कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्/प्रश्नः ११

विकिस्रोतः तः
← प्रश्नः १० कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्
प्रश्नः ११
भरद्वाजः
प्रश्नः १२ →

अथैकादशः प्रश्नः
प्रवर्ग्यँ संभरिष्यन्नुदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रे पौर्णमास्याममावास्यायां वा तूष्णीं काण्टकी ँ! समिधमाधाय युञ्जते मनः इति चतुर्गृहीतं जुहोति यद्यदीक्षितो भवति १ अथ यदि दीक्षितः काण्टकीमेवैतया समिधमादध्यात् । न जुहुयाद् यजुरेव वदेदित्यपरम् २ ततोऽभ्रिमादत्ते खादिरीमौदुम्बरीं वैणवीं वैकङ्कतीं वा ३ तस्यास्तत्प्रमाणं यदाग्निक्याः ४ देवस्य त्वा सवितुः प्रसवे इत्यभ्रिमादाय ब्रह्माणमामन्त्रयते उत्तिष्ठ ब्रह्मणस्पते इति ५ उपोत्तिष्ठति ब्रह्मा ६ उभावुत्तरमर्धर्चं जपतः ७ आददते कृष्णाजिनम् ८ अनुनयन्त्यजां पुंच्छगलामश्वं वृषाणमिति ९ अश्वप्रथमाः प्राञ्चोऽभिप्रव्रजन्ति प्रैतु ब्रह्मणस्पतिः इति १० अपि वास्यैते संभाराः परिश्रितेऽभ्युदाहृता भवन्ति ११ अग्रेणाहवनीयं मृत्खनः । पूर्वःपूर्व इतरः १२ उत्तरेण मृत्खनं कृष्णाजिनं प्राचीनग्रीव-मुत्तरलोमास्तीर्य द्यावापृथिवी अभिमन्त्रयते मृत्खनं वा देवी द्यावापृथिवी अनु मे मँ साताम् इति १३ मृत्खनेऽभ्रिया प्रहरति ऋध्यासमद्य मखस्य शिरः इति १४ हरति मखाय त्वा मखस्य त्वा शीर्ष्णे इति १५ तूष्णीं कृष्णाजिने निवपति १६ एवमेव द्वितीयँ हरति । एवं तृतीयम् १७ तूष्णीं चतुर्थं यावतीं मृदं प्रवर्ग्यपात्रेभ्य आप्तां मन्यते १८ ११.१

ततो वराहविहतमभिमन्त्रयते इयत्यग्र आसीः इति १ समानमत ऊर्ध्वम् २ ततो वल्मीकवपां देवीर्वम्रीः इति ३ समानमत ऊर्ध्वम् ४ ततः पूतीकान् इन्द्र स्यौजोऽसि इति ५ समानमत ऊर्ध्वम् ६ कृष्णाजिनलोमान्यजलोमानि च सँ सृज्य अग्निजा असि प्रजापते रेतः इति ७ समानमत ऊर्ध्वम् ८ अथैनानश्वेनावघ्रापयति आयुर्धेहि प्राणं धेहि इति ९ अथैनानजयाभिदोहयति मधु त्वा मधुला करोतु इति १० अभिदोहनमेकेऽवघ्रापणात् पूर्व ँ! समामनन्ति ११ बहव आर्याः परिगृह्य हरन्ति १२ उत्तरेण विहारमुद्धते-ऽवोक्षिते सिकतोपोप्ते परिश्रिते निदधति १३ अथैनान् मदन्तीभिरुपसृजति मधु त्वा मधुला करोतु इति १४ ये के चोखासँ सर्जनाः संभारा यच्चान्यद् दृढार्थमुपार्धं मन्यते १५ तत्रैषोऽत्यन्तप्रदेशः । यत् किं च प्रवर्ग्य उदककृत्यं मदन्तीभिरेव तत् क्रियते १६ नैनँ स्त्री प्रेक्षते न शूद्र ः! १७ न कुर्वन्नभिप्राण्यात् १८ अपहाय मुखमनभिप्राणन् वेणुना करोति १९ न प्रवर्ग्यं चादित्यं च व्यवेयात् २० यत्र क्व च विप्रक्रान्ते प्रवर्ग्य आदित्योऽस्तमियात् कृतान्तादेव विरमेत् । श्वो भूते शेषँ समाप्नुयात् २१ संप्लोम्नाय मृदं पिण्डं करोति मखस्य शिरोऽसि इति २२ यज्ञस्य पदे स्थः इत्यङ्गुष्ठाभ्यां निगृह्य महावीरं करोति प्रादेशमात्रमपरिमितं वा वायव्याकृतिं त्र्! युद्धिं पञ्चोद्धिं वा २३ गायत्रेण त्वा छन्दसा करोमि इति प्रथमम् । त्रैष्टुभेन इति द्वितीयम् । जागतेन इति तृतीयम् २४ अपि वा सर्वैरेकैकम् २५ उपबिलँ रास्नां करोति मखस्य रास्नासि इति २६ अदितिस्ते बिलं गृह्णातु इति वेणुपर्वणा बिलं करोति यावद्दैवताय सौविष्टकृतायाग्निहोत्राय भक्षायाप्तं मन्यते २७ ११.२

