ऋभुगीता १
प्रथमोऽध्यायः।
[श्री गुरुमूर्तिः]
पुनर्ज्ञानं प्रवक्ष्यामि यथावत्पद्मसम्भव।
येनैव सर्वे मुच्यन्ते जनास्संसारबन्धनात्॥१.०१॥
विधे पुरा निदाघाख्यो मुनिः पप्रच्छ सद्गुरुम्।
ऋभुसंज्ञं महाप्राज्ञं तद्वदामि तवाधुना॥१.०२॥
[निदाघः]
आत्मानात्मविवेकं मे कृपया ब्रूहि सद्गुरो।
येन संसारपादोधिं तरिष्यामि सुखेन वै॥१.०३॥
ऋभुरेवं तदा पृष्ट उवाच सकलार्थवित्।
सर्ववेदान्तसारज्ञस्सर्वपूज्यो महत्तमः॥१.०४॥
[ऋभुः]
सर्ववाचोऽवधिर्ब्रह्म सर्वचिन्ताऽवधिर्गुरुः।
सर्वकारणकार्यात्मा कार्यकारणवर्जितः॥१.०५॥
सर्वसंकल्परहितस्सर्वनादमयश्शिवः।
सर्ववर्जितचिन्मात्रस्सर्वानन्दमयः परः॥१.०६॥
सर्वतेजः प्रकाशात्मा नादानन्दमयात्मकः।
सर्वानुभवनिर्मुक्तः सर्वध्यानविवर्जितः॥१.०७॥
सर्वनादकलातीत एष आत्माऽहमव्ययः।
आत्मानात्मविवेकादि भेदाभेदविवर्जितः॥१.०८॥
शान्ताशान्तादिहीनात्मा नादान्तर्ज्योतिरात्मकः।
महावाक्यार्थतो दूरो ब्रह्मास्मीत्यति दूरगः॥१.०९॥
तच्छब्दवर्ज्यस्त्वंशब्दहीनो वाक्यार्थवर्जितः।
क्षराक्षरविहीनो यो नादान्तर्ज्योतिरेव सः॥१.१०॥
अखण्डैकरसो वाऽहमानन्दोस्मीति वर्जितः।
सर्वातीतस्वभावात्मा नादान्तर्ज्योतिरेव सः॥१.११॥
आत्मेति शब्दहीनो य आत्मशब्दार्थवर्जितः।
सच्चिदानन्दहीनो य एषैवात्मा सनातनः॥१.१२॥
ननिर्देष्टुं च शक्नो यो वेदवाक्यैरगम्यकः।
यस्य किन्चिद्बहिर्नास्ति किन्चिदन्तः कियन्नच॥१.१३॥
यस्य लिगं प्रपंचं वा ब्रह्मैवात्मा न संशयः।
नास्ति यस्य शरीरं वा जीवो वा भूतभौतिकः॥१.१४॥
नामरूपाऽदिकं नास्ति भोज्यं वा भोगभुक्च वा।
स्द्वाऽसद्वा स्थितिर्वाऽपि यस्य नास्ति क्षराक्षरम्॥१.१५॥
गुणं वा विगुणं वाऽपि सम आसीन् न संशयः।
यस्य वाच्यं वाचकं वा श्रवणं मननं च वा॥१.१६॥
गुरुशिष्याऽदि भेदं वा देवलोकास्सुरासुराः।
यत्र धर्ममधर्मं वा शुद्धं वाऽशुद्धमण्वपि॥१.१७॥
यत्र कालमकालं वा निश्चयं संशयं नहि।
यत्र मन्त्रममन्त्रं वा विद्याऽविद्ये न विद्यते॥१.१८॥
द्रष्टृदर्शनदृश्यं वा ईषण्मात्रं कलादिकम्।
अनात्मेति प्रसंगो वा ह्यनात्मेति मनोपि वा॥१.१९॥
अनात्मेति जगद्वाऽपि नास्ति नास्तीति निश्चिनु।
सर्वसंकल्पशून्यत्वात् सर्वकार्यविवर्जनात्॥१.२०॥
केवलं ब्रह्ममात्रत्वात् नास्त्यनात्मेति निश्चिनु।
देहत्रयविहीनत्वात् कालत्रयविवर्जनात्॥१.२१॥
