कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम्/प्रश्नः ०२
← प्रश्नः ०१ | कल्पः/श्रौतसूत्राणि/भारद्वाज-श्रौतसूत्रम् प्रश्नः ०२ भरद्वाजः |
प्रश्नः ०३ → |
अथ द्वितीयः प्रश्नः
देवस्य त्वा सवितुः प्रसवे इति स्फ्यमादाय तृणेन सँ श्यति शतभृष्टिरसि वानस्पत्यो द्विषतो वधः सहस्रभृष्टिः शततेजा वायुरसि तिग्मतेजाः इति १ अपरेणाहवनीयं वेदिर्भवति यजमानमात्र्! यपरिमिता वा प्राची २ यथा हवीँ ष्यासन्नानि संभवेदेवं तिरश्ची ३ वेदेन वेदिं विविदुः पृथिवीँ सा पप्रथे पृथिवी पार्थिवानि । गर्भं बिभर्ति भुवनेष्वन्तस्ततो यज्ञो जायते विश्वदानिः इति पुरस्तात् स्तम्बयजुषो वेदेन वेदिं त्रिः संमार्ष्ट्युपरिष्टाद् वा ४ पूर्वार्धाद् वितृतीयदेशाद् वेदेः स्तम्बयजुर्हरति ५ पृथिव्यै वर्प्रासि इत्यन्तर्वेदि प्रागग्रमुदगग्रं वा दर्भं निधाय तस्मिन् स्फ्येन प्रहरति पृथिवि देवयजन्योपध्यास्ते मूलं मा हिँ सिषम् इति ६ अपहतोऽररुः पृथिव्यै इति स्फ्येन सतृणान् पाँ सूनपादाय हरति व्रजं गच्छ गोस्थानम् इति ७ वर्षतु ते द्यौः इति वेदिं प्रत्यवेक्षते ८ उत्तरतो निवपति बधान देव सवितः परमस्यां परावति शतेन पाशैर्योऽस्मान् द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौक् ॥ अररुस्ते दिवं मा स्कान् इति ९ स उत्करो भवति १० तमाग्रीध्रो गृह्णाति अररो दिवं मा पप्तः इति ११ एवमेव द्वितीयँ हरत्येवं तृतीयम् १२ अपहतोऽररुः पृथिव्यै देवयजन्यै इति द्वितीयमपादत्ते १३ अपहतोऽररुः पृथिव्या अदेवयजनः इति तृतीयम् १४ २.१
तूष्णीं चतुर्थं ँ! हृत्वा स्फ्येन वेदिं परिगृह्णाति १ वसवस्त्वा परि गृह्णन्तु गायत्रेण छन्दसा इति दक्षिणतः २ रुद्रा स्त्वा इति पश्चात् ३ आदित्यास्त्वा इत्युत्तरतः ४ स्फ्येन वै सर्वं वेदिकर्म क्रियते ५ ततः संप्रेष्यति इमां नराः कृणुत वेदिमेत्य वसुमतीँ रुद्र वतीमादित्यवतीम् । वर्ष्मन् दिवो नाभा पृथिव्या यथायं यजमानो न रिष्येत् ॥ एत देवेभ्यो जुष्टामदित्या उपस्थे । इमां देवा अजुषन्त सर्वे । रायस्पोषा यजमानं विशन्तु इति ६ अथास्या उत्तमां त्वचँ समुद्धत्योत्करं गमयति ७ अथैनां खनति द्व्यङ्गुलं त्र्! यङ्गुलं चतुरङ्गुलं वा सीतामात्रीं रथवर्त्ममात्रीं वा यावत् पार्ष्ण्याः श्वेतं तावतीं वा देवस्य सवितुः सवे कर्म कृण्वन्ति वेधसः इति ८ मूलं छिनत्ति ९ आ प्रतिष्ठायै खनति १० प्राञ्चौ वेद्यँ सावुन्नयत्यभित आहवनीयं प्रतीची श्रोणी अभितो गार्हपत्यम् ११ मध्ये संनतां प्राचीमुदीचीं प्रवणां पुरस्तादँ हीयसीं पश्चात् प्रथीयसीं दक्षिणतो वर्षीयसीं पुरीषवतीं करोति १२ यत् पुरीषमतिशेत उत्करं तद् गमयति १३ यत्तृणं मूलं वातिशेते स्फ्येन तच्छिनत्ति न नखेन १४ २.२
