमन्त्रणं कृत्वा (ततः) सौर्य प्रतिवर्तत आवृत्तात्ततो वैश्वकर्माणं विश्व. कर्मन्नोजस्विन्नोजस्वि(स्वी) त्वं देवेषु भूया इति । ऐन्द्रवदोजोविदासि माय मेधा मयि प्रजां मयि विश्वकर्मेन्द्रियं दधातु । एवं पत्नसिंयाजान्तमहः सतिष्ठते । अहीनसंततयः । त्रीनक्सि(सो,मान् , उपयाम० उक्थ्यानग्निष्टोमान्वा प्रथमेऽहन्यतिग्राह्यकाल उपयाम० प्रजाभ्यस्त्वा प्रजापतय इत्येकः । एवं द्वितीयेऽहनि उपयाम० अद्भयस्त्वोषधीभ्य इत्यक्सिोमयुत्तेषु प्रथम आग्रयणानः । द्वितीयः शुक्रायः । तृतीय ऐन्द्रवायवानः । तेष्वहीनसंततयः ॥ ३१ ॥ ३२ ॥

विश्वजित् ॥ ३३ ॥

अग्निष्टोममुपयन्तीत्यापस्तम्बः । ऐन्द्रवायवाग्रः, आवृत्त्यभावात् । आदित्यग्रहगृह्यकाले-आदित्यमेकमेव गृह्णाति । अदितिदेवत्यः । विश्वजित्सर्बपृष्ठोऽपि एकमेवाऽऽदित्यमुद्गृह्णाति । महीमू षु मातरमित्युक्त्वा, उपयाम आदित्यै(त्याय) त्वोजस्विन एप ते योनिरदित्यै त्वौजस्विन्यै अदित्य (आदित्य) ओजस्विन्नोजस्वी त्वं देवेषु नाऽsबैन्द्रवत् । मयि मेधां मयि प्रजां मय्यायुरिति, इन्द्रियं दधातु पत्नसिंयाजान्तमहीनसंततयः ॥ ३३ ॥

चत्वारि शयानि । त्रयस्त्रिꣳशारम्भणः षष्ठ्यः षडहः ॥ ३४ ॥

तानि चत्वारि शयान्यहानि सप्तमे मासि गोसवम् । अथाऽऽवृत्तं पृष्ठ्यषडहमुपयन्ति । त्रयस्त्रिशारम्भणमाग्रयणायः । अस्मिन्नहानि वैश्वकर्माणमतिग्राह्यमेव गृह्णाति विश्वजित्नभत्यादित्यवैश्वकर्मणोर्विपर्यासनैकस्मिन्नादित्य एकस्मिन्वैश्वकर्मण एवं व्यत्यासेन महाव्रताद्गृह्णाति एकैकमेव नतु षडहं प्रयुनक्ति । अथ द्वितन्त्रमेव शुक्राग्रमथैकविशषोडशी गृह्यते । एन्द्रवायवाग्रमथ सप्तदशमाग्रयणाममथ पञ्चदशशुक्राग्रमथ त्रिवृत्त. मैन्द्रवायवाग्रमेवं षडह आवृत्तः। आवृत्तेष्वेकमनीका उत्तरेषु षडहान्ते मध्वशनादयः ॥ ३४ ॥

चत्वारोऽभिप्लवाः प्रत्यञ्चः स मासः ॥ ३५ ॥

त्रयस्त्रिंशान्त एवमावृत्तः पृष्ठ्याहः षाहमुपेत्य चत्वारोऽभिप्लवाश्च स मासः संपद्यते । स एको मासः ।। ३५ ॥

६ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम्। ३७९

सद्वितीयः सतृतीयः सचतुर्थः सपञ्चमः ।। ३६ ॥

एवं विहितानुपयन्ति ॥ ३६॥

संभार्य उत्तमो द्वावभिप्लवौ ॥ ३७॥

ततः संभार्यः । विषममासे द्वावभिप्लवी, एवमन्ताऽऽवृत्ता व्यनीका अक्सिामप्रति विश्वजिद्वर्ड विश्वजिदैन्द्रवायवानः । गतमन्यत् ।। ३७ ।।

गौश्चाऽऽयुश्च द्वे अहनी ॥ ३८ ॥

गवायुषी । गोशुक्रायः । आयुराग्रयणानः । अथवा पृष्ठ्याहः षडह उक्थ्यमैन्द्रवायवाग्रः । शुक्राने रथंतरपृष्ठ इति विश्वकर्म च गोआ(गवा युषि(पी) प्रयुज्याग्रता वा ॥ ३८ ॥

द्वादशाहस्य द्वादशाहानि ॥ ३९ ॥

द्वादशाहान्यूर्वानि ॥ ३९॥

महाव्रतमुदयनीयश्चातिरात्र इति ।। (ख-१२) ॥ ४०॥

इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्ने पञ्चमः पटलः ।

समूढवन्महाव्रतोदयनीयौ शये चतुर्मिरहोमिः सह मासः । द्वादशाहस्य प्रथम ऐन्द्रवायवाग्रो द्वितीयः शुक्राग्रस्तृतीय आग्रयणायः । एवं पार्रवर्तते । दशम ऐन्द्रवायवानो द्वादशाहाहीनस्य दशरात्रस्य यः सप्तदश उक्थ्यस्य द्वात्रिंशदेकादशिन्यः पारसमाप्ताः | नवान्यहान्यतिरिच्यन्ते । तेप्वतिरिक्ताः पशव आलभ्यन्ते । गन्यं वैष्णव वामनमेकविंशगोपशुरैन्द्रामम् । तृणवे वैश्वदेवं त्रयस्त्रिशत् द्यावापृथिवी ( भ्यां )धेनुम् । तस्या एव वत्सं वा छन्दोगमतिः, गोपशुरदितिदेवत्यो मैत्रावरुणस्यापिवैन्द्रवायवाग्रः । प्राजापत्यमृषभं तूपरं महाव्रते शुक्रानः । आग्नेयमृषभमुदयनीयेऽतिरात्र आग्रयणायः ॥ ४० ॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोगचन्द्रिकायां षोडशप्रश्ने पञ्चमः पटलः ॥

16.6 अथ षोडशप्रश्ने षष्ठः पटलः ।।

द्वादशमासाः शाट्यायनकम् ॥ १ ॥ अथ वाक्ये कृते श्वोभूते महाराने बुद्ध्वा महानतमुपयन्तीत्यर्थः । प्रजापतेराराधनाथ महाव्रतम् । अग्ने नयेत्यादिसौमिकपात्रप्रयोगः । सप्तत्रिंशदतिग्राह्यपात्राणि प्रयु 1

