कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्/प्रश्नः १२

विकिस्रोतः तः
← प्रश्नः ११ कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्
प्रश्नः १२
भरद्वाजः
प्रश्नः १३ →

अथ द्वादशः प्रश्नः
यदातिथ्याया ध्रौवमाज्यं तत् कँ से चमसे वा पञ्चगृहीतं तानूनप्त्रँ समवद्यति आपतये त्वा गृह्णामि इत्येतैर्मन्त्रैः १ तद्यजमानसप्तदशा ऋत्विजः संमृशन्ति यजमानपञ्चमा वा महर्त्विजः अनाधृष्टमस्यनाधृष्यं देवानामोजोऽभिशस्तिपा अनभिशस्तेन्यम् इति २ अनु मे दीक्षां दीक्षापतिर्मन्यताम् इति यजमानो-ऽवमृशति ३ तद्यजमानस्त्रिरवजिघ्रेत् प्रजापतौ त्वा मनसि जुहोमि इति ४ अपि वान्वहमेकैकस्मिन् व्रते प्रतिनयेत् ५ ततः संप्रेष्यति अग्नीन्मदन्त्यापा३ इति ६ मदन्ति देवीरमृता ऋतावृधः इत्याग्नीध्रः ७ ताभिराद्र व इत्यध्वर्युः ८ मदन्तीभिर्मार्जयित्वा विस्रस्य राजानँ सहिरण्यैः पाणिभिराप्याययन्ति ये तानूनप्त्रँ समवमृशन्ति अँ शुरँ शुस्ते देव सोमाप्यायताम् इति प्रतिपद्य स्वस्ति ते देव सोम सुत्यामशीय इत्यन्तेन ९ दक्षिणे वेद्यन्ते प्रस्तरे निह्नवन्ते दक्षिणानुत्तानान् पाणीन् कृत्वा सव्यान् नीचः एष्टा रायः प्रेषे भगाय इति १० ततः संप्रेष्यति सुब्रह्मण्य सुब्रह्मण्यामाह्वय इति ११ एवमेव सर्वासु सुब्रह्मण्यासु संप्रेष्यति १२ सुब्रह्मण्यायां यजमानं वाचयति सासि सुब्रह्मण्ये तस्यास्ते पृथिवी पादः । सासि सुब्रह्मण्ये तस्यास्तेऽन्तरिक्षं पादः । सासि सुब्रह्मण्ये तस्यास्ते द्यौः पादः । सासि सुब्रह्मण्ये तस्यास्ते दिशः पादः । परोरजास्ते पञ्चमः पादः । सा न इषमूर्जं धुक्ष्व तेज इन्द्रि यं ब्रह्मवर्चसमन्नाद्यम् इति १३ एवमेव सर्वासु सुब्रह्मण्यासु यजमानं वाचयति १४ १२.१

ततोऽवान्तरदीक्षामुपैति १ दक्षिणतस्तिष्ठन्नाहवनीयमभिमन्त्रयते अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि इति २ संतरां मेखलाँ समायच्छते ३ संतरां मुष्टिं कर्षते ४ तप्तव्रतो भवति ५ मदन्तीभिर्मार्जयते ६ या ते अग्ने रुद्रि या तनूः इति व्रतयति ७ यदातिथ्याया बर्हिस्तदुपसदां तदग्नीषोमीयस्य । तदेव प्रस्तरपरिधीति विज्ञायते ८ प्रवर्ग्येण प्रचर्योपसदस्तन्त्रं प्रक्रमयति । उपसदा वा पूर्वम् ९ तत्स्तीर्णमेव बर्हिर्भवति । तत्परिहिताः परिधयः १० दशदारुमिध्मं करोति ११ वेदं कृत्वाग्नीन् परिस्तीर्य हस्ताववनिज्य पात्राणि प्रयुज्योलपराजी ँ! स्तीर्त्वा पवित्रे कृत्वा संप्रेष्यति यजमान वाचं यच्छ १२ वाग्यतः पात्राणि संमृशति १३ प्रोक्षणीः सँ स्कृत्य ब्रह्माणमामन्त्र्! य पात्राणि प्रोक्ष्य हविष्कृता वाचं विसृज्य बर्हिषो दर्भानेव स्तम्बयजुर्हरति १४ स्फ्यँ स्तब्ध्वा संप्रेष्यति प्रोक्षणीरासादयेध्ममुपसादय स्रुवं च स्रुचश्च संमृड्ढ्या-ज्येनोदेहि इति १५ समानमाज्यानां ग्रहणात् १६ ध्रुवायामेव गृह्णाति १७ प्रोक्षणीरभिमन्त्र्! य ब्रह्माणमामन्त्र्! येध्मं वेदिं च प्रोक्ष्य प्रोक्षण्यवशेषं निनीयाग्निमभिमन्त्र्! य पूर्वामाघारसमिधमाधायान्तर्वेदि ध्रुवाँ सादयित्वा स्रुवँ सादयति । एषासदत् इति मन्त्रँ संनमति १८ विष्ण्वसि वैष्णवं धाम प्राजापत्यम् इत्याज्यमभिमन्त्रयते १९ १२.२