आहार्यपुरीषां पशुकामस्य वेदिं कुर्यात् खननपुरीषां प्रजाकामस्येति विज्ञायते १ उदुप्य नित्यमन्यदावपेदित्येकम् । अखातायामेवान्यदावपेदित्यपरम् २ यत्र खनेत् तत्र खननमन्त्रं जपेत् ३ अधिश्रितेषु हविःषु पौर्णमास्यां वेदिं कुर्यात् ४ पूर्वेद्युः प्राग् बर्हिष आहरणादमावास्यायाम् ५ यत् प्रागुत्तरस्मात् परिग्राहात् तत् कृत्वोपवसति ६ समानमितरत् ७ ब्रह्माणमामन्त्रयते ब्रह्मन्नुत्तरं परिग्राहं परिग्रहीष्यामि इति ८ प्रसूतो ब्रह्मणा स्फ्येन वेदिं परिगृह्णाति । ऋतमसि इति दक्षिणतः ऋतसदनमसि इति पश्चात् ऋतश्रीरसि इत्युत्तरतः ९ अथैनाँ स्फ्येन प्रतीचीं योयुप्यते धा असि स्वधा असि का!शेषेण १० पश्चार्धे वितृतीयदेशे वेदेः स्फ्यं तिर्यञ्चँ स्तब्ध्वा संप्रेष्यति प्रोक्षणीरासादयेध्मा-बर्हिरुपसादय स्रुवं च स्रुचश्च संमृड्ढि पत्नीँ संनह्याज्येनोदेहि इति ११ आग्नीध्र एतानि कर्माणि कुर्यादित्येकम् । अध्वर्युरित्यपरम् १२ उपनिनीय प्रोक्षणीः स्फ्यस्य वर्त्मन् दक्षिणेन स्फ्यमसँ स्पृष्टा बर्हिरासादयति १३ यं द्विष्यात् तं ध्यायेत् १४ उत्करे पुरस्तात् प्रत्यञ्चँ स्फ्यमुदस्यति शतभृष्टिरसि वानस्पत्यो द्विषतो वधः इति १५ यं द्वेष्टि तस्य नाम गृह्णाति १६ हस्ताववनिज्य स्फ्यं प्रक्षालयति । नाग्रं प्रतिमुञ्चति १७ वेदिं कृत्या नानवनिज्य हस्तौ पात्राणि पराहण्यात् १८ उत्तरेण प्रणीताः पश्चात् प्रागग्रमिध्माबर्हिषी उपसादयति १९ २.३
दक्षिणमिध्ममुत्तरं बर्हिः १ स्रुवं च स्रुचश्च प्राशित्रहरणं चादाय गार्हपत्ये वाहवनीये वा निष्टपति प्रत्युष्टँ रक्षः प्रत्युष्टा अरातयः इति २ वेदाग्रैः प्रति-विभज्य संमार्ष्टि । अप्रतिविभज्य वा ३ स्रुवमग्र उत्तानं धारयमाणोऽग्रैरन्त-रतोऽभ्याकारँ सर्वतो बिलमभिसमाहारं तन्मूलैर्दण्डं गोष्ठं मा निर्मृक्षम् इति ४ जुहूँ संमार्ष्ट्युत्तानां धारयमाणोऽग्रैरन्तरतोऽभ्याकारं प्राचीं मध्यैर्बाह्यतः प्रतीचीं मूलैर्दण्डं वाचं प्राणं मा निर्मृक्षम् इति ५ उपभृतँ संमार्ष्टि तिरश्चीं धारयमाणो-ऽग्रैरन्तरतोऽभ्याकारं प्रतीचीं मध्यैर्बाह्यतः प्राचीं मूलैर्दण्डं चक्षुः श्रोत्रं मा निर्मृ-क्षमिति ६ यथा स्रुवं तथा ध्रुवां प्रजां योनिं मा निर्मृक्षम् इति ७ रूपं वर्णं मा निर्मृक्षं वाजि त्वा सपत्नसाहँ संमार्ज्मि इति प्राशित्रहरणम् ८ न संमृष्टानि चासंमृष्टानि च सँ स्पर्शयेत् ९ यदि सँ स्पर्शयेत् पुनरेव निष्टप्य संमृज्यात् १० संमृष्टानि निष्टपति अग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामि इति ११ २.४