लोकत्रयविहीनत्वात् सर्वमात्मेति शासनात्।
चित्ताभावान्नचिन्तास्ति देहाभावाज्जरा न च॥१.२२॥
पादाभावाद्गतिर्नास्ति हस्ताभावात् क्रिया न च।
मृत्युर्नास्ति जराऽभावात् बुद्ध्यभावात् सुखादिकम्॥१.२३॥
धर्मो नास्ति शुचिर्नास्ति सत्यं नास्ति भयं न च।
अक्षरोच्चारणम् नास्ति गुरुशिष्यादि नास्त्यपि॥१.२४॥
एकाभावे द्वितीयं न न द्वितीये नचैकता।
सत्यत्वमस्तिचेत् किंचिदसत्यं न च संभवेत्॥१.२५॥
असत्यत्वं यदि भवेत् सत्यत्वं न वदिष्यति।
शुभं यद्यशुभं विद्धि अशुभाच्चुभमिष्यते॥१.२६॥
भयं यद्यभयं विद्धि अभयाद्भयमापतेत्।
बन्धत्वमपिचेन्मोक्षो बन्धाभावे न मोक्षता॥१.२७॥
मरणम् यदि चेज्जन्म जन्माभावे मृतिर्नच।
त्वमित्यपि भवेच्चाहं त्वं नो चेदहमेव न॥१.२८॥
इदं यदि तदेवास्ति तदभावादिदं न च।
अस्तीति चेन्नास्ति तदा नास्तिचेदस्ति किन्चन॥१.२९॥
कार्यं चेत्कारणम् किंचित् कार्याभावे न कारणम्।
द्वैतं यदि तदाऽद्वैतं द्वैताभावेऽद्वयं न च॥१.३०॥
दृश्यं यदि दृगप्यस्ति दृश्याभावे दृगेव न।
अन्तर्यदि बहिस्सत्यमन्ताभावे बहिर्नच॥१.३१॥
पूर्णत्वमस्ति चेद्किंचिदपूर्णत्वं प्रसज्यते।
तस्मादेतद्क्वचिन्नास्ति त्वं चाहं वा इमे इदम्॥१.३२॥
नास्ति दृष्टान्तकस्सत्ये नास्तिदार्ष्टान्तिकं ह्यजे।
परं ब्रह्माहमस्मीति स्मरणस्य मनो नहि॥१.३३॥
ब्रह्ममात्रं जगदिदं ब्रह्ममात्रं त्वमप्यहम्।
चिन्मात्रं केवलं चाहं नास्त्यनात्मेति निश्चिनु॥१.३४॥
इदं प्रपंचं नास्त्येव नोत्पन्नं नोस्थितं क्वचित्।
चित्तं प्रपंचमित्याहुर्नास्ति नास्त्येव सर्वदा॥१.३५॥
न प्रपंचं न चित्तदि नाहंकारो न जीवकः।
मायाकार्यादिकं नास्ति माया नास्ति भयं न च॥१.३६॥
कर्ता नास्ति क्रिया नास्ति श्रवणं मननं न हि।
समाधि द्वितयं नास्ति मातृमानादि नास्ति हि॥१.३७॥
अज्ञानं चापि नास्त्येव ह्यविवेकः कदा च न।
अनुबन्धचतुष्कं न संबन्धत्रयमेव न॥१.३८॥
न गंगा न गया सेतुर्न भूतं नान्यदस्ति हि।
न भूमिर्न जलं नाग्निर्न वायुर्न च खं क्वचित्॥१.३९॥
न देवो न च दिक्पाला न वेदा न गुरुः क्वचित्।
न दूरं नातिकं नान्तं न मध्यं न क्वचित् स्थितम्॥१.४०॥
नाद्वैतद्वैतसत्यं वा ह्यसत्यं वा इदं च न।
बन्धमोक्षादिकं नास्ति सद्वाऽसद्वा सुखादि वा॥१.४१॥
जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति न लौकिकम्।
सर्वं ब्रह्मेति नास्त्येव ब्रह्म इत्येव नास्ति हि॥१.४२॥
