कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्/प्रश्नः ०३

विकिस्रोतः तः
← प्रश्नः ०२ कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्
प्रश्नः ०३
भरद्वाजः
प्रश्नः ०४ →

अथ तृतीयः प्रश्नः
इडापात्रमुपस्तीर्याग्नेयस्य पुरोडाशस्य दक्षिणार्धात् पूर्वमिडावदानमवद्यति मनुना दृष्टां घृतपदीं मित्रावरुणसमीरिताम् । दक्षिणार्धादसंभिन्दन्नवद्या-म्येकतोमुखाम् इति १ पृष्ठँ संभिद्य पूर्वार्धाद् यजमानभागमवद्यत्यणुमिव दी-र्घम् २ संभेदाद् द्वितीयमिडावदानमवद्यति ३ एवँ सर्वेषाँ हविषामिडाँ समवद्यति ४ स्थवीयाँ स्येतानि सौविष्टकृतेभ्यो भवन्ति ५ अभिघार्यान्तरा हवीँ षि स्रुचश्च हृत्वा होत्र इडामादधाति ६ स्वयं वा होतेडामादत्ते ७ अग्रेण होतारमध्वर्युर्दक्षिणातिक्रामत्यनुत्सृजन्निव ८ होतेडयाध्वर्युं परिगृह्णाति ९ पश्चात् प्राङुपविश्य स्रुवेण होतुरङ्गुलिपर्वणी अनक्ति १० पूर्वमक्त्वापरमनक्ति ११ यथेतं प्रतिपरेत्य पुरस्तात् प्रत्यङ्ङासीन इडाया इडामादधाति १२ हस्त्याँ होत्रे सकृदुपस्तृणाति द्विरादधाति सकृदभिघारयति १३ स्वयं वा होतोत्त-रमिडावदानमादत्ते १४ लेपादुपस्तृणाति १५ लेपादभिघारयति १६ उपहूय-मानामिडामन्वारभेते अध्वर्युर्यजमानश्च १७ यत्राभिजानाति दैव्या अध्वर्यव उपहूता उपहूता मनुष्याः इति १८ ३.१

तदध्वर्युरेतं मन्त्रं जपति उपहूतः पशुमानसानि इति १ यत्राभिजानाति उपहूतोऽयं यजमानः इति तद् यजमान एतमेव मन्त्रं जपति २ उपहूतायामिडायामवान्तरेडाँ होता प्राश्नाति वाचस्पतये त्वा हुतं प्राश्नामि सदसस्पतये त्वा हुतं प्राश्नामि इति ३ उपहूतामिडां यजमानपञ्चमा ऋत्विजः प्राश्नन्ति इडे भागं जुषस्व नो जिन्व गा जिन्वार्वतः । तस्यास्ते भक्षिवाणः स्याम सर्वात्मानः सर्वगणाः इति ४ प्राश्य तूष्णीमास्त आ मार्जनात् ५ अन्तर्वेदि पवित्रवति मार्जयन्ते मनो ज्योतिर्जुषताम् इति ६ आग्नेयं पुरोडाशं प्राञ्चं विरुज्य प्राशित्रहरणमादाय प्राशित्रमवद्यति अज्यायो यवमात्रादाव्याधात् कृत्यतामिदम् । मा रूरुपाम यज्ञस्य शुद्धँ स्विष्टमिदँ हविः इति ७ एवमुत्तरेषामविरुज्य ८ अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या यवमात्रं पिप्पलमात्रं वा संवृत्य प्राशित्रहरणे निधायाभिघार्य वेदेनोपयम्याग्रेणाहवनीयं ब्रह्मणे परिहरति ९ अग्रेण ध्रुवां यजमानभागं निधाय १० ३.२

