कथासरित्सागरः/लम्बकः ८/तरङ्गः ३

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

ततो मयसुनीथौ तौ गत्वा सूर्यप्रभश्च सः ।
कश्यपस्याश्रमात्तस्मात्संप्रापुः सर्व एव ते ।। १
संगमं चन्द्रभागाया ऐरावत्याश्च यत्र ते ।
स्थिताः सूर्यप्रभस्यार्थे राजानो मित्रबान्धवाः ।। २
प्राप्तं सूर्यप्रभं ते च दृष्ट्वा तत्र स्थिता नृपाः ।
रुदन्तोऽग्रे समुत्तस्थुर्विषण्णा मरणोन्मुखाः ।। ३
चन्द्रप्रभादर्शनजां तेषामाशङ्क्य दुःखिताम् ।
सूर्यप्रभोऽखिलं तेभ्यो यथावृत्तं शशंस तत् ।। ४
तथापि विग्नाः पृष्टास्ते तेन कृच्छ्रादवर्णयन् ।
तस्य भार्यापहरणं विहितं श्रुतशर्मणा ।। ५
तत्पराभवदुःखाच्च देहत्यागोद्यमं निजम् ।
वारितं दिव्यया वाचा तथैवास्मै न्यवेदयत् ।। ६
ततः सूर्यप्रभस्तत्र प्रतिज्ञामकरोत्क्रुधा ।
यदि ब्रह्मादयः सर्वेऽप्यभिरक्षन्ति तं सुराः ।। ७
तथाप्युन्मूलनीयो मे श्रुतशर्मा स निश्चितम् ।
परदारापहरणे छद्मप्रागल्भ्यवाञ्शठः ।। ८
एवं कृतप्रतिज्ञश्च गन्तुं तद्विजयाय सः ।
लग्नं निश्चितवान्दृष्टं गणकैः सप्तमेऽहनि ।। ९
ततस्तं निश्चितं ज्ञात्वा गृहीतविजयोद्यमम् ।
द्रढयित्वा पुनर्वाचा प्राह सूर्यप्रभं मयः ।। १०
सत्यं कृतोद्यमस्त्वं चेत्तद्वदामि मया तदा ।
मायां प्रदर्श्य नीत्वा ते पाताले स्थापिताः प्रियाः ।। ११
एवं त्वं विजयोद्योगं करोषि रभसादिति ।
नैवमेव तथा ह्यग्निर्ज्वलेद्वातेरितो यथा ।। १२
तदेहि यामः पातालं प्रियास्ते दर्शयामि ताः ।
एवं मयवचः श्रुत्वा ननन्दुः सर्व एव ते ।। १३
प्राक्तनेन च तेनैव प्रविश्य विवरेण ते ।
जग्मुश्चतुर्थं पातालं मयासुरपुरःसराः ।। १४
तत्रैकतो वासगृहान्मयः सूर्यप्रभाय ताः ।
भार्या मदनसेनाद्या आनीयासौ समर्पयत् ।। १५
गृहीत्वा तास्तथान्याश्च पत्नीस्ताः सोऽसुरात्मजाः ।
ययौ सूर्यप्रभो द्रष्टुं प्रह्लादं मयवाक्यतः ।। १६
मयाच्छ्रुतवरप्राप्तिः प्रणतं तं च सोऽसुरः ।
आत्तायुधोऽथ जिज्ञासुः कृतकक्रोधमभ्यधात् ।। १७
श्रुतं मया दुराचार यत्कन्या द्वादश त्वया ।
भ्रात्रार्जिता मेऽपहृतास्तत्त्वां हन्म्येष पश्य माम् ।। १८
तच्छ्रुत्वा निर्विकारस्तं पश्यन्सूर्यप्रभोऽब्रवीत् ।
मच्छरीरं त्वदायत्तमविनीतं प्रशाधि माम् ।। १९
इत्युक्तवन्तं प्रह्लादो विहस्य तमुवाच सः ।
प्रेक्षितोऽसि मया यावद्दर्पलेशोऽपि नास्ति ते ।। २०
वरं गृहाण तुष्टोऽस्मीत्युक्तस्तेन तथेति सः ।
भक्तिं गुरुषु शंभौ च वव्रे सूर्यप्रभो वरम् ।। २१
ततस्तुष्टेषु सर्वेषु तस्मै सूर्यप्रभाय सः ।
प्रह्लादो यामिनीं नाम द्वितीयां तनयां ददौ ।। २२
सहायत्वे च पुत्रौ द्वौ तस्यादात्सोऽसुरेश्वरः ।
ततः सर्वैः सहामीलपार्श्वं सूर्यप्रभो ययौ ।। २३
सोऽपि श्रुतवरप्राप्तितुष्टस्तस्मै सुखावतीम् ।
ददौ द्वितीयां तनयां साहाय्ये च सुतद्वयम् ।। २४
ततः सभाजयन्नन्यान्साहाय्यायासुराधिपान् ।
स्थितः सूर्यप्रभः सोऽत्र तेष्वहःसु प्रियासखः ।। २५
तिस्रः सुनीथभार्याश्च स्वभार्याश्च नृपात्मजाः ।
सर्वाः सगर्भाः संजाता मयादिसहितोऽशृणोत् ।। २६
पृष्टाश्च दोहदं तुल्यं शशंसुरखिला अपि ।
महाहवदिदृक्षां ता ननन्दाथ मयासुरः ।। २७
एतासु दिष्ट्या संभूता असुरा ये पुरा हताः ।
तेन जातोऽभिलाषोऽयमेतासामिति सोऽवदत् ।। २८
एवं ययुः षड्दिवसाः सप्तमे ते रसातलात् ।
भार्यादियुक्ता निर्जग्मुः सर्वे सूर्यप्रभादयः ।। २९
उत्पातमाया विघ्नाय या तेषां दर्शितारिभिः ।
सा सुवासकुमारेण स्मृतायातेन नाशिता ।। ३०
ततश्चान्द्रप्रभं पृथ्वीराज्ये रत्नप्रभं शिशुम् ।