चिदित्येवेति नास्त्येव चिदहं भाषणं नहि।
अहं ब्रह्मास्मि नास्त्येव नित्यशुद्धोस्मि न क्वचित्॥१.४३॥
वाचा यदुच्यते किंचिन् मनसा मनुते क्वचित्।
बुद्ध्या निश्चिनुते नास्ति चित्तेन ज्ञायते नहि॥१.४४॥
योगियोगादिकं नास्ति सदा सर्वं सदा न च।
अहोरात्रादिकं नास्ति स्नानध्यानादिकं नहि॥१.४५॥
भ्रान्त्यभ्रान्त्यादिकं नास्ति नास्त्यनात्मेति निश्चिनु।
वेदश्शास्त्रं पुराणं च कार्यं कारणमीश्वरः॥१.४६॥
लोको भूतं जनस्त्वैक्यं सर्वं मिथ्या न संशयः।
वाचा वदति यत्किंचित्संकल्पैः कल्प्यते च यत्॥१.४७॥
मनसा चिन्त्यते यद्यत् सर्वं मिथ्या न संशयः।
बुद्ध्या निश्चीयते किंचिच्चित्ते निश्चीयते क्वचित्॥१.४८॥
शास्त्रैः प्रपंच्यते यद्यत् नेत्रेणैव निरीक्ष्यते।
श्रोत्राभ्यां श्रूयते यद्यदन्यत्सद्भावमेव च॥१.४९॥
त्वमहं तदिदं सोऽहमन्यत् सद्भावमेव च।
नेत्रं श्रोत्रं गात्रमेव मिथ्येति च सुनिश्चितम्॥१.५०॥
इदं मिध्यैवनिर्दिष्टमयमित्येव कल्प्यते।
यद्यत्संभाव्यते लोके सर्वं संकल्पसंभ्रमः॥१.५१॥
सर्वाध्यासं सर्वगोप्यं सर्वभोगप्रभेदकम्।
सर्वदोषप्रभेदं च नास्त्यनात्मेति निश्चिनु॥१.५२॥
मदीयं च त्वदीयं च ममेति च तवेति च।
मह्यं तुभ्यं मयेत्यादि तत्सर्वं वितथं भवेत्॥१.५३॥
रक्षको विष्णुरित्यादि ब्रह्मा सृष्टेस्तु कारणम्।
संहारे रुद्र इत्येवं सर्वं मिथ्येति निश्चिनु॥१.५४॥
स्नानं जपस्तपो होमस्स्वाध्यायो देवपूजनम्।
मन्त्रं तन्त्रं च सत्सङ्गो गुणदोषविजृभणम्॥१.५५॥
अन्तःकरण सद्भावोऽविद्यायाश्च संभवः।
अनेककोटिब्रह्माण्डं सर्वं मिथ्येति निश्चिनु॥१.५६॥
सर्वदेशिकवाक्योक्तिर्येनकेनापि निश्चिता।
दृश्यते जगति यद्यत् यद्यज्जगति वीक्ष्यते॥१.५७॥
वर्तते जगति यद्यत् सर्वं मिथ्येति निश्चिनु।
येनेकेनाक्षरेणोक्तं येनेकेन विवर्णितम्॥१.५८॥
येनेकेनापि गदितं येनेकेनापि मोदितम्।
येनेकेनापि यद्दत्तं येनकेनापि यत्कृतम्॥१.५९॥
यत्रयत्र शुभं कर्म यत्रयत्र च दुष्कृतम्।
यद्यत्करोति सत्येन सर्वं मिथ्येति निश्चिनु॥१.६०॥
इदं प्रपंचं यत्किंचित् यद्यज्जगति विद्यते।
दृश्यरूपं च दृग्रूपं सर्वं शशविषाणवत्॥१.६१॥
[श्री गुरुमूर्तिः]
एवं श्रुत्वा निदाघस्स ब्रह्मन् संशयवेष्टितः।
ऋभुं पप्रच्छ पुनरप्यात्मविज्ञानसिद्धये॥१.६२॥
[निदाघः]
स्वामिन् मुमुक्षोस्संसारान् ममारूपेण वस्तुना।