आग्नेयं पुरोडाशं बर्हिषदं कृत्वा यजमानोऽभिमृशति । तद् याजमाने व्याख्यास्यामः १ अथैनं चतुर्धा कृत्वा व्यादिशति इदं ब्रह्मणः । इदँ होतुः । इदमध्वर्योः । इदमग्नीधः इति २ इदं यजमानस्य इत्यध्वर्युर्यजमानभागम् ३ स्थवीयाँ स्येतानीडावदानेभ्यो भवन्ति ४ व्यादिश्याग्नीधे षडवत्तमादधाति ५ उपस्तीर्यावदायाभिघार्य पुनरेवोपस्तीर्यावदायाभिघारयति । षडवत्तँ संपादयति ६ प्राश्नात्याग्नीध्रः उपहूतो द्यौः पितोप मां द्यौः पिता ह्वयताम् । अग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्याय इति ७ वेदेन ब्रह्मयजमानभागौ परिहरति ८ अन्येन होत्रेऽन्येनाध्वर्यवे ९ पृथिव्यै भागोऽसि इति होता प्राश्नाति । अन्तरिक्षस्य भागोऽसि इत्यध्वर्युः । दिवो भागोऽसि इति सँ स्थिते ब्रह्मा १० अन्वाहार्यपचने महान्तमोदनं पक्त्वाभिघार्यानभिघार्य वोद्वास्यान्तर्वेद्यन्वाहार्यमासन्नं यजमानोऽभिमृशति । तद् याजमाने व्याख्यास्यामः ११ ३.३

दक्षिणसद्भ्य उपहर्तवै इति संप्रेष्यति १ य ऋत्विजामुत्तरतः स्युस्तान् ब्रूयाद् दक्षिणत एत इति २ तेभ्यो दक्षिणत आसीनेभ्योऽन्वाहार्यं दक्षिणां ददाति ब्राह्मणा अयं व ओदनः इति ३ उत्तरतः परीत इति पुनराह ४ हविः-शेषानुद्वास्योल्मुके अपिसृज्य संप्रेष्यति ब्रह्मन् प्रस्थास्यामः समिधमाधायाग्नीत् परिधी ँ! श्चाग्निं च सकृत्सकृत् संमृड्ढि इति ५ प्रसूतो ब्रह्मणाग्नीध्रो-ऽनूयाजसमिधमादधाति एषा तेऽग्ने समित् तया वर्धस्व चाप्यायस्व । वर्धतां च ते यज्ञपतिरा च प्यायताँ स्वाहा इति ६ अस्फ्यैरिध्मसंनहनैराग्नीध्रः परिधीँ श्चाग्निं च सकृत्सकृत् संमार्ष्टि । तूष्णीं परिधीन् ७ अग्ने वाजजिद् वाजं त्वा ससृवाँ सं वाजं जिगिवाँ सं वाजिनं वाजजितं वाजजित्यायै संमार्ज्म्यग्निमन्नादमन्नाद्याय इत्यग्निँ संमार्ष्टि ८ अथैतानि संमार्जनान्यद्भिः सँ -स्पृश्याहवनीये प्रहरति यो भूतानामधिपती रुद्र स्तन्तिचरो वृषा । पशूनस्माकं मा हिँ सीरेतदस्तु हुतं तव स्वाहा इति ९ उत्कर उदस्यतीत्येकेषाम् १० ३.४