अथैतानि संमार्जनान्यद्भिः सँ स्पृश्याग्नौ प्रहरति यतरस्मिन् निष्टपति दिवः शिल्पमवततं पृथिव्याः ककुभि श्रितम् । तेन वयँ सहस्रवल्शेन सपत्नं नाशयामसि स्वाहा इति १ उत्करे वोदस्यति २ पत्नीमूर्ध्वज्ञुमासीनाँ संनह्यति तिष्ठन्तीं वा स्वयं वा पत्न्यात्मानं मौञ्जेन योक्त्रेणान्यतरतःपाशेनाभ्यन्तरं वाससो बाह्यतो वा आशासाना सौमनसम् इति ३ उत्तरेण नाभिं निष्टर्क्यं ग्रन्थिं कृत्वा दक्षिणतो नाभेः पर्यूहते ४ अग्ने गृहपत उप मा ह्वयस्व इति गार्हपत्यमभिमन्त्रयते ५ देवानां पत्नीरुप मा ह्वयध्वम् इति देवपत्नीरपरेण गार्हपत्यम् ६ देवपत्न्या लोकमुपतिष्ठते पत्नि पल्येष ते लोको नमस्ते अस्तु मा मा हिँ सीः इति ७ देशाद् दक्षिनत उदीच्युपविशति इन्द्रा णीवाविधवा भूयासमदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्योपनिषदे सुप्रजास्त्वाय इति ८ गार्हपत्यमभिमन्त्रयते सुप्रजसस्त्वा वयम् इत्येतया ९ मम पुत्राः शत्रुहणो अथो मे दुहिता विराट् । उताहमस्मि संजया पत्युर्मे श्लोक उत्तमः इति च १० पूषा ते बिलं विष्यतु इति सर्पिर्धानस्य बिलं विष्यति ११ अदितिरस्यच्छिद्र पत्रा इत्याज्यस्थालीमादाय १२ २.५
तस्यां पवित्रान्तर्हितायां प्रभूतमाज्यं निर्वपति महीनां पयोऽस्योषधीनाँ रसस्तस्य तेऽक्षीयमाणस्य निर्वपामि देवयज्यायै इति १ दक्षिणाग्नावधिश्रयति इदं विष्णुर्वि चक्रमे इति २ विलाप्य वा निर्वपति ३ इषे त्वा इति दक्षिणार्धे गार्हपत्यस्याधिश्रयति ४ ऊर्जे त्वा इत्यपादाय वेदेनोपयम्य पत्न्या उपयच्छति ५ तत् सा निमील्यानुच्छ्वसन्त्यवेक्षते महीनां पयोऽस्योषधीनाँ रसोऽदब्धेन त्वा चक्षुषावेक्षे सुप्रजास्त्वाय इति ६ तेजोऽसि इत्युत्तरार्धे गार्हपत्यस्या-धिश्रयति ७ तेजसे त्वा इत्यपादाय वेदेनोपयम्याहरति तेजोऽसि तेजोऽनु प्रेहि इति ८ आहवनीयेऽधिश्रयति अग्निस्ते तेजो मा विनैत् इति ९ उत्तरेण प्रोक्षणीः स्फ्यस्य वर्त्मन् सादयति अग्नेर्जिह्वासि सुभूर्देवानां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भव इति १० अथैनदध्वर्युश्च यजमानश्च निमील्यानुच्छ्वसन्ता-ववेक्षेते आज्यमसि इति प्रतिपद्य तस्य ते भक्षीय इत्यन्तेन ११ अथैनदुदगग्राभ्यां पवित्राभ्यां पुनराहारं त्रिरुत्पुनाति शुक्रमसि ॥ ज्योतिरसि ॥ तेजोऽसि इत्येतैर्मन्त्रैः १२ आज्यवतीभ्यां पवित्राभ्यां प्रोक्षणीरुत्पुनाति देवो वः सवितोत्पुनातु इति पच्छो गायत्र्! या १३ २.६
अनिष्कासिना स्रुवेणान्तर्वेद्याज्यानि गृह्णाति वेदे स्रुचोऽत्याधाय १ चतुर्गृहीतं जुह्वां शुक्रं त्वा शुक्रायां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि इत्येतैस्त्रिभिर्मन्त्रैः । पञ्चानां त्वा वातानाम् इति चतुर्थम् २ एवमेवोत्तरैर्मन्त्रै-रुपभृति ध्रुवायामिति गृह्णाति ३ अष्टगृहीतमुपभृति चतुर्गृहीतं ध्रुवायाम् । पञ्चगृहीतं पशुकामस्य ४ तैरेव मन्त्रैर्यजमानोऽनुमन्त्रयते ५ अपि वाध्व-र्यवैरेवाध्वर्युर्गृह्णीयात् ६ याजमानैर्यजमानोऽनुमन्त्रयते ७ भूयो जुह्वां गृह्णा-त्यल्पीय उपभृति भूयिष्ठं ध्रुवायाम् ८ समंबिलं धारयमाणो जुह्वां गृह्णाति मध्यदेश उपभृति भूमौ प्रतिष्ठितायां ध्रुवायाम् ९ नान्तर्वेदि गृहीतस्य