अग्रेण ध्रुवां वेदँ सादयित्वा सामिधेनीभ्यः संप्रेष्यति १ नव सामिधेन्यो भवन्ति २ स्रौवमाघारमाघार्य संप्रेष्यति अग्नीत् परिधी ँ! श्चाग्निं च त्रिस्त्रिः संमृड्ढि इति ३ समानमा प्रवरात् ४ आश्राव्याह सीद होतः इति ५ एतावान् प्रवरः ६ यत्राभिजानाति घृतवतीमध्वर्यो स्रुचमास्यस्व इति तद् ध्रुवाया गृह्णात्यष्टगृहीतं जुह्वां चतुर्गृहीतमुपभृति ७ गृह्णन् संप्रेष्यति अग्नयेऽनुब्रूहि इति ८ अत्याक्रम्याश्राव्याह अग्निं यज इति ९ वषट्कृतेऽर्धं जुह्वा जुहोति १० अपुनरतिक्रामन् संप्रेष्यति सोमायानुब्रूहि इति ११ आश्राव्याह सोमं यज इति १२ वषट्कृते सर्वं जुहोति १३ अत्रैव तिष्ठन् संप्रेष्यति विष्णवेऽनुब्रूहि इति १४ जुह्वामौपभृतं पर्यासिच्याश्राव्याह विष्णुं यज इति १५ वषट्कृते जुहोति १६ प्रत्याक्रम्य स्रुवेणोपसदं जुहोति या ते अग्नेऽयाशया तनूः इत्येताम् १७ यदि पुरो युध्येयुरयः प्रथमायामवधाय जुहुयाद्र जतं मध्यमायाँ हरितमुत्तमाया-मिति विज्ञायते १८ यदि संग्रामं युध्येयुरित्येकेषाम् १९ उपसदँ हुत्वा तथैव राजानमाप्याययन्ति तथा निह्नवन्ते २० अथोपसदा चरन्ति २१ ततः संप्रेष्यति अग्नीद् देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्यामाह्वय इति २२ अपरेण गार्हप-त्यमुपविश्याग्नीध्रो देवपत्नीर्व्याचष्टे सेनेन्द्र स्य इत्येतमनुवाकम् २३ आह्वयति सुब्रह्मण्यः सुब्रह्मण्याम् २४ संतिष्ठत उपसत् २५ १२.३

स्वपराह्ण आपराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरन्ति १ अयाशयामेव जुहोति २ एतावन्नाना । याः प्रातर्याज्याः स्युस्ताः सायं पुरोनुवाक्याः कुर्यात् । याः पुरोनुवाक्यास्ता याज्याः ३ सव्यानुत्तानान् पाणीन् कृत्वा निह्नवन्ते दक्षिणा-न्नीचः ४ चतुःस्तनं मध्यरात्रे व्रतयति ५ जागर्त्येताँ रात्रिम् ६ सुपूर्वाह्णे पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरन्ति ७ रजाशयामत्रोपसदं जुहोति ८ सँ स्थितायामुपसदि महावेदिं विमिमीते
विमिमे त्वा पयस्वतीं देवानां धेनुँ सुदुघामनपस्फुरन्तीम् ।
इन्द्र ः! सोमं पिबतु क्षेमो अस्तु नः ॥
इति ९ अग्रेण प्राग्वँ शं त्रीन् प्राचः प्रक्रमान् प्रक्रम्य शङ्कुं निहन्ति १० स वेदेः पश्चार्ध्यः शङ्कुः ११ ततः षट्त्रिँ शतं प्राचः प्रक्रमान् प्रक्रम्य शङ्कुं निहन्ति १२ स यूपावट्यः शङ्कुः १३ पश्चार्ध्याच्छङ्कोः पञ्चदश दक्षिणा प्रक्रमान् प्रक्रम्य पञ्चदशोत्तरतस्तच्छङ्कुं निहन्ति १४ ते श्रोणी भवतः १५ यूपावट्याच्छङ्कोर्द्वादश दक्षिणा प्रक्रमान् प्रक्रम्य द्वादशोत्तरतस्तच्छङ्कुं निहन्ति १६ तावँ सौ भवतः १७ अथैनमक्ष्णया प्रमाणेन प्रमाय स्पन्द्यया पर्यातनोति १८ अन्वातनोति पृष्ठ्याम् १९ अथैनाँ स्फ्येन विघनेन पर्श्वा परशुनेति कुर्वन्ति २० १२.४