जुहूपभृतावादायौपभृतं जुह्वाँ समानीयात्याक्रम्याश्राव्याह देवान् यज इति १ वषट्कृते जुहोति २ आश्राव्याश्राव्य यज यज इत्येवोत्तराभ्याँ संप्रेष्यति ३ अग्रेणाघारसंभेदं प्रतीचोऽनूयाजान् यजति ४ प्राञ्चमुत्तममनुसँ स्थापयति ५ उत्तमेनेतरावनुसंभिनत्ति ६ प्रत्याक्रम्यायतने स्रुचौ सादयित्वा वाजवतीभ्यां व्यूहति ७ वाजस्य मा प्रसवेन इति दक्षिणेनोत्तानेन सप्रस्तरां जुहूमुद्गृह्णाति । अथा सपत्नाँ इन्द्रो मे निग्रामेणाधराँ अकः इति सव्येन नीचोपभृतं नियच्छति ८ उद्ग्राभं च इति जुहूमुद्गृह्णाति । निग्राभं च इत्युपभृतं नियच्छति ९ ब्रह्म देवा अवीवृधन् इति प्राचीं जुहूं प्रोहति १० अथा सपत्नानिन्द्रा ग्नी मे विषूचीनान् व्यस्पताम् इति प्रतीचीमुपभृतं बहिर्वेदि निरस्यति ११ अद्भिरभ्युक्ष्योपभृतम-भ्युदाहृत्य जुह्वा सँ स्रावेण परिधीननक्ति । वसुभ्यस्त्वा इति मध्यमं रुद्रे भ्य-स्त्वा इति दक्षिणम् आदित्येभ्यस्त्वा इत्युत्तरम् १२ न प्रस्तरे जुहूँ सादयति १३ विधृतीभ्यां प्रस्तरँ समुल्लिप्य बर्हिषि विधृती अपिसृज्य स्रुक्षु प्रस्तरमनक्ति । अक्तँ रिहाणाः इति जुह्वामग्रं वियन्तु वयः इत्युपभृति मध्यं प्रजां योनिं मा निर्मृक्षम् इति ध्रुवायां मूलम् १४ एवमेव द्वितीयमनक्ति । एवं तृतीयम् १५ आयुषे त्वा इत्यक्तस्य तृणमपयम्य जुह्वां प्रस्तरं प्रति-ष्ठाप्याश्राव्यासीनः संप्रेष्यति इषिता दैव्या होतारो भद्र वाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि इति १६ अनूच्यमाने सूक्तवाके १७ ३.५

सह शाखया प्रस्तरमुपरीव प्राञ्चमाहवनीये प्रहरति रोहितेन त्वाग्निर्देवतां गमयतु इत्येतैर्मन्त्रैः । मरुतां पृषतय स्थ दिवं गच्छ ततो नो वृष्टिमेरय इति च १ न प्रतिशृणाति नात्यग्रं प्रहरेत् २ न पुरस्तात् प्रत्यस्येत् ३ जिह्ममिव हस्तं कृत्वा न्यञ्चमन्ततो नियच्छति ४ यत्राभिजानाति आशास्तेऽयं यजमानो-ऽसौ इति तत् प्रस्तरमपिसृज्याह अग्नीद् गमय इति ५ त्रिरञ्जलिनाग्नीध्रः प्रस्तरमूर्ध्वमुद्यौति ६ न विष्वञ्चं वियुयात् ७ ततोऽध्वर्युमाह अनुप्रहर संवदस्व इति ८ पुरस्तादपात्तं तृणमध्वर्युरनुप्रहरति स्वगा तनुभ्यः इति ९ एतदेतत् इति त्रिरङ्गुल्यान्ववदिशति १० अहीनः प्राणः इति प्राणायतनानि संमृशति ११ आयुष्पा अग्नेऽस्यायुर्मे पाहि इति मुखं विमृष्टे १२ ध्रुवासि इतीमामभिमृश्य अगानग्नीत् इति । अगन् इत्याग्नीध्रः । श्रावय इत्यध्वर्युः । श्रौषट् इत्याग्नीध्रः १३ मध्यमं परिधिमन्वारभ्य संप्रेष्यति स्वगा दैव्या होतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहि इति १४ अनूच्यमाने शंयुवाके परिधीन् प्रहरति यं परिधिं पर्यधत्थाः इति मध्यमं यज्ञस्य पाथ उप समितम् इतीतरौ १५ अवाञ्चमुत्तरार्ध्यमङ्गारेषूपोहति १६ जुह्वामुपभृतो मुखमवधाय सँ स्रावेण परिधीनभिजुहोति सँ स्रावभागा स्थेषा बृहन्तः इति १७ अत्रर्त्विजो हविःशेषान् भक्षयन्ति १८ ३.६

