कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः २२

विकिस्रोतः तः
← पटलः २१ द्राह्यायणश्रौतसूत्रम्
पटलः २२
द्राह्यायणः
पटलः २३ →

22.1 द्वाविंशः पटलः । प्रथमः खण्डः
उदगयनपूर्वपक्षपुण्याहसंनिपाते यज्ञकालोऽनादेशे १ संख्यामात्रे च दक्षिणा गावः २ हिरण्यमिति जातरूपं विद्यात् ३ प्रथमायां पूर्वपक्षस्य दीक्षेतैकाहेभ्यः ४ दृष्ट्वा वा नक्षत्रयोगम् ५ तेषामेका दीक्षानादेशे तिस्रश्चतस्रोऽपरिमिता वा ६ तिस्र उपसदः ७ ज्योतिष्टोमस्योक्थानामुत्तरे सौभरनार्मेधेऽतिरात्र उक्थ्यान्त इतराणीति गौतमो वृत्तिग्रहणात् ८ अनियोगमितरेषां धानंजय्यो विशेषाम्नानात ६ सर्वेषां यथाकामीति शाण्डिल्यस्तुल्यचोदनात् १० आष्टादंष्ट्रयोर्विकल्पः स्यात् ११ काम्यानुक्थ्यच्छन्दोयोगानतिरात्रस्यमन्यन्ते सौभरनार्मेधप्रमाणाः १२ वृत्तिस्त्वनुष्टुभां रात्र्युपाये न विद्यते १३ दृश्यते चान्यत्र रात्र्युपायान्नार्मेधं यथाभिप्लवस्य पञ्चाहे १४ तस्यानुष्टुभः स्तोत्रीयः स्यादुक्थ्यान्तेषु वैच्छन्दसोऽतिरात्रेषु । वृत्तिविभागात् १५ वैच्छन्दसमेवैके ब्राह्मणोक्तत्वात् १६ स्वतन्त्रस्य ज्योतिष्टोमस्य संस्थाविकल्पा आग्निष्टोम्यमुक्थ्यतातिरात्रमिति १७ तस्यानतिरात्रस्य द्वादशशतं दक्षिणाः १८ गो आयुषोश्च १९ विश्वजिदभिजिद्भ्यां यमाभ्यां यजमानः पूर्वापराभ्यां यजेतेति धानंजय्यः २० युगपदिति शाण्डिल्यः २१ अभिजितो दक्षिणं देवयजनं स्याद्विश्वजित उत्तरम् २२ तत्प्रति पत्रीशाला स्यात् २३ नानर्त्विजः २४ यच्चान्तर्वेदि कर्म २५ अथ यद्बहिर्वेद्येकं तत् २६ अभिजितः पूर्वं पूर्वं कर्म संतिष्ठेत विश्वजित उत्तरम् २७ तयोः पृथक् सहस्रे दक्षिणाः २८ कामं तु यमाभ्यां यजेत २६ सहस्रमभिजिति दक्षिणाः ३०
इति द्राह्यायणश्रौतसूत्रे द्वाविंशे पटले प्रथमः खण्डः १

22.2 द्वितीयः खण्डः
तस्यावभृथादुदेत्य रोहिणीं वत्सच्छविं परिधाय धर्मान् कुर्यात् १ त उक्ता ब्राह्मणेन २ अरण्ये तिस्रो वसतीत्युदुम्बरे वसेदिति ३ उदुम्बराभावेऽप्युदुम्बरशाखां निखनेयुः ४ खनित्रेण जीवतीति यत्तत्र खान्यं स्यात्तेन जीवेत् ५ खान्याभावे धान्यपात्राणि निखाय तैरुत्खानं जीवेत् ६ उभयतःक्ष्णुदभ्रिर्भवतीति वैणवी काल्माषीति शाण्डिल्यो याकाचनेति धानंजय्यः ७ निषादेषु तिस्रो वसतीति पार्श्वतो निषादग्रामस्य वसेत् ८ तेषां काममारण्यं भुञ्जीत नीवारं श्यामाकं मार्गं वा मांसम् ६ जने तिस्रो वसतीति राजन्यबन्धुर्जनो ब्राह्मणः समानजन इति शाण्डिल्यः १० विवाह्यो जनः सगोत्रः समानजनः इति धानंजय्यः ११ प्रतिवेश्यो जनो जनपदो यत्र वसेत् स समानजन इति शाण्डिल्यायनः १२ एत धर्माः सर्ववेदस दक्षिणानां सर्वेषाम् १३ व्रतवत्सु सर्वेष्वमावास्यायां दीक्षित्वोखामाबध्नीत सांवत्सरिकेभ्योऽन्यत्रेति गौतमः १४ सह सुत्याभिः षडहानि संवत्सरादधिकानि कृत्वोत्तिष्ठेयुः १५ असमाप्ते वा संवत्सरे रात्रिसत्रेषु राजानं क्रीणीयुः १६ यथा जाति तु प्रथमे पञ्चदशरात्रे दीक्षेरन् १७ सर्वत्र वा यथाजात्यन्यत्र चेदुपेतमिति शाण्डिल्यः १८ अनुपेतं चेदपीति धानंजय्यः १६ तिस्र उपसदो व्रतस्यैकाहिकस्य गौतमीयेन षड्वा द्वादश वा २० तत्र ब्रह्मणेऽश्वरथं शतं च दद्यात् २१ तथाग्निं चिन्वतेऽध्वर्यवे २२ पृष्ठेन च स्तुवानायोद्गात्रे २३ तच्चानुशंसते होत्रे २४ सर्वेभ्यश्च सहस्रम् २५ सर्ववेदसदक्षिणं वा २६ इतरच्छाण्डिलम् २७ सर्वे साहस्राः पृथक्सहस्रदक्षिणाः २८
इति द्राह्यायणश्रौतसूत्रे द्वाविंशे पटले द्वितीयः खण्डः २