अथैनां दर्शपौर्णमासिकेन सँ स्कारेण सँ स्करोति यदन्यत् संनमनात् १ यत् प्रागुत्तरस्मात् परिग्राहात् तत् कृत्वापरेण यूपावटदेशँ शम्ययोत्तरवेदिं परि-मिमीते शम्यामात्रीं युगमात्रीं वा । सर्वतो वा दशपदाम् २ एतामुत्तरस्माद् वेद्यँ सादुदञ्चं प्रक्रमं प्रक्रम्य शङ्कुं निहन्ति ३ स चात्वालो भवति ४ अपरेण चात्वालं द्वादशसु प्रक्रमेषु तावत्युदगुत्करः ५ अपरेणोत्करं च षट्स्वाग्नीध्रः ६ अन्तरेण चात्वालोत्करौ संचरो भवति । अन्तरेण चात्वालं चाग्नीध्रं चेत्येकेषाम् ७ यत् किं च वेदिमन्ववहरिष्यन् स्यादेतेनैवान्ववहरेत् ८ उत्तरवेद्या आवृतोत्तरवेदिमुपोष्य प्रोक्षान्तां कृत्वौदुम्बरशाखाभिश्छन्नां परि-वासयति ९ त्रिस्तनं मध्यंदिने व्रतयति १० स्वपराह्ण आपराह्णिकीभ्यां प्रचरन्ति ११ रजाशयामेव जुहोति १२ द्विस्तनं मध्यरात्रे व्रतयति १३ सुपूर्वाह्णे पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरन्ति १४ हराशयामत्रोपसदं जुहोति १५ तदानीमेवापराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरन्ति १६ हराशयामेव जुहोति १७ एकस्तनं मध्यंदिने व्रतयति १८ संतिष्ठन्त उपसदः १९ १२.५

प्रवर्ग्यमुद्वास्याग्नेरावृताग्निं प्रणीयामिक्षायै दधिघर्मायेति वत्सानपाकरोति १ मित्रावरुणाभ्याम् इत्यामिक्षायामुपलक्षयेदिन्द्रं दधिघर्मे २ अथाध्वर्यवो महावेदिकं बर्हिः प्रभूतमाहरन्ति यथा दर्शपूर्णमासयोः ३ तत उत्तरं परिग्राहं परिगृह्णाति यथा दर्शपूर्णमासयोः ४ न परिगृहीतामभिचरन्त्या प्रोक्षणात् ५ प्रोक्षणीनामावृता प्रोक्षणीः सँ स्कृत्य ब्रह्माणमामन्त्र्! य वेदिं बर्हिरिति त्रिः प्रोक्षति यथा दर्शपूर्णमासयोः ६ अथैतद्बर्हिः सर्वस्यां महावेद्याँ स्तृणन्ति यथा दर्श-पूर्णमासयोः ७
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
येषामिन्द्रो युवा सखा ॥
इत्येतामेके स्तरणीँ समामनन्ति ८ अपरेण वेदिमभितः प्राग्वँ शँ हविर्धाने समावर्तयन्ति प्रक्षालिते विषितग्रन्थिनी नद्धयुगे अवहितशम्ये छदिष्मती ९ तत औत्तरवेदिक आहुतिं जुहोति युञ्जते मनः इति १० एतस्मिन्नेवात ऊर्ध्व-माहवनीयकर्माणि क्रियन्ते ११ पत्नी पदतृतीयेन दक्षिणस्य हविर्धानस्य दक्षिणामक्षधुरं प्राचा हस्तेन त्रिः पराचीनमुपानक्ति आ नो वीरो जायतां कर्मण्यः इति नोत्तराम् । उभयत उपानक्तीत्येकेषाम् १२ एवमेवोत्तर-स्योपानक्ति १३ ततः संप्रेष्यति १४ १२.६

हविर्धानाभ्यां प्रोह्यमाणाभ्यामनुब्रूहि इति १ त्रिरनूक्तायां प्रथमायामुद्गृह्णन्तः प्रवर्तयन्ति प्राची प्रेतमध्वरं कल्पयन्ती इति २ यद्यक्ष उत्सर्जेत् सुवाग्देव दुर्या ँ! आवद इत्येतदभिमन्त्रयेत ३ अध्वर्युर्दक्षिणस्य हविर्धानस्य दक्षिणे वर्त्मनि हिरण्यमुपास्य जुहोति इदं विष्णुर्वि चक्रमे इति ४ एवं प्रतिप्रस्थातोत्तरस्योत्तरे वर्त्मनि हिरण्यमुपास्य जुहोति इरावती धेनुमती हि भूतम् इति ५ तत्रैषोऽत्यन्तप्रदेशः । यानि दक्षिणस्य कर्माण्यध्वर्युस्तानि कुर्यादुत्तरस्य प्रतिप्रस्थाता ६ वितृतीयदेशे होता मनसा पदा जन्यं भयं प्रतिनु-दति
अप जन्यं भयं नुदाप चक्राणि वर्तय ।
गृहँ सोमस्य गच्छतम् ॥
इति । अध्वर्युरित्येकेषां ब्रह्मेत्येकेषां यजमान इत्येकेषाम् ७ अपरेणोत्तरवेदिं त्रिषु प्रक्रमेष्वपरिमिते वाभितः पृष्ठ्यां नभ्यस्थे स्थापयतः अत्र रमेथां वर्ष्मन् पृथिव्याः इति ८ यथार्थ ँ! हविर्धानयोरन्तरालं भवति ९ वैष्णवमसि विष्णुस्त्वोत्तभ्नातु इत्युपस्तभ्नीतः १० पुरस्तादुन्नते भवतः ११ अध्व-र्युर्दक्षिणस्य हविर्धानस्य दक्षिणं कर्णातर्दं प्रति मेथीं निहन्ति दिवो वा विष्णवुत वा पृथिव्याः इति १२ एवं प्रतिप्रस्थाता १३ १२.७