सस्रुवे जुहूपभृतावध्वर्युरादत्ते वेदँ होता स्फ्यं चाज्यस्थालीमुदकमण्डलुं चाग्नीध्रः १ पत्नीः संयाजयिष्यन्तः प्रत्यञ्चः प्रतिपरियन्ति २ दक्षिणेन गार्हपत्यमध्वर्युः प्रतिपद्यत उत्तरेणेतरौ ३ कस्तम्भ्याँ स्रुचौ सादयति अग्ने-र्वामपन्नगृहस्य सदसि सादयामि इति ४ धुरोः प्रोहति धुरि धुर्यौ पातम् इति ५ यदि पात्र्! यां निर्वपेत् स्फ्ये विमुञ्चेत् ६ अपरेण गार्हपत्यमूर्ध्वज्ञव आसीना ध्वानेनोपाँ शु वा पत्नीः संयाजयन्ति ७ वेदमुपभृतं कृत्वा सोमायानुब्रूहि इति संप्रेष्यति ८ यथागृहीतमाज्यं गृहीत्वाश्राव्याह सोमं यज इति ९ वषट्कृते दक्षिणार्धे जुहोति १० यथागृहीतेनैव पत्नीः संयाजयन्ति ११ त्वष्ट्रेऽनुब्रूहि इति संप्रेष्यति १२ आश्राव्याह त्वष्टारं यज इति १३ वषट्कृत उत्तरार्धे जुहोति १४ उत्तरतः सोमं यजति दक्षिणतस्त्वष्टारमित्येकेषाम् १५ अत्र राकां पुत्रकामो यजेत सिनीवालीं पशुकामः कुहूं पुष्टिकामः १६ राकाया अनुब्रूहि इति संप्रेष्यति १७ आश्राव्याह राकां यज इति १८ वषट्कृते जुहोति १९ सिनीवाल्या अनुब्रूहि इति संप्रेष्यति २० आश्राव्याह सिनीवालीं यज इति २१ वषट्कृते जुहोति २२ ३.७

कुह्वा अनुब्रूहि इति संप्रेष्यति १ आश्राव्याह कुहूं यज इति २ वषट्कृते जुहोति ३ परिश्रिते देवानां पत्नीर्यजति । अप्रिश्रिते वा ४ देवानां पत्नी-भ्योऽनुब्रूहि इति संप्रेष्यति ५ आश्राव्याह देवानां पत्नीर्यज इति ६ वषट्कृते जुहोति ७ अग्नये गृहपतयेऽनुब्रूहि इति संप्रेष्यति ८ आश्राव्याह अग्निं गृहपतिं यज इति ९ वषट्कृते जुहोति १० पत्नीमन्वारम्भयित्वा स्रुवेण गार्हपत्ये जुहोति सं पत्नी पत्या सुकृतेन गच्छतां यज्ञस्य युक्तौ धुर्यावभूताम् । संजानानौ विजहतामरातीर्दिवि ज्योतिरजरमारभेताँ स्वाहा इति ११ स्रुवेण होतुरङ्गु-लिपर्वणी अनक्ति १२ अपरमङ्क्त्वा पूर्वमनक्ति १३ चतुर आज्यबिन्दून् होत्र इडामादधाति षडग्नीधे १४ उपहूयमानामिडामन्वारभेते अध्वर्युः पत्नी च १५ उपहूतामिडां प्राश्नाति होता । प्राश्नात्याग्नीध्रः उपहूता पृथिवी मातोप मां माता पृथिवी ह्वयताम् । अग्निराग्नीध्रादायुषे वर्चसे जीवात्वै पुण्याय इति १६ प्राश्य मार्जयेते १७ इडान्तं भवति १८ ३.८

शंयुवन्तं वा १ यदि शंयुवन्तं कुर्याद् वेदात् तृणमपादाय जुह्वामग्रमञ्ज्यात् स्रुवे मध्यमाज्यस्थाल्यां मूलम् २ तस्य स एव कल्पो यः प्रस्तरस्य ३ इध्मप्रव्रश्चनान्यन्वाहार्यपचनेऽभ्याधाय पिष्टलेपफलीकरणहोमौ जुहोति ४ चतुर्गृहीत आज्ये फलीकरणानोप्य जुहोति अग्नेऽदब्धायोऽशीततनो इति प्रतिपद्य स्वाहाकारान्तेन ५ आज्येनैव पिष्टलेपं जुहोति उलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि यत् कपाले । अवप्रुषो विप्रुषः संयजामि विश्वे देवा हविरिदं जुषन्ताम् । यज्ञे या विप्रुषः सन्ति बह्वीरग्नौ ताः सर्वाः स्विष्टाः सुहुता जुहोमि स्वाहा इति ६ वेदँ होता पत्न्या उपस्थे त्रिरस्यति वेदोऽसि ॥ वित्तिरसि ॥ विदेय इत्येतैर्मन्त्रैः ७ अस्तमस्तं पत्नी प्रतिनिरस्यति निर्द्विषन्तं निररातिं नुद इति ८ स्वयं वा पत्न्यस्यते ९ पुमाँ सं ह जानुका भवतीति विज्ञायते १० अत्रैके पत्न्या विमोचनँ समामनन्ति ११ वेदँ होताहवनीयात् स्तृणन्नेति घृतवन्तं कुलायिनम् इत्यनुवाकशेषेण १२ अत्रैके पार्वणौ होमौ समामनन्ति १३ स्रुवेण सर्वप्रायश्चित्तानि जुहोतीति विज्ञायते १४ ३.९