अभिषिच्य समारूढभूतासनविमानकाः ।। ३१
सर्वे विद्याधरेन्द्रस्य सुमेरोस्ते निकेतनम् ।
ययुर्मयगिरा पूर्वगङ्गातीरतपोवनम् ।। ३२
तत्र तान्सौहृदप्राप्तान्स सुमेरुरपूजयत् ।
मयोक्ताशेषवृत्तान्तः पूर्वाज्ञां शांभवीं स्मरन् ।। ३३
तद्देशस्थाश्च ते स्वं स्वं सैन्यं सूर्यप्रभादिकाः ।
कार्त्स्न्येनानाययामासुर्बन्धूंश्च सुहृदस्तथा ।। ३४
आययुः प्रथमं सूर्यप्रभस्य श्वशुरात्मजाः ।
राजपुत्रा मयादिष्टा विद्याः संसाध्य सोद्यमाः ।। ३५
तेषां हरिभटादीनां षोडशानां रथायुतम् ।
द्वे चायुते पदातीनामेकैकस्यानुगं बलम् ।। ३६
तदनु स्थितसंकेता आजग्मुर्दैत्यदानवाः ।
श्वशुर्याः श्वशुरा मित्त्राण्यन्ये चैतस्य बान्धवाः ।। ३७
हृष्टरोमा महामायः सिंहदंष्ट्रः प्रकम्पनः ।
तन्तुकच्छो दुरारोहः सुमायो वज्रपञ्जरः ।। ३८
धूमकेतुः प्रमथनो विकटाक्षश्च दानवः ।
बहवोऽन्येऽपि चाजग्मुरा सप्तमरसातलात् ।। ३९
कश्चिद्रथानामयुतेः सप्तभिः कश्चिदष्टभिः ।
कश्चित्षड्भिस्त्रिभिः कश्चिद्योऽतिस्वल्पोऽयुतेन सः ।। ४०
पदातीनां त्रिभिर्लक्षैः कश्चिल्लक्षद्वयेन च ।
कश्चित्कश्चित्तु लक्षेण लक्षार्धेनाधमस्तु यः ।। ४१
एकैकस्य च हस्त्यश्वमागात्तदनुसारतः ।
असंख्यमाययौ चान्यत्सैन्यं मयसुनीथयोः ।। ४२
सूर्यप्रभस्य चामेयमाजगाम निजं बलम् ।
वसुदत्तादिभूपानां सुमेरोश्च तथैव च ।। ४३
ततो मयासुरोऽपृच्छच्चिन्तितोपस्थितं मुनिम् ।
तं सुवासकुमाराख्यं सह सूर्यप्रभादिभिः ।। ४४
विक्षिप्तमेतद्भगवन्सैन्यं नेहोपलक्ष्यते ।
तद्ब्रूहि कुत्र विस्तीर्णं युगपद्दृश्यतामिति ।। ४५
इतो योजनमात्रेऽस्ति कलापग्रामसंज्ञकः ।
प्रदेशस्तत्र विस्तीर्णे गत्वैतत्प्रविलोक्य ताम् ।। ४६
इत्युक्ते तेन मुनिना तद्युक्ताः ससुमेरुकाः ।
ययुः कलापग्रामं तं सर्वे ते स्वबलैः सह ।। ४७
तत्रोन्नतस्थानगता ददृशुस्ते पृथक्पृथक् ।
संनिवेश्यासुराणां च नृपाणां च वरूथिनीः ।। ४८
ततः सुमेरुराह स्म श्रुतशर्मा बलाधिकः ।
सन्ति विद्याधरावीशास्तस्य ह्येकोत्तरं शतम् ।। ४९
तेषां च पृथगेकैको राज्ञां द्वात्रिंशतः पतिः ।
तदस्तु भित्त्वा कांश्चित्तान्मेलयिष्याम्यहं तव ।। ५०
तत्प्रातरेतद्गच्छामः स्थानं वल्मीकसंज्ञितम् ।
फाल्गुनस्यासिता प्रातरष्टमी हि महातिथिः ।। ५१
तस्यां चोत्पद्यते तत्र लक्षणं चक्रवर्तिनः ।
तूर्णं विद्याधरा यान्ति तत्कृते चात्र तां तिथिम् ।। ५२
एवं सुमेरुणा प्रोक्ते सैन्यसंविधिना दिनम् ।
नीत्वा प्रातर्ययुस्तत्ते वल्मीकं सबला रथैः ।। ५३
तत्र ते दक्षिणे सानौ हिमाद्रेर्निनदद्बलाः ।
निविष्टा ददृशुः प्राप्तान्बहून्विद्याधराधिपान् ।। ५४
ते च विद्याधरास्तत्र कुण्डेष्वादीपितानलाः ।
होमप्रवृत्ता अभवञ्जपव्यग्राश्च केचन ।। २
ततः सूर्यप्रभोऽप्यत्र वह्निकुण्डं महद्व्यधात् ।
स्वयं जज्वाल तत्राग्निस्तस्य विद्याप्रभावतः ।। ५६
तद्दृष्ट्वा तुष्टिरुत्पेदे सुमेरोर्मत्सरः पुनः ।
विद्याधराणामुदभूत्तदैकस्तमभाषत ।। ५७
विद्याधरेन्द्रतां त्यक्त्वा धिक्सुमेरोऽनुवर्तसे ।
सूर्यप्रभाभिधमिमं कथं धरणिगोचरम् ।। ५८
तच्छ्रुत्वा स सुमेरुस्तं सकोपं निरभर्त्सयत् ।
सूर्यप्रभं च तन्नाम पृच्छन्तमिदमब्रवीत् ।। ५९
अस्ति विद्याधरो भीमनामा तस्य च गेहिनीम् ।
ब्रह्माकामयत स्वैरं तत एषोऽभ्यजायत ।। ६०
गुप्तं यद्ब्रह्मणो जातो ब्रह्मगुप्तस्तदुच्यते ।
अत एवैतदेतस्य स्वजन्मसदृशं वचः ।। ६१
इत्युक्त्वाकारि तेनापि वह्निकुण्डं सुमेरुणा ।
ततः सूर्यप्रभस्तेन सहाहौषीद्धुताशनम् ।। ६२
क्षणाच्च भूमिविवरादुज्जगामातिभीषणः ।