तृतीयवेलां प्रतिनयति १ उत्तरतः सिकतासु प्रतिष्ठापयति सूर्यस्य हरसा श्राय मखोऽसि इति २ एवमेव द्वितीयं प्रतिष्ठापयत्येवं तृतीयम् ३ तूष्णीमितराणि ४ एतस्या एव मृदो दोग्ध्रे करोति हस्त्योष्ठ्ये प्रसेचनवती यथा स्रुगदण्डैवम् ५ वर्षीय आध्वर्यवँ ह्रसीयः प्रतिप्रस्थानम् ६ एतस्या आज्यस्थाली ँ! रौहिणकपाले च परिमण्डले घोटप्रकारे ७ घर्मेष्टकां कुलायिनीमिति यदि साग्निचित्यो भवति ८ अथैनान् श्लक्ष्णीकरणैः श्लक्ष्णीकुर्वन्त्यहतचण्डा-तकैर्गवीधुकैः क्लीतकाभिर्वेणुपर्वभिराज्येनेति ९ अथैनान् धूपनकाले वृष्णोऽश्वस्य शकृद्गार्हपत्ये प्रदीप्य प्रथमकृतं महावीरँ शफाभ्यां परिगृह्य धूपयति वृष्णो अश्वस्य निष्पदसि इति १० एवमेव द्वितीयं धूपयत्येवं तृतीयम् ११ तूष्णीमितराणि १२ शफाभ्यामेवात ऊर्ध्वं महावीरानादत्ते १३ अग्रेण गार्हपत्यमवटं खात्वा लोहितपचनीयैः संभारैरवस्तीर्य तत्र प्रथमकृतं महावीरमुपावहरति अर्चिरसि इति १४ शोचिरसि इति द्वितीयम् । ज्योति-रसि तपोऽसि इति तृतीयम् १५ तूष्णीमितराण्यन्ववधाय लोहितपचनीयैः संभारैः प्रच्छाद्य गार्हपत्ये मुञ्जनादीप्योपोषति । अर्चिषे त्वा इति पुरस्तात् । शोचिषे त्वा इति दक्षिणतः । ज्योतिषे त्वा इति पश्चात् । तपसे त्वा इत्युत्तरतः १६ ११.३

अपि वा सर्वैः सर्वतः १ पच्यमानानुपचरति अभीमं महिना दिवम् इत्ये-तयोत्तरया वा २ सर्वाण्युपचारणानि मन्त्रवन्ति भवन्ति ३ पक्वेषु सिद्ध्यै त्वा इति धृष्टी आदायाध्वर्युः प्रथमकृतं महावीरमुद्वासयति देवस्त्वा सवितोद्वपतु इति ४ उत्तरतः सिकतासु प्रतिष्ठापयति अपद्यमानः पृथिव्यामाशा दिश आपृण इति ५ अथैनमन्वीक्षते सूर्यस्य त्वा चक्षुषान्वीक्षे इति ६ एवमेव द्वितीयमुद्वासयत्येवं तृतीयम् ७ तूष्णीमितराणि ८ अथैनान् सिकताभिः प्रदक्षिणं पर्यूहति इदमहममुमामुष्यायणं विशा पशुभिर्ब्रह्मवर्चसेन पर्यूहामि इति ९ विशा इति राजन्यस्य । पशुभिः इति वैश्यस्य १० अथैनान् प्रभूतेनाजापयसा छृणत्ति गायत्रेण त्वा छन्दसा छृणद्मि इत्येतैर्मन्त्रैः । त्रिभिस्त्रिभिरेकैकम् ११ अपि वा सर्वैरेकैकम् १२ अथैनान् कृष्णाजिन उपनह्यासजति देव पुरश्चर सध्यासं त्वा इति १३ उपरिष्टात्काल एष मन्त्रो भवतीत्यपरम् १४ ११.४

प्रवर्ग्येण प्रचरिष्यन्तः संवृण्वन्ति द्वाराणि १ परिश्रयन्ति पत्न्याः २ पश्चा-द्धोतोपविशति । पुरस्तादध्वर्युः । दक्षिणतो ब्रह्मा यजमानः प्रस्तोता च । उत्तरत आग्नीध्रः प्रतिप्रस्थाता च ३ मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वोत्तरेण विहारं दर्भान् सँ स्तीर्य तत्रैतान् महावीरानुपावहरति देव पुरश्चर मध्यासं त्वा इति ४ उपरिष्टात्काल एष मन्त्रो भवतीत्यपरम् ५ अत्रैव सर्वं परिघर्म्यमुपावहरति ६ औदुम्बरी ँ! सम्राडासन्दीं नितराम् ७ राजासन्द्या वर्षीयसीमेके समामनन्ति ८ मौञ्जीभी रज्जुभिरेकसराभिर्व्युताम् ९ चतस्र औदुम्बरीः स्रुचः १० तासां द्वे अनिष्टुब्धे ११ निष्टुब्धयोर्वर्षीयस्युपयमनी ह्रसीयसी प्रोक्षणीधानी १२ औदुम्बरौ स्रुवौ । औदुम्बरौ शफौ महा-वीरसंमिताव्रस्क्यौ । औदुम्बरी धृष्टी । औदुम्बरी मेथी । त्रीनौदुम्बरान् मयूखान् । षडौदुम्बरान् शकलान् १३ त्रयोदश वैकङ्कतान् परिधीन् काण्डकीं च समिधम् १४ प्रभूतानि घर्मेन्धनानि खादिराण्यौदुम्बराणि वैकङ्कतानि कार्ष्मर्यमयाणि वा १५ त्रीणि कार्ष्णाजिनानि धवित्राणि येषाँ शुक्ल-कृष्णलोमानि स्युः १६ वैणवा दण्डा बाहुमात्रा भवन्तीति विज्ञायते १७ औदुम्बरदण्डानीत्यपरम् १८ द्वौ रुक्मौ रजतसुवर्णौ १९ शतमानौ भवतः २० मौञ्जौ वेदौ । तयोरन्यतरः परिवासितः २१ मौञ्जीमभिधानीम् । मौञ्जे निदाने । त्रीणि मौञ्जानि विशाखदामानि २२ द्वयान् मुञ्जप्रलवान-प्रतिशीर्णाग्रान् २३ रौहिणयोः पिष्टान्यफलीकृतानाम् २४ खरेभ्यः सिकताः २५ मौञ्जे पवित्रे इत्येकम् । दर्भमये इत्यपरम् २६ ११. ५