उत्तरस्योत्तरं कर्णातर्दं प्रति मेथीं निहन्ति विष्णोर्नु कं वीर्याणि प्रवोचम् इति १ तयोर्हविर्धाने निबध्नीतः विष्णो स्यूरसि इति २ विष्णोर्ध्रुवमसि इति ग्रन्थिं करोति ३ यं प्रथमं ग्रन्थिं ग्रथ्नीयात् स प्रज्ञातः परिशयीत ४ पश्चादुपमिन्वन्ति ५ ऊर्ध्वाः शम्या उद्वृह्योपरिष्टात् परिवेष्टयन्ति ६ अग्रेण हविर्धाने स्थूणे निहत्य तयोरुदगग्रं वँ शं निधाय तस्मिन् रराटीं प्रतिष्ठापयति विष्णो रराटमसि इति ७ रराट्यां तिर्यञ्चं वँ शं निषीव्यति विष्णो स्यूरसि इति ८ विष्णोर्ध्रुवमसि इति ग्रन्थिं करोति ९ यं प्रथमं ग्रन्थिं ग्रथ्नीयात् स प्रज्ञातः परिशयीत १० विष्णोः पृष्ठमसि इति मध्यमं छदिरधिनिदधाति ११ विष्णो श्नप्त्रे स्थः इति रराट्या अन्तौ व्यवास्यति १२ कटाँ स्तेजनीरिति प्रवर्तमन्तरालेषूपास्यति १३ तानन्तर्वर्ता इत्याचक्षते १४ परि त्वा गिर्वणो गिरः इति परिश्रयति १५ द्वे द्वारे उत्सृजन्ति । पूर्वं चापरं च १६ शालामुखीयो होत्राय औत्तरवेदिक इति समानँ सांकाशिनं भवति १७ दक्षिणे द्वार्यावध्वर्युः परिषीव्यत्युत्तरे प्रतिप्रस्थाता विष्णो स्यूरसि इति १८ विष्णोर्ध्रुवमसि इति ग्रन्थिं करोति १९यं प्रथमं ग्रन्थिं ग्रथ्नीयात् स प्रज्ञातः परिशयीत २० १२.८

संमितमभिमृशति वैष्णवमसि विष्णवे त्वा इति १ संमिताद्यजमानं प्राञ्च-मुपनिष्क्रामति
प्र तद्विष्णुः स्तवते वीर्याय मृगो न भीमः कुचरो गिरिष्ठाः ।
यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥
इति । त्रिः प्रक्रामयतीति विज्ञायते २ उपनिष्क्रामतीत्येकेषाम् ३ प्राचीनवँ शं हविर्धानं मिन्वन्ति ४ प्राचीनवँ शमाग्नीध्रं दक्षिणाद्वारमर्धमन्तर्वेद्यर्धं बहिर्वेदि ५ तिरश्चीनमुदगायतँ सदः ६ तत्रैषोऽत्यन्तप्रदेशः । न प्राङ् हविर्धाने अतीयादध्वर्युः ७ यद्यतीयाद्वैष्णव्यर्चा संचरेत् क्षैत्रपत्या वा ८ न प्रत्यक्सदो-ऽतीयात् ९ यद्यतीयादैन्द्र र्य्चा संचरेदिति विज्ञायते १० पश्चार्ध्याच्छङ्कोस्त्रीनू प्राचः प्रक्रमान् प्रक्रम्य शङ्कुं निहन्ति । स सदसःपश्चार्ध्यः ११ दक्षिणेन पृष्ठ्यां प्रक्रम औदुम्बरी ँ! सर्वस्य सदसो मध्यतो मिनोति १२ नवारत्नि तिर्यक् सप्तवि ँ! शतिरुदगायतमिति सदसो विज्ञायते । अष्टादशेत्येकेषाम् १३ यावदृत्विग्भ्यो धिष्णियेभ्यः प्रसर्पकेभ्य आप्तं मन्यते तावत् सदः करोती-त्येकेषाम् १४ सावित्रेणाभ्रिमादायौदुम्बर्या अवटं परिलिखति परिलिखितँ रक्षः परिलिखिता अरातयः इति १५ खात्वा यवमतीभिः प्रोक्षणीभिरौदुम्बरीं प्रोक्षति । दिवे त्वा इत्यग्रम् । अन्तरिक्षाय त्वा इति मध्यम् । पृथिव्यै त्वा इति मूलम् १६ अपामवनयनं यवस्य प्रासनं बर्हिषोऽवस्तरणमिति यूपे व्याख्यातम् १७ १२.९