..... कस्मादजगरो महान् ।। ६३
तं ग्रहीतुमधावत्स विद्याधरपतिर्मदात् ।
ब्रह्मगुप्ताभिधानोऽथ सुमेरुर्येन गर्हितः ।। ६४
स तेनाजगरेणात्र मुखफूत्कारवायुना ।
नीत्वा हस्तशते क्षिप्तो न्यपतज्जीर्णपर्णवत् ।। ६५
ततस्तेजःप्रभो नाम तं जिघृक्षुरुपागमत् ।
सर्पं विद्याधराधीशः सोऽप्यक्षेपि तथामुना ।। ६६
ततस्तं दुष्टदमनो नाम विद्याधरेश्वरः ।
उपागात्सोऽपि निःश्वासेनान्यवत्तेन चिक्षिपे ।। ६७
ततो विरूपशक्त्याख्यः खेचरेन्द्रस्तमभ्यगात् ।
सोऽपि तेन तथैवास्तः श्वासेन तृणहेलया ।। ६८
अथाभ्यधावतां तद्वदङ्गारकविजृम्भकौ ।
राजानौ युगपत्तौ च दूरे श्वासेन सोऽक्षिपत् ।। ६९
एवं विद्याधराधीशाः क्रमात्सर्वेऽपि तेन ते ।
क्षिप्ताः कथंचिदुत्तस्थुरङ्गैरश्मावचूर्णितैः ।। ७०
ततो दर्पेण तं सर्पं श्रुतशर्माभ्युपेयिवान् ।
जिघृक्षुः सोऽपि तेनात्र चिक्षिपे श्वासमारुतैः ।। ७१
अदूरपतितः सोऽथ पुनरुत्थाय धावितः ।
तेन दूरतरं नीत्वा श्वासेनाक्षेपि भूतले ।। ७२
विलक्षे चूर्णिताङ्गेऽस्मिन्नुत्थिते श्रुतशर्मणि ।
सूर्यप्रभोऽहेर्ग्रहणे प्रेषितोऽभूत्सुमेरुणा ।। ७३
पश्यतैषोऽप्यजगरं ग्रहीतुमिममुत्थितः ।
अहो इमे निर्विचारा मर्कटा इव मानुषाः ।। ७४
अन्येन क्रियमाणं यत्पश्यन्त्यनुहरन्ति तत् ।
इति विद्याधराः सूर्यप्रभं ते जहसुस्तदा ।। ७५
तेषां प्रहसतामेव गत्वा सूर्यप्रभेण सः ।
स्तिमितास्यो गृहीतश्च कृष्टश्चाजगरो बिलात् ।। ७६
तत्क्षणं प्रतिपेदे स भुजगस्तूणरत्नताम् ।
मूर्ध्निं सूर्यप्रभस्यापि पुष्पवृष्टिर्दिवोऽपतत् ।। ७७ तु. महाभारतम् द्रोणपर्व ८१.१४
सूर्यप्रभाक्षयं तूणरत्नं सिद्धमिदं तव ।
तद्गृहाणैतदित्युच्चैर्दिव्या वागुदभूत्तदा ।। ७८
ततो विद्याधरा म्लानिं ययुः सूर्यप्रभोऽग्रहीत् ।
तूणं मयसुनीथौ च सुमेरुश्चाभजन्मुदम् ।। ७९
श्रुतशर्मणि यातेऽथ विद्याधरबलान्विते ।
एत्य सूर्यप्रभं दूतस्तदीय इदमभ्यधात् ।। ८०
त्वां समादिशति श्रीमाञ्च्छ्रुतशर्मा प्रभुर्यथा ।
समर्पयैतत्तूणं मे कार्यं चेज्जीवितेन ते ।। ८१
सूर्यप्रभोऽथ प्रत्याह दूतेदं ब्रूहि गच्छ तम् ।
स्वदेह एव भविता तूणस्ते मच्छरावृतः ।। ८२
एतत्प्रतिवचः श्रुत्वा गते दूते पराङ्मुखे ।
प्राहसन्रभसोक्तिं तां सर्वे ते श्रुतशर्मणः ।। ८३
सूर्यप्रभोऽथ सानन्दमाश्लिष्योचे सुमेरुणा ।
दिष्ट्याद्य शांभवं वाक्यं फलितं तदसंशयम् ।। ८४
तूणरत्ने हि सिद्धेऽस्मिन्सिद्धा ते चक्रवर्तिता ।
तदेहि साधयेदानीं धनूरत्नं निराकुलः ।। ८५
एतत्सुमेरोः श्रुत्वा ते तस्मिन्नेवाग्रयायिनि ।
सूर्यप्रभादयो जग्मुर्हेमकूटाचलं ततः ।। ८६
पार्श्वे तस्योत्तरे ते च मानसाख्यं सरोवरम् ।
प्रापुः समुद्रनिर्माणे विधातुरिव वर्णकम् ।। ८७
मुखानि दिव्यनारीणां क्रीडन्तीनां जलान्तरे ।
निह्नुवानं मरुद्धूतैरुत्फुल्लैः कनकाम्बुजैः ।। ८८
आलोकयन्ति यावच्च सरसस्तस्य ते श्रियम् ।
तावत्तत्राययुः सर्वे श्रुतशर्मादयोऽपि ते ।। ८९
ततः सूर्यप्रभस्ते च होमं चक्रुर्घृताम्बुजैः ।
क्षणाच्चात्रोदगाद्धोरो मेघस्तस्मात्सरोवरात् ।। ९०
स व्याप्य गगनं मेघो महद्वर्षमवासृजत् ।
तन्मध्ये च पपातैको नागः कालोऽम्बुदात्ततः ।। ९१
सुमेरुवाक्याच्चोत्थाय गाढं सूर्यप्रभेण यत् ।
गृहीतो विध्यमानोऽपि तत्स नागोऽभवद्धनुः ।। ९२
तस्मिन्धनुष्ट्वमापन्ने द्वितीयोऽभ्रात्ततोऽपतत् ।
नागो विषाग्निवित्रासनश्यन्निःशेषखेचरः ।। ९३
सोऽपि सूर्यप्रभेणात्र गृहीतस्तेन पूर्ववत् ।
धनुर्गुणत्वं संप्राप मेघश्चाशु ननाश सः ।। ९४
सूर्यप्रभामितबलं सिद्धमेतद्धनुस्तव ।
