सामग्री पर जाएँ

कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्/प्रश्नः ०४

विकिस्रोतः तः
← प्रश्नः ०३ कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्
प्रश्नः ०४
भरद्वाजः
प्रश्नः ०५ →

अथ चतुर्थः प्रश्नः
याजमानं व्याख्यास्यामः १ पर्वणि यजमानः केशश्मश्रु वापयते २ अग्निहोत्रँ हुत्वा
देवा गातुविदो गातुं यज्ञाय विन्दत ।
मनसस्पतिना देवेन वाताद्यज्ञः प्रयुज्यताम् ॥
इत्यध्वर्युर्जपित्वा प्रातरग्नीनन्वादधाति ३ ममाग्ने वर्चो विहवेष्वस्तु इति पूर्व-मग्निं गृह्णाति ४ तूष्णीमपरौ ५ द्वितीयया गार्हपत्यं तृतीययान्वाहार्यपचनम् ६ तिसृभिस्तिसृभिर्वैकैकम् ७ उत्तमां तु जपेदाहवनीये वादध्यात् ८ व्याहृतीभिरग्न्यन्वाधानमेके समामनन्ति ९ याजमानमेके १० अग्नीनन्वाधीयमानान् यजमान उपतिष्ठते
अग्निं गृह्णामि सुरथं यो मयोभूर्य उद्यन्तमारोहति सूर्यमह्ने ।
आदित्यं ज्योतिषां ज्योतिरुत्तमँ श्वो यज्ञाय रमतां देवताभ्यः ॥
वसून् रुद्रा नादित्यानिन्द्रे ण सह देवताः ।
ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥
इमामूर्जं पञ्चदशीं ये प्रविष्टास्तान् देवान् परिगृह्णामि पूर्वः ।
अग्निर्हव्यवाडिह तानावहतु पौर्णमासँ हविरिदमेषां मयि ॥
आमावास्यँ हविरिदमेषां मयि ॥
इति यथालिङ्गमाहवनीयम् ११ ४.१
अन्तराग्नी पशवो देवसँ सदमागमन् ।
तान् पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥
इत्यन्तराग्नी तिष्ठन् जपति १
इह प्रजा विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः ।
ताः पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥
इह पशवो विश्वरूपा रमन्तामग्निं गृहपतिमभिसंवसानाः ।
तान् पूर्वः परिगृह्णामि स्व आयतने मनीषया ॥
इति गार्हपत्यम् २
अयं पितृणामग्निरवाड्ढव्या पितृभ्य आ ।
तं पूवः परिगृह्णाम्यविषं नः पितुं करत् ॥
इत्यन्वाहार्यपचनम् ३
अजस्रं त्वाँ सभापाला विजयभागँ समिन्धताम् ।
अग्ने दीदाय मे सभ्य विजित्यै शरदः शतम् ॥
इति सभ्यम् ४
अन्नमावसथीयमभिहराणि शरदः शतम् ।
आवसथे श्रियं मन्त्रमहिर्बुध्नियो नियच्छतु ॥
इत्यावसथीयम् ५
इदमहमग्निज्येष्ठेभ्यो वसुभ्यो यज्ञं प्रब्रवीमि ॥
इदमहमिन्द्र ज्येष्ठेभ्यो रुद्रे भ्यो यज्ञं प्रब्रवीमि ॥
इदमहं वरुणज्येष्ठेभ्य आदित्येभ्यो यज्ञं प्रब्रवीमि ॥
इति सर्वान् ६ ४.२

य एवैषोऽग्निहोत्राय प्रणीतस्तं गृह्णीयादित्याश्मरथ्यः । अन्यं प्रणीयेत्यालेखनः १ अशनमग्न्यन्वाधानं व्रतोपायनमित्येवमनुपूर्वाण्येके समामनन्ति । अग्न्य-न्वाधानमशनं व्रतोपायनमित्येके । व्रतोपायनमशनमग्न्यन्वाधानमित्येके २ पुरा बर्हिष आहर्तोर्जायापती सर्पिर्मिश्रमश्नीयातां यदन्यन्माषेभ्यो माँसाच्च ३ पुरा वत्सानामपाकर्तोरित्यपरम् ४ ततो यजमानः केशश्मश्रु वापयते ५ अपरेणाहवनीयमतिक्रम्य दक्षिणत उदगावृत्त उपविश्याप आचामति पय-स्वतीरोषधयः इत्येतया ६ तत आदित्यमुपतिष्ठते सम्राडसि व्रतपा असि व्रतपतिरसि व्रतमारभे । तत्ते प्रब्रवीमि तच्छकेयं तेन शक्रेयं तेन राध्यासम् इति ७ यदि निम्रुक्ते सूर्ये व्रतमुपेयादाहवनीयमेवैतेन मन्त्रेणोपतिष्ठते ८ बर्हिषा पूर्णमासे व्रतमुपैति वत्सैरमावास्यायामिति विज्ञायते ९ ४.३

