ऋभुगीता २
द्वितीयोऽध्यायः।
अथातस्संप्रवक्ष्यामि निदाघ शृणु सादरम्।
संसारमोक्षसिद्ध्यर्थं सरूपं ब्रह्म निर्गुणम् ॥२.०१॥
तत्त्वमस्यादिवाक्यैर्यल्लक्ष्यं जीवादिकारणम्।
नित्यशुद्धविबुद्धं च नित्यमुक्तं च शाश्वतम्॥२.०२॥
यत्सर्ववेदसिद्धान्तं यज्ज्ञानेनैव मुक्तता।
जीवस्य यच्च संपूर्णं तत्त्वमेवासि निर्मलम्॥२.०३॥
त्वमेव परमात्मासि त्वमेव परमोगुरुः।
त्वमेवाकाशरूपोसि साक्षिहीनोसि सर्वदा॥२.०४॥
त्वमेव सर्वभावोसि त्वं ब्रह्मासि नसंशयः।
कालहीनोसि कालोसि सदा ब्रह्मासि चिद्घनः॥२.०५॥
सर्वतस्सर्वरूपोसि चैतन्यघनवानसि।
सर्वभूतान्तरस्थोसि कर्माध्यक्षोसि निर्गुणः॥२.०६॥
सत्योसि सिद्धोसि सनातनोसि मुक्तोसि मोक्षोसि मुदाऽमृतोसि।
देवोसि शान्तोसि निरामयोसि ब्रह्मासि पूर्णोसि परात्परोसि॥२.०७॥
समोसि सच्चसि चिरन्तनोसि सत्यादिवक्यैः प्रतिबोधितोसि।
सर्वाङ्गहीनोसि सदास्थितोसि ब्रह्मेन्द्ररुद्रादिविभावितोसि॥२.०८॥
सर्वप्रपंचभ्रमवर्जितोसि सर्वेषु भूतेषु च भावितोसि।
सर्वत्र सङ्कल्पविवर्जितोसि सर्वागमान्तार्थविभावितोसि॥२.०९॥
सर्वत्र सन्तोषसुखासनोसि सर्वत्र गत्यादिविवर्जितोसि।
सर्वत्र लक्ष्यादि विवर्जितोसि ध्यातोसि विष्ण्वादिसुरैरजस्रम्॥२.१०॥
चिदाकार स्वरूपोसि चिन्मात्रोसि निरङ्कुशः।
आत्मन्येव स्थितोसि त्वं सर्वशून्योसि निश्चलः॥२.११॥
आनन्दोसि परोसि त्वमेकमेवाद्वितीयकः।
चिद्घनानन्दरूपोसि परिपूर्णस्वरूपकः॥२.१२॥
सदसि त्वमभिज्ञोसि सोसि जानासि वीक्ष्यसि।
सच्चिदानन्दरूपोसि वासुदेवोसि वै प्रभुः॥२.१३॥
अमृतोसि विभुश्चसि चञ्चलोस्यचलोह्यसि।
सर्वोसि सर्वहीनोसि शान्ताशान्तविवर्जितः॥२.१४॥
सत्तामात्रप्रकाशोसि सत्तासामान्यकोह्यसि।
नित्यसिद्धस्वरूपोसि सर्वसिद्धिविवर्जितः॥२.१५॥
ईषण्मात्रविशून्योसि ह्यणुमात्रविवर्जितः।
अस्तित्ववर्जितोसि त्वं नास्तित्वादिविवर्जितः॥२.१६॥
लक्ष्यलक्षणहीनोसि निर्विकारो निरामयः।
सर्वनादान्तरोसि त्वं कलाकाष्ठादिवर्जितः॥२.१७॥
ब्रह्मविष्ण्वीशहीनोसि स्वस्वरूपं प्रपश्यसि।
स्वस्वरूपावशेषोसि स्वानन्दाब्धौ निमज्जसि॥२.१८॥
स्वात्मराज्ये स्वमेवासि स्वयंभावविवर्जितः।
शिष्टपूर्णस्वरूपोसि स्वस्मात्किञ्चिन्नपश्यसि॥२.१९॥
स्वस्वरूपान्नचलसि स्वस्वरूपेण जृंभसि।
स्वस्वरूपादनन्योसि ह्यहमेवासि निश्चिनु॥२.२०॥