प्रत्याहुति गृहीत्वा वा १ ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचो ब्रह्म यज्ञानाँ हविषामाज्यस्य । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृताहुतिरेतु देवान् स्वाहा ॥ आश्रावितमत्याश्रावितं वषट्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच्च हीनं यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृताहुतिरेतु देवान् स्वाहा ॥
यद् वो देवा अतिपादयानि वाचाचित् प्रयतं देवहेडनम् ।
अरायो अस्माँ अभिदुच्छुनायतेऽन्यत्रास्मन्मरुतस्तन्निंधेतन स्वाहा ॥
ततं म आपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते ।
अयँ समुद्र उत विश्वमेषजः स्वाहाकृतस्य समु तृप्णुतर्भुवः स्वाहा ॥
उद् वयं तमसस्परि ॥ उदु त्यम् ॥ चित्रम् ॥ इमं मे वरुण ॥ तत् त्वा यामि ॥ त्वं नो अग्ने ॥ स त्वं नो अग्ने ॥ त्वमग्ने अयासि ॥ प्रजापते ॥
इमं जीवेभ्यः परिधिं दधामि मैषां ल्नु गादपरो अर्धमेतम् ।
शतं जीवन्तु शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेन स्वाहा ॥
इष्टेभ्यः स्वाहा ॥ वषडनिष्टेभ्यः स्वाहा ॥ भेषजं दुरिष्ट्यै स्वाहा ॥ निष्कृत्यै स्वाहा ॥ दौरार्ध्यै स्वाहा ॥ दैवीभ्यस्तनूभ्यः स्वाहा ॥ ऋद्ध्यै स्वाहा ॥ समृद्ध्यै स्वाहा २ ३.१०

यासरस्वती विशोभगीना तस्यै ते स्वाहा ॥ या सरस्वती वेशभगीना तस्यै ते स्वाहा ॥ इन्द्रो पानस्य वेशान् सुमनसः सजातान् कुरु स्वाहा ॥ यदकर्म यन्नाकर्म यदत्यगाम यदत्यरीरिचाम यन्नात्यरीरिचाम तत् त्वं विष्णो यज्ञे यज्ञं प्रतिष्ठापय स्वाहा ॥ यत इन्द्र भयामहे ततो नो अभयं कृधि ॥ मघवञ्छग्धि तव तन्न ऊतये । विद्विषो विमृधो जहि स्वाहा ॥
स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी ।
वृषेन्द्र ः! पुर एतु नः स्वस्तिदा अभयंकरः स्वाहा ॥
आभिर्गीर्भिर्यदतो न ऊनमाप्यायय हरिवो वर्धमानः ।
यदा स्तोतृभ्यो महि गोत्रा रुजासि भूयिष्ठभाजो अध ते स्याम स्वाहा ॥
अनाज्ञातं यदाज्ञातं यज्ञस्य क्रियते मिथु ।
अग्ने तदस्य कल्पय त्वँ हि वेत्थ यथातथँ स्वाहा ॥
पुरुषसंमितो यज्ञो यज्ञः पुरुषसंमितः ।
अग्ने तदस्य कल्पय त्वँ हि वेत्थ यथातथँ स्वाहा ॥
यत् पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्तासः ।
अग्निष्टद्धोता क्रतुविद् विजानन् यजिष्ठो देवाँ ऋतुशो यजाति स्वाहा ॥
यदस्य कर्मणोऽत्यरीरिचं यद् वा न्यूनमिहाकरम् ।
अग्निष्टत् स्विष्टकृद् विद्वान् सर्व ँ! सुहुतं करोतु मे ॥
अग्नये स्विष्टकृते सुहुतहुत आहुतीनां कामानाँ समर्धयित्रे स्वाहा इति १ प्राजापत्यामित्युत्तमाँ हुत्वा २ ३.११