िरचितं श्रौतसूत्रम्-.. [१६ प्रश्ने

-- नक्ति । उशा( दशाऽऽ )ग्नेयानिति द्वयेन दशैन्द्रानरी( नि ति द्वयेन वैश्वकर्मणादित्यो चै द्रस्थान इति द्वयेन ततः पञ्च रा( पा )त्राणि प्रवदन्ति । प्रतिदिशमेकैकं मध्य एकम् । ततो दश सौर्यानिति द्वयेनैवं सप्तत्रिंशमु( दु )पकत्रग्रमेतदहः प्रकृतिवदाग्नेयान्दश गृह्णाति । प्रकृतिवत्सादनमिति द्वयेन दशैन्द्रान् गृह्णाति । प्रकृतिवत्सादनं वैश्वकर्मणादित्यौ समुच्चरेन तावुभौ सह महाव्रते गृह्यते इति श्रुतेः । पञ्च पात्राण्येन्द्रस्थाने सादितानि प्रतिदिशमेकैक मेकं मध्ये । तस्मात्सप्तदशैन्द्राणि भवन्ति । वैश्वकर्मणादित्यौ गृहीत्वा पञ्चपात्रेषु गृ( अ )हणं पूर्वार्धे पात्रम्-इन्द्रमिदाथिनो बृहदिति पुरोवाच. मुक्त्वा -उपयामगृहीतोऽसीन्द्राय त्वाऽऽदिल्ट वते जुष्टं गृह्णामीति गृहीत्वा एष ते योनिरिन्द्राय त्वाऽऽदित्यवत इति सादनमेवं सर्वत्र ग्रहणं सादनेषु पञ्चस्वपि, इन्द्राय त्वोक्था युव इति । अभि त्वा शूर नोनुम इति दक्षिणार्धस्य पुरोगिति पश्चार्धस्य त्वामिद्धि हवामह इति । उत्तरार्धस्य तदिदास भुवनेषु ज्येष्ठमिति मध्यमभूतस्य । एवं सादितान् पञ्चाप्यन्यस्मिन् पात्रे सवनीय क्षिप्त्वा सर्वमध्यमे पाने गृह्णाति त्वे ऋतुमा वृञ्जन्ति विश्वेत्युक्वा उपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णाम्येष ते योनिः प्रजापतये त्वेति सादनमथ सौर्यं दश गृह्णाति इति द्वयेन विरमति ॥ १ ॥

उभयतः संभार्य उत्तरः पक्षस्ताण्डकम् ॥२॥

सारस्वत्यादि । अथैकेषामुत्तरपक्षे विकल्पः ॥ २ ॥

उपरिष्टाद्विश्वजितः । पृष्ठ्यः षडहस्त्रयोऽभिप्लवा इति द्यू( द्व्यू )नो मास उत्तमे संभार्ये चत्वारोऽभिप्लवा गौश्चाऽऽयुश्च द्वे अहनी द्वादशाहस्य दशाहानि महाव्रतोदयनीभ्यां द्यू( द्व्यू )नो मासः पूर्यते । अथ ह भाल्लविके पूर्वस्मिन्पक्षे पुरस्तात्प्रथमात्पृष्ठ्यादभिजिदग्निष्टोमः । उत्तरस्मिन्पक्ष उपरिष्टादुत्तमात्पृष्ठ्याद्विश्वजितः पृष्ठ्यः षडह आयुरुक्थ्यः स एकस्थाने गौर्भवति । समानमितरच्छाट्यायनकेन । अथैकेषां विज्ञायते संवत्सरे सकृत्पृष्ठान्युपयन्ति । द्वादशाहीने दशरात्रे । तत्र पृष्ठ्यानाꣳ स्थानेऽभिप्लवाः षडहा

१. पटलः ] . महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३८१


ऊर्ध्वं द्वादशाहीयात् । दशरात्रान्महाव्रतमुपयन्ति ॥ (ख०१३)॥३॥

गतः ॥ ३॥

श्वोभूते प्रतायते पञ्चविꣳशोऽग्निष्टोमो महाव्रतसामा ॥४॥

प्रतायत आरभत उद्गातेत्यर्थः । सौर्यानासाद्य विरमति सारस्वत इत्यादिपशुकाले प्राजापत्यमृषभं तूपरमालभते । प्रजापतये त्वा जुष्टमुपाकरोमीत्यादि । अस्य महाव्रतस्य प्रचारतं मरुत्वतीयैः सह भवति ॥ ४ ॥

यत्प्राङ्माहेन्द्रात् ॥ ५॥

भवतीत्यर्थः । अग्रतो भवति ॥ ६ ॥

तस्मिन्कृते प्रतिप्रस्थाता महाव्रतशिल्पानि व्यायातयति ॥ ६॥

माहेन्द्रस्तोत्रे कृते प्रतिप्रस्थाता माहावतिकानि शिल्पानि उपकरणानि ॥ ६ ॥

दश वीणादण्डस्यातिमथितानि भवन्ति ॥ ७ ॥

उदुम्बरेण कृतस्य वीणादण्डस्यातिमथितानि भवन्ति ॥ ७ ॥

एकैकस्मिन्नतिमथिते दश दश तन्तून्प्रवयति ॥ ८॥

यदियं दण्ड इत्यादिस्थितेषु दशस्वप्यतिमाथितेषु तेषु प्रत्येकं दश दश तन्तवः प्रोताः शततन्तुः ॥ ८॥

स वाणः शततन्तुर्भवति ॥ ९॥

वाणो वीणाविशेषः ॥ ९॥

अध्यधिहोतृषदनं प्लेङ्खꣳ होत्रे प्रबध्नन्ति ॥१६.६.१०॥

प्लेखं दोलां होताऽऽरोहतीत्येव ।। १० ।।

औदुम्बरीमासन्दीमुद्गात्र उपनिदधाति ॥ ११ ॥

आसन्दीमारोहत्युद्गाता ॥ ११ ॥

कूर्चफलके अध्वर्यवे ।। १२ ॥

उपनिदधात्यनुवर्तते ॥ १२॥

होत्रका उपगातारश्च कूर्चेष्वासते ॥ १३ ॥

कूर्चेषु होत्रका उपगातार: पत्नय इत्यासते ( आप० श्रौ०. २१-१७-१५ ) इति । प्रतिगरार्थ होत्रकाणामुपगातृणां पत्नीनां च कूर्चानि कल्पयितव्यानि तेष्वासीना भवेयुरित्यर्थः । प्रतिप्रस्थाता (त्रा ) एतानि कल्पयितव्यानि ॥ १३ ॥...........:

३०२ . सत्याषाढविरचितं श्रौतसूत्रम्- [१६ प्रश्ने

कानिपुनस्तानि... :

निकल्पन्ते सर्वशिल्पानि ॥ १४ ॥

अत्राप्यापस्तम्बे विशेषः-निकल्पन्ते पत्नयोऽपाघाटलिकास्तालुकवीणाः पिच्छोलाः, इति । निकल्पन्ते बीणावादाः शङ्खा नालीस्तृणवानिति । निकल्पेते ब्रह्मचारी पुंश्चली चाण. सदसो दक्षिणं द्वार्बाहुमातिष्यमाणौ ( आप० श्री० ११-१७-१६ । १८), इति । वाद्यानि च सह वादकैः ॥ १४ ॥

तꣳ संनयति वाक्सत्यं मनो भद्रं तन्नो भद्रमा नो भद्रमिति त्रिपर्वयोत्कटशलाकया वेणुपर्वणा वेतसशाखया वा वादयित्वा बाणेन शततन्तुना माहेन्द्रस्य स्तोत्रमुपाकरोति ॥ १५॥

तं दण्डमिति गम्यते । संनयति सज्जयति । गतमन्यत् ।। १५ ॥

बर्हिषो विकारः ॥ १६ ॥

स च दण्डो बर्हिषः प्रतिनिधिरित्यर्थः । अथवा---इक्षकाण्डेन वेणुकाण्डेन वेतसकाण्डेन बाणं शततन्तुं ( वाणेन शततन्तुना ) सह्याद्याने ब(हाध्वर्युव)हिन्यां च माहे. न्द्रस्य स्तोत्रोपाकरणं करोति ॥ १६ ॥ .