22.3 तृतीयः खण्डः
साद्यस्क्रेण यक्ष्यमाणो महारात्रे प्रातराहुतिं हुत्वाचक्षीतर्त्विग्भ्यः साद्यस्क्रोम इति १ प्रागेव प्रहिणुयादिति धानंजय्यः २ दीक्षाप्रभृति सद्यः सर्वं कुर्युः । प्रथमद्वितीययोः श्येनस्य च ३ एकत्रिकान्ताः षट् साद्यस्क्राः इति शौचिवृक्षिर्निकायित्वात् ४ उर्वरा वेदिरिति प्रथमे ५ यवोर्वरा पक्वा स्याद्व्रीर्वह्युरा वा ६ तत एव समुत्कर्तं खल उत्तरवेदिं कुर्युः ७ खले वालीयूपो भवतीति लाङ्गलेषायूपः स्यात् ८ कलापी चषालभागा ९ अतीतायां चेद्यववेलायां वीहिवेलायां वा यजेत । धान्यपात्राण्युप्त्वाभिकृषेयुः १० धान्यपात्रा उत्तरवेदिः स्यात् ११ मूतश्चषालभागः १२ त्रिवत्सः साण्ड इति बहुत्रिवर्षस्य जानपदी त्रिवत्स इति १३ यो वा तिस्रो धयेत् १४ त्रिवर्षो वैव स्यात् १५ प्राञ्चं होतारं वहेयुरुदञ्चमुद्गातारं प्रत्यञ्चमध्वर्युं दक्षिणा ब्रह्माणम् १६ पुरस्ताद्वात्र वसेयुः १७ तत्रैभ्यः सोमं प्रब्रूयुः अश्वरथैर्यात्वा १८ न उक्ता बाह्मणेनाध्वानश्च १६ कुर्युरेवर्त्विज इति शाण्डिल्यः २० अन्यांस्तु ब्राह्मणांस्तानध्वन ऊर्ध्वा तेभ्यः सोमं प्रब्रूयुः २१ असौ सद्यस्क्रिया यजते । तदहं प्रब्रवीमीन्द्राय विश्वेभ्यो देवेभ्यो ब्राह्मणेभ्यः सोमेभ्यः सोमपेभ्यः इति २२ सक्षीरदृतयो रथा भवन्तीति साद्योदुग्धेन क्षीरेण दृतयः पूर्णाः स्युः २३ ततोऽयं नवनीतमुदीयात् फेनो वा तदाज्ये विसृजेयुः २४ अश्वः श्वेत एतस्य दक्षिणा तमुद्गात्रे दद्यात् २५ किंचिच्चेतरेभ्यः २६
इति द्राह्यायणश्रौतसूत्रे द्वाविंशे पटले तृतीयः खण्डः ३