प्राचीनकर्णा ँ! सहोद्गात्रोच्छ्रयति उद्दिवँ स्तभानान्तरिक्षं पृण इति १ प्राचीनक-र्णा ँ! सहोद्गात्रा मिनोति द्युतानस्त्वा मारुतो मिनोतु इति २ पर्यूहणं परिदृँ हणं परिषेचनमिति यूपे व्याख्यातम् ३ अथास्या अन्तरेण कर्णौ हिरण्यं निधाया-भिजुहोति घृतेन द्यावापृथिवी आपृणेथाँ स्वाहा इति । आन्तमन्ववस्रावयति ४ यजमानमात्र्! यौदुम्बरी वर्षिष्ठा स्थूणानां भवति । यथासुष्ठुपर्यन्तां मिन्वन्ति ५ यजमानमात्रँ ह्रसीयो वा सदः संमिनोति ६ यदि कामयेत वर्षुकः पर्जन्यः स्यादिति नीचैस्तरां मिनुयात् । यदि कामयेतावर्षुकः स्यादित्युच्चैस्तराम् । नाभिदघ्नपर्यन्तां मिन्वन्तीति विज्ञायते ७ ऐन्द्र मसि इत्येकैकं मध्यमानि छ-दी ँ! ष्यधिनिदधाति ८ इन्द्र स्य सदोऽसि इति दक्षिणानि ९ विश्वजनस्य छाया इत्युत्तराणि १० दक्षिणान्युत्तराणि करोति ११ औदुम्बरीमभि संमुखानि भवन्ति १२ नवछद्यग्निष्टोमस्य मिनुयात् । पञ्चदशछद्युक्थ्यस्य । सप्तदश-छद्यतिरात्रस्य । नवधदि पञ्चदशछदि वा षोडशिनः १३ नवछदि तेज-स्कामस्य मिनुयादिति काम्याश्छदिःकल्पा ब्राह्मणव्याख्याताः १४ अन्तर्वर्तान् परिश्रयणँ सांकाशिनं परिषीवणं ग्रन्थिकरणमभिमर्शनमिति । एतावन्नाना । ऐन्द्रा एते मन्त्रा भवन्ति १५ १२.१०

उपरवान् व्याख्यास्यामः १ दक्षिणस्य हविर्धानस्याधस्तात् पुरोऽक्षं चत्वारो-ऽवान्तरदेशेषु प्रादेशमुखाः प्रादेशान्तराला भवन्ति । असंभिन्ना उपरिष्टात् संतृण्णा अधस्तात् २ सावित्रेणाभ्रिमादाय परिलिखति परिलिखितँ रक्षः परिलिखिता अरातयः इति ३ दक्षिणयोः पूर्वं ततोऽपरं तत उत्तरतस्ततः पूर्वम् ४ एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ५ बाहुमात्रान् खात्वाभ्र्या प्रहरति रक्षोहणो वलगहनो वैष्णवान् खनामि इति । सकृदेव मन्त्रं जपति ६ विराडसि सपत्नहा इति बाहुमुपावहृत्य पुरीषमुद्वपति इदमहं तं वलगमुद्वपामि यं नः समानो यमसमानो निचखान इति ७ उपरवबिले न्युप्यावबाधते इदमेनमधरं करोमि यो नः समानो योऽसमानोऽरातीयति गायत्रेण छन्दसा इति ८ एवमेवोत्तरेणोत्तरेण मन्त्रेणोत्तरेषु बाहुमुपावहृत्य पुरीषमुद्वपत्युत्तरेणोत्तरेण छन्दसावबाधते । त्रैष्टुभं जागतमानुष्टुभं पाङ्क्तमित्ये-तान्याम्नातानि भवन्ति ९ निरस्तो वलगः इति पुरीषँ हरति १० अवबाढो दुरस्युः इति खरे न्युप्यावबाधते ११ १२.११

अथ संमृशातेऽध्वर्युर्यजमानश्च १ यः पूर्वयोर्दक्षिणस्तं यजमानोऽवमृशति यो-ऽपरयोरुत्तरस्तमध्वर्युः २ अधस्ताद्धस्तौ सँ स्पर्शयतः ३ स यजमानः पृच्छति अध्वर्यो किमत्र इति ४ भद्र म् इत्यध्वर्युः ५ तन्नौ सह इति यजमानः ६ अथ विपरिसर्पतः ७ यः पूर्वयोरुत्तरस्तं यज्मानोऽवमृशति योऽपरयोर्दक्षिण-स्तमध्वर्युः ८ अधस्ताद्धस्तौ सँ स्पर्शयतः ९ स यजमानः पृच्छति अध्वर्यो किमत्र इति १० भद्र म् इत्यध्वर्युः ११ तन्मयि इति यजमानः १२ अथैनान् संमृशति विराडसि सपत्नहा इत्येतैर्मन्त्रैः १३ अथैनान् यवमतीभिः प्रोक्षणीभिः प्रोक्षति रक्षोहणो वलगहनः प्रोक्षामि वैष्णवान् इति १४ अवसिञ्चति रक्षोहणो वलगहनोऽवनयामि वैष्णवान् इति १५ यवोऽसि यवयास्मद्द्वेषः इति यवं प्रास्यति १६ बर्हिरवस्तृणाति रक्षोहणो वलगहनोऽवस्तृणामि वैष्णवान् इति १७ आज्येन व्याघारयति रक्षोहणो वलगहनोऽभिजुहोमि वैष्णवान् इति १८ एवमुपरवमन्त्रानेके समामनन्ति १९ रक्षोहणौ वलगहनौ वैष्णवी प्रोक्षामि इत्यधिषवणफलके प्रोक्षति । औदुम्बरे पालाशे कार्ष्मर्यमये वा । असंतृण्णे भवतः संतृण्णे वा २० १२.१२