तमुद्गाता वादयित्वा प्रस्तोत्रे प्रयच्छति ॥ १७॥

तमुद्गाता पुनः प्रस्तोत्रे ददाति ॥ १७ ॥

प्रस्तोताऽध्वर्यवे ॥ १८ ॥

प्रयच्छतीत्यनुवर्तते ॥ १८ ॥

तमध्वर्युरन्यस्मै ॥१९॥

वीणावादाय ॥ १९॥

तꣳ सोऽग्रेण सदसो दक्षिणे द्वार्बाहौ प्रतिवादयन्नास्ते ॥ १६.६.२० ॥

तं शततन्तु मन्त्रेण सदसः पुरस्ताद्दक्षिणस्यां द्वारस्थूणायां प्रतिवादयस्तिष्ठति ॥ २०॥

उपगायन्ति पत्न्योऽपाघाटलिकास्तालुकवीणाः काण्डवीणाः पिच्छोला अलाबुकपिशीर्ष्ण्य इति ॥ २१ ॥

ननु महावते श्रूयते-- पत्नय उपगायन्ति ' इति । प्रकृतौ श्रूयते - ऋत्विज उपगायन्ति ' इति । तदेतदृत्विगुपगानं पत्न्युपगानेन निवर्त्यते । ननु-प्रकृतावुद्गात्रा साम्नि गीयमाने सत्यत्विजोऽन्ये सामैवोपगायन्ति । इह तुः पत्नयो वादित्रं वादयन्तीति

६ पटलः ] महादेवशास्त्रिसंकलितपयोगचन्द्रिकाच्याख्यासमेतम् । ३८३

भिन्नविषयत्वान्नास्ति निवृत्तिः । मैवम् । गानशब्दस्य शारीरे प्रसिद्धत्वात् । तस्मादृत्विजो निवर्त्य पत्नयः सामोपगायेयुरिति प्राप्ते ब्रूमः— गानशब्दस्य नाक्षरोच्चारणमर्थः किंतु स्वराभिव्यञ्जनं तच्च शरीरेण वादित्रेण वा सिध्यति । अत एव गानतत्त्वज्ञा आहुः - दारवी गात्रवीणा च द्वे वाणे गानजातिषु' इति । तच्च गानं ग्रन्यायेनापूर्वक्रियाविधानान्न प्रकृतिलिङ्गं स्यात् । एवं तर्हि गानोपचयवाचिन उपशब्दस्य वैययमिति चेन्न । वादिनोपचयसंभवात् । अस्ति हि तत्र वादिननादः - दिक्षु दुन्दुभयो नदन्ति ' इति श्रुतेः । पत्न्युपगानं च वादिननादः । । काण्डवीणाभिरुपगायन्ति ' इति श्रुतेः । अतः सादृश्यात्संनिधानाच्च तदुपचयो युक्तः । तस्मादनिवृत्तेरुपगानयोः समुच्चयः ॥ २१ ॥

वादयन्त्यः संप्रवदन्ति । सर्वशिल्पे तृतीये ॥ २२ ॥

गतः ॥ २२ ॥

पुꣳश्चलुर्ब्रह्मचारी चोत्तरस्यां वेदिश्रोण्याꣳ संवर्तेते ॥ २३ ॥

ब्रह्मचारी पुंश्चली च विकल्पेते । अग्रे सदसो दक्षिणां द्वारस्थूणां प्रतिकर्तिप्यमाणावन्योन्यमाकोशं करिष्याव इति केचित् ॥ २३ ॥

मागधः पुꣳश्चलुश्च दक्षिणस्यां वेदिश्रोण्यां परिश्रयेते ॥ २४ ॥

उत्तरस्यां वेदिश्रोण्यां पुरश्चली मागधश्च परिश्रयेते । एतौ व्याख्यातौ । एतयोमिथुनं कार्यम् ॥ २४ ॥


दुन्दुभीन्समाघ्नन्ति । दिक्षु प्रबन्धान् ॥ २५ ॥

दुन्दुभीन्समानन्ति तदानीं युगपद्ध्माययन्ति । दिक्षु दुन्दुभीन्प्रवंध्नन्ति वेद्याः स्रक्तिज्वेव ॥ २५ ॥

स्रक्तिष्वेव महावेदेः ॥ २६ ॥

स्रक्तिः कोणः ॥ २६ ॥

अपरेणाऽऽग्नीध्रमर्धमन्तवेद्यर्धं बहिर्वेदि जानुदघ्नमवटं खात्वाऽऽर्द्रेण चर्मणाऽभिवितत्य शङ्कुभिः परिणिहत्य भूमिदुन्दुभिः पुच्छकाण्डेन भूमिदुन्दुभिमाघ्नन्ति ॥ २७ ॥

अपरेणाऽऽग्नीध्रमण्डपे भूमिदुन्दुभिमवटं खनन्ति । ( मुखकोशः) अर्धमन्तवेद्यर्धे बहिदि आत्रे()णर्षभचर्मणोत्तरलोम्नाऽमिसार्य शङ्कुभिः परिणिहत्य तस्य क(च)र्मणः पुच्छकाण्डेन सह भूत(मि)माहननार्थमभिदधाति । यद्वा-भूमिदुन्दुभिमानन्ति । चर्म

२८४ - सत्याषाढविरचितं और सूत्रम्- [१६ प्रो-

णाऽऽच्छादितमुखं भूगते भूमिदुन्दुभिः पुच्छकाण्डेन ॥ २७ ॥

अपरेणाऽऽग्नीध्रꣳ शूद्रार्यौ चर्मकर्त्रे(कृते) व्यायच्छेते ॥ २८ ॥

शूद्रायौँ शूद्रश्वाऽऽर्यश्च । आर्यों ब्राह्मणो विद्वान् । शूद्रः प्रसिद्धः ॥ २८ ॥

श्वेतमार्द्रं परिमण्डलं भवति ॥ २९ ॥

प्रतिप्रस्थात्रा चर्म कर्तव्यमिति । आर्द्र श्वेत परिमण्डलाकारं परिष्कृत्य चमेंत्यर्थः ॥ २९ ॥