अच्छेद्यश्च गुणोऽप्येष रत्ने एते गृहाण तत् ।। ९५
इत्यश्रावि च वाग्दिव्या पुष्पवृष्टिपुरःसरा ।
सूर्यप्रभश्च सगुणं धनूरत्नं तदग्रहीत् ।। ९६
श्रुतशर्माप्यगाद्विग्नः सानुगः स तपोवनम् ।
सूर्यप्रभोऽथ सर्वे च हर्षमापुर्मयादयः ।। ९७
पृष्टोऽथ धनुरुत्पत्तिं तैः सुमेरुरुवाच सः ।
इह कीचकवेणूनां दिव्यमस्ति वनं महत् ।। ९८
ततो ये कीचकाश्छित्त्वा क्षिप्यन्तेऽत्र सरोवरे ।
महान्त्येतानि दिव्यानि संपद्यन्ते धनूंषि ते ।। ९९
साधितानि च तान्येव देवैस्तैस्तैः पुरात्मनः ।
असुरैरथ गन्धर्वस्तथा विद्याधरोत्तमैः ।। १००
भिन्नानि तेषां नामानि चक्रवर्तिधनूंषि तु ।
अत्रामृतबलाख्यानि निक्षिप्तानि पुरा सुरैः ।। १०१
तानि चैतैः परिक्लेशैः सिध्यन्ति शुभकर्मणाम् ।
केषांचिदीश्वरेच्छातो भविष्यच्चक्रवर्तिनाम् ।। १०२
तच्च सूर्यप्रभस्यैतत्सिद्धमद्य महद्धनुः ।
स्वोचितानि वयस्यास्तत्साधयन्त्वस्य तान्यमी ।। १०३
येषां हि सिद्धविद्यानां वीराणामस्ति योग्यता ।
यथानुरूपं भव्यानां सिध्यन्त्यद्यापि तानि हि ।। १०४
एतत्सुमेरुवचनं श्रुत्वा सूर्यप्रभस्य ते ।
वयस्याः कीचकवनं तत्प्रभासादयो ययुः ।। १०५
तद्रक्षकं च राजानं चण्डदण्डं विजित्य ते ।
आनीय कीचकांस्तत्र निदधुः सरसोऽन्तरे ।। १०६
तत्तीरोपोषितानां च जपतां जुह्वतां तथा ।
सिध्यन्ति स्म धनूंष्येषां सप्ताहात्सत्त्वशालिनाम् ।। १०७
प्राप्तैस्तैरुक्तवृत्तान्तैर्मयाद्यैश्च सहाथ सः ।
आगात्सूर्यप्रभस्तावत्तत्सुमेरोस्तपोवनम् ।। १०८
तत्रोवाच सुमेरुस्तं जितो वेणुवनेश्वरः ।
त्वन्मित्त्रैश्चण्डदण्डो यदजेयोऽपि तदद्भुतम् ।। १०९
तस्यास्ति मोहिनी नाम विद्या तेन स दुर्जयः ।
नूनं सा स्थापिता तेन प्रधानस्य रिपोः कृते ।। ११०
अतः प्रयुक्ता नैतेषु त्वद्वयस्येषु संप्रति ।
सकृदेव हि सा तस्य फलदा न पुनः पुनः ।। १११
गुरावेव हि सा तेन प्रभावावेक्षणाय भोः ।
प्रयुक्ताभूदतः शापस्तेन दत्तोऽस्य तादृशः ।। ११२
तच्चिन्त्यमेतद्विद्यानां प्रभावो हि दुरासदः ।
तत्कारणं च भवता पृच्छ्यतां भगवान्मयः ।। ११३
अस्याग्रे किमहं वच्मि कः प्रदीपो रवेः पुरः ।
एवं सुमेरुणा सूर्यप्रभस्योक्ते मयोऽब्रवीत् ।। ११४
सत्यं सुमेरुणोक्तं ते संक्षेपाच्छृणु वच्म्यदः ।
अव्यक्तात्प्रभवन्तीह तास्ताः शक्त्यनुशक्तयः ।। ११५
तत्रोद्गतः प्राणशक्तेर्नादो बिन्दुपथाश्रितः ।
विद्यादिमन्त्रतामेति परतत्त्वकलान्वितः ।। ११६
तासां च मन्त्रविद्यानां ज्ञानेन तपसापि वा ।
सिद्धाज्ञया वा सिद्धानां प्रभावो दुरतिक्रमः ।। ११७
तत्पुत्र सर्वविद्यास्ते सिद्धा द्वाभ्यां तु हीयसे ।
मोहिनीपरिवर्तिन्यौ न विद्ये साधिते त्वया ।। ११८
याज्ञवल्क्यश्च ते वेत्ति तद्गच्छ प्रार्थयस्व तम् ।
एवं मयोक्त्या तस्यर्षेर्ययौ सूर्यप्रभोऽन्तिकम् ।। ११९
स मुनिस्तं च सप्ताहं निवास्य भुजगह्रदे ।
अग्निमध्ये त्र्यहं चैव तपश्चर्यामकारयत् ।। १२०
ददौ सोढाहिदंशस्य सप्ताहाच्चास्य मोहिनीम् ।
विद्यां विसोढवह्नेश्च त्र्यहाद्विपरिवर्तिनीम् ।। १२१
प्राप्तविद्यस्य भूयोऽपि वह्निकुण्डप्रवेशनम् ।
तस्यादिदेश स मुनिः स तथेत्यकरोच्च तत् ।। १२२
तत्क्षणं च महापद्मविमानं तस्य कामगम् ।
अभूदुपनतं सूर्यप्रभस्य गगनेचरम् ।। १२३
अष्टोत्तरेण पत्राणां पुराणां च शतेन यत् ।
अलंकृतं महारत्नैर्नानारूपैर्विनिर्मितम् ।। १२४
चक्रवर्तिविमानं ते सिद्धमेतदमुष्य च ।
पुरेष्वन्तःपुराण्येषु सर्वेषु स्थापयिष्यसि ।। १२५
येन तान्यप्रधृष्याणि भविष्यन्ति भवद्द्विषाम् ।