तूष्णीं प्रोक्षणीधान्यां प्रोक्षणीः सँ स्कृत्य ब्रह्माणमामन्त्रयते ब्रह्मन् प्रवर्ग्येण प्रचरिष्यामः । होतर्घर्ममभिष्टुहि । अग्नीद्रौ हिणौ पुरोडाशावधिश्रय । प्रतिप्रस्थातर्विहर । प्रस्तोतः सामानि गाय इति १ ब्रह्मा प्रसौति यजुर्युक्तँ सामभिराक्तखम् इत्युपाँ शूक्त्वा ओमिन्द्र वन्तः प्रचरत इत्युच्चैः २ अपि वा प्रचरत इत्युच्चैः सर्वमन्यदुपाँ शु ३ प्रसूतो ब्रह्मणा सर्वं परिघर्म्यं प्रोक्षति ४ यमाय त्वा ॥ मखाय त्वा इत्येतैर्मन्त्रैस्त्रिः प्रोक्षति ५ अभिपूर्वं प्रोक्षति ६ प्रोक्षितानि व्यायातयतीति विज्ञायते ७ अथैताँ सम्राडासन्दीमग्रेणाहवनीयं पर्याहृत्य पुरस्ताद् राजासन्द्याः प्रतिष्ठाप्य तस्यां कृष्णाजिनं प्राचीन-ग्रीवमुत्तरलोमास्तीर्य तस्मिन्नप्रचरणीयौ महावीरावुपावहरति देव पुरश्चर सघ्यासं त्वा इति ८ उपरिष्टात्काल एष मन्त्रो भवतीत्यपरम् ९ अथैतां मेथीं मयूखान् विशाखदामानीत्यादायाग्रेण होतारं जघनेन गार्हपत्यं दक्षिणया द्वारोपनिष्क्रम्य दक्षिणेन दक्षिणां द्वारं मेथीं निहन्ति होतुः समीक्षायै १० एतस्यैव द्वारस्य पूर्वस्या द्वार्याया दक्षिणतो वत्साय शङ्कुं निहन्ति ११ एतस्यैवापरस्यै द्वार्यायै दक्षिणतोऽजायै । उत्तरतोऽभ्यन्तरं बर्कराय १२ तेषु त्रीणि विशाखदामानि व्यायातयति १३ तैरेनान् काले बध्नन्ति १४ ततः खरानुपवपति १५ उत्तरेण गार्हपत्यमेकम् । उत्तरेणाहवनीयमेकम् । उत्तरपूर्वमवान्तरदेशं प्रत्युच्छिष्टखरं बाह्यतो निःषेचनवन्तम् १६ एवं व्यायातितान्येव भवन्त्योद्वासनात् १७ ११.६

एतस्मिन् काले प्रतिप्रस्थाता दर्विहोमसँ स्कारेणाज्यस्थाल्यामाज्यँ सँ स्करोति १ नैतस्य सँ स्कारो विद्यत इत्यपरम् २ अधिश्रयत्याग्नीध्रो रौहिणौ पुरोडाशौ तूष्णीमुपचरितौ ३ शफाभ्यां महावीरं परिगृह्य वेदेनापरिवासितेन भस्म संमार्ष्टि देव पुरश्चर सघ्यासं त्वा इति ४ स्रुवेणाहवनीये सप्तैकादश वा प्राणाहुतीर्जुहोति प्राणाय स्वाहा ॥ व्यानाय स्वाहा इति ५ अथैनमाज्येना-नक्ति देवस्त्वा सविता मध्वानक्तु इति ६ अपरस्मिन् खरे राजतँ रुक्मं निधाय पृथिवीं तपसस्त्रायस्व इति प्रतिष्ठाप्य महावीरमन्यस्मै वा प्रदाय द्वयान् मुञ्जप्रलवानादाय दक्षिणेषामग्राणि गार्हपत्ये प्रदीपयति अर्चिषे त्वा इति ७ तेषामग्रैरुत्तरेषां मूलानि शोचिषे त्वा इति ८ तेषां मूलैर्दक्षिणेषां मूलानि ज्योतिषे त्वा इति ९ तेषां मूलैरुत्तरेषामग्राणि तपसे त्वा इति १० तान् व्यत्यस्तानुपरि रुक्मे निदधाति अर्चिरसि शोचिरसि इति ११ दक्षिणानुत्तरान् करोतीति विज्ञायते १२ तेषूपरिष्टान्महावीरं प्रतिष्ठापयति सँ सीदस्व महाँ असि इति १३ अथैनमाज्येनाभिपूरयति अञ्जन्ति यं प्रथयन्तः इति १४ अध्यधि महावीरमसँ स्पृशन् यजमानः प्राञ्चं प्रादेशं धारयमाणो जपति अनाधृष्या पुरस्तात् इत्येतैर्मन्त्रैर्यथारूपम् १५ मनोरश्वासि भूरिपुत्रा इत्युत्तरतः पृथिवी-मभिमृशति १६ ११.७