प्रधिमुखे पुरस्तात्सँ हिते समावकृत्ते पश्चाद्द्व्यङ्गुल उत्तराधिषवणफलके भवति चतुरङ्गुलं वा १ पुरस्तादँ हीयसी भवतः पश्चात् प्रथीयसी २ द्वौ दक्षिणेना-पिदधाति द्वावुत्तरेण रक्षोहणौ वलगहनावुपदधामि वैष्णवी इति ३ पर्यूहति रक्षोहणौ वलगहनौ पर्यूहामि वैष्णवी इति ४ परिस्तृणाति रक्षोहणौ वलगहनौ परिस्तृणामि वैष्णवी इति ५ अमिन्त्रयते रक्षोहणौ वलगहनौ वैष्णवी इति ६ रक्षोहणं त्वा वलगहनं वैष्णवं प्रोक्षामि इत्यधिषवणचर्म प्रोक्षत्यानडुहँ रोहितम् ७ अधिषवणफलकयोरधिषवणचर्मास्तृणात्युत्तरलोमासेचनवत् र-क्षोहा त्वा वलगहा वैष्णवमास्तृणामि इति ८ तस्मिँ श्चतुरो ग्राव्णः सादयत्यू-र्ध्वसानूनाहननप्रकारानुपरं प्रयिष्ठं मध्ये पञ्चमं बृहन्नसि बृहद्ग्रावा बृहती-मिन्द्रा य वाचं वद इत्येकैकम् ९ औपरवात् पुरीषाद्दक्षिणस्य हविर्धानस्या-ग्रेणोपस्तम्भनं चतुःस्रक्तिं खरं करोति यावन्तं पात्रेभ्य आप्तं मन्यते १० १२.१३
चात्वालाद्धिष्णियानुपवपति १ आग्नीध्रागारेऽन्तर्वेद्याग्नीध्रीयं विभूरसि प्रवा-हणः इति २ रौद्रे णानीकेन इत्येनं मन्त्रँ सर्वत्रानुषजति ३ अपरेण सदोबिलं पृष्ठ्यायाँ होत्रीयं वह्निरसि हव्यवाहनः इति ४ दक्षिणेन होत्रीयं प्रशास्त्रीयं श्वात्रोऽसि प्रचेताः इति ५ उत्तरेण होत्रीयमुदीच इतरान् ६ तुथोऽसि विश्ववेदाः इति ब्राह्मणाच्छँ सिनः ७ उशिगसि कविः इति पोतुः ८ अङ्घारिरसि बम्भारिः इति नेष्टुः ९ अवस्युरसि दुवस्वान् इत्यच्छावाकस्य १० दक्षिणार्धे वेदेर्मार्जा-लीयं प्रष्टिमाग्नीध्रीयेण शुन्ध्यूरसि मार्जालीयः इति ११ १२.१४

तत इतरानुपतिष्ठते १ सम्राडसि कृशानुः इत्याहवनीयम् २ परिषद्योऽसि पवमानः इति यत्र बहिष्पवमानँ स्तुवते ३ प्रतक्वाऽसि नभस्वान् इति चात्वालम् ४ असंमृष्टोऽसि हव्यसूदः इति शामित्रदेशम् ५ ऋतधामासि सुवर्जोतिः इत्यौदुम्बरीम् ६ ब्रह्मज्योतिरसि सुवर्धाम इति ब्रह्मसदनम् ७ समुद्रो ऽसि विश्वव्यचाः इति सदः ८ अजोऽस्येकपात् इति शालामुखीयम् ९ अहिरसि बुध्नियः इति प्राजहितम् १० कव्योऽसि कव्यवाहनः इत्यन्वा-हार्यपचनम् ११ अत्रैके बर्हिषः स्तरणँ समामनन्ति १२ ततः संप्रेष्यति स्तृणीत बर्हिः प्र व्रतं यच्छत समपिव्रतान् ह्वयध्वम् इति १३ न खरमधिस्तृणन्ति । न धिष्णियान् १४ अत्रास्मा एकस्तनव्रतं प्रयच्छति १५ १२.१५