इत्यन्तरिक्षाद्धीरं तमुवाचाथ सरस्वती ।। १२६
ततः स याज्ञवल्क्यं तं गुरुं प्रह्वो व्यजिज्ञपत् ।
आदिश्यतां प्रयच्छामि कीदृशीं दक्षिणामिति ।। १२७
निजाभिषेककाले मां स्मरेरेषैव दक्षिणा ।
गच्छ तावत्स्वकं सैन्यमिति तं सोऽब्रवीन्मुनिः ।। १२८
नत्वा ततस्तं स मुनिं विमानं चाधिरुह्य तत् ।
तत्सुमेरुनिवासस्थं सैन्यं सूर्यप्रभो ययौ ।। १२९
तत्राख्यातस्ववृत्तान्तं ससुनीथसुमेरवः ।
सिद्धविद्याविमानं तमभ्यनन्दन्मयादयः ।। १३०
ततः सुनीथः सस्मार तं सुवासकुमारकम् ।
स चागत्य मयादींस्ताञ्जगादैवं सराजकान् ।। १३१
सिद्धं विमानं विद्याश्च सर्वाः सूर्यप्रभस्य तत् ।
उदासीनाः किमद्यापि स्थिताः स्थ रिपुनिर्जये ।। १३२
तच्छ्रुत्वा स मयोऽवादीद्युक्तं भगवतोदितम् ।
किं तु प्राक्प्रेष्यतां दूतो नीतिस्तावत्प्रयुज्यताम् ।। १३३
एवं मयासुरेणोक्ते सोऽब्रवीन्मुनिपुत्रकः ।
अस्त्वेवं का क्षतिस्तर्हि प्रहस्तः प्रेष्यतामयम् ।। १३४
एष सप्रतिभो वाग्मी गतिज्ञः कार्यकालयोः ।
कर्कशश्च सहिष्णुश्च सर्वदूतगुणान्वितः ।। १३५
इति तद्वचनं सर्वे श्रद्धाय व्यसृजंस्ततः ।
प्रहस्तं दत्तसंदेशं दौत्याय श्रुतशर्मणे ।। १३६
तस्मिन्गतेऽब्रवीत्सूर्यप्रभस्तान्निखिलान्निजान् ।
श्रूयतां यन्मया दृष्टमपूर्वं स्वप्नकौतुकम् ।। १३७
जानेऽद्य क्षीयमाणायां पश्यामि रजनावहम् ।
यावन्महाजलौघेन वयं सर्वे ह्रियामहे ।। १३८
ह्रियमाणाश्च नृत्यामो न मज्जामः कथंचन ।
अथौघः स परावृत्तः प्रतिकूलेन वायुना ।। १३९
ततः केनापि पुरुषेणैत्य ज्वलिततेजसा ।
उद्धृत्य वह्नौ क्षिप्ताः स्मो न च दह्यामहेऽग्निना ।। १४०
एत्याथ मेघो रक्तौघं प्रवृष्टस्तेन चासृजा ।
व्याप्ता दिशस्ततो निद्रा नष्टा मे निशया सह ।। १४१
इत्युक्तवन्तं तं स्माह स सुवासकुमारकः ।
आयासपूर्वोऽभ्युदयः स्वप्नेनानेन सूचितः ।। १४२
यो जलौघः स सङ्ग्रामो धैर्यं तद्यदमज्जनम् ।
नृत्यतां ह्रियमाणानां जलैस्तत्परिवर्तकः ।। १४३
यो युष्माकं मरुत्सोऽपि शरणः कोऽपि रक्षिता ।
यश्चोद्धर्ता ज्वलत्तेजाः पुमान्साक्षात्स शंकरः ।। १४४
क्षिप्ताः स्थाग्नौ च यत्तेन तन्न्यस्ताः स्थ महामृद्धे ।
मेघोदयस्ततो यच्च स भूयोऽपि भयागमः ।। १४५
रक्तौघवर्षणं यच्च तद्भयस्य विनाशनम् ।
दिशां यद्रक्तपूर्णत्वमृद्धिः सा महती च वः ।। १४६
स्वप्नश्चानेकधान्यार्थो यथार्थोऽपार्थ एव च ।
यः सद्यः सूचयत्यर्थमन्यार्थः सोऽभिधीयते ।।। १४७
प्रसन्नदेवतादेशरूपः स्वप्नो यथार्थकः ।
गाढानुभवचिन्तादिकृतमाहुरपार्थकम् ।। १४८
रजोमूढेन मनसा बाह्यार्थविमुखेन हि ।
जन्तुर्निद्रावशः स्वप्नं तैस्तैः पश्यति कारणैः ।। १४९
चिरशीघ्रफलत्वं च तस्य कालविशेषतः ।
एष रात्र्यन्तदृष्टस्तु स्वप्नः शीघ्रफलप्रदः ।। १५०
एतन्मुनिकुमारात्ते श्रुत्वा तस्मात्सुनिर्वृताः ।
उत्थाय दिनकर्तव्यं व्यधुः सूर्यप्रभादयः ।। १५१
तावत्प्रहस्तः प्रत्यागाच्छ्रुतशर्मसकाशतः ।
पृष्टो मयादिभिश्चैवं यथावृत्तमवर्णयत् ।। १५२
इतो गतोऽहं तरसा त्रिकूटाचलवर्तिनीम् ।
तां त्रिकूटपताकाख्यां नगरीं हेमनिर्मिताम् ।। १५३
तस्यां प्रविश्य चापश्यमहं क्षत्तृनिवेदितः ।
वृतं तं श्रुतशर्माणं तैस्तैर्विद्याधराधिपैः ।। १५४
पित्रा त्रिकूटसेनेन तथा विक्रमशक्तिना ।
धुरंधुरेण चान्यैश्च शूरैर्दामोदरादिभिः ।। १५५
उपविश्याथ तमहं श्रुतशर्माणमभ्यधाम् ।
श्रीमता प्रहितः सूर्यप्रभेणाहं त्वदन्तिकम् ।। १५६
संदिष्टं तेन चेदं ते प्रसादाद्धूर्जटेर्मया ।
विद्या रत्नानि भार्याश्च सहायाश्चैव साधिताः ।। १५७
तदेहि मिल सैन्ये मे सहैतैः खेचरेश्वरैः ।