सिद्ध्यै त्वा इति धृष्टी आदायाध्वर्युः प्रतिप्रस्थाता च गार्हपत्यादुदीचोऽङ्गारान् निरूहतः तपो ष्वग्ने अन्तराँ अमित्रान् इति १ तैरेनं प्रदक्षिणं पर्यूहतः चितः स्थ परिचितः इति २ अथैनं त्रयोदशभिर्वैकङ्कतैः परिधिभिः परिधत्तः । मा असि इति प्राञ्चावध्वर्युर्निदधाति । प्रमा असि इत्युदञ्चौ प्रतिप्रस्थाता ३ एवमेवोत्तरैरुत्तरैर्मन्त्रैः परिधत्तः । पूर्वेणपूर्वेणाध्वर्युरुत्तरेणोत्तरेण प्रतिप्रस्थाता ४ अध्वर्युरेव दक्षिणतस्त्रयोदशं निदधाति अन्तरिक्षस्यान्तर्धिरसि इति ५ अथैनँ सौवर्णेन रुक्मेणापिदधाति दिवं तपसस्त्रायस्व इति ६ अथैन-मभिमन्त्र्! यते आभिर्गीर्भिः इति तिसृभिः ७ ततो धवित्राण्यादत्ते । गायत्रमसि इति प्रथमम् । त्रैष्टुभमसि इति द्वितीयम् । जागतमसि इति तृतीयम् ८ तैरेनं त्रिरूर्ध्वमुपवाजयति मधु मधु इति ९ तेषामेकं प्रतिप्रस्थात्रे प्रयच्छ-त्येकमाग्नीध्राय १० आग्नीध्रप्रथमास्त्रिः प्रदक्षिणमूर्ध्वं धून्वन्तः परियन्ति ११ अथैनं पर्युपविशन्ति पुरस्तादध्वर्युर्दक्षिणतः प्रतिप्रस्थातोत्तरत आग्नीध्रः १२ अव्यतिषङ्गं धून्वन्तः प्रणवैः सँ राधयन्त इन्धानाः समञ्जन्त आसते १३ प्रज्वलिते रुक्ममपादत्त इति विज्ञायते १४ यत्राभिजानाति याभिर्वर्तिकां ग्रसिताममुञ्चतम् इति तदध्वर्युर्महावीरमामन्त्रयते दश प्राचीर्दश भासि दक्षिणाः इत्यनुवाकेन १५ यत्राभिजानाति अप्नस्वतीमश्विना वाचमस्मे इति तदुपोत्तिष्ठन्नध्वर्युराह रुचितो घर्मः इति १६ ततोऽध्वर्युप्रथमास्त्रिरनभिधून्वन्तः प्रतिपरियन्ति १७ धवित्राण्यादाय प्रतिप्रस्थात्रे प्रयच्छति १८ तत् प्रति-प्रस्थाताग्रेणाहवनीयं पर्याहृत्य सम्राडासन्द्यां निदधाति १९ यथालोकम-वस्थाय सर्व ऋत्विजो यजमानश्चाधीयन्तो महावीरमवेक्षन्ते अपश्यं गोपाम् इति २० अनुवाकशेषं तु प्रतिप्रस्थाता परिश्रिते पत्नीं वाचयति त्वष्टीमती ते सपेय इति २१ ११.८
ततः संप्रेष्यति अग्नीद्रौ हिणौ पुरोडाशावासादय इति १ अनिष्टुब्धयोः स्रुचो-रुपस्तीर्णाभिघारितौ पुरोडाशावासादयति २ दक्षिणं परिधिसंधिमन्वेकम् । उत्तरं परिधिसंधिमन्वितरम् ३ सावित्रेण रशनामादाय पूर्वया द्वारोपनिष्क्रम्य त्रिरुपाँ शु घर्मदुघमाह्वयति इड एह्यदित एहि सरस्वत्येहि इति ४ प्रत्येत्य दोग्ध्रे निदाने इत्यादाय दक्षिणया द्वारोपनिष्क्रम्य त्रिरुच्चैः असावेह्यसावेहि इति यथानामा भवति ५ अदित्या उष्णीषमसि इति रशनया घर्मदुघमभिदधाति । वायुरस्यैडः इति वत्सम् ६ पूषा त्वोपावसृजतु इत्युपावसृजति ७ यस्ते स्तनः शशयः इति घर्मदुघमभिमन्त्रयते ८ उस्र घर्म ँ! शिँ ष इति निदाय वत्समुपसीदति बृहस्पतिस्त्वोपसीदतु इति ९ दानवः स्थ पेरवः इति स्तनान् संमृशति १० वर्षीयसि दोग्ध्रे दोग्धि अश्विभ्यां पिन्वस्व सरस्वत्यै पिन्वस्व इति ११ तूष्णीं प्रतिप्रस्थाता ह्रसीयस्यजाम् १२ अग्नीधे पयसी प्रदाय पूर्वावतिद्रुत्य शफोपयमानाददाते । गायत्रोऽसि इति प्रथमम् । त्रैष्टुभोऽसि इति द्वितीयम् । जागतमसि इत्युपयमनं प्रतिप्रस्थाता १३ यत्राभिजानाति उत्तिष्ठ ब्रह्मणस्पते इति तदाग्नीध्र उपोत्तिष्ठति १४ यत्राभिजानाति उपद्र व पयसा गोधुगोषम् इति तत् पय आहरति १५ आह्रियमाणमभिमन्त्रयते सहोर्जो भागेनोप मेहि इति १६ इन्द्रा श्विना मधुनः सारघस्य इति महावीरे गोपय आनयति १७ स्वाहा त्वा सूर्यस्य रश्मये वृष्टिवनये जुहोमि इत्यूष्माण-मुद्यन्तमभिमन्त्रयते १८ मधु हविरसि इत्यजापयः १९ ११.९

अजापयस एके पूर्वमानयनँ समामनन्ति १ द्यावापृथिवीभ्यां त्वा परिगृह्णामि इति शफाभ्यां महावीरं परिगृह्य वेदेन परिवासितेन भस्म प्रमृज्य प्रति-प्रस्थातोपयमनेनोपयच्छति अन्तरिक्षेण त्वोपयच्छामि इति २ देवानां त्वा पितॄणामनुमतो भर्तु ँ! शकेयम् इत्युद्यम्य हरति तेजोऽसि तेजोऽनु प्रेहि इति ३ गच्छन्नेवानवानं पञ्च वातनामानि व्याचष्टे समुद्रा य त्वा वाताय स्वाहा इति ४अपान्य पञ्चोत्तराणि अग्नये त्वा वसुमते स्वाहा इति ५ एतस्मिन् काले प्रतिप्रस्थाता दक्षिणँ रौहिणँ स्रुचा प्रतिष्ठितं जुहोति अहर्ज्योतिः केतुना जुषताँ सुज्योतिर्ज्योतिषाँ स्वाहा इति ६ दक्षिणातिक्रामन्नध्वर्युर्ब्रह्माणमीक्षते विश्वा आशा दक्षिणसत् इति ७ विश्वान् देवानयाडिह इति होतारम् ८ स्वाहाकृतस्य घर्मस्य इति घर्ममभिमन्त्र्! याश्राव्य प्रत्याश्राविते संप्रेष्यति घर्मस्य यज इति ९ वषट्कृते जुहोति अश्विना घर्मं पातम् इति १० अनुवषट्कृते द्वितीयम् स्वाहेन्द्रा वट् इति ११ हुतं यजमानोऽनुमन्त्रयते घर्ममपातमश्विना इत्यनुवाकशेषेण १२ अथैनमुपर्याहवनीये धारयन् शृतदध्नाभिपूरयति १३ विक्षरन्तमभिमन्त्रयते इषे पीपिह्यूर्जे पीपिहि इति १४ अथैनं दिशोऽनुप्रहावयति । त्विष्यै त्वा इति पुरस्तात् । द्युम्नाय त्वा इति दक्षिणतः । इन्द्र याय त्वा इति पश्चात् । भूत्यै त्वा इत्युत्तरतः १५ प्रत्याक्रम्योपयमने शेषमानीयान्तर्वेद्युपयमनं निधाय पूर्वस्मिन् खरे राजतँ रुक्मं निधाय तस्मिन् महावीरं प्रतिष्ठापयति १६ ११.१०