अन्तर्वेदि ब्राह्मणस्तिष्ठति । बहिर्वेदि शूद्रः ॥ १६.६.३० ॥

तिष्ठतीत्युभयत्रान्वयः ॥ ३० ॥

इमेऽरात्सुरिमे सभूतमक्रन्निति ब्राह्मणो ब्रूयात् ॥ इम उद्वासीकारिण इमे दुर्भूतमक्रन्निति शूद्रः ॥ ३१ ॥

यादित्युभयत्रान्वयः ॥ ३१ ॥

तं ब्राह्मणः संजित्याऽऽग्नीध्रे चर्माध्यस्यति ॥ ३२ ॥

तं शूद्रम् ॥ ३२ ॥

अग्रेणाऽऽग्नीध्रं कटसंघाते॥ (ख०१४)॥ तेज निसंघाते वा । वितत्योच्छ्रितं लम्बयति ॥३३॥

तन्निमित्तं व्ययंस्थत उभौ विद्वेषमाणौ ममेदं ममेदमिति शनार्यावुत्तरेणाऽऽशीधं कटसंघाते तेजनसंघाते वा कटबहुप्रदेशे तेजनबहुत्वे देशे वाऽऽदै चर्म व्यथनामिषुणा-. व्यययितन्यं वितत्योच्छ्यति । द्विशूलायां वपाबन्धमिव बध्नाति कटसंघाते देशे ॥ ३३ ॥

अग्रेणाऽऽहवनीयꣳ रथेषु राजपुत्राः कवचिनः संनह्य व्यथ(ध)नार्थं चर्मानु परिवर्तन्ते ॥३४॥

आहवन यस्य पुरतो रथेषु कवचिनः पुरुषाः सनह्यन्ते ॥ ३४ ॥

तेषामेकैकꣳ सꣳशास्ति ॥३५॥

तेषां राजपुत्राणाम् ॥ ३५ ॥

माऽपरात्सीर्माऽतिव्यात्सीरिति ॥ ३६॥

माऽपरात्सीलक्ष्यादन्यत्र व्यधनं मा कार्षीः । माऽतिव्यात्सीवेगमतीत्य परस्ताहाणं मा जीगम इत्याह हे वेदि(वि)न् ।। ३६ ॥

तत्ते विद्धा(द्ध्वा)नातिपातयन्ति ॥ ३७॥

राजपुत्रा विध्यन्तीत्येकेषां (२१-१९-१६)इत्यापस्तम्वः ॥ ३७ ॥

उदञ्चोऽपरिमितमवकाशं यात्वा प्रत्यायाय विमुञ्चन्ति ॥ ३८॥

बाणान् ॥ ३८ ॥

६ पटलः] महादेवशास्त्रिसंकलितमयोगचन्द्रिकान्याख्यासमेतम् । ३८५

अष्टौ दासकुमार्य उदकुम्भाञ्छीर्षन्नधि निधाय त्रिः प्रदक्षिणं मार्जालीयं धिष्णियं परिनृत्यन्तीः परियन्ति दक्षिणान्पदो निघ्नतीरिदं मधु गायन्त्यो वाग्वेदभिल्लुका सैनान्गायतु प्राणस्य वादिते सेमान्गीता यजमानानिहावत्विति ॥ ३९ ॥

मार्जालीयान्ते समीपेऽष्टौ दासकुमार्य उदकुम्भैः सह नृत्यन्तीः ॥ ३९ ॥

भिल्लुकां द्वे गायतः। वाग्वेदहिंविनीति द्वे वाग्वेदहस्तावारामिति द्वे संवत्सरगाथा द्वे एताः संवत्सरगाथा भवन्ति ॥ १६.६.४० ॥

दासीदासयोरन्योन्यमन्त्रोऽभिहितः । भिल्लुका द्वे कुमायौं गायेतां वाग्वेदहिंबिनी द्वे गायेतो वाग्वेदहस्तावारां द्वे गायेतां संवत्सरमाथा द्वे गायेताम् ।। ४० ॥

गाव एव सुरभयो गावो गुल्गुलुगन्धयः। गावो घृतस्य मातरस्ता इह सन्तु भूयसीः ॥ ननु गावो मङ्कीरस्य गङ्गाया उदकं पपुः । पपुः सरस्वतीं नदीं प्राचीश्चोज्जगाहिरे। इमा वयं प्लवामहे शम्याः प्रतरतामिव । निकीर्य तुभ्यं मध्य आकर्श्ये कर्श्यो यथा । यदा भेंङ्य्यश्विनौ वदत ऋतपर्णक योऽवधीः। आविष्कृतस्य दूषणमुभयोरकुतः कृतस्य च ॥ यदा राखाट्यौ वदतो ग्राम्यमङ्कीरदाशकौ । क्षेमे वृ(व्यृ)द्धे ग्रामेणानड्वांस्तप्यते वहन् ॥ इदं कल्माष्यो अपिपन्निदं सोमो असूयत । इदꣳ हिरण्यैः खीला आवा यन्मास्थिभञ्जनम् ॥ हैमहा इदं मधुहिल्लु हिल्ल्वहमहर्मिमीति हस्तावाराश्च सर्वास्वनुषजन्ते ॥४१॥

१क. ख. मकिरन्तस्य । २ क. ख. प्राची चोज्ज । ३ क. ख. 'कश्योक' । ४ ख. कश्यों य।५क. खभङ्गेऽश्वि" । ६ क ख. ऋतुप । ७ क. "पर्थक । ८ के.ख. "स्य । य ९क. ख. रागान्धौ । १. क. ख. "मकीलदा ।११ क, ख, "दासको। १२ के. ख. 'दं काल्मष्यो। १३ क. ख."पि ध्वनि। १४ क, ख, "रण्यखेला। १५ क, ख. "ला अवा। १६क, यत्साक्षि भ । ख. "यन्सा1१७ क. ख. मधविदं हि ।१८ क. ख. हिल्लिह ।

३८६ . सत्यापाढविरचितं श्रौतसूत्रम्- [१६ प्रश्चे

सर्वासामृचामन्त एतत्सामानं संवत्सरगाथानां पण्णामपि ॥ ४१ ॥

तत्रैवोदकुम्भानुपनिनीय यथार्थं गच्छन्ति ॥ ४२ ॥

तत्रास्मिन्काले स्तोत्रे समाप्ते दासकुमार्य उदकुम्भानुपनिनीय यत्र यत्र साम तत्र तत्र गच्छन्ति ॥ ४२ ॥