प्रपंचितेन न फलं भवेदिति मे मतिः॥१.६३॥
यतस्त्वद्कथितं ब्रह्म तत्त्वमस्याद्यगोचरम्।
अखण्डैकरसातीतं मोक्षातीतं च सद्गुरो॥१.६४॥
ज्ञेयत्वादिविहीनं तत् कथं ज्ञास्याम्यहं नु वा।
तज्ज्ञानेन फलं किं वा मोक्षस्यैव फलत्वतः॥१.६५॥
फलमास्तिक्यबुद्ध्या स्यान् न चैवंभूतवस्तुनः।
त्वदुक्त निश्चये सर्वसांकर्यं च प्रसज्यते॥१.६६॥
यद्युक्त व्यतिरिक्तानां सर्वेषां स्यादनात्मता।
हेयत्वान्नैव जिज्ञास्यं किंचिदप्यत्र सिद्ध्यति॥१.६७॥
शशशृंग समानत्वं यथाप्रोक्तमनात्मनाम्।
अत्यन्तारूपवत्त्वेन तथा तत्सिद्धिरात्मनः॥१.६८॥
अथवा तत् तथैवास्ताम् अन्यथावापि मे गुरो।
यज्ज्ञानेन भवान्मुक्तिर्भवेत् तद् ब्रूहि वेदितुम्॥१.६९॥
एवम् उक्तो निदाघेन कुशाग्रमतिना परम्।
ऋभुस्सन्तुष्टहृदयः पुनरेवाब्रवीदिदम्॥१.७०॥
[ऋभुः]
निदाघ सत्यमेवैतत्त्वदुक्तं युक्तिगर्भितम्।
तथापि युक्तं मद्वाक्यं त्रैविद्ध्याज्ज्ञेयवस्तुनः॥१.७१॥
सगुणं निर्गुणं ताभ्याम् अन्यन्निष्प्रतियोगिकम्।
ब्रह्मैवं त्रिविधं लिन्गैर्वेदान्तेषु हि विश्रुतम्॥१.७२॥
तत्राद्यं हेयगुणकं सोपाधित्वान्मुमुक्षुभिः।
तत्त्वमस्यादिवाच्यत्वाज्ज्ञेयं हेयतयाग्रतः॥१.७३॥
जीवेश्वरविभागेन सगुणं द्विविधं भवेत्।
जीवश्च त्रिविधस्तद्वद् ईशश्चास्ताम् इदं तथा॥१.७४॥
उपादेयं द्वितीयं स्यान्निर्गुणं मोक्षकांक्षिभिः।
तत्त्वमस्यादिलक्ष्यत्वाज्ज्ञेयं चात्मतया ततः॥१.७५॥
हेयोपादेयशून्यं तत्तृतीयं प्रकृतं यतः।
मुक्तैः प्राप्यम् अतश्शब्दमपि ज्ञेयं मुमुक्षुभिः॥१.७६॥
इदन्त्वेनाप्यहन्त्वेन स्वत्वेनापि नवेद्यता।
तथाप्यस्यास्ति वेद्यत्वं श्रुत्युक्तत्वान्न नास्तिता॥१.७७॥
मुक्तस्य स्वगतो भेदो यदनाप्तौ न नश्यति।
तज्ज्ञाने फलमेतत्स्यात् सर्वभेदनिबर्हणम्॥१.७८॥
अतोऽस्यालक्षणत्वेन सदसद्परतास्त्यपि।
शशशृंगसमानत्वं निदाघाशक्यमीरितुम्॥१.७९॥
विशेषसत्ताऽभावेपि सत्तासामान्यता यतः।
निर्द्वन्द्वत्वेन संसिद्धा ततस्सत्त्वादिकं भवेत्॥१.८०॥
अथवा शशशृंगादि सादृश्यं भवतु स्वतः।
सिद्धान्तता श्रुतिप्रोक्ता नैराश्यस्य हि सुव्रत॥१.८१॥
न तावता विरोधोस्ति कश्चिदप्यधुना तव।
संसारमोक्षसिद्ध्यर्थम् अस्यानुक्ततया मया॥१.८२॥
॥इति श्री गुरुज्ञानवासिष्ठे तत्त्वनारायणे
ज्ञानकाण्डस्य प्रथमपादे तृतीयोऽध्यायः एवं
श्री ऋभुगीता प्रथमोऽध्यायः समाप्तः॥