धर्मासि सुधर्मा मे न्यस्मे ब्रह्माणि धारय इति १ क्षत्राणि धारय इति राजन्यस्य । विशं धारय इति वैश्यस्य २ नेत् त्वा वातः स्कन्दयात् इति ३ यद्यभिचरेत् अमुष्य त्वा प्राणे सादयाम्यमुना सह निरर्थं गच्छ इति ब्रूयाद्यं द्विष्यात् ४ अत्र प्रतिप्रस्थाता पूर्ववदुत्तरँ रौहिणं जुहोति ५ उपयमनेऽञ्जन् शकलानादधाति पूष्णे शरसे स्वाहा इत्येतैः प्रतिमन्त्रम् ६ षष्ठँ शकलँ सर्वेषु लेपेष्वक्त्वा-नन्वीक्षमाण उदञ्चं निरस्यति रुद्रा य रुद्र होत्रे स्वाहा इति ७ अप उपस्पृशति ८ पुरस्ताद्रौ हिणहोमाच्छकलानेके समामनन्ति ९ तूष्णीं काण्टकी ँ! समि-धमाधाय तूष्णीमग्निहोत्रं जुहोति १० भूः स्वाहा इति वा ११ उपयमने शेषँ सर्वे समुपहूय भक्षयन्ति । होताग्रेऽथाध्वर्युरथ ब्रह्माथ प्रतिप्रस्थाताथाग्नी-ध्रोऽथ यजमानः १२ सर्वे प्रत्यक्षम् । अपि वा यजमान एव प्रत्यक्षमवघ्रेणेतरे १३ हुतँ हविर्मधु हविः इति भक्षयित्वोपयमनं प्रतिप्रस्थात्रे प्रयच्छति १४ तत् प्रतिप्रस्थातोच्छिष्टखरे मार्जयित्वान्तर्वेद्युपयमनं निधाय तस्मिन् राजतसुवर्णौ रुक्माववधाय मदन्तीरानीयोत्तमेनानुवाकेन शान्तिं कृत्वा निनीयाप उपयमने सर्वं परिघर्म्य ँ! समवधाय संप्रेष्यति १५ ११.११

घर्माय सँ साद्यमानायानुब्रूहि इति १ आ यस्मिन्त्सप्त वासवाः इत्यभिज्ञा-याग्रेणाहवनीयं पर्याहृत्य सम्राडासन्द्याँ सादयति । स्वाहा त्वा सूर्यस्य रश्मिभ्यः इति प्रातः । स्वाहा त्वा नक्षत्रेभ्यः इति सायम् २ यत्राभिजानाति अद्धि तृणमघ्निये विश्वदानीम् इति तद्गामवसृजति ३ एवमेव सायंप्रातः प्रवर्ग्येण प्रचरति ४ त्र्! युपसत्के षट्कृत्वः षडुपसत्के द्वादशकृत्वो द्वादशो-पसत्के चतुर्वि ँ! शतिकृत्वः ५ एतावन्नाना ६ उत्तरेण मन्त्रेण सायँ रौहिणं जुहोति ७ अपीपरो माह्णो रात्रियै मा पाहि इति सायं काण्टकी ँ! समि-धमादधाति । अपीपरो मा रात्रिया अह्नो मा पाहि इति प्रातः ८ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा इति सायमग्निहोत्रं जुहोति । सूर्यो ज्योति-र्ज्योतिः सूर्यः स्वाहा इति प्रातः ९ सँ सृष्टहोमं वा १० अग्निष्टोमे प्रवृणक्ति ११ नोक्थ्ये प्रवृञ्ज्यात् १२ विश्वजिति सर्वपृष्ठे प्रवृणक्ति १३ न प्रथमयज्ञे प्रवृञ्ज्यात् १४ प्रवृञ्ज्याद्वा १५ योऽनूचानः श्रोत्रियस्तस्य प्रवृञ्ज्यात् १६ प्रवृञ्ज्याद् दुर्ब्राह्मणस्य १७ ब्रह्मवर्चसकामस्येत्येकेषाम् १८ तं प्रवृज्य संवत्सरं न माँ समश्नीयान्न रामामुपेयान्न मृन्मयेन पिबेन्नास्य राम उच्छिष्टं पिबेत् १९ तेज एव तत् सँ श्यतीति विज्ञायते २० ११.१२

प्रवर्ग्यमुद्वासयिष्यन्नजामग्नीधे ददाति पष्ठौहीं ब्रह्मणे धेनुँ होत्रे रुक्मावध्वर्यवे १ समोप्यापरं खरं पूर्वस्मिन् खरे निवपति २ अथैताँ सम्राडा-सन्दीमुत्तरेणाहवनीयं प्रतिष्ठाप्य तस्याँ सर्वं परिघर्म्यं समवदधाति ३ औदुम्बर्या ँ! स्रुचि चतुर्गृहीतं गृहीत्वाहवनीये तिस्र आहुतीर्जुहोति घर्म या ते दिवि शुक् इत्येतैर्मन्त्रैः ४ अपि वा प्रतिप्रस्थाता त्रीन् संनखान् शला-कामुष्टीनादाय तेषामेकमाहवनीये प्रदीप्यास्यदघ्ने धारयति । तमध्व-र्युरभिजुहोति घर्म या ते दिवि शुक् इति ५ तस्मिन्नपरं प्रदीप्याहवनीये पूर्वं प्रहृत्य नाभिदघ्ने धारयति । तमध्वर्युरभिजुहोति घर्म या तेऽन्तरिक्षे शुक् इति ६ तस्मिन्नपरं प्रदीप्याहवनीये पूर्वं प्रहृत्य जानुदघ्ने धारयति । तम-ध्वर्युरभिजुहोति घर्म या ते पृथिव्याँ शुक् इति ७ आहवनीय एवैनमनुप्रहरति ८ एतस्मिन् काले प्रतिप्रस्थाता परिश्रिते पत्नीमुदानयति अनु नोऽद्यानुमतिः इति ९ अन्विदनुमते त्वम् इत्युपनिष्क्रामन्ति १० आहरन्ति मेथीम् । अनुहरन्ति मयूखान् । आददते खरौ ११ दक्षिणत उच्छिष्टखरं परिहरति १२ अथैतस्याः सम्राडासन्द्या द्वावन्तर्वेदि पादौ द्वौ बहिर्वेदि प्रतिष्ठाप्य संप्रेष्यति प्रस्तोतः सामानि गाय इति १३ सह पत्न्या त्रिः साम्नो निधनमुपयन्ति १४ अर्धाध्वे द्वितीयम् । अप्रेणोत्तरवेदिं तृतीयम् १५ दिवस्त्वा परस्पायाः इति प्रथमेऽभिप्रव्रजन्ति । ब्रह्मणस्त्वा परस्पायाः इति द्वितीये । प्राणस्य त्वा परस्पायाः इति तृतीये १६ ११.१३