पश्चात् प्रतिहरति १० नोत्कर आज्यं किंचन सादयति ११ आपो देवीरग्रेपुवः इति प्रोक्षणीरभिमन्त्र्! य ब्रह्माणमामन्त्रयते ब्रह्मन् प्रोक्षिष्यामि इति १२ प्रसूतो ब्रह्मणा विषायेध्मं प्रोक्षति कृष्णोऽस्याखरेष्ठोऽग्नये त्वा स्वाहा इति १३ वेदिरसि इति वेदिम् । बर्हिरसि इति बर्हिः । एकैकं त्रिस्त्रिः प्रोक्षति १४ अन्तर्वेदि पुरोग्रन्थि बर्हिरासाद्य प्रोक्षति । दिवे त्वा इत्यग्रम् । अन्तरिक्षाय त्वा इति मध्यम् । पृथिव्यै त्वा इति मूलम् १५ स्रुच्यग्राण्युपपाय्य मूलान्युपपाययति १६ २.७
सह स्रुचा पुरस्तात् प्रत्यञ्चं ग्रन्थिं प्रत्युक्षति पोषाय त्वा इति १ यत्प्रोक्षणीनामुच्छिष्येत तदन्तर्वेदि निनयति स्वधा पितृभ्यः इति २ दक्षिणायै श्रोणेरुपक्रम्योत्तरस्याः संततां धाराँ स्रावयति ३ पूषा ते ग्रन्थिं विष्यतु इति बर्हिर्विस्रँ सयति ४ ऊर्ध्वं प्राञ्चमुद्गूढं प्रत्यञ्चमायच्छति ५ पुरस्तात् प्रस्तरं गृह्णाति । नानुमार्ष्टि न प्रतिमार्ष्टि नावधूनोति । कर्षन्निवापादत्ते विष्णो स्तूपोऽसि इति ६ तस्मिन् पवित्रे अपिसृजति अयं प्राणश्रापानश्च यज-मानमपिगच्छताम् । यज्ञे ह्यभूतां पोतारौ पवित्रे हव्यशोधने इति ७ ततः संप्रेष्यति स्तृणीत बर्हिः परिधत्त वेदिं जामिं मा हि सीरमुया शयाना । दर्भैः स्तृणीत हरितैः सुवर्णैर्निष्का इमे यजमानस्य ब्रध्ने इति ८ ब्रह्मणे प्रस्तरं प्रयच्छति प्राणापानाभ्यां त्वा सतनुं करोमि इति ९ ब्रह्मा यजमानाय यजमाने प्राणापानौ दधामि इति १० मयि प्राणापानौ इति यजमानः प्रत्याह ११ शुल्बँ स्तृणाति ऊर्णाम्रदसं त्वा स्तृणामि इत्या दक्षिणायै श्रोणेः प्रपाद्योत्तरस्मादँ सात् संततम् १२ सर्वस्यां वेद्यां बर्हिः स्तृणाति बहुलमनतिदृश्नम् ऊर्णाम्रदसं त्वा स्तृणामि इति त्रिधातु पञ्चधातु वा प्रागपवर्गं प्रत्यगपवर्गं वा १३ अग्रैर्मूला-न्याच्छादयति १४ २.८
धातौधातौ मन्त्रं जपति १ अत्रैकेऽनूयाजार्थे उल्मुके निरूहन्ति २ प्रस्तरं धारयमाणोऽपरेणाहवनीयँ सँ स्पृष्टान् परिधीन् परिदधाति । उदगग्रं मध्यमं गन्धर्वोऽसि विश्वावसुः इति इन्द्र स्य बाहुरसि इति दक्षिणं मित्रावरुणौ त्वा इत्युत्तरम् ३ अभ्यग्रमाहवनीयं दक्षिणमवाग्रमुत्तरम् ४ एवमनुपूर्वाण्येवैष्वत ऊर्ध्वं कर्माणि क्रियन्ते ५ सूर्यस्त्वा पुरस्तात् पातु इत्याहवनीयमभिमन्त्र्! य मध्येऽग्नेरूर्ध्वं आघारसमिधावादधाति ६ वीतिहोत्रं त्वा कवे इति दक्षिणाम् ७ तूष्णीमुत्तराम् ८ बर्हिषः समावनन्तर्गर्भौ विधृती कृत्वा मध्ये वेदेरुदी-चीनाग्रे निदधाति विशो यन्त्रे स्थः इति ९ विधृत्योः प्रस्तरँ सादयति वसूनाँ रुद्रा णामादित्यानाँ सदसि सीद इति १० प्रस्तरे जुहूं जुहूरसि घृताची इति उत्तरेण जुहूमुपभृतं प्रतिकृष्टतरामधस्ताद् विधृत्योः उपभृदसि इति १३ उत्तरेणोपभृतं ध्रुवां प्रतिकृष्टतरामुपरिष्टाद् विधृत्योः ध्रुवासि इति १४ असँ स्पृष्टाः सादयति १५ दक्षिणेन जुहूँ स्रुवँ सादयत्युत्तरेण वा ध्रुवाम् ऋषभोऽसि शाक्वरो घृताचीनाँ सूनुः प्रियेण नाम्ना प्रिये सदसि सीद इति १६ २.९