दक्षिणतस्तिष्ठन्नाहवनीयमभिमन्त्रयते अग्ने व्रतपते व्रतं चरिष्यामि इति । स एष ब्राह्मणस्यैव स्यान्नेतरयोर्वर्णयोः १ वायो व्रतपते इति वायुमुपतिष्ठते । आदित्य व्रतपते इत्यादित्यम् । व्रतानां व्रतपते इत्याहवनीयम् २ अन्ततो देवता उपतिष्ठते देवा देवेषु पराक्रमध्वं प्रथमा द्वितीयेषु द्वितीयास्तृतीयेषु । त्रिरेकादशा इह मावत । इदँ शकेयं यदिदं करोमि । आत्मा करोत्वात्मने । इदं करिष्ये भेषजमिदं मे विश्वभेषजा । अश्विना प्रावतं युवम् इति ३ व्रतमुपयन् समुद्रं मनसा ध्यायति ४ स एतद् व्रतं चरति--न माँ समश्नाति न स्त्रियमुपैति नोपर्यास्ते जुगुप्सतेऽनृतादनाश्वानेताँ रात्रिमुपवसत्यपो वाश्नात्यारण्यं वा । काममारण्यस्याश्नीयात् ५ आ मार्गादा मधुन आ प्राशातिकादित्येकेषाम् ६ आरण्यायोपवसन्नपो वाश्नीयान्न वा किंचन ७ आमावास्याँ रात्रिं जागर्ति ८ अपि वा यथा शक्नुयात् तथा कुर्यात् ९ उपरि त्वेव न शयीत १० काममुपरि शयीत ११ व्रतचारी त्वेव स्यात् १२ ४.४

आहवनीयागारे गार्हपत्यागारे वा संविशति १ श्वो भूतेऽपरेणाहवनीयमति-क्रम्यापरेण ब्रह्मसदनं यजमान आहवनीयमभिमुख उपविशति २ सो-ऽत्रैवासीनः कर्माणि क्रियमाणान्यभिमन्त्रयते ३ अग्नीन् परिस्तीर्यमाणा-नभिमन्त्रयते
उभावग्नी उपस्तृणते देवता उपवसन्तु मे ।
अहं ग्राम्यानुपवसामि मह्यं गोपतये पशून् ॥
इति ४ प्रणीताः प्रणीयमाना अभिमन्त्रयते भूश्च कश्च वाक् चर्क् च गौश्च वट् च खं च धूश्च नूश्च पूश्च ॥
एकाक्षराः पूर्दशमा विराजो या इदं विश्वं भुवनं व्यानशुः ।
ता नो देवीस्तरसा संविदानाः स्वस्ति यज्ञं नयत प्रजानतीः ॥
ब्रह्मपूताः स्थ ॥ को वो युनक्ति स वो युनक्तु विश्वेभ्यः कामेभ्यो देवयज्या-यै ॥
याः पुरस्तात् प्रस्रवन्त्युपरिष्टात् सर्वतश्च याः ।
ताभी रश्मिपवित्राभिः श्रद्धां यज्ञमारभे ॥ इति ५ ४.५
हविर्निरुप्यमाणमभिमन्त्रयते अग्निँ होतारमिह तँ हुवे इति १ तदुदित्वा वाचं यच्छत्या हविष्कृतः २ सर्वं विहारमभिमन्त्रयते कस्त्वा युनक्ति स त्वा युनक्तु इति ३ वेदिँ संमृज्यमानामभिमन्त्रयते
चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका भुवनस्य मध्ये ।
मर्मृज्यमाना महते सौभगाय मह्यं धुक्ष्व यजमानाय कामान् ॥
इति ४ स्तम्बयजुर्ह्वियमाणमभिमन्त्रयते
यो मा हृदा मनसा यश्च वाचा यो ब्रह्मणा कर्मणा द्वेष्टि देवाः ।
यः श्रुतेन हृदयेनेष्णता च तस्येन्द्र वज्रेण शिरश्छिनद्मि ॥
इति ५ उत्करमभिगृह्यमाणमभिमन्त्रयते
इदं तस्मै हर्म्यं करोमि यो वो देवाश्चरति ब्रह्मचर्यम् ।
मेधावी दिक्षु मनसा तपस्व्यन्तर्दूतश्चरति मानुषीषु ॥
इति ६ परिग्राहं पूर्वं चोत्तरं चाभिमन्त्रयते यज्ञस्य त्वा प्रमयाभिमया प्रतिमयोन्मया परिगृह्णामि ॥
बृहस्पते परि गृहाण वेदिँ स्वगा वो देवाः सदनानि सन्तु ।
तस्यां बर्हिः प्रथताँ साध्वन्तरहिँ स्रा णः पृथिवी देव्यस्तु ॥
इति ७ ४.६

