कल्पः/श्रौतसूत्राणि/द्राह्यायणश्रौतसूत्रम्/पटलः २१

विकिस्रोतः तः
← पटलः २० द्राह्यायणश्रौतसूत्रम्
पटलः २१
द्राह्यायणः
पटलः २२ →

21.1 एकविंशः पटलः । प्रथमः खण्डः
उपास्थानेष्वन्यानि निधनानि १ स्वरानादेशे तथा स्वराणि स्युः २ इडाश्चानादेशे ३ उबित्यर्द्धेडा ४ प्रकृतिस्वरा प्रथमस्वरा वा ५ अध्यर्द्धा त्वध्यर्द्धोपानाम् ६ औत्पत्तिकः स्वरः स्वः काशीते ७ देवोदाससुज्ञानयोश्च ८ स्वः पृष्ठे च पूर्वः ९ उत्तर इति गौतमधानंजय्यौ १० औपगवयोरथामथा वा ११ कामं तु नाना १२ अभिचरणीयेषु वा मथाथान्यत्र १३ जागतस्य सोमसाम्न इन्द्र इव दस्यूᳪरमृणाः । सूर्य इव दस्यूरमृणाः । वज्रिन् सुवज्रिन् १४ द्विर्वावस्येत् १५ इन्द्र इव दस्यूᳪरमृणाः । सूर्य इव दस्यूᳪरमृणाः । वज्रिन् सुवज्रिन् । इन्द्र इव दस्यूᳪरमृणाः । सूर्य इव दस्यूᳪरमणो वज्रिन् सुवज्रिन्निति वा १६ सकृच्चान्ततः इन्द्र इव दस्यूᳪरमणः सूर्य इव दस्यूᳪवमृणो वज्रिन् सुवज्रिन् १७ यथा वायोभस्त्रायां निहन्यमानायां ह्रादः स्यात् १८ यथा वायसी समृच्छेयाताम् १९ यथा वा निष्कः कृन्तत्रेणाभिहतो ध्वनेत् २० यथा वा सनूपुरपादस्य निघातः स्यात् २१ गण्णिति वा २२ यथा वाप्सु पिप्पलं निपतेत् २३ प्लुगिति वा २४ प्लौगिति वा २५ सहोभीरिति वा २६ कार्तयशे च त्रयो विकल्पाः २७ दयित्नवे हम् । दयित्नवे हम् । दयित्नवे हम् २८ एवमेवोत्तरस्मिन्निधने २९ गायत्रस्य पादेन प्रस्तावः सर्वत्र ३० अष्टाक्षरेणेति धानंजय्यः ३१ तथा पुराणं ताण्डम् ३२ तस्य निदर्शनार्थं गानं गायत्रीषु ३३ उपास्मै गायता नरोमिति धानंजय्यः ३४ उपास्मै गायता नरो इति शाण्डिल्यः ३५ उपास्मै गायता नरा इत्येके ३६ शेषमुद्गाता ३७ मनसा तु स्वभक्तिमोंकार तथा स्वरं वाचा ३८ सर्वे वा निधनन्यायात् ३९
इति द्राह्यायणश्रौतसूत्रे एकविंशे पटले प्रथमः खण्डः १

21.2 द्वितीयः खण्डः
पवमानायेन्दावा इत्येकावृत् १ अभिदेवां इया इत्यपरा २ क्षाता इत्यपरा ३ पूर्वा वा वर्गाववनर्द्याविति धानंजय्यः ४ मध्यमायामावृति द्वौ स्तोभौ कुर्यात्ताववनर्द्याविति गौतमः ५ अभिदेवां इया ६ सर्वत्रौकारावित्येके स्तोभधर्मत्वात् ७ यमर्चमाचार्यास्तथर्क् सलिङ्गदृष्टान्तात् ८ स्तोभानैकान्त्याच्च ६ ज्यायसि च्छन्दसि प्रथमायामावृत्यावपेदुत्तमं पादं शिष्ट्वा १० अष्टाक्षरमिति धानंजय्यः ११ ऊर्वंवृ रेतस्याया द्व्यक्षरं शिष्ट्वा हिंकारं ब्रूयात् हिं आ इति १२ तं रेतस्यायां प्रतिहर्ता मनसा ध्यायेन्न परास्विति गौतमः १३ परास्वेवेति धानंजय्यशाण्डिल्यौ १४ रथन्तरवर्णायाक्षराण्यभिष्टोभेत् १५ भाऽ३भाऽ३ इति शाण्डिल्यः १६ भ भ इति धानंजय्यः १७ त्र्यक्षरं चाभिष्टोभेत् १८ प्रथमं ह्यक्षरं लुप्तमिति १६ हिम् इति हिंकारः २० द्वादशाक्षराण्यभिष्टोभेदनुष्टुभि २१ सर्वत्र चत्वारीति शाण्डिल्यः २२ यथर्च्चं चान्तं ब्रूयात् क्षाता इवायू इति २३ स्वाराण्याज्यानीति स्तुत्वा निधनवतेति च नानात्वचोदनात् २४ पदानुस्वारमेके स्तोभाश्रुतेः २५ बहिःस्वारं वा प्राणसामान्यात् बार्हतं हीति २६ आकारं त्वाचार्याः स्मृतेः २७ गायत्रं निधनवदनिधनमैडं गायत्रं पुरस्तात् भवति स्वारमन्ततः इति नानात्वदर्शनात् २८ स्वाराणीति स्वरितत्वात् स्वरत्वाद्वा तस्य स्वरप्रधानत्वाद्वा गायत्रस्य २६ समे च भक्तिनानात्वे ३० तं दीर्घम् ३१ अवस्वरेदिति धानंजय्यः ३२ क्षाता ओऽ३ इति गौतमः ३३ क्षातो वा इत्येके ३४
इति द्राह्यायणश्रौतसूत्रे एकविंशे पटले द्वितीयः खण्डः