माहेन्द्रस्तोत्रमनुघोषाः शाम्यन्ति ॥ ४३ ॥

स्तोत्रे समाप्ते घोषा अपि शाम्यन्ति वणिादयः ( दीनाम् ) ॥ ४३ ॥

स्तुतमनुशाम्य(शस्य)ते ॥ ४४ ॥

स्पष्टम् ॥ ४४ ॥

कूर्चयोः फलकयोर्वा तिष्ठन्नध्वर्युः प्रतिगृणाति ॥ ४५ ॥

अर्कः पवित्रमित्यारभ्य प्रतिष्ठामिति मन्त्र उक्तः सूत्रान्तरे । फलकारोहणमध्वयों: पश्चादसावेहीति जपः । ततोऽध्वर्युः शस्त्रं प्रतिगृणाति पूर्ववत् । ग्रहमध्वर्युरादत्त इत्यायतिमाह्या हयन्ते । दशाऽऽग्नेयान् प्रकृतिवद्दशैन्द्रान्प्रकृतिवत् । अथ वैश्वकर्मणादित्यावुक्तौ पूर्वमेव । अथ प्राजापत्यः पञ्चगृहीतं पश्चादेकपात्रस्थं जुहुयात् । प्रजापत ओजस्विन्नोजस्वि(स्वी) त्वं देवेषु इत्यायेन्द्रवत्पञ्चपक्षे युगपद्धोमः । दण्डेन बद्ध्वा कोकिली. वद्विकल्पः । आग्नेयादीनपि दण्डेन बद्ध्वा होमोऽनुमन्त्रणमपि । तन्त्रेण प्राजापत्य हुत्वा . सौर्यान्दण्डेन बद्ध्वा जुहोति । तन्त्रेणानुमन्त्रणम् । सर्वेषां पृथक् पृथक् भक्षणम् । केचिदाग्नेयान् सर्वानेकास्मन् संसृज्य मयि मेधामित्यादि । एवमैन्द्राग्नमिष्ट्वा ततो वैश्वकर्मगादित्यौ क्रमेण प्राजापत्यम् । पञ्चपक्षे भेदेन । इतरथा (सकृत्पक्षे) भदोहीत्यादि नृचक्षसं त्वेत्यवेक्ष्य भक्षयामीति भक्षणम् । अथ सौर्याणां भक्षणं भेदेनैवाथोक्थ्य इत्यादि तन्त्रं प्रकृतिवत् ॥ ४५ ॥

संतिष्ठते महाव्रतम् ॥ (ख० १५)॥ ४६ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्ने षष्ठः पटलः।

पत्नीसंथानान्तमहः संतिष्ठते । संस्थितेऽहनि ब्रह्मा वाचमित्यापस्तम्बीये विशेषः । संतिटते महाव्रतमहीनसंततय उक्ताः ॥ ४६॥ इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोग. चन्द्रिकायां पोडशप्रश्ने षष्ठः पटलः ।


16.7 अथ षोडशप्रश्ने सप्तमः पटलः ।

श्वोभूत उदयनीयः स व्याख्यातः ॥ १ ॥

श्वोभते महाराने बुद्ध्वोदयनीयातिरानः स व्याख्यातः ॥ १ ॥

७ पटला ] - महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३८७

यः प्रायणीयः स उदयनीयः ॥२॥

विधिर्भवति ॥ २॥

त्रिषु परःसामसु त्रीनतिग्राह्यान्गृह्णाति ॥ ३ ॥

वक्ष्यमाणेषु त्रिषु अह.सु ॥ ३ ॥

उपयामगृहीतोऽस्यद्भ्यस्त्वौषधीभ्यो जुष्टं गृह्णामीति प्रथमेऽहनि गृह्णाति । उपयामगृहीतोऽस्योषधीभ्यस्त्वा प्रजाभ्यो जुष्टं गृह्णामीति द्वितीय उपयामगृहीतोऽसि प्रजाभ्यस्त्वा प्रजापतये जुष्टं गृह्णामीत्येतानेवाऽऽवृत्तानर्वाक्सामसु गृह्णीयात् ॥४॥

स्पष्टम् ॥ ४ ॥

तानुभयानूर्ध्वानप्रवृत्तांश्च विषुवत्युदु त्यं जातवेदसमिति तेषां मध्ये सौर्यꣳ सप्तमं मध्यमं गृह्णाति ॥५॥ तानुभयानूर्ध्वानप्रवृत्तांश्च विषुवत्युदु त्यं जातवेदसमिति तेषां मध्ये सौर्यꣳ सप्तमं मध्यमं गृह्णाति ॥५॥ वाचस्पतिं विश्वकर्माणमूतय इति विश्वजिति वैश्वकर्माणम् । महीमू षु मातरमित्यपरेद्युरादित्यं ते च व्यत्यासमा महाव्रतात्तावुभौ सह महाव्रते गृह्येते ॥६॥ त्रयस्त्रिꣳशदेतदहरतिग्राह्या गृह्यन्ते ॥ ७ ॥ प्राकृतैर्वा वैकृतान्यभ्य स्येत् । वैकृतैर्वा प्राकृतान्दशाऽऽग्नेयान्गृह्णीयात् ॥ ८॥ दशैन्द्रान्दश सौर्यान्वैश्वकर्मणादित्यग्रहौ प्राजापत्यं च ॥ ९ ॥ पञ्चपात्रमतिग्राह्यायतने प्रतिदिशं चत्वारि पात्राणि निहितानि भवन्ति ॥ १६.७.१० ॥ मध्ये पञ्चमम् ॥ ११ ॥ इन्द्रमिद्गाथिन इत्यनुद्रुत्योपयामगृहीतोऽसीन्द्राय त्वाऽर्कवते जुष्टं गृह्णामीति पूर्वार्धे गृह्णाति । एष ते योनिरिन्द्राय त्वाऽर्कवत इति सादयति॥१२॥ समानौ सर्वत्र ग्रहणसादनौ ॥ १३ ॥ अभि त्वा शूर नोनुम इति दक्षिणार्धे । त्वामिद्धि हवामह इति पश्चार्धे ॥१४॥ इमा नु कं भुवना सीषधेमेत्युत्तरार्धे ॥ (ख०१६)॥ तदिदासु(स)भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेष नृम्णः । सद्यो जज्ञानो

सत्याषाढविरचितं श्रौतसूत्रम् [१६.प्रभे

निरिणाति शत्रूननु यं विश्वे मदन्त्यूमा इति मध्यमे ॥१५॥तानेकस्मिन्पात्रे समवनीय त्वे क्रतुमपि वृञ्जन्ति विश्व इत्यनुद्रुत्योपयामगृहीतोऽसि प्रजापतये त्वा जुष्टं गृह्णामीति मध्यमे पात्रे गृह्णात्येष ते योनिः प्रजापतये त्वेति सादयति ॥१६॥ यन्नाना जुहुयादात्मनोऽङ्गानि विच्छिन्द्यात् । समानीयाऽऽहुतीः सꣳरुन्ध्यात्तदनु यजमानाः सꣳरुन्धेरन् । स्तोका एवाऽऽत्मानं प्रत्यानीय होतव्याः प्रत्यङ्गानि दधति नाऽऽहुतीः सꣳरुणद्धि (इति) हुत्वा हरति भक्षम् ॥ १७ ॥ तं भक्षयति महस्ते भक्षयामि गर्भं ते भक्षयामि (भुजं ते भक्षयामि) भुक्तिस्ते भक्षयामि सर्वं ते भक्षयामि सर्वस्याऽsप्त्यै सर्वस्यावरुद्ध्या इति ॥ १८ ॥