त्वचमुद्धन्यमानामभिमन्त्रयते
यदुद्घ्नन्तो जिहिंम्सिम पृथिवीमोषधीरपः ।
अध्वर्यवः स्फ्यकृतः स्फ्येनान्तरिक्षं मोरु पातु तस्मात् ॥
यदुद्घ्नन्तो जिहिँ सिम क्रूरमस्या वेदिं चकृमा मनसा देवयन्तः ।
मा तेन हेड उपगाम भूम्याः शिवा नो विश्वैर्भुवनेभिरस्तु ॥
इति १ कृतामनुमन्त्रयते
भूमिर्भूत्वा महिमानं पुपोष ततो देवी वर्धयते पयाँ सि ।
यज्ञिया यज्ञं वि च यन्ति शं चौषधीराप इह शक्वरीश्च ॥
इति २ प्रोक्षणीरासाद्यमाना अभिमन्त्रयते
ईडेन्यक्रतूरहमपो देवीरुपब्रुवे ।
दिवा नक्तं च सस्रुषीरपस्वरीः ॥
इति ३ बर्हिरुपसाद्यमानमभिमन्त्रयते
अशिश्रेम बर्हिरन्तः पृथिव्याँ सँ रोहयन्त ओषधीर्विवृक्णाः ।
यासां मूलमुदवधीः स्फ्येन शिवा नस्ताः सुहवा भवन्तु ॥
इति ४ आज्यं प्रोक्षणीश्चोत्पूयमाना अभिमन्त्रयते
अद्भिराज्यमाज्येनापः सम्यक् पुनीत सवितुः पवित्रैः ।
ता देवीः शक्वरीः शाक्वरेणेमं यज्ञमवत संविदानाः ॥
इति ५ व्याख्यातमाज्यावेक्षणमाज्यग्रहा इति ६ ४.७

अन्तर्वेदि बर्हिरासाद्यमानमभिमन्त्रयते
सुमनसो यजमानाय सन्त्वोषधीराप इह शक्वरीश्च ।
वृष्टिद्यावा पर्जन्य एना विरोहयतु हिरण्यवर्णाः शतवल्शा अदब्धाः ॥
इति १ बर्हिः स्तीर्यमाणमभिमन्त्रयते
ऊर्णामृदु प्रथमानँ स्योनं देवेभ्यो जुष्टँ सदनाय बर्हिः ।
सुवर्गे लोके यजमानँ हि धेहि मां नाकस्य पृष्ठे परमे व्योमन् ॥
इति २ वेदिँ सँ स्तीर्यमाणामभिमन्त्रयते
चतुःशिखण्डा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते ।
सा स्तीर्यमाणा महते सौभगाय सा मे धुक्ष्व यजमानाय कामान् ॥
शिवा च मे शग्मा चैधि । स्योना च मे सुषदा चैधि । ऊर्जस्वती च मे पयस्वती चैधि ॥ इषमूर्जं मे पिन्वस्व । ब्रह्म तेजो मे पिन्वस्व । क्षत्रमोजो मे पिन्वस्व । विशं पुष्टिं मे पिन्वस्व । आयुरन्नाद्यं मे पिन्वस्व । प्रजां पशून् मे पिन्वस्व । लोकं मे पिन्वस्व इति ३ ४.८

परिधीन् परिधीयमानानभिमन्त्रयते ध्रुवोऽसि ध्रुवोऽहँ सजातेषु भूयासम् इत्येतैः प्रतिमन्त्रम् ।
अस्मिन् यज्ञ उप भूय इन्नु मेऽविक्षोभाय परिधीन् दधामि ।
धर्ता धरुणो धरीयानग्निर्द्वेषाँ सि निरितो नुदातै ॥
इति च सर्वान् १ आहवनीयमभिमन्त्रयते
युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः ।
इन्धानास्त्वा सुप्रजसः सुवीरा ज्योग् जीवेम बलिहृतो वयं ते ॥
यन्मे अग्ने अस्य यज्ञस्य रिष्याद्यद्वा स्कन्दादाज्यस्योत विष्णो ।
तेन हन्मि सपत्नं दुर्मरायुमैनं दधामि निरृत्या उपस्थे ॥
तेजिष्ठा ते तपना या च रोचना प्रत्योपन्तीस्तन्वो यास्ते अग्ने ।
ताभिर्वर्माण्यभितो व्ययस्व मा त्वा दभन् यज्ञहनः पिशाचाः ॥
इति २ विधृती निधीयमाने अभिमन्त्रयते
विच्छिनद्मि विधृतीभ्याँ सपत्नान् जातान् भ्रातृव्यान् ये च जनिष्यमाणाः ।
विशो यन्त्राभ्यां विधमाम्येनानहँ स्वानामुत्तमोऽसानि देवाः ॥
विशो यन्त्रे नुदमाने अरातिं विश्वं पाप्मानममतिं दुर्मरायुम् ।
सीदन्ती देवी सुकृतस्य लोके प्रजामस्मभ्यं द्र विणं च धत्तम् ॥
धृती स्थो विधृती स्वधृती प्राणान् मयि धारयतं प्रजां मयि धारयतं पशून् मयि धारयतम् इति ३ प्रस्तरँ साद्यमानमभिमन्त्रयते
अयं प्रस्तर उभयस्य धर्ता धर्ता प्रयाजानामुतानूयाजानाम् ।
स दाधार समिधो विश्वरूपास्तस्मिन् स्रुचो अध्यासादयामि ॥
इति ४ ४.९

