ऋग्वेदः खिलसूक्तानि/अध्यायः २

विकिस्रोतः तः
Jump to navigation Jump to search

ईई आध्याय
ओं मैका भद्रं पञ्चानुष्टुभो जागर्ष्येका जातवेदस्यं स्वस्त्ययनं द्वे वर्षन्त्वेका हिरण्यवर्णामेकोना श्रीर्भार्गवी श्रीरलक्ष्मीघ्नं श्रैय्यमानुष्टुभं वै शक्वर्यन्तं हिंसाग्नेयी चतुर्थी प्रस्तारपङ्क्तिस्त्रिष्टुभौ पञ्चदश्युपरिष्टाद्बृहती श्रीः पुत्राः परे षट् चिक्लीतः पञ्चानन्दकर्दमौ वैश्वदेवं मयि श्लेषः श्लेषो रूपो जातवेदस्यं बृहत्यादि सं स्रवन्त्विति संस्रवान् वैश्वदेवं द्वितीयादि त्रिष्टुभौ आ ते सप्त प्रजावान् गर्भार्थाशीस्तुतिः प्रजापतिरैन्द्रवायव्यौ चतुर्थी बृहती पञ्चमी प्रस्तारपङ्क्तिरग्निः पञ्च जीवपुत्र आग्निवारुणमतिजगत्यानुष्टुप् त्रिष्टुबन्तं चक्षुरेकात्मस्तुतिः शंवतीः षट् शान्तिरानुष्टुभं पञ्चम्यादि बृहती जगत्यौ स्वप्नेका यस्योपानुष्टुप् वालखिल्याः परेऽष्टौ ।

 ( Kहिल, ईई आनुक् )
ओम् < मा > एका < भद्रम् > पञ्चानुष्टुभो < जागर्ष्य् > एका जातवेदस्यम् < स्वस्त्ययनम् > द्वे < वर्षन्त्व् > एका < हिरण्य वर्णाम् > एकोना श्रीर् भार्गवी श्रीर् अलक्ष्मीघ्नम् श्रैयम् आनुष्टुभम् वै शक्वर्य् अन्तम् हिंसाग्नेयी चतुर्थी प्रस्तार पङ्क्तिस् त्रिष्टुभौ पञ्चदश्य् उपरिष्टाद् बृहती श्रीः पुत्राः परे षट् < चिक्लीतः > पञ्चानन्द कर्दमौ वैश्वदेवम् < मयि श्लेषश् > श्लेषो जातवेदस्यम् बृहत्य् आदि < संस्रवन्त्व् > इति संस्रवान् वैश्वदेवम् द्वितीयादि त्रि
ष्टुभाव् < आ ते > सप्त प्रजावान् गर्भार्थाशी स्तुतिः प्रजापतिर् ऐन्द्रवायव्यौ चतुर्थी बृहती पञ्चमी प्रस्तार पङ्क्तिर्
< अग्निः > पञ्च जीव पुत्राग्नि वारुणम् अतिजगत्य् आनुष्टुप् त्रिष्टुब् अन्तम् < चक्षुर् > एकात्म स्तुतिश् < शंवती > षट् शान्तिर् आनुष्टुभम् पञ्चम्य् आदि बृहती जगत्यौ < स्वप्न > एका < यस्योप > अनुष्टुब् वालखिल्याः परेष्टौ ॥

(अधोलिखितं ऋ.सं १.१९१.१० अन्ते पठनीयम्)

मा बिभेर् न मरिष्यसि परि त्वा पामि सर्वतः ।
घनेन हन्मि वृश्चिकम् अहिम् दण्डेनागतम् ।
त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिः ॥१
आदित्य रथ वेगेन विष्णोर् बाहु बलेन च ।
गरुड पक्ष निपातेन भूमिम् गच्छ महायशाः ॥२
गरुडस्य जात मात्रेण त्रयो लोकाः प्रकम्पिताः ।
प्रकम्पिता मही सर्वा सशैल वनकानना ॥३
गगनम् नष्ट चन्द्रार्कम् ज्योतिषम् न प्रकाशते ।
देवता भयभीताश् च मारुतो न प्लवायति मारुतो न प्लवायत्य् ओम् नमः ॥४
भो सर्प भद्र भद्रम् ते दूरम् गच्छ महा यशाः ।
जनमेजयस्य यज्ञान्ते आस्तीक वचनम् स्मर ॥५
आस्तीक वचनम् श्रुत्वा यः सर्पो न निवर्तते ।
शतधा भिद्यते मूर्ध्नि शिंश वृक्ष फलम् यथा ॥६
अगस्त्यो माधवश् चैव मुचुकुन्दो महामुनिः ।
कपिलो मुनिरास्तीकः पञ्चैते सुखशायिनः ॥७
नर्मदायै नमः प्रातर् नर्मदायै नमो निशि ।
नमो अस्तु नर्मदे तुभ्यम् त्राहि माम् विषसर्पतः ॥८
यो जरत्कारुणा जातो जरत् कन्याम् महायशाः ।
तस्य सर्पो अपि भद्रम् ते दूरम् गच्छ महायशाः ।
तस्य सर्पस्य सर्पत्वम् तस्मै सर्प नमो अस्तु ते ॥९