पृश्निप्राणग्रहादयः । त (अ) त्र कृष्णविषाणाप्रासनमत्र सख्या(सख्य)विसर्गः । न त्वहीनसंततयः । श्वोभूतेऽतिरोहियान्तं यज्ञपुच्छादि सत्रभूतद्वादशाहवत् । अथानूबन्ध्यायां वपायां हुतायां सशिखानि वपन्ते । उदवसानीयान्तं कृत्वा पृष्ठशमनीयैः पृथक् पृथक् सौत्रामणी च ।। ५-१८॥

त्र्यनीकां व्याख्यास्यामः ॥१९॥

गतम् ॥ १९ ॥

तेषां प्राकृतैरतिग्राह्यैः कल्पो व्याख्यातः ॥ १६.७.२० ॥

तेषां व्यनीकानाम् ॥ २० ॥

ऐन्द्रवायवाग्रं प्रथममहरथ शुक्राग्रमथाऽऽग्रयणाग्रम् ॥ २१ ॥ एवं त्र्यनीकाः परिवर्तन्त इत ऊर्ध्वं प्राग्विषुवत ऊर्ध्वं विषुवत आवृत्तावृत्तेषु ॥२२॥

गवामयनमभिप्लवेषु षडहसामान्यात्पृष्ठ्यः षडवत् । पूर्वमिस्त्र्यह उत्तरे वा ( पूर्व- - स्मिन् ) पक्षे तथैवातिग्राह्या भवेयुः, इति । ज्योतिर्गौरायुरिति नामधेयानीति केचिन्याचक्षते । संतिष्ठते गवामयनम् । द्वादशाहेऽहीने काठकप्राप्तिः सर्वाल्लोकानहीनेनाथो सत्रेणेति वचनात् ॥ २१ ॥ २२ ॥

८ पटलः ] महादेवशास्त्रिसंकलितमयोगचन्द्रिकाव्याख्यासमेतम् । ३८९.

शुक्राग्रो विषुवानित्यात्रेयः । यथादृष्टमिति बादरायणः ॥ (ख० १७) ॥ २३ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्ने सप्तमः पटलः ।।

गतम् ॥ २३॥

इति सत्याषाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां प्रयोग चन्द्रिकायां षोडशप्रश्ने सप्तमः पटलः ।

16.8 अथ षोडशप्रश्नेऽष्टमः पटलः

अथ पशुक्लृप्तिः ॥ १॥

वक्ष्यत इति शेषः ॥ १॥

आग्नेयं प्रायणीयेऽतिरात्र आलभन्ते । श्वोभूते सारस्वतीं मेषीम् ॥२॥

आलभन्त इत्युभयत्रान्वयः ॥ २॥

एवं विहितानैकादशिनानन्वहमालभन्ते ॥ ३॥

अन्वहं सद्यः ॥ ३ ॥

समित्य समित्य पुनः पुनरेकादशिनीमभ्यावर्तयन्ति ॥ ४ ॥

सौर्य विषुवत्युपालम्म्यमित्यापस्तम्बसूत्रम् ॥ ४ ॥

तेषामेवमुपाकुर्वतां द्वादशाहस्य सप्तदश उक्थ्ये द्वात्रिꣳशतमेकादशिन्योऽपवृज्यन्ते ॥ ५॥

तेष्वेवाऽऽल भन्ते ॥१॥

नवाहान्यतिरिच्यन्ते ॥ ६॥

नवस्वहःसु ॥ ६ ॥

तेषु गव्यानतिरिक्तपशून् ॥ ७॥

आलभन्त इति शेषः ॥ ७॥

वैष्णवं वामनमेकविꣳशे । ऐन्द्राग्नं त्रिणवे । वैश्वदेवं त्रयस्त्रिꣳशे । द्यावापृथिव्यां धेनुं प्रथमे छन्दोमे । तस्या एव वायव्यं वत्सं मध्यमे ।

३१ .. सल्यापादविरचितं श्रौतसूत्रम्-... [ १६ प्रश्ने

आदित्यामविवशामुत्तमे मैत्रावरुणीमविवाक्ये । प्राजापत्यमृषभं तूपरं महाव्रते । आग्नेयमुदयनीय । इति पालिङ्गायनिकान् ॥ ८ ॥

गतः ॥८॥

अथ काठका ऐकादशिनान्प्रतिविभज्याप्रतिविभज्य वा प्रायणीयोदयनीययोरालभन्ते ॥ ९॥

काठका इति बहुवचनं पूजार्थम् ॥ ९॥

आग्नेयमन्तर्धौ रथंतरपृष्ठेष्वैन्द्रं बृहत्पृष्ठेषु ॥ १६.८.१० ॥

रथंतरपृष्ठेष्वाग्नेयं बृहत्पृष्ठेष्वैन्द्रमिति वैखानससूत्रम् ॥ १० ॥

अपिवाऽऽग्नेन्द्र( यं )रथंतरपृष्ठेष्वैन्द्राग्नं बृहत्पृष्ठेषु ॥ ११ ॥

अपि वेति शाखान्तरमतद्योतनार्थम् ॥ ११॥

सौर्यं विषुवत्युपालभन्तेऽथ गव्यानतिरिक्तपशून् ॥ १२ ॥

तेष्वेव नवसु गव्यान् ॥ १२ ॥

शितिपृष्ठं बार्हस्पत्यं त्रयस्त्रिꣳशे । द्यावापृथिव्यां धेनुं प्रथमे छन्दीमे । तस्या एव वत्सं वायव्यं मध्यमे । वाचे पृश्निमुत्तमे । मैत्रावरुणमविवाक्ये। वैश्वकर्मणमृषभं तूपरं महाव्रत इति वाजसनेयकम् ॥ १३ ॥

सर्वत्राऽऽलमन्त इत्यन्वयः ॥ १३॥

आग्नेयमग्निष्टोम आलभन्ते । ऐन्द्राग्नमुक्थ्ये द्वितीयमैन्द्रं वृष्णिꣳ षोडशिनि तृतीयꣳ सारस्वतीं मेषीमतिरात्रे चतुर्थीमित्येकेषां ते यदि प्रभवः पशवः स्युरेवमेवाहरहरालभेरन् ॥ १४ ॥

स्पष्टोऽर्थः ॥ १४ ॥

यदि पश्वेकादशिन्येयुराग्नेयमेव प्रथमेऽहन्नालभेरन्नथेतराननूचो यथापूर्वं वारुणं पेत्त्वमुत्तमं यूनमपर्यवे तेष्वाग्नेयमेव प्रथमेऽहन्नालभेरन्नथेतराननृचो यथापूर्वं वारुणं पेत्वमुत्तमं तैरेव विपर्यासमीयुः ॥ (ख० १८) ॥ १५ ॥

८ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकाव्याख्यासमेतम् । ३९१

ऐन्द्राग्नं वा सर्वत्र ( २१-२३-१४ ) इत्यापस्तम्बः । तुपशूनेव समभ्युञ्चयव. दन्वहमालभेरन्यदि विभवः पशवः स्युः । ऐकादशिनान्वा विहृतानिति वाजसनेयकम् (भ. श्री० २१-२३) इति भरद्वाजः । गतमन्यत् ।। १५ ॥ अथोत्सर्गिणामयनस्य कर्मोच्यते