स्रुचः साद्यमाना अभिमन्त्रयते
आरोह पथो जुहु देवयानान् यत्रर्षयः प्रथमजा ये पुराणाः ।
हिरण्यपक्षाजिरा संभृताङ्गा वहासि मा सुकृतां यत्र लोकाः ॥
जुहूरसि घृताची गायत्रीयाम्नी कविभिर्जुषाणा ।
अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानाग्नेयेन शर्मणा दै-व्येन ॥
इति जुहूम् १
अवाहं बाध उपभृता सपत्नान् जातान् भ्रातृव्यान् ये च जनिष्यमाणाः ।
दोहै यज्ञँ सुदुघामिव धेनुमहमुत्तरो भूयासमधरे मत्सपत्नाः ॥
सुभृदस्युपभृद् घृताची त्रैष्टुभेन छन्दसा विश्ववेदः ।
अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवानैन्द्रे ण शर्मणा दै-व्येन ॥
इत्युपभृतम् २
यो मा वाचा मनसा दुर्मरायुर्हृदारातीयादभिदासदग्ने ।
इदमस्य चित्तमधरं ध्रुवाया अहमुत्तरो भूयासमधरे मत्सपत्नाः ॥
ध्रुवासि धरणी धनस्य पूर्णा जागतेन छन्दसा विश्ववेदः ।
अव्यथमाना यज्ञमनुयच्छस्व सुनीती यज्ञं नयास्युप देवान् वैश्वदेवेन शर्मणा दैव्येन ॥
इति ध्रुवाम् ३ ४.१०

स्योनो मे सीद सुषदः पृथिव्यां प्रथयि प्रजया पशुभिः सुवर्गे लोके ।
दिवि सीद पृथिव्यामन्तरिक्षेऽहमुत्तरो भूयासमधरे मत्सपत्नाः ॥
अयँ स्रुवो अभिजिहर्ति होमान् शतक्षरश्छन्दसानुष्टुभेन ।
सर्वा यज्ञस्य समनक्ति विष्ठा बार्हस्पत्येन शर्मणा दैव्येन ॥
इति स्रुवम् १
इयँ स्थाली घृतस्य पूर्णाच्छिन्नपयाः शतधार उत्सः ।
मारुतेन शर्मणा दैव्येन ॥
इत्याज्यस्थालीम् २ पुरोडाशावज्यमानावभिमन्त्रयते
तृप्तिरसि गायत्रं छन्दस्तर्पय मा तेजसा ब्रह्मवर्चसेन ॥
तृप्तिरसि त्रैष्टुभं छन्दस्तर्पय मौजसा वीर्येण ॥
तृप्तिरसि जागतं छन्दस्तर्पय मा प्रजया पशुभिः ॥
इति ३ अन्तर्वेदि हवीँ ष्यासन्नान्यभिमृशति
यज्ञोऽसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयताम् ।
शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः ॥
इत्याग्नेयं पुरोडाशम् ।
प्रजापतिरसि सर्वतः श्रितः सर्वतो मां भूतं भविष्यच्छ्रयताम् ।
शतं मे सन्त्वाशिषः सहस्रं मे सन्तु सूनृता इरावतीः पशुमतीः ॥
इत्यग्नीषोमीयम् ।
यो नः कनीय इह कामयाता अस्मिन् यज्ञे यजमानाय मह्यम् ।
अप तमिन्द्रा ग्नी भुवनान्नुदेतामहं प्रजां वीरवतीं विदेय ॥
इत्यैन्द्रा ग्नम् ४ ४.११