इदं प्रपञ्चं यत्किञ्चिद्यद्यज्जगति विद्यते।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत्॥२.२१॥
लक्ष्यलक्षणहीनत्वाद्युक्त्यानिष्प्रतियोगिकम्।
न मन्तव्यं यथायोग्यं लौकिकैस्त्वं विनिश्चिनु॥२.२२॥
निर्गुणं निर्मलं शान्तं ब्रह्मसप्रतियोगिकम्।
शुद्धान्तःकरणज्ञेयं वेदोक्तं प्रकृतं खलु॥२.२३॥
आत्मस्त्वं सच्चिदानन्दलक्ष्णैर्लक्ष्यमद्वयम्।
ब्रह्मैवास्मि न देहोऽयमिति चित्तेऽवधारय॥२.२४॥
देहोऽहमिति सङ्कल्पस्तदन्तःकरणं स्मृतम्।
देहोऽहमिति सङ्कल्पो महान् संसार उच्यते॥२.२५॥
देहोऽहमिति सङ्कल्पस्तद्बन्ध इति चोच्यते।
देहोऽहमिति सङ्कल्पस्तद्दुःखमिति चोचय्ते॥२.२६॥
देहोऽहमिति यज्ज्ञानं तदेव नरकं स्मृतम्।
देहोऽहमिति सङ्कल्पो जगत्सर्वं समीर्यते॥२.२७॥
देहोऽहमिति सङ्कल्पो हृदयग्रन्धिरीरितः।
देहोऽहमिति यज्ज्ञानं तदसज्ज्ञानमेवच॥२.२८॥
देहोऽहमिति यद्बुद्धिः साचविद्येति भण्यते।
देहोऽहमिति यज्ज्ञानं तदेव द्वैतमुच्यते॥२.२९॥
देहोऽहमिति सङ्कल्पस्सत्यजीवस्स एव च।
देहोऽहमिति यज्ज्ञानं परिच्छिन्नमितीरितम्॥२.३०॥
देहोऽहमिति सङ्कल्पो महापापमिति स्फुटम्।
देहोऽहमिति या बुद्धिस्तृष्णादोषाऽऽमयः किल॥२.३१॥
यत्किञ्चिदपि सङ्कल्पस्तापत्रयमितीरितम्।
तच्च सर्वं मनुष्याणां मानसं हि निगद्यते॥२.३२॥
कामं क्रोधं बन्धनं सर्वदुःखं विश्वं दोषं कालनानास्वरूपम्।
यत्किञ्चेदं सर्वसङ्कल्पजातं तत्किञ्चेदं मानसं सोम्य विद्धि॥२.३३॥
मन एव जगत्सर्वं मन एव महारिपुः।
मन एव हि संसारो मन एव जगत्त्रयम्॥२.३४॥
मन एव महद्दुःखं मन एव जरादिकम्।
मन एव हि कालश्च मन एव मलं तथा॥२.३५॥
मन एव हि सङ्कल्पो मन एव च जीवकः।
मन एव हि चित्तं च मनोऽहङ्कार एव च॥२.३६॥
मन एव महान् बन्धो मनोऽन्तःकरणं च तत्।
मन एव हि भूमिश्च मन एव हि तज्जलम्॥२.३७॥
मन एव हि तेजश्च मन एव मरुन्महान्।
मन एव हि चकाशो मन एव हि शब्दकः॥२.३८॥
स्पर्शरूपरसा गन्धः कोशाः पञ्च मनोभवाः।
जाग्रत्स्वप्नसुषुप्त्यादि मनोमयमितीरितम्॥२.३९॥
दिक्पाला वसवो रुद्रा आदित्याश्च मनोमयाः।
दृश्यं बन्धं द्वन्द्वजातमज्ञानं मानसं स्मृतम्॥२.४०॥
सङ्कल्पमेव यत्किञ्चित्तत्तन्नास्तीति निश्चिनु।
नास्ति नास्ति जगत्सर्वं गुरुशिष्यादिकं निहि॥२.४१॥
व्यवहारदशायां हि गुरुशिष्यादिकं भवेत्।
परमार्थदशायां तत् कथं मुक्तौ प्रसिद्ध्यति॥२.४२॥
मुक्त्यतीत दशायां च प्रोच्यते परमार्थता।
