ऋग्वेदः खिलसूक्तानि/अध्यायः ३

विकिस्रोतः तः
Jump to navigation Jump to search

अनुक्रमणी
< अभि > दश प्रस्कण्वः प्रगाथम् तु < प्र > पुष्टिगुर् < यथा > श्रुष्टिगुर् < यथायुर् उपमम् > अष्टौ मेध्य < एतत् ते > मातरिश्वा द्वितीयः प्रागाथो वैश्वदेवो < भूरि > पञ्च कृशः पृषध्रस्य दान स्तुतिस् तु गायत्रम् तु तृतीय पञ्चम्याव् अनुष्टुभौ < प्रति > पृषध्रः पाङ्क्त्य् अन्तम् सलिङ्गोक्ता देवता < त्वम् एका पावमानीष् > षड् वैश्वदेवम् अन्त्याद्ये च पावमानी स्तुतिः पञ्चमी त्रिष्टुब् < इडैव > द्वे बृहद्दिवो < यत्र > तिस्रस् < सस्रुषीर् एकैहि मम > द्वात्रिंशत् प्राजापत्यो हृद्यो वैश्वदेवम् तु विवाहार्थाशीस् त्व् आनुष्टुभम् त्व् आद्या त्रिष्टुप् तृतीय विंशी पञ्चविंश्यः पङ्क्तयो दशमी प्रोष्णिग् ( पुरोष्णिग् ) द्वादशाद्ये आस्तार पङ्क्तिः प्रस्तार पङ्क्तिर् एकोन विंशी बृहत्य् एकोन त्रिंशी त्रिष्टुब् जगतीव < उद् > अष्टौ पराग दासो < ध्रुव > एका < एको > द्वे < उद् > एका < यच् चासौ > द्वे < ब्रह्म > दश वामदेव्यो नकुलस् सौरी घर्म स्तुतिर् बार्हस्पत्या सावित्र्य् अष्टिर् घर्म परैतास् सौर्यश् चान्द्रमस्यश् च शेषा जगत्यः ॥

3.1
अभि प्र वस् सुराधसम् इन्द्रम् अर्च यथा विदे ।
यो जरितृभ्यो मघवा पुरूवसुस् सहस्रेणेव शिक्षति ।१
शतानीकेव प्रजिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।
गिरेर् इव प्र रसास्य पिन्विरे दत्राणि पुरु भोजसः ।२
आ त्वा सुतासेन्दवो मदा येन्द्र गिर्वणः ।
आपो न वज्रिन्न् अन्व् ओक्यम् सरः पृणन्ति शूर राधसे ।३
अनेहसम् प्रतरणम् विवक्षणम् मह्वस् स्वादिष्ठम् ईम् पिब ।
या यथा मन्द सानः किरासि नः प्र क्षुद्रेव त्मना धृषत् ।४
आ नस् स्तोमम् उप द्रवद् धियानो अश्वो न सोतृभिः ।
यन् ते स्वधावन् स्वदयन्ति धेनवेन्द्र कण्वेषु रातयः ॥५
उग्रम् न वीरन् नमसोप स्दिम विभूतिम् अक्षितावसुम् ।
उद्रीव वज्रिन्न् अवतो न सिञ्चते क्षरन्तीन्द्र धीतयः ।६
यद् ध नूनम् यद् वा यज्ञे यद् वा पृथिव्याम् अधि ।
अतो नो यज्ञम् आशुभिर् महेमतोग्रर्ष्वेभिर् आ गहि ।७
अजिरासो हरयो ये ताशवो वातेव प्रसक्षिणः ।
येभिर् अपत्यम् मनुषः परीयसे येभिर् विश्वम् स्वर्दृशे । ८
एतावतस् ईमह इन्द्र सुम्नस्य गोमतः ।
यथा प्राव एतशम् कृत्व्ये धने यथा वशं दश व्रजे ।९
यथा कण्वे मघवन्न् त्रसदस्यवि यथा पक्थे दशव्रजे ।
यथा गोशर्येऽसनोर् ऋजिश्वनीन्द्र गोमद् हिरण्यवत् ॥१० (ऋ. ८.४९ वालखिल्यः)


3.2
प्र सु श्रुतम् सुराधसम् अर्चा शक्रम् अभिष्टये ।
यस् सुन्वते स्तुवते काम्यम् वसु सहस्रेणेव मंहते ।१
शतानीका हेतयो अस्य दुष्टरेन्द्रस्य समिषो महीः ।
शिनिर् न भुज्मा मघवत्सु पिन्वते यद् ईम् सुता अमन्दिषुः ।२
यद् ईम् सुता इन्दवोऽभि प्रियम् अमन्दिषुः ।
आपो न धायि सवनम् म आ वसो दुघा इवोप दाशुषे ।३
अनेहसम् वो हवमानम् ऊतये मध्वः क्षरन्ति धीतयः ।
आ त्वा वसो हवमाना इन्दवोप स्तोत्रेषु दधिरे ।४
आ नस् सोमे स्वध्वरेयानो अत्यो न तोशते ।
यं ते स्वधावन् स्वधयन्ति गूर्तयः पौरे च्छन्दयसे हवम् ॥५
प्र वीरम् उग्रम् विविचिं धनस्पृतम् विभूतिम् राधसो महः ।
उद्रीव वज्रिन्न् अवतो वसुत्वना सदा पीपेथ दाशुषे ६
यद् ध नूनम् परावति यद् वा पृथिव्यां दिवि ।
युजानेन्द्र हरिभिर् महेमत उग्र ऋष्वेभिरा गहि ।७
रथिरासो हरयो ये तेऽस्रिध ओजो वातस्य पिप्रति ।
येभिर् नि दास्युम् मनुषो निघोषयो येभिस् स्वः परीयसे ।८
एतावतस्ते वसो विद्याम शूर नव्यसः ।
यथा प्रावो मघवन् मेध्यातिथिम् यथा नीपातिथिं धने ।९
यथा कण्वे मघवन् मेधेऽध्वरे दीर्घनीथे दमूनसि ।
यथा गोशर्येऽसिषासो अद्रिवो मयि गोत्रम् हरिश्रियम् ॥१० (ऋग्वेदः ८.५० वालखिल्यम्)




3.3
यथा मनौ सांवरणम् सोमम् इन्द्रापिबस् सुतम् ।
निपातिथौ मघवन् मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ।
पार्षद्वानः प्रस्कण्वम् सम् असादयत् शयानम् जिव्रिम् उद्धितम् ।
सहस्राण्य् आसिषासद् गवाम् ऋषिस् त्वोतो दस्यवे वृकः ।
योक्थेभिर् न विन्धते चिकिद् यर्षि चोदनः ।
इन्द्रम् तम् अच्छा वद नव्यस्या मत्य् आविष्यन्तम् न भोजसे ।
यस्मार्कम् सप्त शीर्षाणम् आनृचुस् त्रिधातुम् उत्तमे पदे ।
स त्व् इमा विश्वा भुवनानि चिक्रदद् आद् इज् जनिष्ट पौंस्यम् ।
यो नो दाता वसूनाम् इन्द्रम् तम् हूमहे वयम् ।
विद्मा ह्य् अस्य सुमतिम् नवीयसीम् गमेम गोमति व्रजे ॥५
यस्मै त्वम् वसो दानाय शिक्षसि स रायस् पोषम् अश्नुते ।
तन् त्वा वयम् मघवन्न् इन्द्र गीर्वणस् सुतावन्तो हवामहे ।
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे ।
उपोपेन् नु मघवन् भूयेन् नु त् दानन् देवस्य पृच्यते ।
प्र यो ननक्षेऽभ्य् ओजसा क्रिविम् वधैश् शुष्णम् निघोषयन् ।
यदेद् अस्तम्भीत् प्रथयन्न् अमून् दिवम् आद् इज् जनिष्ट पार्थिवः ।
यस्यायम् विश्वार्यो दासश् शेवधिपारिः ।
तिरश् चिद् अर्ये रुशमे पवीरवि तुभ्येत् सो अज्यते रयिः ।
तुरण्यवो मधुमन्तो घृत श्चुतो विप्रासो अर्कम् आनृचुः ।
अस्मे रयिः पप्रथे वृष्ण्यम् शवो अस्मे सुवानासेन्दवः ॥६ ( प् ९१ )