इदमिन्द्रि यममृतं वीर्यमनेनेन्द्रा य पशवोऽचिकित्सन् ।
तेन देवा अवतोप मामिहेषमूर्जं यशः सह ओजः सनेयँ शृतं मयि श्रयताम् ॥
इति शृतम् १
यत् पृथिवीमचरत्तत् प्रविष्टं येनासिञ्चद्बलमिन्द्रे प्रजापतिः ।
इदं तच्छुक्रं मधु वाजिनीवद्येनोपरिष्टादधिनोन्महेन्द्र म् ॥
दधि मां धिनोतु ॥
इति दधि २ सर्वाणि समस्तान्यभिमृशति ममाग्ने वर्चो विहवेष्वस्तु इत्येतेनानुवाकेन ।
अयं यज्ञः समसदद्धविष्मानृचा साम्ना यजुषा देवताभिः ।
तेन लोकान् सूर्यवतो जयेमेन्द्र स्य सख्यममृतत्वमश्याम् ॥
इति च ३ सामिधेनीरनूच्यमाना अभिमन्त्रयते अङ्गिरसो मास्य यज्ञस्य प्रातरनुवाकैरवन्तु इति ४ यां यामाशिषं कामयते तामाशास्ते ५ यत्राभिजानाति समिद्धो अग्न आहुतः इति तदाहवनीयमभिमन्त्रयते
समिद्धो अग्निराहुत स्वाहाकृतः पिपर्तु नः ।
स्वगा देवेभ्य इदं नमः ॥
इति ६ उच्छुष्मो अग्ने यजमानायैधि निशुष्मो अभिदासते इति ७ स्रुवाघारमाघार्यमाणमभिमन्त्रयते मनोऽसि प्राजापत्यम् इति ८ वागस्यैन्द्री सपत्नक्षयणी इति स्रुच्यम् ९ ४.१२

प्रवरयोः प्रव्रियमाणयोर्जपति देवाः पितरः पितरो देवा योऽहमस्मि स सन् यजे यस्यास्मि न तमन्तरेमि । स्वं म इष्टँ स्वं दत्तँ स्वं पूर्त ँ! स्वँ श्रान्तँ स्वँ हुतम् । तस्य मेऽग्निरुपद्र ष्टा वायुरुपश्रोतादित्योऽनुख्याता द्यौः पिता पृथिवी माता प्रजापतिर्बन्धुः । य एवास्मि स सन् यजे यस्यास्मि न तमन्तरेमि इति १ प्रयाजानामिष्टमिष्टमनुमन्त्रयते वसन्तमृतूनां प्रीणामि इत्येतैः प्रतिमन्त्रम् २
एको ममैका तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
द्वौ मम द्वे तस्य योऽस्मान् द्वेव्ष्टि यं च वयं द्विष्मः ॥
त्रयो मम तिस्रस्तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
चत्वारो मम चतस्रस्तस्य योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
पञ्च मम न तस्य किंचन योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥
इति च ३ आज्यभागाविष्टावनुमन्त्रयते अग्निना यज्ञश्चक्षुष्माँ स्तस्याहं देवयज्यया चक्षुष्मान् भूयासम् इत्याग्नेयम् ४ ४.१३

सोमेन यज्ञश्चक्षुष्माँ स्तस्याहं देवयज्यया चक्षुष्मान् भूयासम् इति सौम्यम् १ समस्तानुमन्त्रणमेके समामनन्ति अग्नीषोमयोरहं देवयज्यया चक्षुष्मान् भूयासम् इति २ आग्नेयस्य पुरोडाशस्य हविराहुतिमनुमन्त्रयते अग्नेरहं देव-यज्ययान्नादो भूयासम् इति ३ दब्धिरस्यदब्धो भूयासममुं दभेयम् इत्युपाँ शु-याजस्य । यं द्वेष्टि तस्य नाम गृह्णाति ४ अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम् इत्यग्नीषोमीयस्य ५ इन्द्रा ग्नियोरहं देवयज्ययेन्द्रि याव्यन्नादो भूयासम् इत्यैन्द्रा ग्नस्य ६ इन्द्र स्याहं देवयज्ययेन्द्रि यावी भूयासम् इति सांनाय्ययोः ७ महेन्द्र स्याहं देवयज्यया जेमानं महिमानं गमेयम् इति यदि महेन्द्र याजी भवति ८ अग्नेः स्विष्टकृतोऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् इति स्विष्टकृतः । अग्निर्मा दुरिष्टात् पातु इति च ९ इन्द्र स्य वैमृधस्याहं देवय-ज्ययासपत्नो भूयासम् इति वैमृधस्य १० ४.१४

इडामाह्वियमाणामभिमन्त्रयते सुरूपवर्षवर्ण एहि इति प्रतिपद्य उपहूत उपहवं तेऽशीय इत्यन्तेन १ उपाँ शूपहवे सप्त देवगवीर्जपति भूयस्येहि श्रेयस्येहि वसीयस्येहि चित्त एहि दधिष एहीड एहि सूनृत एहि इति २ उच्चैरुपहवे सप्त मनुष्यगवीः चिदसि मनासि वस्वी रन्ती रमतिः सूनुः सूनरा देवीर्देवैरभि मा निवर्तध्वम् । स्योनाः स्योनेन घृतेन मा समुक्षत ।
न म इदमुपदम्भिषगृषिर्ब्रह्मा यद्ददे समुद्रा दुदचन्निव स्रुचा ।
वागग्रे विप्रस्य तिष्ठति शृङ्गेभिर्दशभिर्दिशन् ॥
इति च ३ यर्हि होतेडामुपह्वयेत तर्हि यजमानो होतारमीक्षमाणो वायुं मनसा ध्यायेत् वायुरिडाया वत्सः सा मे वायुना वत्सेन श्रद्धां तपः स्वर्गं लोकं धुक्ष्व इति ४ उपहूयमानायां जपति सा मे सत्याशीः इति प्रतिपद्य जुष्टिं ते गमेयम् इत्यन्तेन ५ उपहूतामनुमन्त्रयते इडाया अहं देवयज्यया पुष्टिमान् पशुमान् भूयासम् इति ६ भक्षायाह्वियमाणामभिमन्त्रयते
इडा धेनुः सहवत्सा न आगादूर्जं दुहाना पयसा प्रपीना ।
सा नो अन्नेन हविषोत गोभिरिडाभ्यस्माँ आगात् ॥
इति ७ ४.१५