अन्तर्वेद्यूर्ध्वस्तिष्ठन् ध्रुवया समिष्टयजुर्जुहोति १ देवा गातुविदः इति प्रथमा-माहुतिँ हुत्वा बर्हिरनुप्रहरति २ वाचि स्वाहा इति द्वितीयाम् ३ वाते धाः स्वाहा इति तृतीयाम् ४ होतृषदनाद् वेदिमभिस्तृणाति अभिस्तृणीहि परिधेहि वेदिं जामिं मा हिँ सीरमुया शयाना । होतृषदना हरिताः सुवर्णा निष्का इमे यजमानस्य ब्रध्ने इति ५ अन्तर्वेदि प्रणीता आसादयति को वोऽयोक्षीत् स वो विमुञ्चतु इति ६ ततः पत्नीं विमुञ्चति इमं वि ष्यामि वरुणस्य पाशम् इति ७ आदाय योक्त्रं पत्नी सहाप उपगृह्णीते ८ अञ्जलावस्यै पूर्णपात्रमानयति ९ आनीयमाने जपति समायुषा सं प्रजया इत्येताम् १० मुखं विमृज्योत्तिष्ठति पुष्टिमती पशुमती प्रजावती गृहमेधिनी भूयासम् इति ११ तत उपवेषमुत्करे पुरस्तात्प्रत्यञ्चँ स्थविमत उपगूहति यं देवा मनुष्येषूपवेषमधारयन् । ये अस्मदपचेतसस्तानस्मभ्यमिहा कुरु ॥ उपवेषोपविड्ढि नः प्रजां पुष्टिमथो धनम् । द्विपदो नश्चतुष्पदो ध्रुवाननपगान् कुरु इति १२ योपवेषे शुक् सामुमृच्छतु यं द्विष्मः इति यं द्वेष्टि तस्य नाम गृह्णाति १३ ३.१२

अथास्मै नामगृह्य प्रहरति निरमुं नुद ओकसः सपत्नो यः पृतन्यति । निर्बाध्येन हविषेन्द्र एणं पराशरीत् ॥ इहि तिस्रः परावत इहि पञ्च जनाँ अति । इहि तिस्रोऽति रोचना यावत् सूर्यो असद् दिवि ॥ परमां त्वा परावतमिन्द्रो नयतु वृत्रहा । यतो न पुनरायसि शश्वतीभ्यः समाभ्यः इति १ हतोऽसाववधि-ष्मामुम् इति ब्रूयाद्यं द्विष्यात् २ सँ स्थिते कपालानि विमुञ्चति यानि घर्मे कपालानि इति ३ एतयैव यजमानोऽभिमन्त्रयेत ४ सँ स्थाप्य पौर्णमा-सीमिन्द्रा य वैमृधाय पुरोडाशमेकादशकपालमनुनिर्वपति ५ तत्र याथाकामी प्रक्रमे । प्रक्रमात् तु नियम्यते ६ सप्तदशसामिधेनीको यथाश्रद्धदक्षिणः ७ शर्धवत्यौ संयाज्ये ८ अपि वैनँ समानतन्त्रं पौर्णमास्यां निर्वपेत् ९ तमेतं नित्यवदेके समामनन्ति काम्यवदेके १० तं यदा निर्वपेन्न तत ऊर्ध्वं विरमेत् ११ एवंविहिताभ्यां दर्शपूर्णमासाभ्यां यावज्जीवं यजते । त्रिँ शतं वा वर्षाणि त्रिँ शतं वा वर्षाणि १२ ३.१३