अथैना अभिमन्त्रयते एता असदन् इत्यनुवाकशेषेण १ विष्णूनि स्थ वैष्णवानि धामानि स्थ प्राजापत्यानि इत्याज्यान्यभिमन्त्रयते २ सस्रुवामाज्यस्थालीं वेदं पात्रीं चादायापरेण गार्हपत्यमुपविश्य इदमहँ सेनाया अभीत्वर्यै मुखमपोहामि इति वेदेन पुरोडाशात् साङ्गारं भस्मापोह्याभिमन्त्रयते सूर्य ज्योतिर्विभाहि महत इन्द्रि याय बलाय इति ३ पात्र्! यामुपस्तृणाति स्योनं ते सदनं करोमि घृतस्य धारया सुशेवं कल्पयामि । तस्मिन् सीदामृते प्रतितिष्ठ व्रीहीणां मेध सुमन-स्यमानः इति ४ आज्येनाभिघारयति आप्यायतां घृतयोनिरग्निर्हव्यानुमन्यताम् । खमङ्क्ष्व सुरूपं त्वा वसुविदं पशूनां तेजसाग्नये जुष्टमभिघारयामि इति दक्षिणम् । तूष्णीमुत्तरम् ५ सांनाय्यमभिघारयति यस्त आत्मा पशुषु प्रविष्टो देवानां विष्ठामनु यो वितस्थे । आत्मन्वान् सोम घृतवान् हि भूत्वा देवान् गच्छ सुवर्विन्द यजमानाय मह्यम् इति ६ पात्र्! यामुद्वासयति आर्द्र ः! प्रथ-स्नुर्भुवनस्य गोपाः । शृत उत्स्नाति जनिता मतीनाम् इति ७ न पर्यावर्तयति न भिनत्ति ८ २.१०
इरा भूतिः पृथिव्यै रसो मोत्क्रमीत् इति कपालानि प्रत्यनक्ति १ अथैनाव-परिवर्गमणिकाषमनक्ति देवस्त्वा सविता मध्वानक्तु इति २ उपरिष्टादभ्य-ज्याधस्तादुपानक्ति ३ स्वक्तमकूर्मपृषन्तं कृत्वा सांनाय्ये चालंकृत्यान्तर्वेदि चतुर्होत्रा पौर्णमास्याँ हवीँ ष्यासादयेत् पञ्चहोत्रामावास्यायाम् ४ भूर्भुवः सुवः इति प्रथमायां पौर्णमास्याम् ५ संवत्सरे पर्यागत एताभिरेवासादयेत् ६ प्रथम एव संवत्सर इत्याश्मरथ्यः । संवत्सरेसंवत्सर इत्यालेखनः ७ अपरेण स्रुचः पुरोडाशावासादयति ८ मध्ये वेदेः सांनाय्यकुम्भ्यौ संधाय दक्षिणास्यां वेदिश्रोण्याँ शृतमासादयत्युत्तरस्यां दधि ९ अपि वा पूर्व ँ! शृतमपरं दधी-त्येकेषाम् १० अग्रेण ध्रुवां वेदँ सादयति अयं वेदः पृथिवीमन्वविन्दद् गुहा सतीं गहने गह्वरेषु । स विन्दतु यजमानाय लोकमच्छिद्रं यज्ञं भूरिकर्मा करोतु इति ११ वेद्यन्तान् परिस्तीर्य होतृषदनं कल्पयति १२ जघनेन वेदिमुदगग्रैर्दर्भैः सँ स्तीर्णं भवति १३ २.११
ततः संप्रेष्यति अग्नये समिध्यमानायानुब्रहि इति १ आसीन इध्मं प्रणवेप्रणवे समिधमादधाति २ यत्राभिजानाति समिद्धो अग्न आहुत इति तदेकामनूया-जसमिधमवशिष्य सर्वमिध्मशेषमभ्याधाय वेदेनाहवनीयं त्रिरुपवाजयति ३ स्रुवेण ध्रुवाया आज्यमादाय वेदेनोपयम्योत्तरं परिधिसंधिमन्ववहृत्य दक्षिणा-प्राञ्चमासीनः संततमृजुमाघारमाघारयति प्रजापतिं मनसा ध्यायन् ४ स्रुवे-णाज्यस्थाल्या आज्यमादाय ध्रुवामाप्याययति आ प्यायतां ध्रुवा घृतेन इत्येतया ५ तत्रैषोऽत्यन्तप्रदेशो