व्याख्याता मार्जनी १ बर्हिषदं पुरोडाशमभिमृशति ब्रध्न पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोप दसत् । दिशां कॢप्तिरसि । दिशो मे कल्पन्तां कल्पन्तां मे दिशो दैवीश्च मानुषीश्च । अहोरात्रे मे कल्पेताम् । अर्धमासा मे कल्पन्ताम् । मासा मे कल्पन्ताम् । ऋतवो मे कल्पन्ताम् । संवत्सरो मे कल्पताम् । कॢप्तिरसि कल्पतां मे ॥
आशानां त्वाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः ।
इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥
भजतां भागी भागं मा भागो भक्त निरभागं भजामः । अपस्पिन्वौषधीर्जिन्व । द्विपात् पाहि चतुष्पादव । दिवो वृष्टिमेरय ॥
ब्राह्मणानामिदँ हविः सोम्यानाँ सोमपीथिनाम् ।
निर्भक्तोऽब्राह्मणो नेहाब्राह्मणस्यास्ति ॥
इति २ अन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति
इयँ स्थाल्यमृतस्य पूर्णा सहस्रधार उत्सो अक्षीयमाणः ।
स दाधार पृविई!मन्तरिक्षं दिवं च तेनौदनेनातितराणि मृत्युम् ॥
इति । प्रजापतेर्भागोऽसि इति चानुवाकशेषेण ३ एतेनैव ब्रह्माभिमृशति ४ ४.१६

अनूयाजसमिधमाधीयमानामभिमन्त्रयते एषा ते अग्ने समित् तया वर्धस्व चा च प्यायस्व । वर्धतां च ते यज्ञपतिरा च प्यायताम् । वर्धिषीमहि च वयमा च प्यासिषीमहि इति १ आहितायामाहवनीयम्
यं ते अग्न आवृश्चाम्यहं वा क्षिपितश्चरन् ।
प्रजां च तस्य मूलं च नीचैर्देवा निवृश्चत ॥
अग्ने यो नोऽभिदासति समानो यश्च निष्ट्यः ।
इध्मस्येव प्रक्षायतो मा तस्योच्छेषि किंचन ॥
यो मां द्वेष्टि जातवेदो यं चाहं द्वेष्मि यश्च माम् ।
सर्वा ँ! स्तानग्ने संदह याँ श्चाहं द्वेष्मि ये च माम् ॥
इति २ इध्मसंनहनँ हुतमनुमन्त्रयते
वेदिर्बर्हिः श्रितँ हविरिध्मः परिधयः स्रुचः ।
आज्यं यज्ञ ऋचो यजुर्याज्याश्च वषट्काराः ।
सं मे संनतयो नमन्तामिध्मसंनहने हुते ॥
इति ३ अनूयाजानामिष्टमिष्टमनुमन्त्रयते बर्हिषोऽहं देवयज्यया प्रजावान् भूयासम् इत्येतैः प्रतिमन्त्रम् ४ स्रुचौ व्यूह्यमाने वाजवतीभ्यामभिमन्त्रयते वाजस्य मा प्रसवेन इति द्वाभ्याम् ५ परिधीनज्यमानानभिमन्त्रयते वसून् देवान् यज्ञेनापिप्रेम् । रुद्रा न् देवान् यज्ञेनापिप्रेम् । आदित्यान् देवान् यज्ञेनापिप्रेम् इति ६ ४.१७
प्रस्तरमज्यमानमभिमन्त्रयते
समङ्क्तां बर्हिर्हविषा घृतेन समादित्यैर्वसुभिः सं मरुद्भिः ।
समिन्द्रे ण विश्वेभिर्देवेभिरङ्क्तां दिव्यं नभो गच्छतु यत् स्वाहा ॥
इति १ यत्राभिजानाति अग्निरिदँ हविरजुषत इति तन्निगदांनिगदां देवता-मनुमन्त्रयते अग्नेरहमुज्जितिमनूज्जेषम् इत्येतैर्मन्त्रैर्यथादेवतम् २ यर्हि होता यजमानस्य नाम गृह्णीयात् तर्हि ब्रूयात् एमा अग्मन्नाशिषो दोहकामाः इति ३ पुरस्तादपात्तं तृणमनुप्रह्वियमाणमनुमन्त्रयते
दिवः खीलोऽवततः पृथिव्या अध्युत्थितः ।
तेना सहस्रकाण्डेन द्विषन्तँ शोचयामसि ।
द्विषन्मे बहु शोचत्वोषधे मो अहँ शुचम् ॥
इति ४ परिधिषु प्रह्वियमाणेष्वाहवनीयमभिमन्त्रयते वि ते मुञ्चामि रशना वि रश्मीन् इति ५ शंयुवाकमभिमन्त्रयते विष्णोः शंयोरहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् इति ६ सँ स्रावभागानिष्टाननुमन्त्रयते इष्टो यज्ञो भृगुभि-र्द्र विणोदा यतिभिराशीर्दा वसुभिराशीर्वानथर्वभिः । अङ्गिरसो मास्य यज्ञस्य प्रातरनुवाकैरहोषुः । तस्य मेष्टस्य वीतस्य द्र विणेहागमः । वसुर्यज्ञो वसुमान् यज्ञस्तस्य मा यज्ञस्य वसोर्वसुमतो वस्वागच्छत्वदो म आगम्यात् इति । यत् कामयते तस्य नाम गृह्णाति ७ ४.१८