श्वो भूते यजमानो ब्रह्माणं वृणीते भूपते भुवनपते महतो भूतस्य पते ब्रह्माणं त्वा वृणीमहे इति १ वृतो जपति अहं भूपतिरहं भुवनपतिरहं महतो भूतस्य पतिर्देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि ॥ देव सवितरेतं त्वा वृणते बृहस्पतिं दैव्यं ब्रह्माणम् ॥ तदहं मनसे प्रब्रवीमि मनो गायत्रियै गायत्री त्रिष्टुभे त्रिष्टुब् जगत्यै जगत्यनुष्टुभेऽनुष्टुप् पङ्क्त्यै पङ्क्तिः प्रजापतये प्रजापतिर्विश्वेभ्यो देव्भ्यो विश्वे देवा बृहस्पतये बृहस्पतिर्ब्रह्मणे ॥ ब्रह्म भूर्भुवः सुवः ॥ बृहस्पतिर्देवानां ब्रह्माहं मनुष्याणां बृहस्पते यज्ञं गोपाय इत्युक्त्वापरेणाहवनीयमतिक्रम्य दक्षिणतो ब्रह्मसदनात् तृणं निरस्यति निरस्तः परावसुः इति २ अप उपस्पृश्य ब्रह्मसदन आहवनीयमभिमुख उपविशति इदमहमर्वाग्वसोः सदने सीदामि ॥ प्रसूतो देवेन सवित्रा बृहस्पतेः सदने सीदामि ॥ तदग्नये प्रब्रवीमि तद् वायवे तत् सूर्याय तत् पृथिव्यै इति ३ ३.१४

तत्रैषोऽत्यन्तप्रदेशो वाग्यत एव मन्त्रवत्सु कर्मसु भवति याथाकामी तूष्णीकेषु १ प्रणीतासु प्रणीयमानासु वाचं यच्छत्या हविष्कृतः २ परुषिपरुषि वाचं यच्छतीति विज्ञायते ३ अथैकेषां प्रातरनुवाक उपाकृते सामिधेनीषु प्रयाजानूयाजेषु स्तुतशस्त्रेष्विति वाचमेव यच्छेदिति ४ अथैकेषां यदृचा यदि यजुषा यदि साम्ना क्रियते वाचमेव यच्छेदिति ५ अथैकेषामन्योन्यस्मै वा ऋत्विजो यज्ञसंप्रदायं चरन्ति । यावद्वा ऋचार्त्विज्यं क्रियते होतृष्वेव ताव-द्यज्ञो भवति । यावद्यजुषाध्वर्युष्वेव तावत् । यावत् साम्नोद्गातृष्वेव तावत् । अथ यत्र क्व च यज्ञस्य विहितं ब्रह्मण्येव तावद्यज्ञो भवति । तस्मादेतस्मिन्नन्तर्धौ ब्रह्मा वाचंयमः स्यात् ६ स यदि प्रमत्तो व्याहरेदेता एव व्याहृतीरभिव्याहरेत् भूर्भुवः सुवः इति वैष्णवीं वार्चम् ७ यज्ञो वै विष्णुर्यज्ञेनैव यज्ञँ संतनोतीति विज्ञायते ८ ३.१५

यत्रैनमामन्त्रयते ब्रह्मन्नपः प्रणेष्यामि इति तत् प्रसौति
हिं प्रणय यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु ।
सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥
ॐ प्रणय इति १ यत्रनमामन्त्रयते ब्रह्मन् प्रोक्षिष्यामि इति तत् प्रसौति
हिं प्रोक्ष यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु ।
सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥
ॐ प्रोक्ष इति २ यत्रैनमामन्त्रयते ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामि इति तत् प्रसौति
हिं बृहस्पते परिगृहाण वेदिँ स्वगा वो देवाः सदनानि सन्तु ।
तस्यां बर्हिः प्रथताँ साध्वन्तरहिँ स्रा णः पृथिवी देव्यस्तु ॥
देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु ।
सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥
ॐ परिगृहाण इति ३ यत्रैनमामन्त्रयते ब्रह्मन् प्रोक्षिष्यामि इति तत् प्रसौति हिं प्रोक्ष यज्ञम् इत्येतया ४ ३.१६