निहन्ताहं विरुद्धानां रक्षिता नमतां पुनः ।। १५८
या चागम्या हृताज्ञाते सुनीथतनया त्वया ।
कामचूडामणिः कन्या मुञ्च तामशुभं हि तत् ।। १५९
एवं मयोक्ते सर्वे ते क्रुद्धास्तत्रैवमभ्यधुः ।
को नाम स यदस्मासु दर्पात्संदिशतीदृशम् ।। १६०
मर्त्येषु संदिशत्वेवं कस्तु विद्याधरेषु सः ।
वराको मानुषो भूत्वाप्येवं दृप्यन्विनङ्क्ष्यति ।। १६१
तच्छ्रुत्वोक्तं मया किं किं को नाम स निशम्यताम् ।
स हरेणेह युष्माकं चक्रवर्ती विनिर्मितः ।। १६२
मर्त्यो वा यदि तन्मर्त्यैर्देवत्वमपि साधितम् ।
विद्याधरैश्च मर्त्यस्य तस्य दृष्टः पराक्रमः ।। १६३
नाशश्चेहागते तस्मिन्कदाचिद्वो हि दृश्यते ।
इत्येवोक्ते मया कुद्धा सा सभा क्षोभमाययौ ।। १६४
अधावतां च हन्तुं मां श्रुतशर्मधुरंधरौ ।
एवं पश्यामि शौर्यं वामित्यवोचमहं च तौ ।। १६५
ततो दामोदरेणैतावुत्थाय विनिवारितौ ।
शान्तं दूतश्च विप्रश्च न वध्य इति जल्पता ।। १६६
ततो विक्रमशक्तिर्मामवादीद्गच्छ दूत भोः ।
त्वत्स्वामीव हि सर्वेऽपि वयमीश्वरनिर्मिताः ।। १६७
तदायातु स पश्यामस्तस्यातिथ्यक्षमा वयम् ।
एवं सगर्वं तेनोक्ते विहसन्नहमब्रवम् ।। १६८
हंसाः पद्मवने तावन्नादं कुर्वन्ति सुस्थिताः ।
यावत्पश्यन्ति नायान्तं मेघमाच्छादिताम्बरम् ।। १६९
इत्युक्त्वोत्थाय सावज्ञं निर्गत्याहमिहागतः ।
एतत्प्रहस्ताच्छ्रुत्वा तैस्तुष्टिः प्रापि मयादिभिः ।। १७०
निश्चित्य चाहवोद्योगं सर्वे सेनापतिं व्यधुः ।
प्रभासमथ ते सूर्यप्रभाद्या रणदुर्मदम् ।। १७१
सर्वे च रणदीक्षायां ते सुवासकुमारतः ।
निदेशं प्राप्य तदहः प्राविशन्नियतव्रताः ।। १७२
रात्रौ सूर्यप्रभश्चात्र व्रतशय्यागृहान्तरम् ।
प्रविष्टामैक्षतापूर्वामनिद्रो वरकन्यकाम् ।। १७३
सा तस्य व्याजसुप्तस्य प्रसुप्तसचिवस्य च ।
स्वैरं निकटमागत्य सखीमाह सहस्थिताम् ।। १७४
यदि सुप्तस्य विश्रान्तविलासापीयमीदृशी ।
रूपशोभास्य तत्कीदृक्प्रबुद्धस्य भवेत्सखि ।। १७५
तदस्तु न प्रबोध्योऽसौ पूरितं कौतुकं दृशोः ।
अधिकं हि निबद्धेन किमत्र हृदयेन मे ।। १७६
भविष्यत्यस्य सङ्ग्रामः समं हि श्रुतशर्मणा ।
तत्तत्र को विजानाति भविता किल कस्य किम् ।। १७७
प्राणव्ययाय शूराणां जायते हि रणोत्सवः ।
तत्रास्यास्तु शिवं तावत्ततो ज्ञास्यामहे पुनः ।। १७८
कामचूडामणिर्येन किं च व्योमविहारिणा ।
दृष्टा तस्यास्य हृदयं मादृशी का नु रञ्जयेत् ।। १७९
एवं तयोक्ते सावादीत्तत्सखी किं ब्रवीष्यदः ।
असङ्गो हृदयस्यास्मिन्नायत्तश्चण्डि किं तव ।। १८०
येन दृष्टेन हृदयं कामचूडामणेर्हृतम् ।
सोऽन्यस्या न हरेत्कस्या यदि साक्षादरुन्धती ।। १८१
विद्यावशाच्च कल्याणं वेत्सि किं नास्य संगरे ।
एतस्य भार्याश्चोक्ताः स्थ सिद्धैः सच्चक्रवर्तिनः ।। १८२
कामचूडामणिस्त्वं च सुप्रभा चैकगोत्रजा ।
एष्वेव परिणीता च दिनेष्वेतेन सुप्रभा ।। १८३
तत्किमस्याशिवं युद्धे नहि सिद्धवचो मृषा ।
किं चाहृतं सुप्रभया चित्तं यस्यास्य तस्य किम् ।। १८४
नाहरेद्भवती त्वं हि रूपेणाभ्यधिकानघे ।
बान्धवापेक्षया वा ते विकल्पो यदि तन्न सत् ।। १८५
भर्तारं हि विना नान्यः सतीनामस्ति बान्धवः ।
एतत्सखीवचः श्रुत्वा सावोचद्वरकन्यका ।। १८६
सत्यं सखि त्वया प्रोक्तं न कार्यं मेऽन्यबन्धुभिः ।
संख्ये चास्यार्यपुत्रस्य जयं जाने स्वविद्यया ।। १८७
सिद्धानि चास्य रत्नानि विद्याश्चाद्यापि किं पुनः ।
नैतस्यौषधयः सिद्धास्तेन मे दूयते मनः ।। १८८
चन्द्रपादगिरौ ताश्च सर्वाः सन्ति गुहान्तरे ।