यत्र क्व च ध्रुवाया आज्यमादत्त एवमेवैनामाप्याययति । ध्रुवाया एवानादिष्टाज्यार्थाः क्रियन्ते ६ ततः संप्रेष्यति अग्नीत् परिधीँ श्चाग्निं च त्रिस्त्रिः संमृड्ढि इति ७ सस्फ्यैरिध्मसंनहनैराग्नीध्रः परिधीँ श्चाग्निं च त्रिस्त्रिः संमार्ष्टि ८ तूष्णीं परिधीन् ९ अग्ने वाजजिद्वाजं त्वा सरिष्यन्तं वाजं जेष्यन्तं वाजिनं वाजजितं वाजजित्यायै संमार्ज्म्यग्निमन्नादमन्नाद्याय इत्यग्निँ संमार्ष्टि १० अग्रेण जुहूं ध्रुवां वोत्तानौ पाणी प्रतिष्ठाप्य ११ २.१२
आहवनीयायाञ्जलिं करोति भुवनमसि वि प्रथस्वाग्ने यष्टरिदं नमः इति १ जुहूमादत्ते जुह्वेहि इति । उपभृतम् उपभृदेहि इति २ उपभृति जुहूमत्यादधाति सुयमे मे अद्य घृताची भूयास्तँ स्वावृतौ सूपावृतौ इति ३ तत्रैषोऽत्यन्तप्रदेशो यत्र क्व चोपभृति जुहूमत्यादधाति मुखत एवाध्यूहति मुखत उपावहरति ४ न च सँ शिञ्जयति नाभिदेशे च स्रुचौ धारयते ५ समं प्राणैरित्येकेषाम् ६ अग्रेण ध्रुवामनवक्लिश्नन् प्रस्तरमत्याक्रामति अग्नाविष्णू मा वामव क्रमिषम् इति ७ दक्षिणतोऽवतिष्ठते विष्णो स्थानमसि इति ८ अन्तर्वेदि दक्षिणः पादो भवति । अवघ्र इव सव्यः ९ दक्षिणं परिधिसंधिमन्ववहृत्योर्ध्वस्ति-ष्ठन्नन्वारब्धे यजमाने प्राञ्चमुदञ्चँ संततमृजुमाघारमाघारयति समारभ्योर्ध्वो अध्वरः इति १० न्यञ्चमाघारयेद् वृष्टिकामस्योर्ध्व ँ! स्वर्गकामस्य ११ एतं भूयिष्ठमाहुतीनां जुहोति १२ हुत्वानुप्राणिति १३ हिं बृहद्भाः इति स्रुचमुद्गृह्णाति १४ असँ स्पर्शयन् स्रुचौ प्रत्याक्रामति १५ २.१३
पाहि माग्ने दुश्चरितादा मा सुचरिते भज इति १ एते एवाक्रमणप्रत्याक्रमणे मन्त्रवती भवतः २ तत्रैषोऽत्यन्तप्रदेशो या उत्तरतः सन्नाहुतीर्जुहोत्युत्तरं परिधि-संधिमन्ववहृत्य ता जुहोति । या दक्षिणतो दक्षिणं परिधिसंधिमन्ववहृत्य ताः ३ दक्षिणेनैव दक्षिणात्याक्रामति सव्येनोदङ् । अपि वा सव्येन दक्षिणा दक्षिणेनोदङ् ४ प्रत्याक्रम्य जुह्वा ध्रुवाँ समनक्ति मखस्य शिरोऽसि सं ज्योतिषा ज्योतिरङ्क्ताम् इति ५ उन्नीतँ रायः इति स्रुवेण ध्रुवाया आज्यमादाय सुवीराय स्वाहा इति जुहूं प्रत्यभिघारयति ६ यज्ञेन यज्ञः संततः इति जुह्वा ध्रुवाम् ७ निधाय स्रुचौ वेदेरव्यन्तं तृणमादायोत्तरत उत्करे प्राञ्चौ प्रवरा-यावतिष्ठेते क इदमध्वर्युर्भविष्यति स इदमध्वर्युर्भविष्यति । यज्ञो यज्ञस्य विष्णोः स्थाने तिष्ठामि । वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु । वाचं प्रपद्ये भूर्भुवः सुवः इति पूर्वोऽध्वर्युः । क इदमग्नीद् भविष्यति स इदमग्नीद् भविष्यति । यज्ञो यज्ञस्य विष्णोः स्थाने तिष्ठामि । वागार्त्विज्यं करोतु मन आर्त्विज्यं करोतु । वाचं प्रपद्ये भूर्भुवः सुवः इति ८ २.१४