अग्नीषोमीयस्य पशोस्तन्त्रं प्रक्रमयति १ प्लक्षशाखामातिथ्याबर्हिष्युपसं-नह्यति । आतिथ्यापरिधीनिध्मे २ त्रयोविँ शतिदारुमिध्मं करोति ३ समान-माज्यानां ग्रहणात् ४ शालामुखीये पाशुकान्याज्यानि गृह्णाति ५ एतस्मि-न्नेवात ऊर्ध्वं गार्हपत्यकर्माणि क्रियन्ते ६ आ सोमं ददत आ ग्राव्ण आ वायव्यान्या द्रो णकलशमुत् पत्नीमानयन्त्यन्वनाँ सि प्रवर्तयन्ति ७ शाला-मुखीयं गार्हपत्यकर्मभ्योऽन्ववस्यन्ति ८ प्राची पत्नी पूर्वमग्निमभ्युदैति प्रैतु ब्रह्मणस्पत्नी इति ९ अग्ने गृहपत उप मा ह्वयस्व इत्येतदादि शालामुखीये कुरुत आ गार्हपत्याभिमन्त्रणात् १० उपस्थे ब्रह्मा राजानं कुरुते ११ सँ ह्वयन्ति यजमानस्यामात्यान् १२ अध्वर्युं यजमानोऽन्वारभते यजमानं पत्नी पत्नीमितरे पुत्रभ्रातरः १३ अहतेन वाससामात्यान् संप्रच्छाद्य वाससोऽन्तँ स्रुग्दण्ड उपनियम्य जुहोति वैसर्जनानि त्वँ सोम तनूकृद्भ्यः इति १४ जुषाणो अप्तुराज्यस्य वेतु स्वाहा इति द्वितीयामाहुतिँ हुत्वा १५ १२.१६
शालामुखीय इध्ममादीप्य संप्रेष्यति अग्नीषोमाभ्यां प्रणीयमानाभ्यामनुब्रूहि इति १ त्रिरनूक्तायां प्रथमायामग्निप्रथमाः प्राञ्चोऽभिप्रव्रजन्ति २ अथैनमनु-हरन्त्याज्यान्यनुहरन्तीध्माबर्हिरनुहरन्ति प्रोक्षणीरनुनयन्त्यग्नीषोमीयम् ३ आग्नीध्र एतमिध्मँ सादयित्वा नयवत्यर्चाभिजुहोति अयं नो अग्निर्वरिवः कृणोतु ४ अत्रैव ग्राव्णो वायव्यानि द्रो णकलशमाग्नीध्र उपवासयति ५ सोमप्रथमाः प्राञ्चोऽभिप्रव्रजन्ति ६ उरु विष्णो वि क्रमस्व इत्याहवनीये हुत्वापरया द्वारा हविर्धाने राजानं प्रपादयति सोमो जिगाति गातुवित् इति । पूर्वया वा ७ पूर्वया तु यजमानः प्रपद्यते ८ यदि गतश्रीः स्यात् पूर्वयैव द्वारा राजानं प्रपादयेत् ९ दक्षिणस्य हविर्धानस्य नीडे कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणाति अदित्याः सदोऽसि इति १० तस्मिन् राजानमासादयति अदित्याः सद आसीद इति ११ १२.१७

आसन्नँ राजानं यजमानोऽभिमन्त्रयते एष वो देव सवितः सोमस्तँ रक्षध्वं मा वो दभदेतत्त्वँ सोम देवो देवानुपागाः इति १ प्रदक्षिणमावर्तते इदमहं मनुष्यो मनुष्यान् सह प्रजया सह रायस्पोषेण इति २ नमो देवेभ्यः इति प्राचीनमञ्जलिं करोति ३ स्वधा पितृभ्यः इति दक्षिणतः ४ उपनिष्क्रामति इदमहं निर्वरुणस्य पाशात् इति ५ विहारमभिवीक्षते सुवरभि वि ख्येषं वैश्वानरं ज्योतिः इति ६ ततोऽवान्तरदीक्षां विसृजते ७ दक्षिणतस्तिष्ठन्नाहवनीयमभिमन्त्रयते अग्ने व्रतपते त्वं व्रतानां व्रतपतिरसि इति ८ नितरां मेखलां मृध्नीते ९ ततो मुष्टी विसृजते । स्वाहा यज्ञं मनसा इति द्वे । स्वाहा द्यावापृथिवीभ्याम् इति द्वे । स्वाहोरोरन्तरिक्षात् इति द्वे । स्वाहा यज्ञं वातादारभे इति द्वे १० स्वाहा वाचि वातो विसृजे इति वाचं विसृजते ११ निवर्तते व्रतम् १२ सोमान् हविःशेषानिति सुत्येऽहनि भक्षयति १३ तत इध्मं बर्हिरिति प्रोक्षति यथा दर्शपूर्णमासयोः १४ अथैतद्बर्हिः सर्वस्यां महावेद्याँ स्तृणीयादित्येकम् । अपरेणोत्तरवेदिमित्यपरम् १५ यत् किं चात ऊर्ध्वं बर्हिरागच्छेदेवमेवैनँ स्तृणीयात् १६ समानमा स्रुचाँ सादनात् १७ स्रुचः सादयित्वा १८ १२.१८

यूपं छिनत्ति १ दीक्षासु यूपं छिनत्त्युपसत्सु वा २ विज्ञायते यदि दीक्षितस्यावृक्णो यूपः स्यादरणी चाज्यं चादाय यूपस्यान्तेऽग्निं मथित्वा जुहुयादिति ३ अथ यदि क्रीतः सोमः स्यादाहवनीय एव जुहुयात् ४ समानमा पशूपाकरणात् ५ अग्नीषोमीयं पशुमुपाकरोति ६ समानमा प्रवरात् ७ प्राकृतेन प्रवरेण होतारं वृत्वा पुनराश्राव्योपाँ शुनामधेयग्राहमस्फ्य उत्तरा-नृत्विजो वृणीते ८ इन्द्र ँ! होत्रादसौ मानुषः इति होतारम् ९ अग्निमाग्नीध्रादसौ मानुषः इत्याग्नीध्रम् १० अश्विनाध्वर्यू आध्वर्यवादहं चासौ च मानुषौ इत्या-त्मानं प्रतिप्रस्थातारं च ११ मित्रावरुणौ प्रशास्तारौ प्रशास्त्रादसौ मानुषः इति मैत्रावरुणम् १२ इन्द्रो ब्रह्मा ब्राह्मणादसौ मानुषः इति ब्राह्मणाच्छँ सिनम् १३ मरुतः पोत्रादसौ मानुषः इति पोतारम् १४ ग्नावो नेष्ट्रादसौ मानुषः इति नेष्टारम् १५ ततो यजमानं वृणीते अग्निर्दैवीनां विशां पुरएतायँ सुन्वन् यजमानो मनुष्याणां तयोर्नावस्थूरि गार्हपत्यानि सन्तु शतँ हिमा द्वा यू राधाँसीत्सं-पृञ्चानावसंपृञ्चानौ तन्वः इति १६ सवनीय एके वृणते । तत्र सुन्वन् इति ब्रूयात् १७ अयं यजमानो मनुष्याणाम् इत्यग्नीषोमीये वृणानः १८ १२.१९