अन्तर्वेदि वेदं निधायाभिमृशति वेदोऽसि वित्तिरसि विदेय इत्येतैर्मन्त्रैः १ विदेय इत्यतोऽनन्तरं यद्यद् भ्रातृव्यस्याभिध्यायेत् तस्य नाम गृह्णीयात् २ पत्नीसंयाजानामिष्टमिष्टमनुमन्त्रयते । सोमस्याहं देवयज्यया इति प्रथमम् । त्वष्टुरहं देवयज्यया इति द्वितीयम् ३ राकाया अहं देवयज्यया प्रजावान् भूयासम् इति राकाम् । सिनीवाल्या अहं देवयज्यया पशुमान् भूयासम् इति सिनीवालीम् । कुह्वा अहं देवयज्यया पुष्टिमान् पशुमान् भूयासम् इति कुहूम् । एता एव तिस्रः पत्न्यनुमन्त्रयते मन्त्राँ श्च संनमयति ४ उत्तमौ पत्नीसंया-जाविष्टावनुमन्त्रयते देवानां पत्नीरग्निर्गृहपतिर्यज्ञस्य मिथुनं तयोरहं देवयज्यया मिथुनेन प्र भूयासम् इति ५ आज्येडामनुमन्त्रयते
इडास्माननु वस्तां घृतेन यस्याः पदे पुनते देवयन्तः ।
वैश्वानरी शक्वरी वावृधानोप यज्ञमस्थित वैश्वदेवी ॥
इति ६ या सरस्वती विशोभगीना तस्यास्ते भक्तिवानो भूयास्म इति फलीकरणहोमे हुते मुखं विमृष्टे ७ हुते समिष्टयजुषि यजमानभागं प्राश्नाति सं यज्ञपतिराशिषा इति ८ यदि यजमानः प्रवसेत् प्रजापतेर्विभान्नाम लोकस्तस्मिँ स्त्वा दधामि सह यजमानेन इति ध्रुवायां यजमानभागमवधाय समिष्टयजुषा सह जुहुयात् ९ ४.१९

पुरा पूर्णपात्राज्जपति यज्ञ शं च म उप च यज्ञ शिवो मे संतिष्ठस्व स्विष्टो मे संतिष्ठस्वारिष्टो मे संतिष्ठस्व ॥ यज्ञ नमस्ते यज्ञ नमो नमश्च ते यज्ञ । शिवेन मे संतिष्ठस्व स्योनेन मे संतिष्ठस्व सुभूतेन मे संतिष्ठस्व ब्रह्मवर्चसेन मे संतिष्ठस्व यज्ञस्यर्द्धिमनु संतिष्ठस्व । उप ते यज्ञ नम उप ते नम उप ते नमः इति १ अन्तर्वेदि प्रणीता आसन्ना अभिमृशति को वोऽयोक्षीत् स वो विमुञ्चतु इति २ अथासूपरिष्टात् संततामुदकधाराँ स्रावयति सदसि सन्मे भूयाः इति ३ अथैनां प्रतिदिशं व्युत्सिञ्चति प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम् इत्येतैर्यथारूपम् ४ अवशिष्टा अन्तर्वेदि निनयति
समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत ।
अच्छिद्र ः! प्रजया भूयासं मा परासेचि मत्पयः
इति ५ मुखं विमृष्टे
यदप्सु ते सरस्वति गोष्वश्वेषु यन्मधु ।
तेन मे वाजिनीवती मुखमङ्धि सरस्वति ॥
इति ६ दक्षिणे वेद्यन्ते दक्षिणेन पदा प्राङ् विष्णुक्रमान् क्रामति विष्णोः क्रमोऽसि इत्येतैस्त्रिभिर्मन्त्रैः । तिष्ठँ श्चतुर्थं जपति ७ तत आदित्यमुपतिष्ठते अगन्म सुवः सुवरगन्म इति प्रतिपद्य सं ज्योतिषाभूवम् इत्यन्तेन ८ ४.२०