३,३ १ यथा मनौ सांवरणम् सोमम् इन्द्रापिबस् सुतम् ।
३,३ १ निपातिथौ मघवन् मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ।
३,३ २ पार्षद्वानः प्रस्कण्वम् सम् असादयत् शयानम् जिव्रिम् उद्धितम् ।
३,३ २ सहस्राण्य् आसिषासद् गवाम् ऋषिस् त्वोतो दस्यवे वृकः ।
३,३ ३ योक्थेभिर् न विन्धते चिकिद् यर्षि चोदनः ।
३,३ ३ इन्द्रम् तम् अच्छा वद नव्यस्या मत्य् आविष्यन्तम् न भोजसे ।
३,३ ४ यस्मार्कम् सप्त शीर्षाणम् आनृचुस् त्रिधातुम् उत्तमे पदे ।
३,३ ४ स त्व् इमा विश्वा भुवनानि चिक्रदद् आद् इज् जनिष्ट पौंस्यम् ।
३,३ ५ यो नो दाता वसूनाम् इन्द्रम् तम् हूमहे वयम् ।
३,३ ५ विद्मा ह्य् अस्य सुमतिम् नवीयसीम् गमेम गोमति व्रजे ॥५
३,३ ६ यस्मै त्वम् वसो दानाय शिक्षसि स रायस् पोषम् अश्नुते ।
३,३ ६ तन् त्वा वयम् मघवन्न् इन्द्र गीर्वणस् सुतावन्तो हवामहे ।
३,३ ७ कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे ।
३,३ ७ उपोपेन् नु मघवन् भूयेन् नु त् दानन् देवस्य पृच्यते ।
३,३ ८ प्र यो ननक्षेऽभ्य् ओजसा क्रिविम् वधैश् शुष्णम् निघोषयन् ।
३,३ ८ यदेद् अस्तम्भीत् प्रथयन्न् अमून् दिवम् आद् इज् जनिष्ट पार्थिवः ।
३,३ ९ यस्यायम् विश्वार्यो दासश् शेवधिपारिः ।
३,३ ९ तिरश् चिद् अर्ये रुशमे पवीरवि तुभ्येत् सो अज्यते रयिः ।
३,३ १० तुरण्यवो मधुमन्तो घृत श्चुतो विप्रासो अर्कम् आनृचुः ।
३,३ १० अस्मे रयिः पप्रथे वृष्ण्यम् शवो अस्मे सुवानासेन्दवः ॥६ ( प् ९१ )

3.4
यथा मनौ विवस्वति सोमम् शक्रापिबस् सुतम् ।
यथा त्रिते छन्देन्द्र जुजोषस्य् आयौ मादयसे सचा ।
पृषध्रे ंध्ये मातरिश्वनीन्द्र सुवानेऽमन्दथः ।
यथा सोमम् दश सिप्रे दशोण्ये ( दशोण्ये ) स्यूम रश्माव् ऋजीनसि ।
योक्था केवला दधे यस् सोमम् धृषतापिबत् ।
यस्मै विष्णुस् त्रीणि पदा विचक्रमोप मित्रस्य धर्मभिः ।
यस्य त्वम् इन्द्र स्तोमेषु चाकनो वाजे वाजिन् शत क्रतो ।
तन् त्वा वयम् सुदुघाम् इव गोदुहे जुहूमसि श्रवस्सु च ।
यो नो दाता स नः पिता महान् उग्रेशान कृत् ।
अयामन्न् उग्रो मघवा पुरूवसुर् गोर् अश्वस्य प्र दाति नः ॥७
यस्मै त्वम् वसो दानाय मन्हसे स रायस् पोषम् इन्वति ।
वसूयवो वसु पतिम् शत क्रतुम् स्तोमैर् इन्द्रम् हवामहे ।
कदा चन प्र युच्छस्य् उब्ः नि पासि जन्मनी ।
तुरीयादित्य सवनम् तेन्द्रियम् आ तस्थाव् अमृतम् दिवि ।
यस्मै त्वम् मघवन्न् इन्द्र गिर्वणस् शिक्षो शिक्षति दाशुषे ।
अस्माकम् गिरोत सुष्टुतिम् वसो कण्ववत् शृणुधी हवम् ।
अस्तावि मन्म पूर्व्यम् ब्रह्मेन्द्राय वोचत ।
पूर्वीर् ऋतस्य बृहतिर् अनूषत स्तोतुर् मेधासृक्षत ।
सम् इन्द्रो रायो बृहतीर् अधूनुत सम् क्षोणी सम् उ सूर्यम् ।
सम् शुक्रासश् शुचयस् सम् गवाशिरस् सोमेन्द्रम् अमन्दिषुः ॥८ ( प् ९२ )



३,४ १ यथा मनौ विवस्वति सोमम् शक्रापिबस् सुतम् ।
३,४ १ यथा त्रिते छन्देन्द्र जुजोषस्य् आयौ मादयसे सचा ।
३,४ २ पृषध्रे ंध्ये मातरिश्वनीन्द्र सुवानेऽमन्दथः ।
३,४ २ यथा सोमम् दश सिप्रे दशोण्ये ( दशोण्ये ) स्यूम रश्माव् ऋजीनसि ।
३,४ ३ योक्था केवला दधे यस् सोमम् धृषतापिबत् ।
३,४ ३ यस्मै विष्णुस् त्रीणि पदा विचक्रमोप मित्रस्य धर्मभिः ।
३,४ ४ यस्य त्वम् इन्द्र स्तोमेषु चाकनो वाजे वाजिन् शत क्रतो ।
३,४ ४ तन् त्वा वयम् सुदुघाम् इव गोदुहे जुहूमसि श्रवस्सु च ।
३,४ ५ यो नो दाता स नः पिता महान् उग्रेशान कृत् ।
३,४ ५ अयामन्न् उग्रो मघवा पुरूवसुर् गोर् अश्वस्य प्र दाति नः ॥७
३,४ ६ यस्मै त्वम् वसो दानाय मन्हसे स रायस् पोषम् इन्वति ।
३,४ ६ वसूयवो वसु पतिम् शत क्रतुम् स्तोमैर् इन्द्रम् हवामहे ।
३,४ ७ कदा चन प्र युच्छस्य् उब्ः नि पासि जन्मनी ।
३,४ ७ तुरीयादित्य सवनम् तेन्द्रियम् आ तस्थाव् अमृतम् दिवि ।
३,४ ८ यस्मै त्वम् मघवन्न् इन्द्र गिर्वणस् शिक्षो शिक्षति दाशुषे ।
३,४ ८ अस्माकम् गिरोत सुष्टुतिम् वसो कण्ववत् शृणुधी हवम् ।
३,४ ९ अस्तावि मन्म पूर्व्यम् ब्रह्मेन्द्राय वोचत ।
३,४ ९ पूर्वीर् ऋतस्य बृहतिर् अनूषत स्तोतुर् मेधासृक्षत ।
३,४ १० सम् इन्द्रो रायो बृहतीर् अधूनुत सम् क्षोणी सम् उ सूर्यम् ।
३,४ १० सम् शुक्रासश् शुचयस् सम् गवाशिरस् सोमेन्द्रम् अमन्दिषुः ॥८ ( प् ९२ )

3.5
उपमं त्वा मघोनाम् ज्येष्ठम् च वृषभाणाम् ।
पूर्भित्तमम् मघवन्न् इन्द्र गोविदम् ईशानम् रायेमहे ।
यायन् कुत्सम् अतिथिग्वम् अर्दयो वावृधानो दिवे दिवे ।
तन् त्वा वयम् हर्यश्वम् शतक्रतुम् वाजयन्तो हवामहे ।
आ नो विश्वेषाम् रसम् मध्वस् सिञ्चन्त्य् अद्रयः ।
ये परावति सुन्विरे जनेष्व् आ येऽर्वावतीन्दवः ।
विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सुन्वन्त्व् आ वसु ।
शीर्ष्टेषु चित् ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि ।
इन्द्र नेदीयेद् इहि मित मेधाभिर् ऊतिभिः ।
आ शन्तम शंतमाभिर् अभिष्टिभिर् आ स्वापे स्वापिभिः ।
आजि तुरम् सत्पतिम् विश्व चर्षणिम् कृधि प्रजास्व् आभगम् ।
प्र सू तिरा शचीभिर् ये तोक्थिनः क्रतुम् पुनतानुषक् ।
यस् ते साधिष्ठो अवसे ते स्याम भरेषु ते ।
वीतिहोत्राभिर् उत देव हूतिभिस् ससवांसो विशृण्विरे ।
अहम् हि ते हरिवो ब्रह्म वाजयुर् आजिम् यामि सदोतिभिः ।
त्वाम् इद् एव तम् अमे सम् अश्वयुर् गव्युर् अग्रे मतीनाम् ॥१०