उत्सर्गिणामयनं व्याख्यास्यामः ॥ १६॥

उत्सर्गिणामयनमिति कर्मनामधेयम् ॥ १६ ॥

गवामयनेन व्याख्यातम् ॥ १७॥

गवामयनमेव गुणविकृतं. दाक्षायणयज्ञवत् । गवामयनोत्सर्गिणामयनेन यक्ष्यामहे प्रजापतिमवाप्नवानीत्यादि गवामयनवत् फलं निर्दिश्य, आयुष्यपशुस्वर्गीय फलं कोचदेवं वदन्ति । केचिदुत्सर्गिणामयनेन यक्ष्यामहे, आयुरर्थं पुत्रार्थ पश्चर्थ नरकपतननिवृत्यर्थं वा सर्व गवामयनवत् ॥ १७ ॥ तत्र निर्णयाय कंचिद्विचार दर्शयति-

संवत्सरस्य पौर्णमासीममावास्यामुत्सृजेयुः ॥ १८ ॥

उत्सृज्यां ३ नोत्सृज्यामिति ( तै० सं० ७-६-७) उत्सर्गपक्षे यज्ञविच्छेदः । अनुत्सर्गपक्षे श्वासनिरोध इति दोषद्वयं मनास निधाय ब्रह्मवादिनो विचारयन्ति । प्लुति. विचारार्था । तत्रामिज्ञाः प्राजापत्यपश्चादिभिर्विच्छेदस्य समाधातुं शक्यत्वाच्छ्वासनिरोध. परिहारायोत्सर्जनपक्षमेवाघ. निश्चितवन्तः। तमेव दिनविशेष दर्शयति-अमावास्या च पौर्णमास्यां चोत्सृज्यम् ( ७-५-७) इति । एतयोरमावास्यापौर्णमास्योर्यज्ञवाहित्वं प्रसिद्धम् । अतस्तयोस्तिथ्योर्यदहर्यदहः प्राप्तं तदुत्सृज्यमित्येषां निर्णयः ॥ १८॥

अथान्येषां पक्षमाह

तान्योपेयाद्वा नोत्सृजेयुस्तदेव श्वः कुर्युः । अन्तेऽमावास्यां पौर्णमासीं वोत्सृजेयुः । अन्तमस्याह्नस्त्रिवृद्बहिष्पवमानं वायो शुक्रो अयामित एतमु त्यं दशक्षिप इति ॥ १९ ॥

तस्मात्तयोरुत्सर्गो न युक्त इति ॥ १९ ॥ . इत्थमुत्सगै विशदीकृत्य तत्रानुष्ठेयं विशेष विशदयति-

यदहरुत्सृजेयुस्तदहरिष्टिं निर्वपेयुस्त आग्नेयमरुत्वतीयपुरोडाशौ निरुप्येते ऐन्द्रावैष्णवा ऐन्द्राबार्हस्पत्या ऐन्द्रावैश्वदेवा वाऽध्वरकल्पा वा ॥१६.८.२०॥

तत्तस्मिन्नुत्सर्गदिने चत्वारि वींषि निर्वपेयुः ॥ २० ॥

सत्यापाढविरचितं श्रौतसूत्रम्- [१६ प्रश्ने

तेषां ये पुरोडाशिनस्त उपवसन्ति । ये सांनायिनस्त एतदहर्वत्सानपाकुर्वन्ति । पशुश्च ॥ २१ ॥

तेषामध्वरकल्पानाम् ॥ २१॥

प्राजापत्यः पयाꣳसि च ॥ २२ ॥

प्राजापत्यं पशुमालभन्ते ( तै० सं० ७-५-७ ) इति श्रुतेः । उत्सर्गपक्षे पयासि ॥ २२ ॥

यथा वैश्यस्तथा तामस्येन्द्राय वसुमत इन्द्राय हरिवत इन्द्राय बृहस्पतिवते विश्वदेव्यावते पुरोडाशाः । अष्टावेकादश द्वादश कपाला आनुपूर्व्येण । सवनकाला व्याख्याताश्च ॥ २३ ॥

यथा वसुमानग्निः प्रातःसवनस्य तथा मरुत्वानिन्द्रो माध्यंदिनस्य सवनस्य स्वामी | वसुमतोऽग्नेस्तत्वामित्वं ब्राह्मणादवगन्तव्यम्-'प्रातःसवनं यदग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपन्ति । ऐन्द्रं दधि । इन्द्रस्य वै मरुत्वतो माध्यंदिन सवनं .यदिन्द्राय मरुत्वते पुरोडाशमेकादशकपालं निर्वपन्ति । विश्वेषां वै देवानामृभुमतां तृतीयसवनं यद्वैश्वदेवं द्वादशकपालं निर्वपन्ति' (तै० सं० ७-५-७) इति ॥ २३ ॥

उत्सृष्टार इति ते वत्सानपाकुर्वन्ति ॥ २४ ॥

यदे दधि भवति (७-६-७ ) इति ब्राह्मणम् ॥ २४ ॥

प्रातः पशुमालभन्ते तस्य वपया प्रचरन्ति । ततो वैश्वदेवो द्वादशकपालः । वैश्वदेवश्चरुस्तृतीयसवनः संतिष्ठते । पृषदाज्येन चरिते पत्नीः संयाजयन्ति पत्नीः संयाजयन्ति ॥(ख०१९) ॥२५ ॥

इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्नेऽष्टमः पटलः ।

इति सत्याषाढहिरण्यकेशिसूत्रे षोडशप्रश्नः ॥

अथेय पद्धतिः-सर्व गवामयनवदीपवसथ्यान्तं कृत्वा प्रायणीयातिरात्रप्रभृति प्रथममासान्तं कुर्वन्ति । पृष्ठ्यपडहमित्यर्थः । पत्नीसंयाजान्ते मध्वशनादिकं कृत्वोत्तरस्याग्नेर्वसतीवरीर्गृहीत्वा, ऐन्द्रस्य दध्नः शाखाहरणादि कुम्भ्यालेपनान्तं, रात्री वसती वरीः परिहृत्य तासु मृत्पिण्डमवधाय परिस्तरणादि, विष्णो हव्यमित्युक्तमन्द्रस्य दन्नःकृत्वा तण्डुलेरातञ्चनम् । न पञ्चदोहादयः । एवं कृत्वोपवसति । श्वोभूते वाहनक्रमेणाऽऽगच्छति । गवामयानक तस्यां ( तस्मिन् ) वा त्यागः । अभिप्लवानां प्रथमभूतस्याह्नो ज्योतिषस्त्यागः । तस्याहः प्रतिनिधिः प्राजापत्यः पशुः ।