२,१ १ मा बिभेर् न मरिष्यसि परि त्वा पामि सर्वतः ।
२,१ १ घनेन हन्मि वृश्चिकम् अहिम् दण्डेनागतम् ।
२,१ १ त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिः ॥१
२,१ २ आदित्य रथ वेगेन विष्णोर् बाहु बलेन च ।
२,१ २ गरुड पक्ष निपातेन भूमिम् गच्छ महा यशाः ।
२,१ ३ गरुडस्य जात मात्रेण त्रयो लोकाः प्रकम्पिताः ।
२,१ ३ प्रकम्पिता मही सर्वा सशैल वन कानना ।
२,१ ४ गगनम् नष्ट चन्द्रार्कम् ज्योतिषम् न प्रकाशते ।
२,१ ४ देवता भय भीताश् च मारुतो न प्लवायति मारुतो न प्लवायत्य् ओम् नमः ।
२,१ ५ भो सर्प भद्र भद्रम् ते दूरम् गच्छ महा यशाः ।
२,१ ५ जनमेजयस्य यज्ञान्ते आस्तीक वचनम् स्मर ।
२,१ ६ आस्तीक वचनम् श्रुत्वा यः सर्पो न निवर्तते ।
२,१ ६ शतधा भिद्यते मूर्ध्नि शिंश वृक्ष फलम् यथा ।
२,१ ७ अगस्त्यो माधवश् चैव मुचुकुन्दो ( मुचुकुंदो ) महा मुनिः ।
२,१ ७ कपिलो मुनिर् आस्तीकः पञ्चैते सुख शायिनः ।
२,१ ८ नर्मदायै नमः प्रातर् नर्मदायै नमो निशि ।
२,१ ८ नमो अस्तु नर्मदे तुभ्यम् त्राहि माम् विष सर्पतः ।
२,१ ९ यो जरत्कारुणा जातो जरत् कन्याम् महा यशाः ।
२,१ ९ तस्य सर्पो अपि भद्रम् ते दूरम् गच्छ महा यशाः ।
२,१ ९ तस्य सर्पस्य सर्पत्वम् तस्मै सर्प नमो अस्तु ते ।


अधोलिखितं खिलसूक्तं ऋसं २.३२ अनन्तरं पठनीयमिति औंधपुस्तके--

कुहूमहं सुवृतं विद्मनापसमस्मिन्यज्ञे सुहवां जोहवीमि ।
सा नो ददातु श्रवणं पितृणां तस्यै ते देवि हविषा विधेम । । १ ।।
कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषः शृणोतु ।
सं दाशुषे किरतु भूरि वामं रायस्पोषं यजमाने दधातु ।। २ । ।
अनु नोऽद्यानुमतिर्यज्ञं देवेषु मन्यताम् । अग्निश्च हव्यवाहनो भवतं दाशुषे मयः ।। ३ । ।
अन्विदनुमते त्वं मन्यासै शं च नस्कृधि । क्रत्वे दक्षाय नो हिनु प्र ण आयूंषि तारिषत् ।। ४ ।।
धाता दधातु नो रयिमीशानो जगतस्पतिः । स नः पूर्णेन वावनत् । । ५ ।।
धाता ददातु दाशुषे वसूनि प्रजाकामाय मीळ्हुषे दुरोणे ।
तस्मै देवा अमृताः सं व्ययन्तां विश्वे देवासो अदितिः सजोषाः ।। ६ ।।
धाता ददातु दाशुषे प्राचीं जीवातुमक्षिताम् । वयं देवस्य धीमहि सुमतिं वाजिनीवतः ।। ७ ।।
धाता प्रजानामुत राय ईशे धातेदं विश्वं भुवनं जजान ।
धाता कृष्टीरनिमिवाभि चष्टे धात्र इद्धव्यं घृतवज्जुहोत ।। ८ ।।