३,५ १ उपमन् त्वा मघोनाम् ज्येष्ठम् च वृषभाणाम् ।
३,५ १ पूर्भित्तमम् मघवन्न् इन्द्र गोविदम् ईशानम् रायेमहे ।
३,५ २ यायन् कुत्सम् अतिथिग्वम् अर्दयो वावृधानो दिवे दिवे ।
३,५ २ तन् त्वा वयम् हर्यश्वम् शतक्रतुम् वाजयन्तो हवामहे ।
३,५ ३ आ नो विश्वेषाम् रसम् मध्वस् सिञ्चन्त्य् अद्रयः ।
३,५ ३ ये परावति सुन्विरे जनेष्व् आ येऽर्वावतीन्दवः ।
३,५ ४ विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सुन्वन्त्व् आ वसु ।
३,५ ४ शीर्ष्टेषु चित् ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि ।
३,५ ५ इन्द्र नेदीयेद् इहि मित मेधाभिर् ऊतिभिः ।
३,५ ५ आ शन्तम शंतमाभिर् अभिष्टिभिर् आ स्वापे स्वापिभिः ।
३,५ ६ आजि तुरम् सत्पतिम् विश्व चर्षणिम् कृधि प्रजास्व् आभगम् ।
३,५ ६ प्र सू तिरा शचीभिर् ये तोक्थिनः क्रतुम् पुनतानुषक् ।
३,५ ७ यस् ते साधिष्ठो अवसे ते स्याम भरेषु ते ।
३,५ ७ वीतिहोत्राभिर् उत देव हूतिभिस् ससवांसो विशृण्विरे ।
३,५ ८ अहम् हि ते हरिवो ब्रह्म वाजयुर् आजिम् यामि सदोतिभिः ।
३,५ ८ त्वाम् इद् एव तम् अमे सम् अश्वयुर् गव्युर् अग्रे मतीनाम् ॥१०

3.6
एतत्त इन्द्र वीर्यम् गीर्भिर् गृणन्ति कारवः ।
ते स्तोभन्तोर्जम् आवन् घृत श्चुतम् पप्रासो नक्षन् धीतिभिः ।
नक्षन्तेन्द्रम् अवसे षुकृत्यया येषाम् सुतेषु मन्दसे ।
यथा संवर्तेऽमदो यथा कृशैवास्मे इन्द्र मत्स्व ।
आ नो विश्वे सजोषसो देवासो गन्तनोप नः ।
वसवो रुद्रावसे ना गमम् शृण्वन्तु मरुतो हवम् ।
पूषा विष्णुर् हवनम् मेऽरस्वत्य् अवन्तु सप्त सिन्धवः ।
आपो वातः पर्वतासो वनस्पतिश् शृणोतु पृथिवी हवम् ॥११
यद् इन्द्र राधो अस्ति ते मघोनम् मघवत्तम ।
तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन् । ( प् ९४ )
आजिपते नृपते त्वम् इद् धि नो वाजाभक्षि सुक्रतो ।
वयम् होत्राभिर् उत देव हूतिभिस् ससवांसो मनामहे ।
सन्ति ह्य् अर्याशिषेन्द्रायुर् जनानाम् ।
अस्मान् नक्षस्व मघवन्न् उपावसे धुक्षस्व पिप्युषीम् इषम् ।
वयम् तेन्द्र स्तोमेभिर् विधेम त्वम् अस्माकम् शतक्रतो ।
महि स्थूरम् शशयम् राधो अह्रयम् प्रस्कण्वायेन्तोसय ॥१२



३,६ १ एतत् तेन्र वीर्यम् गीर्भिर् गृणन्ति कारवः ।
३,६ १ ते स्तोभन्तोर्जम् आवन् घृत श्चुतम् पप्रासो नक्षन् धीतिभिः ।
३,६ २ नक्षन्तेन्द्रम् अवसे षुकृत्यया येषाम् सुतेषु मन्दसे ।
३,६ २ यथा संवर्तेऽमदो यथा कृशैवास्मे इन्द्र मत्स्व ।
३,६ ३ आ नो विश्वे सजोषसो देवासो गन्तनोप नः ।
३,६ ३ वसवो रुद्रावसे ना गमम् शृण्वन्तु मरुतो हवम् ।
३,६ ४ पूषा विष्णुर् हवनम् मेऽरस्वत्य् अवन्तु सप्त सिन्धवः ।
३,६ ४ आपो वातः पर्वतासो वनस्पतिश् शृणोतु पृथिवी हवम् ॥११
३,६ ५ यद् इन्द्र राधो अस्ति ते मघोनम् मघवत्तम ।
३,६ ५ तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन् । ( प् ९४ )
३,६ ६ आजिपते नृपते त्वम् इद् धि नो वाजाभक्षि सुक्रतो ।
३,६ ६ वयम् होत्राभिर् उत देव हूतिभिस् ससवांसो मनामहे ।
३,६ ७ सन्ति ह्य् अर्याशिषेन्द्रायुर् जनानाम् ।
३,६ ७ अस्मान् नक्षस्व मघवन्न् उपावसे धुक्षस्व पिप्युषीम् इषम् ।
३,६ ८ वयम् तेन्द्र स्तोमेभिर् विधेम त्वम् अस्माकम् शतक्रतो ।
३,६ ८ महि स्थूरम् शशयम् राधो अह्रयम् प्रस्कण्वायेन्तोसय ॥१२

3.7
भूरीद् इन्द्रस्य वीर्यम् व्य् अख्यम् अभ्याजति ।
राधस् ते दस्यवे वृक ।
शतम् श्वेतासोक्षणो दिवि तारो न रोचन्ते ।
मह्नेवन् न तस्तभुः ।
शतम् वेणुम् शतम् शुनस् शतम् चर्मणी ंलातानि ।
शतम् मे बल्बज स्तुकारुषीणाम् चतुश्शतम् ।
सुदेवास् स्थ कण्वायना वयो वयो विचरन्तः ।
अश्वासो न चङ्क्षमत ।
आद् इत् सप्तस्य चर्किरन्न् आनूनम् च महि श्रवः ।
श्यावीर् अतिध्वसन् पथस् चक्षुषा चन सन्नशे ॥१३


३,७ १ भूरीद् इन्द्रस्य वीर्यम् व्य् अख्यम् अभ्याजति ।
३,७ १ राधस् ते दस्यवे वृक ।
३,७ २ शतम् श्वेतासोक्षणो दिवि तारो न रोचन्ते ।
३,७ २ मह्नेवन् न तस्तभुः ।
३,७ ३ शतम् वेणुम् शतम् शुनस् शतम् चर्मणी ंलातानि ।
३,७ ३ शतम् मे बल्बज स्तुकारुषीणाम् चतुश्शतम् ।
३,७ ४ सुदेवास् स्थ कण्वायना वयो वयो विचरन्तः ।
३,७ ४ अश्वासो न चङ्क्षमत ।
३,७ ५ आद् इत् सप्तस्य चर्किरन्न् आनूनम् च महि श्रवः ।
३,७ ५ श्यावीर् अतिध्वसन् पथस् चक्षुषा चन सन्नशे ॥१३

3.8
प्रति ते दस्यवे वृक राधो अदर्श्य् अह्रयम् ।
द्यौर् न प्रथिना शवः ।
दश मह्यम् पूत क्रतुस् सहस्रा दस्यवे वृकः ।
नित्याद् रायो अमन्हत ।
शतम् मे गर्दभानाम् शतम् ऊर्णावतीनाम् ।
शतम् दाशम् अधि स्रजः । ( प् ९४ )
तत्रो अपि प्राणीयत पूत क्रतायी व्यक्ता ।
अश्वानाम् इन् न यूथ्यम् ।
अचेत्य् अग्निश् चिकितिर् हव्यवाट् स सुमद्रथः ।
अग्निश् शुक्रेण शोचिषा बृहत् सूर्यो अरोचत दिवि सूर्यो अरोचत ।
अग्नायाह्य् अग्निभिः ॥१४