उद्यन्नद्य मित्रमहः सपत्नान् मे अनीनशः ।
दिवैनान् विद्युता जहि निम्रोचन्नधरान् कृधि ॥
उद्यन्नद्य वि नो भज पिता पुत्रेभ्यो यथा ।
दीर्घायुत्वस्य हेशिषे तस्य नो देहि सूर्य ॥
उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् ।
हृद्रो गं मम सूर्य हरिमाणं च नाशय ॥
शुकेषु मे हरिमाणँ रोपणाकासु दध्मसि ।
अथो हारिद्र वेषु मे हरिमाणं निदध्मसि ॥
उदगादयमादित्यो विश्वेन सहसा सह ।
द्विषन्तं मम रन्धयन् मो अहं द्विषतो रधम् ॥
यो नः शपादशपतो यश्च नः शपतः शपात् ।
उषाश्च तस्मै निम्रुक् च सर्वं पापँ समूहताम् ॥
इति च १ प्रदक्षिणमावर्तते ऐन्द्री मावृतमन्वावर्ते पुण्या भवन्तु या लक्ष्मीः पराभवन्तु याः पापीः इति २ यद्यभिचरेत् इदमहममुष्यामुष्यायणस्य शुचा प्राणं निवेष्टयामि इति दक्षिणस्य पदः पार्ष्ण्या निवेष्टयेत् ३ अन्वाहार्यपचनमभिमन्त्रयते
अग्ने वह्ने स्वदितं नस्तनये पितुं पच ।
शं तोकाय तनुवे स्योनः ॥
इति ४ तेजोऽसि इत्यभिपर्यावृत्याहवनीयमभिमन्त्रयते समहं प्रजया सं मया प्रजा इति ५ समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासम् इत्युपसमिध्य वसुमान् यज्ञो वसीयान् भूयासम् इत्युपस्थाय गार्हपत्यमभिमन्त्रयते अग्न आयूँ षि पवसे इति प्रतिपद्य शतँ हिमाः इत्यन्तेन ६ पुत्रस्य नाम गृह्णाति तामाशिषमा शासे तन्तवे ज्योतिष्मतीम् इत्यजातपुत्रः । तामाशिषमा शासेऽमुष्मै ज्योतिष्मतीम् इति जातपुत्रः ७ अथ यदि बहुपुत्रः स्यात् सर्वेषां नामानि गृह्णीयात् ज्योतिषे तन्तवे त्वा इति ८ ४.२१

अन्तर्वेद्यासीनोऽतीमोक्षान् जपति ये देवा यज्ञहनः इत्येतान् १ सर्वं विहारमभिमन्त्रयते कस्त्वा युनक्ति स त्वा वि मुञ्चतु इति २ अत्रैके यजमानभागस्य प्राशनँ समामनन्ति ३ सांनाय्ययोरपि ब्राह्मणो यजमानः प्राश्नीयात् ।
इदँ हविः प्रजननं मे अस्तु दशवीरँ सर्वगणँ स्वस्तये ।
आत्मसनि प्रजासनि पशुसन्यभयसनि लोकसनि वृष्टिसनि ॥
अग्निः प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ।
रायस्पोषमिषमूर्जमस्मासु दीधरत् ॥
इति शृतस्य । दधिक्राव्णो अकारिषम् इति दध्नः ४ ततो व्रतं विसृजते ५ दक्षिणतस्तिष्ठन्नाहवनीयमभिमन्त्रयते अग्ने व्रतपते व्रतमचारिषम् इति ६ स एष ब्राह्मणस्यैव स्यान्नेतरयोर्वर्णयोः ७ वायो व्रतपते इति वायुमुपतिष्ठते । आदित्य व्रतपते इत्यादित्यम् । व्रतानां व्रतपते इत्याहवनीयम् ८ यज्ञस्य पुनरालम्भं जपति यज्ञो बभूव स आ बभूव इति ९ प्राङुत्क्रम्य ब्रूयात् गोमाँ अग्ने इत्येताम् १० यथान्ववेतमुपनिष्क्रामन्नाह ब्राह्मणाँ स्तर्पयितवै इति ११ तत् खल्विदं याजमानं न प्रवसतो विद्यत इत्याश्मरथ्यः । अथालेखनः । एवं विहितमेवास्य प्रवसतो याजमानं भवति । एतावन्नाना । यानि सँ स्पृश्य कर्माण्यध्वर्युस्तानि कुर्यात् १२ यजमानः काले तां दिशमभिमुखो मन्त्रान् जपेत् । प्राङ्मुखस्त्वेव विष्णुक्रमान् गोमतीमिति ब्रूयाद् गोमतीमिति ब्रूयात् १३ ४.२२
इति चतुर्थः प्रश्नः