तथाप्यसत्यहंतृत्वान्मुक्तेरेवास्ति मुख्ययाः॥२.४३॥
मनसा कल्पितं सर्वं मनसा परिपालितम्।
मनसा संस्मृतं तस्मान्मन एवास्ति कारणम्॥२.४४॥
मनसा संस्मृतं सर्वं मनसैव च विस्मृतम्।
मनसा भावितं सर्वं मनसैव ह्यभावितं॥२.४५॥
मनसा दूषितं सर्वं मनसैव च भूषितम्।
मनसा सुखवृत्तिस्स्यान्मनसा दुःखसञ्चयः॥२.४६॥
तस्मात्सर्वनिदानं तन्मनस्सूक्ष्मं परात्मनि।
त्वयि सच्चित्सुखांबोधौ कल्पितं विद्धि मायया॥२.४७॥
त्वदन्यस्य च सर्वस्य कल्पितत्वादबोधतः।
त्वमेव सर्वसाक्षी सन् स्वयं भासि निरन्तरम्॥२.४८॥
तव बोधस्वरूपत्वात् त्वय्यबोधस्य का गतिः।
मन्दबुद्ध्या गतौ सत्यामपि नाशस्स्वयं भवेत्॥२.४९॥
नित्यबोधस्वरूपस्त्वं ह्यबोधप्रतियोगिकः।
त्वयि तत्सन्निवर्तेत तमस्सूर्योदये यथा॥२.५०॥
ज्ञातृज्ञानेप्रकल्प्येते यत्र ज्ञेयेऽद्वये त्वयि।
तस्याखण्डस्वरूपत्वात् सर्वाधिष्ठानतोचिता॥२.५१॥
मुमुक्षुभिश्च विज्ञेयास्स्वधर्मास्सच्चिदादयः।
सन्मयश्चिन्मयश्चत्मा तथानन्दमयो यतः॥२.५२॥
चिद्रूपस्य तवात्मत्वादनात्मानस्त्वचिन्मयाः।
अनात्मनां विकारित्वान्निर्विकारस्त्वमिष्यसे॥२.५३॥
विकारस्य समस्तस्याप्यविद्याकल्पितत्वतः।
विलये निर्विकारस्त्वं विद्यावानवशिष्यसे॥२.५४॥
बृहद् ब्रह्मावशेषो हि नाशः कल्पितवस्तुनः।
यच्छेषास्स्युरिमे सर्वे स शेषी नित्यतां व्रजेत्॥२.५५॥
शेषस्य शेष्यनन्यत्वं वास्तवं सर्वसम्मतम्।
शेषिणस्तु तवान्यत्वान्न शेषस्यास्ति नित्यता॥२.५६॥
शेषिणश्शेषसापेक्ष्यान्न स्वातन्त्र्येण शेषिता।
इति वक्तुं न शक्यं हि स्वमहिम्नि स्थितत्वतः॥२.५७॥
स्वस्यैष महिमा सर्वव्यापकत्वादिलक्षणः।
सर्वशृत्यादि संसिद्धः काभीर्हीयेत युक्तिभिः॥२.५८॥
व्याप्यसापेक्षता तस्य व्यापकस्येतिचेच्छृणु।
व्याप्यानपेक्षं सिद्धिर्हि व्यापकस्य निजाश्रयात्॥२.५९॥
व्याप्यस्यैव हि जीवस्य विकारापेक्षया तथा।
व्यापकापेक्षया च स्यात् स्थितिर्न व्यापकस्यतु॥२.६०॥
विकारालंबनाभावात्स्वालंबनतयापि च।
सर्वालंबनता सिद्धा न स्वहानेश्च सङ्गतिः॥२.६१॥
सर्वाधारस्य नाधारोऽपेक्ष्यतेपि क्वचिद्विभोः।
स चेदाधारसापेक्षो न सर्वाधारतां व्रजेत्॥२.६२॥
सर्वाधारस्य च व्योम्नो यथात्माधार इष्यते।
तथात्मनोपि कश्चित्स्यादिति चेद्बाढमुच्यते॥२.६३॥
आत्मैवात्मन आधार आत्मन्येवात्मनस्स्थितेः।
अनात्मनो यथाऽनात्मा कश्चिदेवास्ति चश्रयः॥२.६४॥