यत्रैनमामन्त्रयते ब्रह्मन् सामिधेनीरनुवक्ष्यामि इति तत् प्रसौति
हिं प्रजापतेऽनुब्रूहि यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु ।
सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥
ओमनुब्रूहि इति १ यत्रैनमामन्त्रयते ब्रह्मन् प्रवरायाश्रावयिष्यामि इति तत् प्रसौति हिं वाचस्पते वाचमाश्रावयैतामाश्रावय यज्ञं देवेषु मां मनुष्येषु ॥
देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु ।
सप्तर्षीणाँ सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥
ओमाश्रावय इति २ यत्रास्मै प्राशित्रं परिहरति तत् प्रतीक्षते सूर्यस्य त्वा चक्षुषा प्रतिपश्यामि इति ३ ऋतस्य पथा पर्येहि इत्याह्वियमाणमभिमन्त्रयते ४ अप उपस्पृश्य प्रतिगृह्णाति देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि इति ५ व्यूह्य तृणानि पुरस्ताद्दण्डं भूमौ प्रतिष्ठापयति पृथिव्यास्त्वा नाभौ सादयामि इति ६ अवेक्षते सुपर्णस्य त्वा गरुत्मतश्चक्षुषा-वपश्यामि इति ७ अथैनदङ्गुष्ठेनोपमध्यमया चाङ्गुल्यादायासंम्लेत्यावगिरति अग्नेस्त्वास्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पतेर्ब्रह्मणा ॥ इन्द्र स्य त्वा जठरे सादयामि इति ८ अप आचम्य पुनरेवाप आचामति या अप्स्वन्तर्देवतास्ता ँ! शमयन्तु ॥ स्वाहाकृतं जठरमिन्द्र स्य गच्छ स्वाहा इति ९ ३.१७

नाभिदेशमभिमृशति घसीना मे मा संपृक्थाः ॥ ऊर्ध्वं मे नाभेः सीद ॥ इन्द्र स्य त्वा जठरे सादयामि इति १ प्राणायतनानि संमृशति वाङ्म आसन् नसोः प्राणः इत्येतैर्मन्त्रैर्यथारूपम् २ अद्भिः पात्रं प्रक्षाल्य पूरयित्वा प्राङ् निनयति दिशो जिन्व इति ३ अपरं पूरयित्वाभ्यात्मं निनयति मां जिन्व इति ४ यत्रास्मै ब्रह्मभागं परिहरति तन्न पुरा सँ स्थायाः प्राश्नीयात् ५ यत् किंच यज्ञे मृन्मयं भिद्येत तदभिमृशेत्
भूमिर्भूमिमगान्माता मातरमप्यगात् ।
भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यताम् ॥
इति ६ अन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति ब्रह्मन् ब्रह्मासि ब्रह्मणे त्वाहुताद्य मा मा हिँ सीरहुतो मह्यँ शिवो भव इति ७ यत्रैनमामन्त्रयते ब्रह्मन् प्रस्थास्यामः इति तत् प्रसौति हिं देव सवितरेतत्ते प्राह तत् प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाहि ॥ ॐ प्रतिष्ठ इति ८ सोऽत्रैवास्त आ यज्ञस्य सँ स्थानात् ९ सँ स्थिते यज्ञे यथान्ववेतमुपनिष्क्रम्याहवनीये समिधमादधाति नमः कृताय कर्मणेऽकृतस्य कर्मणे नमः स्वाहा इति १० आधायोपतिष्ठते
अयाड् यज्ञं जातवेदा अदब्धो अन्तरः पूर्वो अस्मिन् निषद्य ।
सन्वन् सनिँ सुविमुचा विमुञ्च धेह्यस्मासु द्र विणं जातवेदो यच्च भद्र म् ॥
प्र णो यक्ष्यभिवस्यो अस्मान् सं नः सृज सुमत्या वाजवत्या ॥
इति ११ एवंविहितमेवास्येष्टिपशुबन्धेषु ब्रह्मत्वं भवति ब्रह्मत्वं भवति १२ ३.१८
इति तृतीयः प्रश्नः