८ पटलः ] महादेवशास्त्रिसंकलितप्रयोगचन्द्रिकान्याख्यासमेतम् । ३९३

तं कुर्वन्ति, शाखाद्वयाहरणादि सवनीयवत् । प्रस्तर एव स्फ्यलेखायां वाऽऽज्यग्रहणम् । प्रयुनज्मि तिस्रो विष्णो नित्योते कृत्वा त्रिवृताऽग्निष्टोमं ( त्रिवृताऽग्निष्ठं ) परिवीय वित्रस्य प्रजापते जुष्टमुपाकरोमीति वाजपेयवत् । प्रातःकाले वपया प्रचर्य माननान्तम् । __ अग्नये वसुमते पुरोडाशमष्टाकपालं निर्वपन्ति । पात्रसादनादि पशुपुरोडाशवत् । अग्नये वसुमते जुष्टं निर्वपापि । अग्ने वसुमन्हव्य रक्षस्वेत्येवमादिनिगमाः । पर्यग्निकरणकाल ऐन्द्रं सांनाय्यमाहृत्योभयोः पर्यग्निकरणं पशुपुरोडाशेन सहैवेति केचित् । आसन्नाभिमर्शनं कृत्वा पशुपुरोडाशेन प्रचर्येन्द्रेण प्रचारः। तयोः स्विष्टकृदादि समानमिडामार्जनान्तं, सानाय्यं समुपहूय भक्षयन्ति, यजमाना इत्युपह्वयध्वमित्युपहवः (हायः)। तुष्णी मक्षणम् । केचित् सोमभक्षणवदिच्छन्ति एतत्सोमपीथा ह्येतहीति श्रुतेः। केचिद्वैशेषिकाशाखाहरणचतुर्धाकरणपिष्टलेपफलीकरणकपालविमोकप्रणीतामार्जनोपवेषोद्धासनादि( दीन् ) कुर्वन्ति । मध्यंदिनकाले प्राप्ते पशुपुरोडाशेन प्रचर्येडान्तं कृत्वा--इन्द्राय त्वा मरुत्वते पुरोडाशमेकादशकपालमैन्द्रं चरुम् । पात्रसादनादि । इन्द्राय मरुत्वते जुष्टं० इन्द्राय जुष्टं इन्दमरुत्वन्हव्यः रक्षस्वेन्द्र हव्यमित्येवमादिनिगमाः । आसन्नाभिमर्शनान्तं कृत्वा हविराहुत्यादीडामार्जनान्तम् । तृतीयसवनकाले शृत हविः ३. शमितरित्यादिपशुना प्रचर्येडामार्जनान्ते वैश्वदेवं द्वादशकपालं निर्वपति । वैश्वदेवं चरुम् । पात्रसादनाद्यासन्नामिमर्शनान्ते हविराहुतिप्र. मृति तन्त्रेण प्रक्षेपः । पशावाज्यभागो नित्यौ । अथवैषां हविषां स्थाने सवनीयान्पशुपुरोडाशान्निर्वपति–इन्द्राय हरिवत इत्याद्यध्वरकल्प वा । आग्नावैष्णवमष्टाकपालमित्यादि । सवने मैत्रावरुणमेककपालमिति सर्वपक्षेषु विद्यते । प्राजापत्यः पशुः । अग्नीदोपयजानित्यादि पाशुकं कर्म पत्नीसंयानान्तं पूर्ववत् । वसतीवरीणां च महणं पूर्वगृहीतमेव । उत्तरस्मा अढे शाखाहरणादि अहीनसंततयः। रात्रौ परिस्तरणान्तम् । केचित्प्राजापत्यस्य पशोः कृत्स्नसंस्थामिच्छन्ति । श्वोभूते महारात्रे बुद्ध्वा अग्ने नयेत्यादि गामुक्थ्यं बृहत्सामेत्यादि । एवमत उर्वं षडहै ( हान् ) मासान् संपाद्य पूरयित्वोत्सर्गः । यन्मासादिभूतमभिप्लवानां प्रथमं ज्योतिःसंज्ञकं तदु खष्टव्यम् । उत्सृष्टेष्वहःसु प्राजापत्यः पशुरग्नये वसुमत इत्यादयश्च पूर्वरात्रौ दधिकरणं घ वसतीवरीषु मृत्पिण्डनिधानं च सर्वत्र कुर्वन्ति । प्राक्स्विष्टकृतः पञ्च ज्योतींप्युसृष्टानि, पिष्टवत ऊर्ध्व पृष्ठ्यषडहादि, भूतानि चत्वारि त्रयस्त्रिंशान्यहानि उत्सृप

३९४ सत्याषाढविरचितं श्रौतसूत्र महा० सं०प्र० च० स०। [१६ प्रश्ने ८५०

व्यानि । पञ्च मासान् भूतस्य त्रयस्त्रिंशस्य, नोत्सर्गः । संभार्यसंज्ञकस्याभिप्लवघडहा दिभूतस्य ज्योतिष उत्सर्गः । अथैकेषामित्यापस्तम्बीये विकल्पः । एककर्तृकस्तोत्राणीत्यादि । एवमुत्सृज्य । एवं कृत्वोदयनीयातिरात्रमुपेत्यावभृथादुदेत्योदयनीयाद्युदवसानीयान्तं कृत्वा पुनश्चोखासंभरणादिकं कृत्वा दीक्षित्वा तानुत्सृष्टान् पुनरुपेयुः । न प्राय-' णीयोदयनीयौ । एवमुदवसानीयान्तम् ।... ततः पृष्ठशमनीयोभयस्य तन्त्रेण सौत्रामणी मैत्रावरुणी च । त्र्यनीकाऽतिग्राह्य एकाद: शनी चोत्सर्गिणामयने वर्तमाना भवेयुः । यस्यानो( न उ )त्सर्गप्राप्तिस्तस्याह्नः प्राप्तः सवनीयातिग्राह्याणां त्याग एव । उत्सृष्टानां पुनराहरणे चोत्सर्गे यत्पश्वादि प्राप्त तयेह ( थेदं ) कर्तव्यमायुष्यार्थमेतत्सत्रं पुत्रार्थ पञ्चथै स्वर्गार्थ वा- नरकयातनानिवृत्तिकारण चैवं गुणविकृतस्य फलमिति । पत्नी संयाजयन्तीति द्विरुक्ति: प्रश्नसमा. प्त्यर्या ॥ २५ ॥ .. इति सत्यापाढहिरण्यकेशिसूत्रव्याख्यायां महादेवशास्त्रसंकलितायां .... प्रयोगचन्द्रिकायां पोडशप्रश्नेऽष्टमः पटलः । ... SAT प्रयोगवैजयन्त्यास्तु मालायाः सूत्रसंस्थितेः । द्वादशाहस्येह कृतो निर्णयः कौस्तुभो मणिः ॥ .. ....मध्यगो यज्ञवपुषस्तुष्टयेऽस्तु मैंयाऽपितः ।, ग्रहणाति हि किमप्येष भक्तर्यात्ततः कृतम् ॥ . इति सत्यापाढहिरण्यकशिसूत्रव्याख्यायां महादेवशास्त्रिसंकलितायां . प्रयोगचन्द्रिकायां षोडशप्रश्नः ॥ . ....