अथैताँ सम्राडासन्दीमुत्तरेणोत्तरवेदिं प्रतिष्ठाप्य संप्रेष्यति प्रस्तोतर्वाषाहरँ साम गाय । इष्टाहोत्रीयँ साम गाय इति १ इष्टाहोत्रीयस्य साम्नो निधनमुपयन्ति न वार्षाहरस्य २ यद्युपरिष्टात् परिषिञ्चेत् तत्र वार्षाहरं चोदयेत् ३ उदकुम्भ-मादाय प्रदक्षिणमुत्तरवेदिं त्रिः परिषिञ्चन् पर्येति वल्गुरसि शंयुधायाः इति ४ त्रिरपरिषिञ्चन् प्रतिपर्येति शं च वक्षि परि च वक्षि इति ५ चतुः-स्रक्तिर्नाभिरृतस्य इत्युत्तरवेदिमभिमृश्योत्तरेणोत्तरनाभिं खरौ न्युप्यानुव्यूहति सदो विश्वायुः इति ६ मार्जालीयदेश उच्छिष्टखरं निवपति अप द्वेषो अप ह्वरः इति ७ अप उपस्पृश्योत्तरेणोत्तरनाभिं खरे हिरण्यं निधाय तस्मिन् प्रचरणीयं महावीरमुपावहृत्येतरावुपावहरति पूर्वापरौ दक्षिणोत्तरौ वा ८ अथैतस्मिन् प्रचरणीये गोपय आनयति महीनां पयोऽसि विहितं देवत्रा इति ९ ज्योतिर्भा असि वनस्पतीनामोषधीनाँ रसः इति मधु १० वाजिनं त्वा वाजिनोऽवनयामः इति दधि ११ एवमेव द्वितीयं पूरयत्येवं तृतीयम् १२ अपि वाज्यमेव प्रथम आनयेन्मधु द्वितीये दधि तृतीये १३ घर्मैतत् तेऽन्नमेतत् पुरीषम् इति दध्ना मधुमिश्रेण यान्यासेचनवन्ति तानि पूरयति १४ अभ्युक्षतीतराण्यरिक्ततायै १५ आदित्याकृतिं करोति १६ ११.१४

अथ यदि पुरुषाकृतिं चिकीर्षेदत्रैवेतरावुपावहृत्य शिरसो रूपं करोति १ उपरिष्टान्मौञ्जवेदमप्रच्छिन्नाग्रँ शिखायै रूपम् २ हिरण्यशकलावाज्यस्रुवौ वाक्ष्यो रूपम् ३ स्रुवौ नासिकयो रूपम् ४ दोग्ध्रे कर्णयो रूपम् ५ प्रोक्षणीधानीं मुखस्य रूपम् ६ आज्यस्थालीं ग्रीवाणाँ रूपम् ७ धृष्टी जत्रूणाँ रूपम् ८ शफावँ सयो रूपम् ९ रौहिणहवन्यौ बाह्वो रूपम् १० दशौदुम्बरीः समिधोऽङ्गुलीनाँ रूपम् ११ प्राचीं मेथीं पृष्टीनाँ रूपम् १२ अभितो धवित्रे पार्श्वयो रूपम् १३ मध्ये तृतीयमुरसो रूपम् १४ मध्य उपयमनमुदरस्य रूपम् १५ तस्मिन् सर्व ँ! रज्जुमयँ समवदधात्यान्त्राणाँ रूपम् १६ पश्चादभ्रिं तिरश्ची ँ! श्रोण्यो रूपम् १७ अभितः शङ्कू सक्थ्यो रूपम् १८ मध्ये तृतीयं मेढ्रस्य रूपम् १९ रौहिणकपाले पार्ष्ण्यो रूपम् २० दशौदुम्बरीः समिधोऽङ्गुलीनाँ रूपम् २१ रौहिणपिष्टशेषमभिध्वँ सयति मज्जानाँ रूपम् २२ उपरिष्टान्मौञ्जवेदं विस्रस्य निदधाति स्नाव्नाँ रूपम् २३ अवकाभिर्धूपतृणैरिति प्रच्छादयति माँ सस्य रूपम् २४ दध्ना मधुमिश्रेणावोक्षति लोहितस्य रूपम् २५ कृष्णाजिनेन प्राचीनग्रीवेणोत्तरलोम्ना प्रच्छादयति त्वचो लोम्नाँ रूपम् २६ उपरिष्टात् सम्राडासन्दीं विस्रस्य निदधाति । साम्राज्यस्य रूपं करोति २७ ११.१५