21.3 तृतीयः खण्डः ३
काम्यानां निधनानां किंचिच्चिकीर्षन्नुत्तमस्य द्व्यक्षरस्य स्थाने कुर्यादिति शाण्डिल्यः १ अभिदेवां इयक्षताइ इति वा सर्वामृचं समाप्य २ अविकारेण सर्वं गीत्वेति धानंजय्यः ३ तान्याकारस्थानेषु स्युर्निधनत्वेन हि चोद्यन्ते ४ कृतलक्षणचोदनाच्चौत्पत्तिकस्वराणि ५ एकाक्षरं ष्ठास्वरं द्व्यक्षरं हीषीस्वरमिति वा न्यायात् ६ कृतस्वरं तु निधनं तस्य चोद्यते वर्णविकारः ७ यथा रथन्तरस्य गायत्र्यः ८ तानि सर्वत्र स्युरनारभ्योत्पत्तिकत्वाद्गायत्रस्य ६ बहिष्पवमान इत्येके १० तद्धि विकारा नातिक्रामन्ति । यथा रेतस्यारथन्तरवर्णयोर्धुरां च सामान्ताः इति ११ बहिष्पवमानसंयोगस्तु तेषां न कामसंयोगः १२ गीतिविकारा गायत्रस्य धुरः १३ स्तोत्रीयानुरूपयोर्ज्योतिष्टोमस्यैवाज्येषु नान्यत्र १४ रेतस्यायास्त्रिरुद्गृह्णातीति ब्राह्मणं भवति । पाऽ३वाऽ३माऽ३ नायेन्दावा३ १५ गायत्र्युत्तरा १६ तस्या द्वे त्र्यक्षरे सशयनी व्यतिषजतीति ब्राह्मणं भवति १७ मध्यमस्य च पदस्योत्तममुत्तमस्य च प्रथमम् १८ आथर्वणो आशिश्रादेऽ२युर्वन्देवायदा३३३इति १९ त्रिष्टबुत्तरा २० तां बलवदिवोरसेव गायन्तीति ब्राह्मणं भवति । शाऽ३म् । जाऽ३ । नाऽ३ । यशमार्वता३ । शं राजानोऽ३षा । धाऽ३३ २१ तस्या द्वे उत्तमार्द्धेऽक्षरे द्योतयतीति ब्राह्मणं भवति २२ ये ऊर्ध्वं हिंकारात्ते निर्ब्रूयादिति गौतमः २३ षा धा इति धानंजय्यः २४ जगत्युत्तरा २५ तस्याश्चत्वारि चत्वार्यक्षराणि निक्रीडन्निव गायत्र्या द्वादशेभ्योऽक्षरेभ्य इति ब्राह्मणं भवति २६ पारिष्टोभांऽ२तयाकृपाऽ२सोमाः शुक्राः२गवाऽ२२२ २७ तस्याश्चत्वार्युत्तमार्द्धेऽक्षराणि द्योतयतीति ब्राह्मणं भवति २८ द्वे पुरस्ताद्धिंकारात्तथोपरिष्टादिति गौतमः २९ स्तोमाश्शुक्रा इति धानंजय्यः ३०
इति द्राह्यायणश्रौतसूत्रे एकविंशे पटले तृतीयः खण्डः ३

21.4 चतुर्थः खण्डः
अनुष्टबुत्तरा १ तान्निनर्द्दन्निव गायतीति ब्राह्मणं भवति । आवाजं वाज्यक्रमीऽ२२२त् । सीदन्तोवाऽ२२२ । नुषाऽ२२२: २ निरुक्तां चानिरुक्तां च गायेदितीति ब्राह्मणं भवति । समस्तधुरां मन्यत इति गौतमः । त्रिष्टुब्जगत्योर्ह्यक्षराणि निराहेति ३ एतस्या एवेति धानंजय्यशाण्डिल्यौ ४ तस्या द्वितीयं पादं निर्ब्रूयात् । तृतीये चाक्षरे पञ्चमषष्ठे ५ पङ्क्तिरुत्तरा तस्या द्वे द्वे अक्षरे उदासं गायत्र्या षड्भ्योऽक्षरेभ्य इति ब्राह्मणं भवति । संजग्मानो दाइवा कावाइ इति धानंजय्यः ६ कावा इति शाण्डिल्यः ७ सदिति रेतस्याया धुरो निधनं समिति गायत्र्या स्वरिति त्रिष्टुभ इडेति जगत्या वागित्यनुष्टुभः ८ तेषामुक्तो न्यायः काम्यैः सामान्तैर्निधनैः ९ न तूर्ध्वं बहिष्पवमानात्स्युः १० जगतीगायत्र्यौ त्रिष्टबनुष्टुभाविति पृथगाज्यप्रथमासु गायेत् ११ तत्पुराणं यथाज्यगानम् १२ गायत्रीत्रिष्टुभोर्व्यतिक्रमं धानंजय्यः १३ गायत्रीं मैत्रावरुणस्याज्यप्रथमायां होतुरितरा आदितः १४ तत्पुराणं होतुराज्यगानम् १५ त्रिष्टुभ उत्तरां गायत्रीं गीत्वा तस्या एव द्वितीयायामृच्यानुष्टुभं गायेदिति धानंजय्यो गायेदिति धानंजय्यः १६
इति द्राह्यायणश्रौतसूत्रे एकविंशे पटले चतुर्थः खण्डः ४
इति द्राह्यायणश्रौतसूत्रे सप्तमः प्रपाठकः समाप्तः ७