३,८ १ प्रति ते दस्यवे वृक राधो अदर्श्य् अह्रयम् ।
३,८ १ द्यौर् न प्रथिना शवः ।
३,८ २ दश मह्यम् पूत क्रतुस् सहस्रा दस्यवे वृकः ।
३,८ २ नित्याद् रायो अमन्हत ।
३,८ ३ शतम् मे गर्दभानाम् शतम् ऊर्णावतीनाम् ।
३,८ ३ शतम् दाशम् अधि स्रजः । ( प् ९४ )
३,८ ४ तत्रो अपि प्राणीयत पूत क्रतायी व्यक्ता ।
३,८ ४ अश्वानाम् इन् न यूथ्यम् ।
३,८ ५ अचेत्य् अग्निश् चिकितिर् हव्यवाट् स सुमद्रथः ।
३,८ ५ अग्निश् शुक्रेण शोचिषा बृहत् सूर्यो अरोचत दिवि सूर्यो अरोचत ।
३,८ ५ अग्नायाह्य् अग्निभिः ॥१४

3.9
त्वम् द्रप्सम् धनुषा युध्यमानम् उपातिष्ठो मघवन्न् अंशुमत्याः ।
प्र शूरापस् सनिता धनानीन्द्र तानि ते पुरुकृत् सहांसि ।
त्वम् ह त्यत् सप्तभ्यो जायमानः ॥१५


३,९ १ त्वम् द्रप्सम् धनुषा युध्यमानम् उपातिष्ठो मघवन्न् अंशुमत्याः ।
३,९ १ प्र शूरापस् सनिता धनानीन्द्र तानि ते पुरुकृत् सहांसि ।
३,९ १ त्वम् ह त्यत् सप्तभ्यो जायमानः ॥१५

3.10
अधोलिखितं ऋ. ९.६७ अनन्तरं पठनीयम्--

पावमानीस् स्वस्त्ययनीस् सुदुघा हि घृतश्चुतः ।
ऋषिभिस् सम्भृतो रसो ब्राह्मणेष्व् अमृतम् हितम् ।१
पावमानीर् दिशन्तु न इमम् लोकम् अथो अमुम् ।
कामान् समर्धयन्तु नो देवैर् देवीस् समाहृताः ।२
येन देवाः पवित्रेणात्मानम् पुनते सदा ।
तेन सहस्रधारेण पावमान्यः पुनन्तु मा ।३
प्राजापत्यम् पवित्रम् शतोद्यामम् हिरण्मयम् ।
तेन ब्रह्मविदो वयम् पूतम् ब्रह्म पुनीमहे ।४
इन्द्रस् सुनीती सह मा पुनातु सोमस् स्वस्त्या वरुणस् समीच्या ।
यमो राजा प्रमृणाभिः पुनातु माम् जातवेदा मोर्जयन्त्या पुनातु ।५
पावमानीस् स्वस्त्ययनीर् याभिर् गच्छति नान्दनम् ।
पुण्यांश् च भक्षान् भक्षयत्यमृतत्वम् च गच्छति ।६
प्र देवम् अच्छा मधुमन्त ॥(ऋ. ९.६८.१)



यन् मे गर्भे वसतः पापम् उग्रम् यज् जायमानस्य च किंचिद् अन्यत् ।
जातस्य च यच् चापि च वर्धतो मे तत् पावमानीभिर् अहम् पुनामि । १
माता पित्रोर् यन् न कृतम् वचो मे यत् स्थावरम् जङ्गमम् आबभूव ।
विश्वस्य यत् प्रहृषितम् वचो मे तत् पावमानीभिर् अहम् पुनामि ।२
क्रय विक्रयाद् योनि दोषाद् भक्षाद् भोज्यात् प्रतिग्रहात् ।
असम्भोजनाच् चापि नृशंसम् तत् पावमानीभिर् अहम् पुनामि ।३
गोघ्नात् तस्करत्वात् स्त्री वधाद् यच् च किल्बिषम् ।
पापकम् च चरणेभ्यस् तत् पापवानीभिर् अहम् पुनामि ।४
ब्रह्म वधात् सुरा पानात् सुवर्ण स्तेयाद् वृषलि मिथुन संगमात् ।
गुरोर् दाराभिगमनाच् च तत् पापवानीभिर् अहम् पुनामि । ५
बालघ्नान् मातृ पितृ वधाद् भूमि तस्करात् सर्व वर्ण गमन मिथुन संगमात् ।
पापेभ्यश् च प्रतिग्रहात् सद्यः प्रहरन्ति सर्व दुष्कृतम् तत् पावमानीभिर् अहम् पुनामि ।६
अमन्त्रम् अन्नम् यत् किंचिद्द् हूयते च हुताशने ।
संवत्सर कृतम् पापम् तत् पावमानीभिर् अहम् पुनामि ।७
दुर्यष्टम् दुरधीतम् पापम् यच् चाज्ञानतो कृतम् ।
अयाजिताश् चासम्याज्यास् तत् पावमानीभिर् अहम् पुनामि ।८
ऋतस्य योनयो अमृतस्य धाम सर्वा देवेभ्यः पुण्य गन्धा ।
ता नापः प्रवहन्तु पापम् श्र्द्धा गच्छामि सुकृताम् उ लोकम् तत् पावमानीभिर् अहम् पुनामि ।९
१० = का ५
११ - १४ = का १ - ४
१५= का ६
पावमानीम् पितॄन् देवान् ध्यायेद् यश् च सरस्वतीम् ।
पितॄंस् तस्योपतिष्ठेत क्षीरम् सर्पिर् मधूदकम् ।१६
ऋषयस् तु तपस् तेपुः सर्वे स्वर्ग जिगीषवः ।
तपसस् तपसो अग्र्यम् तु पावमानीर् ऋचो जपेत् ।१७
पावमानम् परम् ब्रह्म ये पठन्ति मनीषिणः ।
सप्त जन्म भवेद् विप्रो धनाढ्यो वेद पारगः । १८
दशोत्तराण्य् ऋचाम् चैतत् पावमानीः शतानि षट् ।
एतज् जुह्वम् जपंश् चैव घोरम् मृत्यु भयम् जयेत् । १९
पावमानम् परम् ब्रह्म शुक्र ज्योतिः सनातनम् ।
ऋषींस् तस्योपतिष्ठेत क्षीरम् सर्पिर् मधूदकम् । २०