प्रवृतः प्रवृतः प्रवृतहोमौ जुहोति जुष्टो वाचो भूयासम् ॥ ऋचा स्तोमँ समर्धय इत्येताभ्याम् १ प्रवृतः प्रवृतो जुहुयादित्येकम् । अध्वर्युरेव जुहुयादित्यपरम् २ समानमा वपाया होमात् ३ हुतायां वपायामाह्वयति सुब्रह्मण्यः सुब्रह्मण्यां पितापुत्रीयाम् ४ अपराह्णे वसतीवरीर्गृह्णाति वहन्तीनां प्रतीपं तिष्ठन् ५ कुम्भमुपमारयति हविष्मतीरिमा आपः इति ६ नान्तमा वहन्तीरतीयात् ७ छायायै चातपतश्च संधौ गृह्णाति । वृक्षस्य वात्मनो वा छायायाम् ८ यस्यागृहीता अभिनिम्रोचेज्ज्योतिषा वा गृह्णीयाद्धिरण्यं वावधाय ९ यो वा ब्राह्मणो बहुयाजी तस्य कुम्भ्यानां गृह्णीयात् १० वरं दत्त्वा गृह्णीयादित्येकेषाम् ११ अथैना अपरेण गार्हपत्यमुपसादयति अग्नेर्वोऽपन्नगृहस्य सदसि सादयामि इति १२ समानमेडायाः १३ दक्षिणेन हविर्धाने समवत्तँ हरत्युत्तरेण वा १४ ततः संप्रेष्यति अग्नीदौपयजानङ्गारानाहर इति १५ शामित्रादाग्नीध्राद्वाङ्गा-रानाहृत्याग्नीध्रो होत्रीये निवपति १६ प्रतिप्रस्थातोपयजति १७ नात्रानूयाजान्ते स्वरुं जुहोति । न सवनीये अनूबन्ध्यायामेव जुहोति १८ तं दिवोपाकृत्य नक्तँ सँ स्थापयति १९ पत्नीसंयाजान्तः संतिष्ठते २० हृदयशूलेन चरित्वा न यूपमुपतिष्ठते २१ नाग्नीषोमीये न सवनीये हृदयशूलेन चरन्ति । अनूबन्ध्यायामेव चरन्तीत्येकेषाम् २२ १२.२०

निशायामन्तर्वेद्यासीनौ यजमानं पत्नीं च वसतीवरीभिरभिपरिहरन्ति १ नादीक्षितं वसतीवरीभिरभिपरिहरेयुः २ आदाय कुम्भँ सव्ये ँ! ऽसे निधाय दक्षिणया द्वारोपनिष्क्रम्य दक्षिणं वेद्यन्तमनुपरीत्य दक्षिणस्यामुत्तरवेदिश्रोण्याँ सादयति इन्द्रा ग्नियोर्भागधेयी स्थ इति ३ आदाय कुम्भँ दक्षिणे ँ! ऽसे निधाय यथेतं प्रतिपरीत्योत्तरया द्वारोपनिष्क्रम्योत्तरं वेद्यन्तमनुपरीत्योत्तरस्याम् उत्तरवेदिश्रोण्याँ सादयति मित्रावरुणयोर्भागधेयी स्थ इति ४ आदाय कुम्भँ सव्ये ँ! ऽसे निधाय यथेतं प्रतिपरीत्य पूर्वया द्वारोपनिष्क्रम्याग्नीध्रे सादयति विश्वेषां देवानां भागधेयी स्थ यज्ञे जागृत इति ५ अग्रैता उपवासयति ६ आह्वयति सुब्रह्मण्यः सुब्रह्मण्यां पितापुत्रीयाम् ७ ततः पयाँ सि विशास्ति । या यजमानस्य व्रतधुक् तस्या आशिरं कुरुत या पत्नियै तस्यै दधिग्रहाय या घर्मधुक् तस्यै दधिघर्माय तप्तमनातक्तं मैत्रावरुणाय शृतातङ्क्यं कुरुता-दित्यग्रहाय इति ८ यथाचोदितं कुर्वन्ति ९ अत्रामिक्षायाः सायंदोहं दोहयति १० हविर्धाने यजमानं जागरयन्ति । प्राग्वँ शे पत्नीम् ११ आग्नीध्र ऋत्विजो वसन्ति । न सदसि कश्चन वसति १२ यजमान एवैताँ रात्रिँ राजानं गोपायतीति विज्ञायते १३ १२.२१
इति द्वादशः प्रश्नः