अधोलिखितं ऋ. २.४३.२ अनन्तरं पठनीयं--

भद्रम् वद दक्षिणतो भद्रम् उत्तरतो वद ।
भद्रम् पुरस्तान् नो वद भद्रम् पश्चात् कपिञ्जल ॥१
भद्रम् वद पुत्रैर् भद्रम् वद गृहेषु च ।
भद्रम् अस्माकम् वद भद्रम् नो अभयम् वद ॥२
भद्रम् अधस्तान् नो वद भद्रम् उपरिष्टान् नो वद ।
भद्रम् भद्रम् नावद भद्रम् नस् सर्वतो वद ॥३
असपत्नम् पुरस्तान् नश् शिवम् दक्षिणतस् कृधि ।
अभयम् सततम् पश्चाद् भद्रम् उत्तरतो गृहे ॥४
यौवनानि महयसि जिग्युषाम् इव दुन्दुभिः ।
शकुन्तक प्रकक्षिणम् शत पत्राभि नो वद ॥५
आवदंस् त्वम् शकुने भद्रम् आ वद ॥ऋ. २.४३.३


२,२ १ भद्रम् वद दक्षिणतो भद्रम् उत्तरतो वद ।
२,२ १ भद्रम् पुरस्तान् नो वद भद्रम् पश्चात् कपिञ्जल ।
२,२ २ भद्रम् वद पुत्रैर् भद्रम् वद गृहेषु च ।
२,२ २ भद्रम् अस्माकम् वद भद्रम् नो अभयम् वद ।
२,२ ३ भद्रम् अधस्तान् नो वद भद्रम् उपरिष्टान् नो वद ।
२,२ ३ भद्रम् भद्रम् नावद भद्रम् नस् सर्वतो वद ।
२,२ ४ असपत्नम् पुरस्तान् नश् शिवम् दक्षिणतस् कृधि ।
२,२ ४ अभयम् सततम् पश्चाद् भद्रम् उत्तरतो गृहे ।
२,२ ५ यौवनानि महयसि जिग्युषाम् इव दुन्दुभिः ।
२,२ ५ शकुन्तक प्रकक्षिणम् शत पत्राभि नो वद ।
२,२ ५ आवदंस् त्वम् शकुने भद्रम् आ वद ॥२ ( प् ७१ )

ऋ. ५.४४ अनन्तरं पठनीयम् --

जागर्षि त्वम् भुवने जातवेदो जागर्षि यत्र यजते हविष्मान् ।
इदम् हविश् श्रद्दधानो जुहोमि तेन पासि गुह्यम् नाम गोनाम् ।
विदा दिवो विष्यन्न् अद्रिम् उक्थैः ॥ ऋ. ५.४५.१




२,३ १ जागर्षि त्वम् भुवने जातवेदो जागर्षि यत्र यजते हविष्मान् ।
२,३ १ इदम् हविश् श्रद्दधानो जुहोमि तेन पासि गुह्यम् नाम गोनाम् ।
२,३ १ विदा दिवो विष्यन्न् अद्रिम् उक्थैः ॥३

२,४ १ स्वस्त्ययनम् तार्क्ष्यम् अरिष्टनेमिम् महद् भूतम् वायसम् देवतानाम् ।
२,४ १ असुरघ्नम् इन्द्र सखम् समत्सु बृहद् यशो नावम् इवारुहेम ।
२,४ २ अंहो मुचम् आङ्गिरसम् गयम् च स्वस्त्य् आत्रेयम् मनसा च तार्क्ष्यम् । ( प् ७१ )
२,४ २ प्रयत पाणिश् शरणम् प्रपद्ये स्वस्ति सम्बाधेष्व् अभयन् नो अस्तु ।
२,४ २ प्र श्यावाश्व धृष्णुया ॥

२,५ १ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
२,५ १ रोहन्तु सर्व बीजान्य् अव ब्रह्म द्विषो जहि ।
२,५ १ प्र संराजे बृहदर्चा गभीरम् ॥५