३,१० १ यन् मे गर्भे वसतः पापम् उग्रम् यज् जायमानस्य च किंचिद् अन्यत् ।
३,१० १ जातस्य च यच् चापि च वर्धतो मे तत् पावमानीभिर् अहम् पुनामि । ( प् ९६ )
३,१० २ माता पित्रोर् यन् न कृतम् वचो मे यत् स्थावरम् जङ्गमम् आबभूव ।
३,१० २ विश्वस्य यत् प्रहृषितम् वचो मे तत् पावमानीभिर् अहम् पुनामि ।
३,१० ३ क्रय विक्रयाद् योनि दोषाद् भक्षाद् भोज्यात् प्रतिग्रहात् ।
३,१० ३ असम्भोजनाच् चापि नृशंसम् तत् पावमानीभिर् अहम् पुनामि ।
३,१० ४ गोघ्नात् तस्करत्वात् स्त्री वधाद् यच् च किल्बिषम् ।
३,१० ४ पापकम् च चरणेभ्यस् तत् पापवानीभिर् अहम् पुनामि ।
३,१० ५ ब्रह्म वधात् सुरा पानात् सुवर्ण स्तेयाद् वृषलि मिथुन संगमात् ।
३,१० ५ गुरोर् दाराभिगमनाच् च तत् पापवानीभिर् अहम् पुनामि ।
३,१० ६ बालघ्नान् मातृ पितृ वधाद् भूमि तस्करात् सर्व वर्ण गमन मिथुन संगमात् ।
३,१० ६ पापेभ्यश् च प्रतिग्रहात् सद्यः प्रहरन्ति सर्व दुष्कृतम् तत् पावमानीभिर् अहम् पुनामि ।
३,१० ७ अमन्त्रम् अन्नम् यत् किंचिद्द् हूयते च हुताशने ।
३,१० ७ संवत्सर कृतम् पापम् तत् पावमानीभिर् अहम् पुनामि ।
३,१० ८ दुर्यष्टम् दुरधीतम् पापम् यच् चाज्ञानतो कृतम् ।
३,१० ८ अयाजिताश् चासम्याज्यास् तत् पावमानीभिर् अहम् पुनामि ।
३,१० ९ ऋतस्य योनयो अमृतस्य धाम सर्वा देवेभ्यः पुण्य गन्धा ।
३,१० ९ ता नापः प्रवहन्तु पापम् श्र्द्धा गच्छामि सुकृताम् उ लोकम् तत् पावमानीभिर् अहम् पुनामि ।
३,१० १० १० = व्स् ५ देस्ंस्
३,१० १११४ = व्स्स् १४ देस्ंस्॑ १५=ओबिगें व्स् ६ देस्ंस्
३,१० १६ पावमानीम् पितॄन् देवान् ध्यायेद् यश् च सरस्वतीम् ।
३,१० १६ पितॄंस् तस्योपतिष्ठेत क्षीरम् सर्पिर् मधूदकम् ।
३,१० १७ ऋषयस् तु तपस् तेपुः सर्वे स्वर्ग जिगीषवः ।
३,१० १७ तपसस् तपसो अग्र्यम् तु पावमानीर् ऋचो जपेत् ।
३,१० १८ पावमानम् परम् ब्रह्म ये पठन्ति मनीषिणः ।
३,१० १८ सप्त जन्म भवेद् विप्रो धनाढ्यो वेद पारगः ।
३,१० १९ दशोत्तराण्य् ऋचाम् चैतत् पावमानीः शतानि षट् ।
३,१० १९ एतज् जुह्वम् जपंश् चैव घोरम् मृत्यु भयम् जयेत् ।
३,१० २० पावमानम् परम् ब्रह्म शुक्र ज्योतिः सनातनम् ।
३,१० २० ऋषींस् तस्योपतिष्ठेत क्षीरम् सर्पिर् मधूदकम् ।
( प् ९७ )

3.11
इडैव ( वाम् अनुवस्ताम् घृतेन यस्याः पदे पुन ) ते ( पुनते ) देवयन्तः ।
घृत पदी शक्वरी सोम पृष्ठोप यज्ञम् अस्थित वैश्वदेवी ।
वैश्वदेवी पुनती देव्य् आ ( गाअद् ( आगाद् ) यस्याम् इमा बह्व्यस् त ) न्वो ( तन्वो ) वीत पृष्ठाः ।
तया मदन्तस् सध माध्येषु वयम् स्याम पतयो रयिणाम् ।
प्र तु द्रव परि कोशन् निषीद ॥१७


३,११ १ इडैव ( वाम् अनुवस्ताम् घृतेन यस्याः पदे पुन ) ते ( पुनते ) देवयन्तः ।
३,११ १ घृत पदी शक्वरी सोम पृष्ठोप यज्ञम् अस्थित वैश्वदेवी ।
३,११ २ वैश्वदेवी पुनती देव्य् आ ( गाअद् ( आगाद् ) यस्याम् इमा बह्व्यस् त ) न्वो ( तन्वो ) वीत पृष्ठाः ।
३,११ २ तया मदन्तस् सध माध्येषु वयम् स्याम पतयो रयिणाम् ।
३,११ २ प्र तु द्रव परि कोशन् निषीद ॥१७

3.12
यत्र लोक्यास् तनु त्यजाश् श्रद्धया तपसा जिताः ।
तेजश् च यत्र ब्रह्म च तत्र माम् अमृतम् कृधीन्द्रायेन्दो परिस्रव । ( प् ९८ )
यत्र देवा महात्मानस् सेन्द्रस् ( सेन्द्रस् ) समरुद् गणाः ।
ब्रह्मा च यत्र विष्णुश् च तत्र माम् अमृतम् कृधीन्द्रायेन्दो परिस्रव ।
यत्र तत् परमम् पदम् विष्णोर् लोके महीयते ।
देवैस् सुकृत कर्मभिस् तत्र माम् अमृतम् कृधीन्द्रायेन्दो परिस्रव ।
यत्रानन्दाश् च मोदाश् च ॥१८

३,१२ १ यत्र लोक्यास् तनु त्यजाश् श्रद्धया तपसा जिताः ।
३,१२ १ तेजश् च यत्र ब्रह्म च तत्र माम् अमृतम् कृधीन्द्रायेन्दो परिस्रव । ( प् ९८ )
३,१२ २ यत्र देवा महात्मानस् सेन्द्रस् ( सेन्द्रस् ) समरुद् गणाः ।
३,१२ २ ब्रह्मा च यत्र विष्णुश् च तत्र माम् अमृतम् कृधीन्द्रायेन्दो परिस्रव ।
३,१२ ३ यत्र तत् परमम् पदम् विष्णोर् लोके महीयते ।
३,१२ ३ देवैस् सुकृत कर्मभिस् तत्र माम् अमृतम् कृधीन्द्रायेन्दो परिस्रव ।
यत्रानन्दाश् च मोदाश् च ॥१८

3.13
सस्रुषीस् तद् अपसो दिवा नक्तम् च सस्रुषीः ।
वरेण्य क्रतुर् अहम् आ देवीर् अवसा हुवे ।
ओ चित् सखायम् सख्या ववृत्याम् ॥१९ ( प् ९९ )


३,१३ १ सस्रुषीस् तद् अपसो दिवा नक्तम् च सस्रुषीः ।
३,१३ १ वरेण्य क्रतुर् अहम् आ देवीर् अवसा हुवे ।
३,१३ १ ओ चित् सखायम् सख्या ववृत्याम् ॥१९ ( प् ९९ )

3.14
एहीन्द्र वसुमता रथेन साकम् सोमम् अपिबन् मदाय ।
हृत्सु पीत्वा मन्दसानो मरुद्भिस् स्तीर्णम् याहि वृत्र हत्याय वज्री ।
इन्द्र सोमम् इमम् पिब ॥२० ( प् १०० )

३,१४ १ एहीन्द्र वसुमता रथेन साकम् सोमम् अपिबन् मदाय ।
३,१४ १ हृत्सु पीत्वा मन्दसानो मरुद्भिस् स्तीर्णम् याहि वृत्र हत्याय वज्री ।
३,१४ १ इन्द्र सोमम् इमम् पिब ॥२० ( प् १०० )