उत्तरवेद्यामुद्वासयेत् तेजस्कामस्य । उत्तरवेद्यामन्नाद्यकामस्य १ पुरो वा पश्चाद्वोद्वासयेत् २ नदीद्वीप उद्वासयेत् ३ यदि नदीद्वीप उद्वासयेन्न परिषिञ्चेत् ४ यं द्विष्याद्यत्र स स्यात् तस्यां दिश्यौदुम्बर्या ँ! शाखायामुद्वासयेत् इदमहममुष्यामुष्यायणस्य शुचा प्राणमपिदहामि इति ५ शुचैवास्य प्राणमपिदहति । ताजगार्तिमार्छतीति विज्ञायते ६ यत्र दर्भा उपदीकसंतताः स्युस्तदुद्वासयेद् वृष्टिकामस्य ७ उत्तरवेद्यां नित्यं कल्पं ब्रुवते ८ नैनमुद्वासितं वयाँ सि पर्यासीरन्नाग्नेः प्रणयनात् ९ अत्रैके परिषेचनँ समामनन्ति १० अथैनमपतिष्ठन्ते रन्तिर्नामासि दिव्यो गन्धर्वः इति प्रतिपद्य सह प्रजया सह रायस्पोषेण ११ मार्जालीयदेश उच्छिष्टखरे मार्जयन्ते सुमित्रा न आप ओषधयः सन्तु इति १२ उद्वयं तमसस्परि इत्यादित्यमुपस्थाय उदु त्यम् ॥ चित्रम् इति द्वाभ्यां गार्हपत्ये हुत्वोपतिष्ठन्ते इममू षु त्यमस्मभ्यम् इति १३ ११.१६

यदि घर्मः स्कन्देत् अस्कान् द्यौः पृथिवीम् इति द्वाभ्यामेनमभिमन्त्रयेत १ यदि घर्मेण चरत्सु विद्युदापतेत् या पुरस्ताद्विद्युदापतत् इत्येतैर्यथालिङ्गं जुहुयात् २ अथ यदि सर्वतः सर्वा जुहुयात् ३ अथैतानि घर्मप्रायश्चित्तानि जुहोति प्राणाय स्वाहा ॥ पूष्णे स्वाहा इत्यनुवाकाभ्याम् ४ घर्मेष्टकामुपदधाति उदस्य शुष्माद्भानुः इत्यनुवाकेन ५ कुलायिनीं यास्ते अग्ने आद्रा र्! योनयः इत्यनुवाकेन ६ संचितमग्निमैडिक्याभिमृशति अग्निरसि वैश्वानरोऽसि इत्यनुवाकेन ७ भूर्भुवः सुवः इति सर्वप्रायश्चित्तानि ८ यदि महावीरः पद्येत ऊर्ध्व ऊ षु ण ऊतये इति द्वाभ्यामेनमुच्छ्रयेत् ९ यदि भिद्येत विधुं दद्रा णम् इति संधाय यानि दृढार्थे सँ श्लेषणानि तैरेनमभिदिह्येद्यदन्यन्माषेभ्यो माँ साच्च यदृते चिदभिश्रिषः इति १० यद्यप्रचरणीयः संपद्येतान्यस्मै स्थानमपिदध्यात् ११ यदि घर्ममतिपरीयुः न वा प्रतिपरीयुः पुनरूर्जा ॥ सह रय्या इत्येताभ्यामेनं प्रतिपरीयुः १२ ११.१७

अथैतानि घर्मे व्यथिते प्रायश्चित्तानि जुहोति मा नो घर्म व्यथितो विव्यथो नः इत्यष्टौ १ यदि घर्मेण चरत्स्वादित्योऽस्तमियादपरस्यां द्वारि दर्भेण हिरण्यं प्रबध्य उद्वयं तमसस्परि इत्युपस्थाय उदु त्यम् ॥ चित्रम् इति द्वाभ्यां गार्हपत्ये हुत्वा प्रवृज्य श्वो भूत आदित्यमुपतिष्ठते वयः सुपर्णाः इत्येतया २ दधिघर्मं भक्षयन्ति भूर्भुवः सुवः इत्यनुवाकेन ३ यदि घर्मधुग् दोहनकाले नागच्छेदन्यां दुग्ध्वा प्रवृज्य ताँ सुत्यायां ब्राह्मणाय दद्यात् ४ यदि घर्मदुघि पयो न स्याद् दृतेश्चतुर्थं पादँ स्तनं कृत्वा पिन्वयेत् ५ यदि दधि दुहीत बार्हस्पत्यँ शँ सेत् । यदि पय आश्विनँ सोदर्कम् ६ यदि लोहितं दुह्येतान्यद्वा विवर्णमन्वा-हार्यपचनं परिश्रित्य अग्नये रुद्र वते स्वाहा इति जुहुयात् ७ यदि निषी-देद्धातुरृग्भ्यां जुहुयात् ८ यद्यमेध्यमयज्ञियं वाभ्युपविशेदाग्निवारुण्यर्चा जुहुयात् । आग्नेय्या वा ९ यद्येनां वयोऽभिविक्षिपेद्वायव्यर्चा जुहुयात् १० यद्युद्वा पतेत् प्र वा मीयेत सं वा शीर्येत शार्दूलो वा हन्यादर्कक्षीरमजाक्षीर आश्चोत्य प्रचरेत् ११ ११.१८

अथातः सुत्यायां प्रवृञ्जनम् १ यदि पुरस्तादरुणा स्यादथ प्रवृज्यः २ उपकाश उपव्युषँ समयाविषित उदितानुदित उदिते वा ३ प्रातः संगवे वा ४ माध्यंदिने वा पवमाने स्तुते ५ सकृदेवाग्नीध्रे प्रवृज्य इति विज्ञायते ६ तान्येतानि प्रवृञ्जनान्यौपसदैः प्रवृञ्जनैर्विकल्पेरन् ७ व्याख्याता घोरास्तन्वः । अरण्येऽनुवाक्यश्च गण उत्तरौ चानुवाकौ ८ यदि घर्मेण चरत्स्वेकसृक उत्तिष्ठेत् वि गा इन्द्र विचरन् स्पाशयस्व इत्येनमभिमन्त्रयेत ९ उभयत आदी-प्योल्मुकमस्मै प्रत्यस्येत् अग्ने अग्निना संवदस्व इति १० अथैनमभिमन्त्रयते सकृत् ते अग्ने नमः इत्यनुवाकशेषेण ११ यदि गृध्रः सालावृकी भयेडको दीर्घमुखुलूको भूतोपसृष्टः शकुनिर्वा वदेत् असृङ्मुखः ॥ यदेतत् ॥ यदीषितः ॥ दीर्घमुखि ॥ इत्थादुलूकः ॥ यदेतद्भूतान्यन्वाविश्य ॥ प्रसार्य सक्थ्यौ इत्येतैर्यथालिङ्गमभिमन्त्र्! योल्मुकप्रत्यसनादि समानम् १२ ११.१९