22.4 चतुर्थः खण्डः
एतेनैवोत्तरो व्याख्यातस्तस्याश्व एकविंशो दक्षिणानाम् १ अश्वो वै वा २ एकरात्रीणः ३ द्व्यहीनोऽनुक्रीः ४ तेऽङ्गिरस आदित्येभ्यः श्वसुत्यामिति ह्याह ५ तस्य क्रयप्रभृत्युत्तमहः स्यादिति गौतमः ६ तं सद्यः परिक्रीयेति ह्यादित्यानाह नेतरान् ७ अपरेद्युः क्रयणाञ्चानुक्रीरित्याख्या ८ उपवसथान्तं पूर्वमहः स्यादिति धानंजय्यः ९ श्वः सुत्यामिति ह्याह श्वः क्रयं प्राब्रुवन्नित्यभविष्यत् १० तं सद्यः परिक्रीयेति च प्रथमस्य सद्यस्तां दर्शयति ११ द्व्यहीनत्वात्तु जघन्यतरेऽङ्गिरसोऽक्रीणंस्तस्मादनुक्रीरित्याख्या १२ तस्याश्व एकशततमो दक्षिणानामश्वो वै वा १३ एतेनोक्तो विश्वजिच्छिल्पो द्विरात्रीणः १४ त्र्यहीन इति धानंजय्यः १५ दैक्ष प्रथममहः क्रयप्रभृत्युपवसथान्तं द्वितीयं सौत्यमुत्तमम् १६ तस्य दक्षिणा धनानि यथोत्साहं दद्यात्तस्मिन् जनपदे यान्यभिध्याततमानि स्युः १७ सर्ववेदसनिर्मां दद्यादिति धानंजय्यः १८ विमितं शयनमारोहणं महानसे दासमिथुनौ धान्यपल्यं सीरं धेनुरिति १९
इति द्राह्यायणश्रौतसूत्रे द्वाविंशे पटले चतुर्थः खण्डः ४

22.5 पञ्चमः खण्डः
व्रतीनानां यौधानां पुत्राननूचानानृत्विजो वृणीत श्येनस्य १ अर्हतामेवेति धानंजय्यः २ अभिवातासु या अनभिवाताः स्युस्तासामाज्यं मन्थयेत् ३ यत्र स्तम्बा वा वृक्षा वा बहुलाः जाताः स्युस्तांश्छेदन्देवयजनं कुर्युः ४ यद्वा विदाहि स्थण्डिलम् ५ शवनभ्ये अधिषवणे इति ६ येन यानेन मृतं निर्हरेयुस्तस्य नभ्ये अधिषवणफलके कुर्युः ७ यूपःस्फ्याग्र इति चषालभागः स्यात् ८ लोहितोष्णीषा लोहितवाससो निवीता ऋत्विजः प्रचरन्त्युपेतपुरुषा उद्ज्यधन्वानः ९ पवमाने रथन्तरं कुर्यादिति बृहत्यामेकर्च्चानां स्थाने स्यात्तद्धि बार्हतानां स्थानम् १० एवं च तृचे भवति ११ अविप्रतिषेधेनेतरेषामनुकल्पयेदित्यपरमेवमल्पीयान् विकारः १२ तत्र पञ्चमं बार्हतमाहरेत् स्तोमवशेन १३ तत् पौरुमद्गं स्यात् भ्रातृव्यवधं ह्यस्मिन् दर्शयति १४ पृष्ठेषु रथन्तरस्योत्तरयोर्द्विपदे स्यातामित्याचार्याः । पराचीष्विति ह्याह १५ ककुभावेवेति गौतमः १६ अनावृत्तिमेतत् स्तोमस्य दर्शयतीति १७ प्लवं ब्रह्मसाम कुर्वंश्चैतस्यर्क्षु कुर्यात् १५ वृत्तिर्ह्येतस्मिन् स्थाने पावमानीनां न विद्यते १९ नव नव दक्षिणा इति नव वर्गान्यथोत्साहं दद्यात् । काणखोरकूटवण्टानाम् २० तासामभि दक्षिणावेलायां लोहितं जनयेयुः २१ एकत्रिके सद्यः सर्वं कुर्युः २२ एकदीक्षस्त्र्युपसत्क इति गौतमः २३ तस्य गायत्रपार्श्वमार्भवोऽया रुचेति २४ पुरोजित्यां शाण्डिल्यः २५ तस्याः ससुन्वे यो वसूनामित्येतां मध्ये कुर्यात् २६ प्राचीमनुप्रदिशं याति चेकितदित्येतस्यामुद्वंशीयं कुर्यादुद्धत्य गायत्रपार्श्वमिति लामकायनः २७ त्रिकं बहिष्पवमानं स्यादिति शाण्डिल्यः २८ पञ्ची मध्यंदिनः सप्तार्भव एकीनीतराणि २६ त्र्यैकिनमेके ३० होतृषामाणि वा त्रिकाणि पवमानाश्च ३१ चतुरुत्तरसंपन्नो वा ३२ द्वे द्वे त्रिकपञ्चिनी ३३ प्रत्यवरोहेण तस्य तत् षष्ठम् ३४ शतं दक्षिणा दक्षिणाः ३५
इति द्राह्यायणश्रौतसूत्रे द्वाविंशे पटले पञ्चमः खण्डः ५