सिध्यन्ति पुण्यभाजश्च चक्रवर्तिन एव ताः ।। १८९
तदेष साधयेद्गत्वा तत्र सर्वौषधीर्यदि ।
भद्र तत्स्याद्यदासन्नः प्रातरस्य महाहवः ।। १९०
एतच्छ्रुत्वाखिलं त्यक्त्वा व्याजनिद्रां स उत्थितः ।
सूर्यप्रभः सविनयं तामुवाचात्र कन्यकाम् ।। १९१
दर्शितोऽतीव मुग्धाक्षि पक्षपातो मयि त्वया ।
तदेष तत्र गच्छामि कासि त्वमिति शंस मे ।। १९२
एतच्छ्रुत्वा श्रुतं सर्वमनेनेति त्रपानता ।
तूष्णीं बभूव सा कन्या तत्सखी तु जगाद सा ।। १९३
एषा विद्याधरेन्द्रस्य सुमेरोरनुजात्मजा ।
कन्या विलासिनी नाम त्वद्दर्शनसकौतुका ।। १९४
एवमुक्तवतीमेव तां सखीं सा विलासिनी ।
एहि संप्रति गच्छाव इत्युक्त्वा प्रययौ ततः ।। १९५
ततः प्रभासादिभ्यस्तत्प्रबोध्य तदुदीरितम् ।
सूर्यप्रभः स्वमन्त्रिभ्यः शशंसौषधिसाधनम् ।। १९६
विससर्ज प्रहस्तं च योग्यं तत्साधनाय सः ।
तदाख्यातुं सुनीथस्य सुमेरोश्च मयस्य च ।। १९७
तैरागतैः श्रद्दधानैः समं स सचिवान्वितः ।
निशि सूर्यप्रभः प्रायाच्चन्द्रपादाचलं प्रति ।। १९८
गच्छतां च क्रमात्तेषामुत्तस्थुर्मार्गरोधिनः ।
यक्षगुह्यककूष्माण्डा विघ्ना नानायुधोद्यताः ।। १९९
कांश्चिदस्त्रैर्विमोह्यैतान्कांश्चित्संस्तभ्य विद्यया ।
चन्द्रपादगिरिं तं ते प्रापुः सूर्यप्रभादयः ।। २२०
तत्रैषां तद्गुहाद्वारप्राप्तानां शांकरा गणाः ।
एत्य प्रवेशं रुरुधुर्विचित्रविकृताननाः ।। २०१
एतैः सह न योद्धव्यं कुप्येद्धि भगवान्हरः ।
तन्नामाष्टसहस्रेण तमेव वरदं स्तुमः ।। २०२
तेनैव ते प्रसीदन्ति तद्गणा इत्यवोचत ।
स सुवासकुमारस्तानथ सूर्यप्रभादिकान् ।। २०३
ततस्तथेति सर्वे ते तथैव हरमस्तुवन् ।
स्वामिस्तुतिप्रसन्नाश्च तान्वदन्ति स्म ते गणाः ।। २०४
मुक्तेयं वो गुहास्ताभिर्गृहीतास्यां महौषधीः ।
सूर्यप्रभेण त्वेतस्यां न प्रवेष्टव्यमात्मना ।। २०५
प्रभासः प्रविशत्वेतामेतस्य सुगमा ह्यसौ ।
एतद्गणवचः सर्वे ते तथेत्यनुमेनिरे ।। २०६
ततः प्रविशतस्तस्य प्रभासस्य तदैव सा ।
गुहा बद्धान्धकारापि सुप्रकाशा किमप्यभूत् ।। २०७
उत्थाय च महाघोररूपा अप्यत्र राक्षसाः ।
चत्वारः किंकरा ऊचुः प्रणताः प्रविशेति तम् ।। २०८
अथ प्रविश्य संगृह्य दिव्याः सप्तौषधीः स ताः ।
प्रभासो निर्गतः सूर्यप्रभाय निखिला ददौ ।। २०९
महाप्रभावाः सप्तैताः सिद्धाः सूर्यप्रभाद्य ते ।
ओषध्य इति तत्कालं गगनादुदगाद्वचः ।। २१०
तच्छ्रुत्वा मुदिताः सूर्यप्रभाद्याः सर्व एव ते ।
स्वसैन्यमाययुः क्षिप्रं सुमेर्वास्पदमाश्रितम् ।। २११
तत्रापृच्छत्सुनीथोऽथ तं सुवासकुमारकम् ।
मुने सूर्यप्रभं हित्वा प्रभासः किं प्रवेशितः ।। २१२
गुणैर्गुहायां किं चैष किंकरैरपि सत्कृतः ।
एतच्छ्रुत्वा स सर्वेषु शृण्वत्सु मुनिरभ्यधात् ।। २१३
श्रूयतां कथयाम्येतत्प्रभासो हितकृत्परम् ।
सूर्यप्रभस्यात्मभूतो न भेदोऽस्त्यनयोर्द्वयोः ।। २१४
किं च प्रभासेन समो नान्यः शौर्यप्रभाववान् ।
अस्ति प्राग्जन्मसुकृतैरेतदीया च सा गुहा ।। २१५
योऽयं यादृक्पुरा चाभूत्तदिदं कथयामि वः ।
बभूव नमुचिर्नाम पूर्वं दानवसत्तमः ।। २१६
यस्य दानप्रसक्तस्य महावीरस्य नाभवत् ।
अदेयमहितायापि याचमानाय किंचन ।। २१७
दशवर्षसहस्राणि स तप्त्वा धूमपस्तपः ।
लोहाश्मकाष्ठावध्यत्वं विरिञ्चात्प्राप्तवान्वरम् ।। २१८
ततोऽसकृद्विजित्येन्द्रं कांदिशीकं स तं व्यधात् ।
तत्प्रार्थ्य कश्यपर्षिस्तं देवैः संधिमकारयत् ।। २१९
अथ विश्रान्तवैरास्ते संमन्त्र्यैव सुरासुराः ।
दुग्धाम्भोनिधिमभ्येत्य ममन्थुर्मन्दराद्रिणा ।। २२०
ततोऽच्युतादयो भागान्कमलाप्रभृतीन्यथा ।