3.15
मम व्रते हृदयम् ते दधामि मम चित्तम् अनु चित्तम् तेऽस्तु ।
मम वाचम् एक व्रता जुषस्व बृहस्पतिस् त्वा नियुनक्तु मह्यम् ।
धाता त्वा मह्यम् अददन् मह्यम् धाता दधातु त्वा ।
प्र धाता त्वा मह्यम् प्रायच्छन् मह्यम् त्वानुमतिर् ददौ ।
अनुमतेनु मन्यस्व स्वानुमतेनु मन्यस्व ।
मह्यम् एनम् सम् आकुरु वाचा चक्षुषा मनसा मयि सम्यतम् ।
आहरयत् ते हृदयम् तद् अस्तु हृदयम् मम ।
अथो यन् मम हृदयम् तद् अस्तु हृदयम् तव ।
हृदयेन हृदयम् प्राणेन प्राणम् अगृभम् ।
गृभ्णामि चक्षुषा चक्षुर् गृभ्णामि मनसा मनः ।
आकूतम् चित्तम् चक्षुश् श्रोत्रम् अथो बलम् ।
श्रियम् याम् देवा जग्मुस् तया बध्नामि ते मनः ।
अन्नमयेन मणिना प्राण सूत्रेण पृश्निना ।
बध्नामि सत्य ग्रथिना हृदयम् च मनश् च ते ।
आवर्तनम् निवर्तनम् मया संवननम् तव ।
इन्द्राग्न्यश्विनोभा त्वष्टा धाता च चक्रतुः ।
येन चित्तेन वदसि येन त्वान्यो अभिदासति ।
सर्वम् तद् अग्नाभर मह्यम् दासाय राध्यः ।
अनुवनम् सुवनम् उद्वनम् वनम् ।
घर्मस्य पश्य रूपाणि तेन बध्नामि ते मनः ॥२२ ( प् १०० )
सम् मा विशन्तु पशवस् सम् मा विशन्त्व् ओषधीः ।
सम् मा विशन्तु राजानो यथाहम् कामये तथा ।
अनन्त रोहम् तुभ्यम् भूयासम् हृदयम् मे भूयासम् अनन्तरम् ।
सभा सम् आसाव् इतुश् चावताम् उभे प्रजापतेर् दुहितारौ सचेतसौ ।
संगथेषु पदे चारु नमो वैश्वानरायाधि ।
( ) य पदेन ता ते प्राणान् समाददे ।
अथो एतत् समाददे यद् अन्येषु जनेषु च ।
अहम् ते चक्षुषा चक्षुर् अहम् ते मनसा मनः ।
अहम् गन्धर्व रूपेण सनावर्तयामि ते ।२३
हत चित्तो हत मनो हतो अन्येषु ते मनः ।
सर्वेषु कृष्ण केशेषु हतो अन्येषु ते मनः ।
माम् चैव पश्य सूर्यम् च मा तृतीयम् कदाचन ।
स्मृतिर् असि काम संजननी मयि ते कामो अस्तु ।
यत् ते मनो वरेण्यम् लोकेषु बहुधा कृतम् ।
समुद्रम् इव सरितस् सर्वम् त्वानुवर्तयामसि ।
आदीपयामि ते हृदयम् अग्ना मे व प्रदीपयामसि ।
एष ते हृदयेङ्गारो दीप्तस् तेऽस्मि दह्यसे ।
मया ते दह्यमानस्याग्निर् दांसेन न तृप्यतु भूमिर् दांसेन तृप्यतु ॥२४
चित्तम् च ते मनश् च ते मयि धाता नियच्छतु ।
मयि ते चित्तम् आयत्तम् मनस् ते मयि समश्नुते ।
आवृतास् ते मया प्रा (
२५ ब्लन्क्
नष्टम् ते कृपम् अन्यस्मिन् मयि ते रमताम् मनः ।
अनु ( ) मनः ।
चक्षुश् श्रोत्रम् चाधीतम् च सर्वम् तेऽहम् आददे ।
हृद्यर्षिर् अजायत दे ( ) । ( प् १०१ )
तद् एवैष्व् अदधुर् हृदयेष्व् अर्थ दर्शिनम् ।
सर्वज्ञम् सर्व दर्शिनम् स नः कर्माणि साधय ।
ये ( ) स्तव जातवेदः प्रविष्टाग्निर् दुर्हृदयस्य कर्म ।
तेषाम् अहम् भागधेयम् जुहोमि तम् मा देवास् सर्वैः कामैस् तर्पयन्ताम् ।
भृगूणाम् अङ्गिरसाम् तपसो गृण सम्यतम् ।
कुशिकाभ्यवराणाम् च मनावर्तयामि ते ।
यत् ते मनो वरेण्यम् लोकेषु बहुधा कृतम् ।
तत् तावर्तयामस्य् अध्रिश् चाहश् च ब्राह्मणः ।
यत् कक्षीवान् संवननम् पुत्रो अङ्गिरसाम् अवेत् ।
तेन नो अद्य विश्वे देवास् सम् प्रियाम् सम् अवीवनन् ॥२६ ( प् १०२ )


३,१५ १ मम व्रते हृदयम् ते दधामि मम चित्तम् अनु चित्तम् तेऽस्तु ।
३,१५ १ मम वाचम् एक व्रता जुषस्व बृहस्पतिस् त्वा नियुनक्तु मह्यम् ।
३,१५ २ धाता त्वा मह्यम् अददन् मह्यम् धाता दधातु त्वा ।
३,१५ २ प्र धाता त्वा मह्यम् प्रायच्छन् मह्यम् त्वानुमतिर् ददौ ।
३,१५ ३ अनुमतेनु मन्यस्व स्वानुमतेनु मन्यस्व ।
३,१५ ३ मह्यम् एनम् सम् आकुरु वाचा चक्षुषा मनसा मयि सम्यतम् ।
३,१५ ४ आहरयत् ते हृदयम् तद् अस्तु हृदयम् मम ।
३,१५ ४ अथो यन् मम हृदयम् तद् अस्तु हृदयम् तव ।
३,१५ ५ हृदयेन हृदयम् प्राणेन प्राणम् अगृभम् ।
३,१५ ५ गृभ्णामि चक्षुषा चक्षुर् गृभ्णामि मनसा मनः ।
३,१५ ६ आकूतम् चित्तम् चक्षुश् श्रोत्रम् अथो बलम् ।
३,१५ ६ श्रियम् याम् देवा जग्मुस् तया बध्नामि ते मनः ।
३,१५ ७ अन्नमयेन मणिना प्राण सूत्रेण पृश्निना ।
३,१५ ७ बध्नामि सत्य ग्रथिना हृदयम् च मनश् च ते ।
३,१५ ८ आवर्तनम् निवर्तनम् मया संवननम् तव ।
३,१५ ८ इन्द्राग्न्यश्विनोभा त्वष्टा धाता च चक्रतुः ।
३,१५ ९ येन चित्तेन वदसि येन त्वान्यो अभिदासति ।
३,१५ ९ सर्वम् तद् अग्नाभर मह्यम् दासाय राध्यः ।
३,१५ १० अनुवनम् सुवनम् उद्वनम् वनम् ।
३,१५ १० घर्मस्य पश्य रूपाणि तेन बध्नामि ते मनः ॥२२ ( प् १०० )
३,१५ ११ सम् मा विशन्तु पशवस् सम् मा विशन्त्व् ओषधीः ।
३,१५ ११ सम् मा विशन्तु राजानो यथाहम् कामये तथा ।
३,१५ १२ अनन्त रोहम् तुभ्यम् भूयासम् हृदयम् मे भूयासम् अनन्तरम् ।
३,१५ १३ सभा सम् आसाव् इतुश् चावताम् उभे प्रजापतेर् दुहितारौ सचेतसौ ।
३,१५ १३ संगथेषु पदे चारु नमो वैश्वानरायाधि ।
३,१५ १४ ( ) य पदेन ता ते प्राणान् समाददे ।
३,१५ १४ अथो एतत् समाददे यद् अन्येषु जनेषु च ।
३,१५ १५ अहम् ते चक्षुषा चक्षुर् अहम् ते मनसा मनः ।
३,१५ १५ अहम् गन्धर्व रूपेण सनावर्तयामि ते ।२३
३,१५ १६ हत चित्तो हत मनो हतो अन्येषु ते मनः ।
३,१५ १६ सर्वेषु कृष्ण केशेषु हतो अन्येषु ते मनः ।
३,१५ १७ माम् चैव पश्य सूर्यम् च मा तृतीयम् कदाचन ।
३,१५ १८ स्मृतिर् असि काम संजननी मयि ते कामो अस्तु ।
३,१५ १८ यत् ते मनो वरेण्यम् लोकेषु बहुधा कृतम् ।
३,१५ १९ समुद्रम् इव सरितस् सर्वम् त्वानुवर्तयामसि ।
३,१५ १९ आदीपयामि ते हृदयम् अग्ना मे व प्रदीपयामसि ।
३,१५ २० एष ते हृदयेङ्गारो दीप्तस् तेऽस्मि दह्यसे ।
३,१५ २० मया ते दह्यमानस्याग्निर् दांसेन न तृप्यतु भूमिर् दांसेन तृप्यतु ॥२४
३,१५ २१ चित्तम् च ते मनश् च ते मयि धाता नियच्छतु ।
३,१५ २१ मयि ते चित्तम् आयत्तम् मनस् ते मयि समश्नुते ।
३,१५ २२ आवृतास् ते मया प्रा (
३,१५ २२ २५ ब्लन्क्
३,१५ २६ नष्टम् ते कृपम् अन्यस्मिन् मयि ते रमताम् मनः ।
३,१५ २६ अनु ( ) मनः ।
३,१५ २७ चक्षुश् श्रोत्रम् चाधीतम् च सर्वम् तेऽहम् आददे ।
३,१५ २७ हृद्यर्षिर् अजायत दे ( ) । ( प् १०१ )
३,१५ २८ तद् एवैष्व् अदधुर् हृदयेष्व् अर्थ दर्शिनम् ।
३,१५ २८ सर्वज्ञम् सर्व दर्शिनम् स नः कर्माणि साधय ।
३,१५ २९ ये ( ) स्तव जातवेदः प्रविष्टाग्निर् दुर्हृदयस्य कर्म ।
३,१५ २९ तेषाम् अहम् भागधेयम् जुहोमि तम् मा देवास् सर्वैः कामैस् तर्पयन्ताम् ।
३,१५ ३० भृगूणाम् अङ्गिरसाम् तपसो गृण सम्यतम् ।
३,१५ ३० कुशिकाभ्यवराणाम् च मनावर्तयामि ते ।
३,१५ ३१ यत् ते मनो वरेण्यम् लोकेषु बहुधा कृतम् ।
३,१५ ३१ तत् तावर्तयामस्य् अध्रिश् चाहश् च ब्राह्मणः ।
३,१५ ३२ यत् कक्षीवान् संवननम् पुत्रो अङ्गिरसाम् अवेत् ।
३,१५ ३२ तेन नो अद्य विश्वे देवास् सम् प्रियाम् सम् अवीवनन् ॥२६ ( प् १०२ )