यदि घर्मधुक् क्रिमीणा स्यात् अत्रिणा त्वा क्रिमे हन्मि इत्यनुवाकेनास्याः क्रिमीन् हन्यात् १ अपि वा सार्वत्रिकमेवैतत् प्रायश्चित्तं क्रियेत २ यमभिचरेत् तस्य लोहितमवदानं जुहुयात् आहरावद्य शृतस्य इत्यनुवाकेन ३ यम-भिव्याहरिष्यन् स्यात् त्रिरात्रावरं ब्रह्मचर्यं चरित्वा गत्वैनमभिव्याहरेत् ब्रह्मणा त्वा शपामि इत्यनुवाकेन ४ यं द्विष्यात् तस्य गोष्ठं गत्वा स्वजमोषधीं निखनेत् उत्तुद शिमिजावरि इत्यनुवाकेन ५ अपि वा गोष्ठस्यैव दक्षिणां द्वारस्थूणां विचालयेत् ६ यद्युद्गाता पुरुषसाम न गायेत् स्वयमेवाध्वर्युरुद्गायेत् भूर्भुवः सुवः इत्यनुवाकेन ७ ११.२०

अथातोऽवान्तरदीक्षां व्याख्यास्यामः १ पर्वण्युदगयन आपूर्यमाणपक्षे पुण्ये नक्षत्रेऽपराह्णे केशश्मश्रु वापयित्वा प्राचीं वोदीचीं वा दिशमुपनिष्क्रम्य खिलेऽछदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्य पूर्ववदुपाकृत्य मदन्तीरुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वा चतस्र औदुम्बरीः समिधो घृतान्वक्ता आदधाति पृथिवी समित् इत्येतैर्मन्त्रैः २ अथ देवता उपतिष्ठते अग्ने व्रतपते व्रतं चरिष्यामि इति ३ अथैनँ सर्वेषामनुवाकानां प्रभृतीरभिव्याहारयति । प्रथमोत्तमयोर्वा ४ उत्तमेनानुवाकेन शान्तिं कृत्वा ततः संमीलति वाचं च यच्छति ५ अथास्याहतेन वाससा शिरः संमुखं वेष्टयित्वास्तमिते ग्रामं प्रपादयति ६ वाग्यत एताँ रात्रिं तिष्ठत्यास्ते वा ७ श्वो भूते खिलेऽछदि-र्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्याथास्य षट्तयमभिविदर्शयति । सप्त-तयमित्येके । अग्निमादित्यमुदकुम्भमश्मानं वत्सं महानग्नाँ हिरण्यँ सप्तमम् ८ अपि वादितस्त्रीण्यभिविदर्शयति । यथोपपातमितराण्यभिविदर्शयति ९ तत आदित्यमुपतिष्ठते वयः सुपर्णाः इत्येतया १० अत्रैतद्वासो गुरवे दत्त्वा ११ अथास्य ब्रह्मचर्यमधि १२ नित्ये १३ न नक्तं भुञ्जीत १४ यदि भुञ्जीता-पज्वलितं भुञ्जीत १५ न मृन्मयं प्रतिधयीत १६ न स्त्रिया न शूद्रे ण वा संभाषेत १७ न चक्रीवदारोहेत् १८ नोपानहौ न छत्रं धारयीत १९ न समाजमीक्षेत न हर्म्याणि न शरीराणि न शवं नान्तावसायिनम् २० ११.२१

अष्टम्यां पर्वणि चोपवसति वाग्यतः १ न च संविशेत् २ संवत्सरमेतद् व्रतं चरेत् ३ एतस्मिन्नेव संवत्सरेऽधीयीत ४ यद्येतस्मिन् संवत्सरे नाधीयीत यावदध्ययनमेतद् व्रतं चरेत् ५ संवत्सरस्य परस्तात् खिलेऽछदिर्दर्शेऽग्नि-मुपसमाधाय संपरिस्तीर्य पूर्ववद्विसृज्यावृत्तैर्मन्त्रैः समिध आधायावृत्तैर्देवता उपस्थायात्र गुरवे वरं दत्त्वा केशश्मश्रु वापयते ६ अथास्य स्वाध्यायमधि ७ नित्ये ८ नानुत्सृष्टाध्यायोऽधीयीत न नक्तं नाभिदोषमब्रह्मचर्यमापद्य न माँ सं खादित्वा न केशश्मश्रु वापयित्वा न लोमानि कारयित्वा न नखानि न दतः प्रक्षाल्य ९ नाक्तो नाभ्यक्तो नाद्रो र्! नार्दे नानववृष्टे न हरितयवान् प्रेक्षमाणः १० न ग्राम्यस्य पशोरन्ते नारण्यस्य नापां नाभ्रे न छायायां न पर्यावृत्त आदित्ये ११ नाशृतमुत्पतितं न लोहितं दृष्ट्वा न हर्म्याणि न शरीराणि न शवं नान्ता-वसायिनम् १२ खिलेऽछदिर्दर्शेऽग्निमुपसमाधाय संपरिस्तीर्यापरेणाग्निं दर्भेष्वासीनो दर्भान् दूर्वा वा धारयमाणः पराचीनमधीयीत १३ वरं वा दत्त्वौपासने १४ अध्येष्यमाणः प्रथमेनानुवाकेन शान्तिं कृत्वाधीयीत १५ अधीत्य चोत्तमेन १६ अधीयानो नान्या वाचो वदेत् १७ यत्र क्व चाशान्तिं कृतं पश्येत् पुनरेव शान्तिं कृत्वाधीयीत १८ प्रवर्ग्यायोपनिष्क्रम्य नाप्रति-प्रविश्यान्यदधीयीतान्यदधीयीत १९ ११.२२
इत्येकादशः प्रश्नः