ऋग्वेदस्य पञ्चममण्डलान्ते पठनीयानि --

हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममा वह ।१
तां म आवह जातवेदो लक्ष्मीं अनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गां अश्वं पुरुषान् अहम् ।२
अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् ।
श्रियं देवी उपह्वये श्रीर्मा देवी जुषताम् ।३
कांस्यस्मि ता हिरण्यप्रावारामार्द्रा ज्वलन्ती तृप्ता तर्पयन्तीम् ।
पद्मेस्थितां पद्मवर्णां तां इहोपह्वये श्रियम् ।४
चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टां उदाराम् ।
तं पद्मनेमिं शरणं प्रपद्येऽलक्ष्मीर् मे नश्यतां त्वां वृणोमि ॥५
आदित्यवर्णे तपसो अधि जातो वनस्पतिस् तव वृक्षो अथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु मायान्तरा याश् च बाह्या अलक्ष्मीः ।६
उपैतु माम् देवसखः कीर्तिश् च मणिना सह ।
प्रादुर्भूतो अस्मि राष्ट्रेऽस्मिन् कीर्तिम् वृद्धिम् ददातु मे ।७
क्षुत्पिपासामला ज्येष्ठाम् अलक्ष्मीं नाशयाम्यहम् ।
अभूतिम् असमृद्धिम् च सर्वान् निर्णुद मे गृहात् ।८
गन्धद्वाराम् दुराधर्षाम् नित्यपुष्टाम् करीषिणीम् ।
ईश्वरीम् सर्वभूतानाम् ताम् इहोपह्वये श्रियम् ।९
मनसः कामम् आकूतिम् वाचस् सत्यम् अशीमहि ।
पशूनाम् रूपम् अन्नस्य मयि श्रीः श्रयताम् यशः ।१०
कर्दमेन प्रजा भूता मयि सं भव कर्दम ।
श्रियम् वासय मे कुले मातरम् पद्ममालिनीम् ।११
आपः स्रवन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीम् मातरम् श्रियम् वासय मे गृहे ।१२
पक्वाम् पुष्करिणीम् पुष्टाम् पिङ्गलाम् पद्ममालिनीम् ।
सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममा वह ।१३
आर्द्राम् पुष्करिणीम् यष्टीम् सुवर्णाम् हेममालिनीम् ।
चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो ममा वह ।१४
ताम् म आवह जातवेदो लक्ष्मीम् अनपगामिनीम् ।
यस्याम् हिरण्यम् प्रभूतम् गावो दास्यो विन्देयम् पुरुषान् अहम् ॥१५
य आनन्दम् समाविशद् उपाधावन् विभावसुम् ।
श्रियः सर्वा उपासिष्व चिक्लीत वस मे गृहे ।१६
कर्दमेन प्रजा स्रष्टा सम्भूतिम् गमयामसि ।
अदधाद् उपागाद् येषाम् कामान् ससृज्महे ।१७
जातवेदः पुनीहि मा रायस्पोषम् च धारय ।
अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्वंहसः ।१८
अच्छा नो मित्रमहो देव देवान् अग्ने वोचस् सुमतिम् रोदस्योः ।
वीहि स्वस्तिम् सुक्षितिम् दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ।१९

२,६ १६ यः शुचिः प्रयतो भूत्वा जुहुयाद् आज्यम् अन्वहम् ।
२,६ १६ सूक्तम् पञ्चदशर्चम् च श्री कामः सततम् जपेत् ।
२,६ १७ पद्मानने पद्मोरू पद्माक्षी पद्म संहवे ।
२,६ १७ तन् मे भजसि पद्माक्षी येन सौख्यम् लभाम्य् अहम् ।
२,६ १८ अश्वदायै गोदायै धनदायै महा धने ।
२,६ १८ धनम् मे जुषताम् देवि सर्व कामांश् च देहि मे ।
२,६ १९ पुत्र पौत्रम् धनम् धान्यम् हस्त्य् अश्वादि गवे रथम् ।
२,६ १९ प्रजानाम् भवसि मातायुष्मन्तम् करोतु मे ।
२,६ २० धनम् अग्निर् धनम् वायुर् धनम् सूर्यो धनम् वसुः ।
२,६ २० धनम् इन्द्रो बृहस्पतिर् वरुणम् धनम् उत्सृजे ।
२,६ २१ वैनतेय सोमम् पिब सोमम् पिबतु वृत्रहा ।
२,६ २१ सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः ।
२,६ २२ न क्रोधो न च मात्सर्यम् न लोभो नाशुभा मतिः ।
२,६ २२ भवन्ति कृत पुण्यानाम् भक्तानाम् श्री सूक्तम् जपेत् ।
२,६ २३ सरसिज निलये सरोज हस्ते धवलतराम् शुभ गन्ध माल्य शोभे ।
२,६ २३ भगवति हरि वल्लभे मनोज्ञे त्रिभुवन भूति करि प्रसीद मह्यम् । ( प् ७७ )
२,६ २४ श्री वर्चस्वम् आयुष्यम् आरोग्यम् आविधात् शुभमानम् महीयते ।
२,६ २४ धान्यम् धनम् पशुम् बहु पुत्र लाभम् शत संवत्सरम् दीर्घम् आयुः ।
२,६ २५ विष्णु पत्नीम् क्षमाम् देवीम् माधवीम् माधव प्रियाम् ।
२,६ २५ लक्ष्मीम् प्रिय सखीम् देवीम् नमान्य् अच्युत वल्लभाम् ।
२,६ २६ महा लक्ष्मी च विद्महे विष्णु पत्नी च धीमहि ।
२,६ २६ तन् नो लक्ष्मीः प्रचोदयात् ।
२,६ २७ पद्मानने पद्मिनि पद्म पत्रे पद्म प्रिये पद्म दलायताक्षि ।
२,६ २७ विश्व प्रिये विश्व मनो अनुकूले त्वत् पाद पद्मम् हृदि सन्निधत्स्व ।
२,६ २८ आनन्दः कर्दमः श्रीतस् चिक्लीतेव विश्रितः ।
२,६ २८ ऋषयश् श्रियः पुत्राश् च श्रीर् देवी देव देवता । ( प् ७८ )
२,६ २९ ऋण रोगादि दारिद्र्यम् पाप क्षुद् अपमृत्यवः ।
२,६ २९ भयः शोक मनस् तापा नश्यन्तु मम सर्वदा ।