अपर आग्नीध्रः १ स्फ्यं चेध्मसंनहनानि चान्वारभेते २ ब्रह्माणमामन्त्रयते ब्रह्मन् प्रवरायाश्रावयिष्यामि इति ३ प्रसूतो ब्रह्मणाश्रावयति आश्रावय इति ओश्रावय इति वा ४ अस्तु श्रौषट् इत्याग्नीध्रः प्रत्याश्रावयति ५ तत्रैषो-ऽत्यन्तप्रदेशो यत्र क्व चाध्वर्युराश्रावयेन्नित्यमेवाग्नीध्रोऽपरेणोत्करं दक्षिणा-मुखस्तिष्ठन् स्फ्यँ सेध्मसंनहनमूर्ध्वं धारयमाणः प्रत्याश्रावयति ६ आग्नी-ध्रागारे तु सोमे ७ आश्राव्य प्रवरं प्रवृणीते अग्निर्देवो होता देवान् यक्षद् विद्वाँ श्चिकित्वान् मनुष्वद्भरतवददोवददोवत् इति यथार्षेयो यजमानः ८ त्रीनार्षेयान् मन्त्रकृत इतऊर्ध्वान् वृणीते ९ अपि वा मनुवद् इत्येव प्रवृणीते १० पुरोहितस्यार्षेयान् राज्ञः प्रवृणीते ११ ब्रह्मण्वदा च वक्षद् ब्राह्मणा अस्य यज्ञस्य प्रावितारः इत्युक्त्वा असौ इति होतुरुपाँ शु नाम गृह्णाति १२ मानुषः इत्युच्चैः १३ वेद्यां तृणमपिसृज्य १४ २.१५
अनपव्याहरन्तः प्रचरन्तीति विज्ञायते १ यत्राभिजानाति घृतवतीमध्वर्यो स्रुचमास्यस्व इति तज्जुहूपभृतावादायात्याक्रम्याश्राव्याह समिधो यज इति २ वषट्कृते जुहोति ३ आश्राव्याश्राव्य यज यज इत्येवोत्तरेभ्यः संप्रेष्यति ४ अपरेणाघारसंभेदं प्राचः प्रयाजानभिक्रामं जुहोति ५ समानत्र वा ६ अपि वा समिधः पुरस्ताद् यजति तनूनपातं दक्षिणत इडः पश्चाद् बर्हिरुत्तरतः स्वाहाकारं मध्ये ७ यत्र समिद्धतमस्तत्र सर्वा आहुतीर्जुहुयात् ८ चतुर्थ ँ! होष्यन्नौपभृतादर्धं जुह्वामानयते ९ पञ्च प्रयाजानिष्ट्वा प्रत्याक्रम्य यज्जुह्वामाज्यं परिशिष्टं तेन हवी ँ! ष्यभिघारयति ध्रुवामग्रेऽथाग्नेयं पुरोडाशमथोत्तरमथ शृतमथ दध्युपभृतमन्ततः १० अथायतने स्रुचौ सादयित्वा पुनरादत्ते ११ एवमादत्ते भवत आ स्विष्टकृतः १२ तत आज्यभागाभ्यां प्रचरति १३ अग्नयेऽनुब्रूहि इति संप्रेष्यति १४ जुह्वां चतुर्गृहीतमाज्यं गृहीत्वा पञ्चगृहीतं वात्याक्रम्या-श्राव्याह अग्निं यज इति १५ वषट्कृत उत्तरार्धपूर्वार्धे जुहोति १६ नैतामुत्तरेणान्यामाहुतिं जुहोति १७ प्रत्याक्रम्य १८ २.१६
सोमायानुब्रूहि इति संप्रेष्यति १ यथागृहीतमाज्यं गृहीत्वात्याक्रम्याश्राव्याह सोमं यज इति २ वषट्कृते दक्षिणार्धपूर्वार्धे प्रबाहुक् पूर्वया जुहोति ३ नैतां दक्षिणेनान्यामाहुतिं जुहोति ४ प्रत्याक्रम्य ५ तत्रैषोऽत्यन्तप्रदेशः स्रुवेणैवा-ज्यदोहयोरित्यवद्यति हस्तेन पुरोडाशस्य ६ जमदग्नीनामेव पञ्चावत्तं चतुर-वत्तमितरेषाम् ७ अप्यजामदग्न्यो जामदग्न्यमामन्त्र्! य पञ्चावत्तं कुर्वीत ८ ततः संप्रेष्यति अग्नयेऽनुब्रूहि इति ९ जुह्वामुपस्तीर्याग्नेयस्य पुरोडाशस्याङ्गुष्ठेन माँ ससँ हिताभ्यामङ्गुलीभ्यां मध्यादवदाय पूर्वार्धादवद्यति पश्चार्धात् तृतीयं यदि पञ्चावदानः मा भेर्मा संविक्था मा त्वा हिँ सिषं मा ते तेजोऽपक्रमीत् । भरतमुद्धरेमनुषिञ्च । अवदानानि ते प्रत्यवदास्यामि । नमस्ते अस्तु मा मा हिँ सीः इति १० अङ्गुष्ठपर्वमात्राण्यवदानान्यसंभिन्दन्नवद्यति ११ अवदाना-न्यभिघार्य हविः प्रत्यभिघारयति यदवदानानि तेऽवद्यन् विलोमाकार्षमात्मनः । आज्येन प्रत्यनज्म्येनत् तत् त आप्यायतां पुनः इति १२ अत्याक्रम्याश्राव्याह अग्निं यज इति १३ वषट्कृते मध्ये जुहोति १४ अपिदधदिवाप्रक्षिणन्नाज्यँ हुत्वा पुरोडाशं जुहोति तत आज्यम् १५ २.१७