आत्मनोऽपि तु नानात्वे स्यादनात्माविशेषता।
इति चेन्नैष भेदो हि विकारावाश्रयो भवेत्॥२.६५॥
यथा भवति देहस्य प्राण एवाश्रयः पुनः।
प्राणस्य चश्रयो देहस्तथात्माऽनात्मनोरपि॥२.६६॥
अन्योन्याश्रयता प्राप्ता तथा नाशो द्वयोरपि।
इति चेदुक्तमेवैतदात्मा हि स्वाश्रयो मतः॥२.६७॥
आश्रयाश्रयि वार्ता च व्यवहारे निगद्यते।
परमार्थदशायां तु स्वस्मादन्यन्नविद्यते॥२.६८॥
आत्मनस्स्वगतो भेदो योस्मिन्नभ्युपगम्यते।
स किं नित्योस्त्यनित्योवेत्येवं प्रश्ने तु कथ्यते॥२.६९॥
लब्धात्मसम्यग्बोधस्य तव यावदिहस्थितिः।
तावत्तस्याविनाशित्वान्नित्य एवेति निर्णयः॥२.७०॥
पश्चदनित्यतायाश्च तव प्रष्टुरभावतः।
स्वभेदानित्यवार्ताया नावकाशोऽत्र विद्यते॥२.७१॥
आत्मा स किं भवेद्द्रष्टा दृश्यो वा किन्नु दर्शनम्।
द्रष्टृत्वे सति जीवत्वात्संसारित्वं प्रसज्यते॥२.७२॥
दृश्यत्वे तु घटादीनामिवस्याद्विषयात्मता।
दर्शनत्वे तु वृत्तित्वाज्जाड्यमेव प्रसज्यते॥२.७३॥
असंसारी परात्माऽसौ स्वयं निर्विषयस्तथा।
चैतन्यरूप इत्येतद्व्यर्थमेवेति चेच्छृणु॥२.७४॥
द्रष्टृत्वं तस्य विद्ध्येवं जीवेशादीक्षितृत्वतः।
दृश्यत्वं च तथा विद्धि मुक्तैर्द्रष्टृत्वतस्स्वतः॥२.७५॥
दर्शनत्वं च साक्षित्वाद्दृग्रूपत्वाच्च तस्य वै।
संसारित्वादयो दोषाः प्रसज्यन्ते न तत्र वै॥२.७६॥
असंसारिणमात्मानं संसार्यात्मा यदि स्वयं।
पश्येत्तदाक्षिरोगी संप्रपश्येच्च निरङ्कुशम्॥२.७७॥
असम्भवानि सर्वाणि संभवेयुश्च वैदिकाः।
सिद्धान्तानियमापेतास्स्वेच्छाव्याहार संभवात्॥२.७८॥
इति चेन्नैव दोषोऽस्ति संसारस्यापवादतः।
विशुद्धसत्वसंपन्नस्संसारी निर्मलो हि सः॥२.७९॥
यदि जीवस्य संसारस्स्वतस्सिद्धस्तथाऽखिलाः।
उक्त दोषाः प्रसज्येरन्नज्ञानाद्ध्यागतो न ते॥२.८०॥
जीवस्य यदि संसारो ब्रह्मणस्तदभावतः।
ब्रह्मात्मत्वोपदेशोऽयमयुक्त इति चेच्छृणु॥२.८१॥
उक्तजीवैकदेशस्य ह्यसंसारित्वमन्वहम्।
ततस्तत्त्वोपदेशेस्मिन् निदाघास्त्यनवद्यता॥२.८२॥
तस्मात्सर्वगतं सत्यसुखबोधैकलक्षणम्।
ब्रह्मास्मीति विजानीहि केवलं त्वमसंशयम्॥२.८३॥
मुक्त्यै ज्ञेयं च तद् ब्रह्म सच्चिदानन्दलक्षणम्।
नत्वलक्षणमन्यत्स्यादिति चोक्तं न विस्मर॥२.८४॥
॥इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे चतुर्थोऽध्यायः एवं
श्री ऋभुगीता द्वितीयोऽध्यायः समाप्तः॥