प्रापुस्तथोच्चैःश्रवसं हयं नमुचिराप्तवान् ।। २२१$
अन्ये देवासुराश्चान्यान्प्रदिष्टान्ब्रह्मणा पृथक् ।
लेभिरे विविधान्भागान्मथ्यमानार्णवोत्थितान् ।। २२२
मन्थपर्यन्तलब्धे च त्रिदशैरमृते हृते ।
तेषामथासुराणां च पुनर्वैरमजायत ।। २२३
ततो देवासुररणे जघ्ने यो योऽसुरः सुरैः ।
आघ्रायोच्चैःश्रवास्तं तं जीवयामास तत्क्षणम् ।। २२४
अजेया जज्ञिरे तेन देवानां दैत्यदानवाः ।
ततो विषण्णं वक्ति स्म रहः शक्रं बृहस्पतिः ।। २२५
एकस्तवात्रोपायोऽस्ति तं कुरुष्वाविलम्बितम् ।
स्वयं याचस्व गत्वा त्वं नमुचिं तं हयोत्तमम् ।। २२६
विपक्षायापि तुभ्यं तं स हयं न न दास्यति ।
खण्डयिष्यति नाजन्मसंचितं दातृतायशः ।। २२७
इत्युक्तो देवगुरुणा महेन्द्रस्त्रिदशैः सह ।
गत्वा ययाचे नमुचिं तमुच्चैःश्रवसं हयम् ।। २२८
न मे पराङ्मुखो गच्छत्यर्थी तत्रापि वासवः ।
तदस्मै नमुचिर्भूत्वा दद्यां नाहं कथं हयम् ।। २२९
जगत्सु दातृताकीर्तिर्या मया चिरमर्जिता ।
सा चेन्म्लानिं गता तन्मे किं श्रिया जीवितेन वा ।। २३०
इति संचिन्त्य शक्राय तमुच्चैःश्रवसं ददौ ।
वार्यमाणोऽपि शुक्रेण नमुचिं स महाशयः ।। २३१
दत्ताश्वमथ विश्वास्य तं गाङ्गेन जघान सः ।
शस्त्राद्यवध्यं फेनेन वज्रन्यस्तेन वृत्रहा ।। २३२
अहो दुरन्ता संसारे भोगतृष्णा यया हृताः ।
अनौचित्यादकीर्तेश्च देवा अपि न बिभ्यति ।। २३३
तद्बुद्ध्वा तस्य नमुचेर्दनुर्माता तपोबलात् ।
चकार दुःखसंतप्ता संकल्पं शोकशान्तये ।। २३४
स एव मे पुनर्गर्भे संभूयान्नमुचिर्बली ।
भूयाच्च सर्वदेवानामजेयः संयुगेष्विति ।। २३५
ततः स तस्याः संभूय गर्भे जातोऽसुरः पुनः ।
सर्वरत्नमयो नाम्ना प्रबलो बलयोगतः ।। २३६
सोऽपि तप्ततपाः प्रीणन्प्राणैरप्यर्थिनः कृती ।
शतकृत्वो जिगायेन्द्रं प्रबलो दानवेश्वरः ।। २३७
ततः संमन्त्र्य देवास्तमुपेत्यैवं ययाचिरे ।
देहं पुरुषमेधार्थमस्मभ्यं देहि सर्वथा ।। २३८
तच्छ्रुत्वा स रिपुभ्योऽपि तेभ्यो देहमदान्निजम् ।
प्राणानुदारा विसृजन्त्यर्थिनो न पराङ्मुखान् ।। २३९
ततः स खण्डशो देवैः कृतः प्रबलदानवः ।
मनुष्यलोके जातोऽद्य प्रभासवपुषा पुनः ।। २४०
तदेवमादौ नमुचिस्ततोऽभूत्प्रबलश्च सः ।
सैष प्रभासस्तत्पुण्यप्रभावाद्दुर्जयोऽरिभिः ।। २४१
या च संबन्धिनी तस्य प्रबलस्यौषधीगुहा ।
तेन प्रभासस्यात्मीया वश्या सास्य सकिंकरा ।। २४२
तदधश्चास्ति पाताले मन्दिरं प्रबलस्य तत् ।
यत्र द्वादश सन्त्यस्य मुख्यभार्याः स्वलंकृताः ।। २४३
विविधानि च रत्नानि नानाप्रहरणानि च ।
चिन्तामणिश्च लक्षं च योधानां तुरगास्तथा ।। २४४
तत्प्रभासस्य संबन्धि सर्वमस्य पुरार्जितम् ।
तदीदृशः प्रभासोऽयं नास्येदं किंचिदद्भुतम् ।। २४५
एव ततो मुनिकुमारकतो निशम्य सूर्यप्रभप्रभृतयः समयप्रभासाः ।
रत्नाद्यवाप्तुमथ तत्प्रययुस्तदैव पातालगं प्रबलवेश्मबिलप्रवेशम् ।। २४६
तेन प्रविश्य परिगृह्य च पूर्वपत्नीश्चिन्तामणिं च तुरगानसुरांश्च योधान् ।
निर्गत्य चात्तनिखिलद्रविणः स एकः सूर्यप्रभं किमपि तोषितवान्प्रभासः ।। २४७
अथ समयसुनीथः सप्रभासः सुमेरुप्रभृतिभिरनुयातो राजभिर्मन्त्रिभिश्च ।
द्रुतमभिमतसिद्धिं प्राप्य सूर्यप्रभोऽसौ पुनरपि निजसेनासंनिवेशं तमागात् ।। २४८
तत्र सोऽसुरनराधिपादिषु स्वस्ववासकगतेषु तेषु तम् ।
रात्रिशेषमनयत्कुशास्तरे संनिगृह्य रणदीक्षितः पुनः ।। २४९
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे सूर्यप्रभलम्बके तृतीयस्तरङ्गः ।

[सम्पाद्यताम्]

$८.३.२२१ नमुचि शब्दस्य संभावित व्याख्या