पूर्वां पूर्वा ँ! सँ हितामाहुतिं जुहोत्या स्विष्टकृतः १ अपि वा स्रुच्यमाघा-रमभिजुहुयात् २ तत उपाँ शुयाजाय संप्रेष्यति विष्णवे इत्युपाँ शु अनुब्रूहि इत्युच्चैः ३ यथागृहीतमाज्यं गृहीत्वात्याक्रम्याश्राव्याह विष्णुम् इत्युपाँ शु यज इत्युच्चैः ४ वषट्कृते जुहोति ५ अग्नीषोमीयमेक उपाँ शुयाजँ समामनन्ति प्राजापत्यमेके ६ स एष पौर्णमास्यामेव भवति ७ यथाग्नेयेनैवमुत्तमेन पुरो-डाशेन प्रचरति अग्नीषोमाभ्याम् इति पौर्णमास्याम् इन्द्रा ग्निभ्याम् इत्यमावा-स्यायामसंनयतः ८ अथ यदि संनयेत् इन्द्रा यानुब्रूहि इति संप्रेष्यति ९ महेन्द्रा य इति वा यदि महेन्द्र याजी भवति १० जुह्वामुपस्तीर्य द्विः शृत-स्यावद्यति द्विर्दध्नश्चतुरवदानस्य त्रिः पञ्चावदानस्य ११ अभिघार्यात्याक्रम्या-श्राव्याह इन्द्रं यज इति १२ महेन्द्र म् इति वा १३ वषट्कृते जुहोति १४ प्रत्याक्रम्य स्रुवेण पार्वणौ होमौ जुहोति ऋषभं वाजिनं वयं पूर्णमासं यजामहे । स नो दोहताँ सुवीर्य ँ! रायस्पोषँ सहस्रिणम् । प्राणाय सुराधसे पूर्णमासाय स्वाहा इति पौर्णमास्याम् । अमावास्या सुभगा सुशेवा धेनुरिव भूय आप्यायमाना । सा नो दोहताँ सुवीर्य ँ! रायस्पोषँ सहस्रिणम् । अपानाय सुराधसेऽमावास्यायै स्वाहा इत्यमावास्यायाम् १५ २.१८
अत्र नारिष्ठान् होमाञ्जुहोति
दश ते तनुवो यज्ञ यज्ञियास्ताः प्रीणातु यजमानो घृतेन ।
नारिष्ठयोः प्रशिषमीडमानो देवानां दैव्येऽपि यजमानोऽमृतोऽभूत् स्वाहा ॥
यं वां देवा अकल्पयन्नूर्जो भागँ शतक्रतू ।
एतद्वां तेन प्रीणानि तेन तृप्यतमँ हहौ स्वाहा ॥
अहं देवानाँ सुकृतामस्मि लोके ममेदमिष्टं न मिथुर्भवाति ।
अहं नारिष्ठावनुयजामि विद्वान् यदाभ्यामिन्द्रो अदधाद् भागधेयँ स्वाहा ॥
अदारसृद् भवत देव सोमास्मिन् यज्ञे मरुतो मृडता नः ।
मा नो विददभिभा मो अशस्तिर्मा नो विदद् वृजना द्वेष्या या स्वाहा ॥
इति १ ततः संप्रेष्यति अग्नये स्विष्टकृतेऽनुब्रूहि इति २ जुह्वामुपस्तीर्य सर्वेषाँ हविषामुत्तरार्धात् सकृत्सकृच्चतुरवदानस्यावद्यति द्विः पञ्चावदानस्य ३ स्थवीयाँ स्येतानि दैवतेभ्यो भवन्ति ४ द्विरभिघार्य न हविः प्रत्यभिघारयति ५ अत्याक्रम्याश्राव्याह अग्निँ स्विष्टकृतं यज इति ६ वषट्कृत उत्तरार्धपूर्वा-र्धेऽतिहाय पूर्वा आहुतीर्जुहोति ७ प्रत्याक्रम्यायतने स्रुचौ सादयति ८ अत्रैके प्राशित्रँ समामनन्ति । उपरिष्टादेके ९ २.१९
इति द्वितीयः प्रश्नः