3.16
उत्तुदैनम् गृहपते ज्ञातेभ्यश् शयनाद् अधि ।
ग्रीवा गृहीत्वोत्तिष्ठ पादतो न विवेशय ।
उत् खाद् उदन्तु मरुतोत् समुद्राम् अतो दधि ।
क्रत्वायम् अग्निर् दहतु क्रत्वा तपतु सूर्यः ।
काम शय्यार्थेऽभितप्ताम् यथा स्त्रियम् शोषयसि ।
एवम् शोषय नो रातीर् दिवा नक्तम् दशस्यतम् ।
इमाम् मे मित्रावरुणौ कृधि चित्तेन व्यस्यताम् ।
दत्त्वा पीत्वाग्रतः कृत्वा यथास्याम् देवशो वशे ।
परान् कृणुष्व दासान् देवी वशान् अन्ववायिनः ॥
अधिष्ठाय पदा मूर्ध्नि सान्वयम् शाश्वतीस् समा ॥२७
ऋतुभिस् त्वार्तवेभिर् आयुषा सह वर्चसा ।
संवत्सरस्य तेजसा तेन मा सह शुन्धत ।
अनेन ब्रह्मणाग्ने त्वम् अयम् चेन्द्रो नेडितः ।
संराजम् चाधिपत्यम् च स्वानाम् कृणु तम् उत्तमम् ।
अग्ने निजहि संहितान् इषून् मर्मणि मर्मणि ।
खादिरम् हृदि शङ्कुम् नो द्विषतो न विवेशय ।
सत्येनोत्तभिता भूमिः ॥२८ ( प् १०३ )


३,१६ १ उत्तुदैनम् गृहपते ज्ञातेभ्यश् शयनाद् अधि ।
३,१६ १ ग्रीवा गृहीत्वोत्तिष्ठ पादतो न विवेशय ।
३,१६ २ उत् खाद् उदन्तु मरुतोत् समुद्राम् अतो दधि ।
३,१६ २ क्रत्वायम् अग्निर् दहतु क्रत्वा तपतु सूर्यः ।
३,१६ ३ काम शय्यार्थेऽभितप्ताम् यथा स्त्रियम् शोषयसि ।
३,१६ ३ एवम् शोषय नो रातीर् दिवा नक्तम् दशस्यतम् ।
३,१६ ४ इमाम् मे मित्रावरुणौ कृधि चित्तेन व्यस्यताम् ।
३,१६ ४ दत्त्वा पीत्वाग्रतः कृत्वा यथास्याम् देवशो वशे ।
३,१६ ५ परान् कृणुष्व दासान् देवी वशान् अन्ववायिनः ॥
३,१६ ५ अधिष्ठाय पदा मूर्ध्नि सान्वयम् शाश्वतीस् समा ॥२७
३,१६ ६ ऋतुभिस् त्वार्तवेभिर् आयुषा सह वर्चसा ।
३,१६ ६ संवत्सरस्य तेजसा तेन मा सह शुन्धत ।
३,१६ ७ अनेन ब्रह्मणाग्ने त्वम् अयम् चेन्द्रो नेडितः ।
३,१६ ७ संराजम् चाधिपत्यम् च स्वानाम् कृणु तम् उत्तमम् ।
३,१६ ८ अग्ने निजहि संहितान् इषून् मर्मणि मर्मणि ।
३,१६ ८ खादिरम् हृदि शङ्कुम् नो द्विषतो न विवेशय ।
३,१६ ९ सत्येनोत्तभिता भूमिः ॥२८ ( प् १०३ )

3.17
ध्रुवैधि पोष्या मयि मह्यन् त्वादाद् बृहस्पतिः ।
या पत्या प्रजावती संजीव शरदश् शतम् ।
वि हि सोतोर् असृक्षत ॥२९


३,१७ ध्रुवैधि पोष्या मयि मह्यन् त्वादाद् बृहस्पतिः ।
३,१७ मया पत्या प्रजावती संजीव शरदश् शतम् ।
३,१७ वि हि सोतोर् असृक्षत ॥२९

अविधवा भव वर्षाणि शतम् साग्रम् तु सुव्रता ।
तेजस्वी च यशस्वी च धर्म पत्नी पति व्रता ।
जनयद् बहु पुत्राणि मा च दुह्खम् लभेत् क्वचित् ।
भर्ता ते सोमपा नित्यम् भवेद् धर्म परायणः ।
अष्ट पुत्रा भव त्वम् च सुभगा च पति व्रता ।
भर्तुश् चैव पितुर् भ्रातुर् हृदयानन्दिनी सदा ।
इन्द्रस्य तु यथेन्द्राणी श्रीधरस्य यथा श्रिया ।
शंकरस्य यथा गौरी तद् भर्तुर् अपि भर्तरि ।
अत्रेर् यथानुसूया स्याद् वसिष्ठस्याप्य् अरुन्धती ।
कौशिकस्य यथा सती तथा त्वम् अपि भर्तरि ॥


३,१७ १ अविधवा भव वर्षाणि शतम् साग्रम् तु सुव्रता ।
३,१७ १ तेजस्वी च यशस्वी च धर्म पत्नी पति व्रता ।
३,१७ २ जनयद् बहु पुत्राणि मा च दुह्खम् लभेत् क्वचित् ।
३,१७ २ भर्ता ते सोमपा नित्यम् भवेद् धर्म परायणः ।
३,१७ ३ अष्ट पुत्रा भव त्वम् च सुभगा च पति व्रता ।
३,१७ ३ भर्तुश् चैव पितुर् भ्रातुर् हृदयानन्दिनी सदा ।
३,१७ ४ इन्द्रस्य तु यथेन्द्राणी श्रीधरस्य यथा श्रिया ।
३,१७ ४ शंकरस्य यथा गौरी तद् भर्तुर् अपि भर्तरि ।
३,१७ ५ अत्रेर् यथानुसूया स्याद् वसिष्ठस्याप्य् अरुन्धती ।
३,१७ ५ कौशिकस्य यथा सती तथा त्वम् अपि भर्तरि ॥

3.18
एकैवाग्निर् बहुधा समिद्धैकस् सूर्यो विश्वम् अनु प्रभूतम् ।
एकैवोषास् सर्वम् इदम् विभात्य् एकैवेडम् विबभूव सर्वम् । ( प् १०४ )
यम् ऋत्विजो बहुधा कल्पयन्तस् सचेतसो यज्ञम् इमम् वहन्ति ।
यो अनूचानो ब्राह्मणो युक्तास्ते का स्वित् तत्र यजमानस्य संवित् ।
यावन् मात्रम् उषसो न प्रतीकम् ॥३०


३,१८ १ एकैवाग्निर् बहुधा समिद्धैकस् सूर्यो विश्वम् अनु प्रभूतम् ।
३,१८ १ एकैवोषास् सर्वम् इदम् विभात्य् एकैवेडम् विबभूव सर्वम् । ( प् १०४ )
३,१८ २ यम् ऋत्विजो बहुधा कल्पयन्तस् सचेतसो यज्ञम् इमम् वहन्ति ।
३,१८ २ यो अनूचानो ब्राह्मणो युक्तास्ते का स्वित् तत्र यजमानस्य संवित् ।
३,१८ २ यावन् मात्रम् उषसो न प्रतीकम् ॥३०

3.19
उद् अपप्तम वसतेर् वयो यथा रिणन्त्व् आ भृगवो मन्यमानाः ।
पुरूरवः पुनर् अस्तम् परेहि यामे मनो देव जनायात् स्वः । प्र ते महे विदथे शंसिषम् हरी ॥३१ ( प् १०५ )


३,१९ १ उद् अपप्तम वसतेर् वयो यथा रिणन्त्व् आ भृगवो मन्यमानाः ।
३,१९ १ पुरूरवः पुनर् अस्तम् परेहि यामे मनो देव जनायात् स्वः । प्र ते महे विदथे शंसिषम् हरी ॥३१ ( प् १०५ )

3.20
यद् ( ) यद् अकृतम् यद् एनस् चकृमा वयम् ।
ओषधयस् तस्मात् पान्तु दुरिताद् एनसस् परि ।
बृहस्पते प्रति मे देवताम् इहि ॥३२ ( प् १०५ )


३,२० यद् ( ) यद् अकृतम् यद् एनस् चकृमा वयम् ।
३,२० ओषधयस् तस्मात् पान्तु दुरिताद् एनसस् परि ।
३,२० बृहस्पते प्रति मे देवताम् इहि ॥३२ ( प् १०५ )

3.21
असौ या सेना मरुतः परेषाम् अभ्यैति नौजसा स्पर्धमाना ।
ताम् गूहत तमसापव्रतेन यथामीषाम् अन्यो अन्यन् ना जानात् ।
अन्धामित्रा भवताशीर्षाणो अहयेव ।
तेषाम् वो अग्नि दग्धानाम् इन्द्रो हन्तु वरम् वरम् ॥३३


३,२१ १ असौ या सेना मरुतः परेषाम् अभ्यैति नौजसा स्पर्धमाना ।
३,२१ १ ताम् गूहत तमसापव्रतेन यथामीषाम् अन्यो अन्यन् ना जानात् ।
३,२१ २ अन्धामित्रा भवताशीर्षाणो अहयेव ।
३,२१ २ तेषाम् वो अग्नि दग्धानाम् इन्द्रो हन्तु वरम् वरम् ॥३३

3.22
ब्रह्म जज्ञानम् प्रथमम् पुरस्तात् वि सीमतस् सुरुचो वेनावः ।
स बुध्न्योपमास्य विष्ठास् सतश् च योनिम् असतश् च विवः ।
इयम् पित्रे राष्ट्र्य् एत्य् अग्रे प्रथमाय जनुषे भूमनेष्ठाः ।
तस्मैतम् सुरुचम् ह्वारमह्यम् घर्मम् श्रीणन्ति प्रथमाय धासेः ।
महान् मह्यस्तभयद् विजातो द्याम् पिता सद्म पार्थिवम् च रजः ।
स बुध्न्याद् आष्ट जनुषाभ्य् उग्रम् बृहस्पतिर् देवता तस्य सम्राट् ।३
अभि त्यम् देवम् सवितारम् ओण्योः कविक्रतुम् अर्चामि सत्य सवम् रत्नधाम् अभि प्रियम् मतिम् कविम् ।
ऊर्ध्वा यस्यामतिर्भा अदिद्युतत् सवीमनि हिरण्यपाणिर् अमिमीत सुक्रतुः कृपा स्वः ॥३४
ता सूर्या चन्द्रमसा गातुवित्तमा महत् तेजो वसुमद् भ्राजतो दिवि ।
सामात्मना चरतस् साम चारिणा ययोर् व्रतम् न वसे जातु देवयोः ।
उभाव् अन्तौ परियातार्म्या दिवो न रश्मींस् तनुतो व्य् अर्णवे ।
उभा भुवन्ती भुवना कवि क्रतू सूर्या न चन्द्रा चरतो हतामती ।
पती द्युमद् विश्वविदोभा दिवस् सूर्योभा चन्द्रमसा विचक्षणा ।
विश्ववारा वरिवोभा वरेण्या ता नो अवतम् मतिमन्ता महिव्रता ।
विश्ववपरी प्रतरणा तरन्ता सुवर्विदा दृशये भूरिरश्मी ।
सूर्या हि चन्द्रा वसु त्वे ) षदर्शता ( त्वेष दर्शता ) मनस्विनोभानुचरतो नु सन् दिवम् ॥३५
अस्य श्रवो नद्यस् सप्त बिभ्रति द्यावा क्षामा पृथिवी दर्शतम् वपुः ।
अस्मे सूर्या चन्द्रमसाभिचक्षे श्रद्धे कम् इन्द्र चरतो वितर्तुरम् ।
पूर्वापरम् चरतो माययैतौ शिशू क्रीडन्तौ परि यातो अध्वरम् ।
विश्वान्य् अन्यो भुवनाभिचष्टर्तूंर् अन्यो विदधज् जायते पुनः ।
असावि सोमः पुरु हूत तुभ्यम् ॥३६ ( प् १०७ )


३,२२ १ ब्रह्म जज्ञानम् प्रथमम् पुरस्तात् वि सीमतस् सुरुचो वेनावः ।
३,२२ १ स बुध्न्योपमास्य विष्ठास् सतश् च योनिम् असतश् च विवः ।
३,२२ २ इयम् पित्रे राष्ट्र्य् एत्य् अग्रे प्रथमाय जनुषे भूमनेष्ठाः ।
३,२२ २ तस्मैतम् सुरुचम् ह्वारमह्यम् घर्मम् श्रीणन्ति प्रथमाय धासेः ।
३,२२ ३ महान् मह्यस्तभयद् विजातो द्याम् पिता सद्म पार्थिवम् च रजः ।
३,२२ ३ स बुध्न्याद् आष्ट जनुषाभ्य् उग्रम् बृहस्पतिर् देवता तस्य संराट् ।
३,२२ ४ अभि त्यम् देवम् सवितारम् ओण्योः कवि क्रतुम्
३,२२ ४ { अर्चामि सत्य सवम् रत्नधाम् अभि प्रियम् मतिम् कविम् । ( प् १०६ )
३,२२ ४ { ऊर्ध्व यस्यामतिर् भादिद्युतत् सवीमनि
३,२२ ४ { हिरण्य पाणिर् अमिमीत सुक्रतुः कृपा स्वः ॥३४
३,२२ ५ ता सूर्या चन्द्रमसा गातुवित्तमा महत् तेजो वसुमद् भ्राजतो दिवि ।
३,२२ ५ सामात्मना चरतस् साम चारिणा ययोर् व्रतम् न वसे जातु देवयोः ।
३,२२ ६ ( उभाव् अन्तौ परियातार्म्या दिवो न रश्मींस् तनुतो व्य् अर्णवे ।
३,२२ ६ उभा भुवन्ती भुवना कवि क्रतू सूर्या न चन्द्रा चरतो हतामती ।
३,२२ ७ पती द्युमद् विश्वविदोभा दिवस् सूर्योभा चन्द्रमसा विचक्षणा ।
३,२२ ७ विश्व वारा वरिवोभा वरेण्या ता ) नो अवतम् मतिमन्ता महि व्रता ।
३,२२ ८ विश्व वपरी प्रत ( रणा ( प्रतरणा ) तरन्ता सुवर्विदा दृशये भूरि रश्मी ।
३,२२ ८ सूर्या हि चन्द्रा वसु त्वे ) षदर्शता ( त्वेष दर्शता ) मनस्विनोभानुचरतो नु सन् दिवम् ॥३५
३,२२ ९ अस्य श्रवो नद्यस् सप्त बिभ्रति द्यावा क्षामा पृथिवी दर्शतम् वपुः ।
३,२२ ९ अस्मे सूर्या चन्द्रमसाभिचक्षे श्रद्धे कम् इन्द्र चरतो वितर्तुरम् ।
३,२२ १० पूर्वापरम् चरतो माययैतौ शिशू क्रीडन्तौ परि यातो अध्वरम् ।
३,२२ १० विश्वान्य् अन्यो भुवनाभिचष्टर्तूंर् अन्यो विदधज् जायते पुनः ।
३,२२ १० असावि सोमः पुरु हूत तुभ्यम् ॥३६ ( प् १०७ )