२,६ २३ चन्द्राभम् लक्ष्मीम् ईशानाम् सूर्याभम् श्रियम् ऐश्वरीम् ।
२,६ २३ चन्द्र सूर्याग्नि वर्णाभाम् महा लक्ष्मीम् उपास्महे ।
२,६ २४ वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
२,६ २४ रोहन्तु सर्व बीजान्य् अव ब्रह्म द्विषो जहि ।
२,६ २५ पद्म प्रिये पद्मिनि पद्म हस्ते पद्मानने ।
२,६ २५ विश्व प्रिये विष्णु मनो अनुकूले त्वत् पाद पद्मम् मयि सन्निधत्स्व ।
२,६ २६ या सा पद्मासनस्था विपुल कटि तटी पद्म पत्रायताक्षी गम्भीरा ।
२,६ २६ वर्त नाभि स्तन भर नमिता शुभ्र वस्त्रोत्तरीया ।
२,६ २७ लक्ष्मीर् दिव्यैर् गजेन्द्रैर् मणि गण खचितै स्नापिता हेम कुम्भैः ।
२,६ २७ नित्यम् सा पद्म हस्ता मम वसतु गृहे सर्व माङ्गल्य युक्ता ।
२,६ २८ सिद्ध लक्ष्मीर् मोक्ष लक्ष्मीर् जय लक्ष्मीः सरस्वती ।
२,६ २८ श्रीर् लक्ष्मीर् वर लक्ष्मीश् च प्रसन्ना मम सर्वदा ।
२,६ २९ वराम् कुशा पाशम् अभीतिम् उद्राम् करैर् वहन्ती कमलासनस्थाम् ।
२,६ २९ बालार्क कोटि प्रतिभाम् त्रिनेत्राम् भजेऽहम् आद्याम् जगद् ईश्वरीम् ताम् ।
२,६ ३० सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।
२,६ ३० शरधये त्र्यम्बके गौरी नारायणि नमो अस्तु ते । ( प् ७९ )

२,७ १ चिक्लीतो यस्य नाम तद् दिव नक्तम् च सुक्रतो ।
२,७ १ अस्मान् दीदास युज्याय जीवसे जातवेदः पुनन्तु माम् देव जनाः ।
२,७ २ पुनन्तु मनसा धियः पुनन्तु विश्वा भूतानि ।
२,७ २ जातवेदो यद् अस्तुतम् ।
२,७ ३ विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ।
२,७ ३ सम्भूतास्माकम् वीरा ध्रुवा ध्रुवेशु तिष्ठति ।
२,७ ४ ध्रुवा द्यौर् ध्रुवा पृथिवी ध्रुवा ध्रुवेषु तिष्ठति ।
२,७ ४ अग्नेऽच्छा यद् अस्तुतम् रायस् पोषम् च धारय ।
२,७ ५ अच्छा नो मित्र महो देव देवान् अग्ने वोचस् सुमतिम् रोदस्योः ।
२,७ ५ वीहि स्वस्तिम् सुक्षितिम् दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥१०

२,८ १ मयि श्लेषो मा वधीः प्र संराजम् च सुक्रतो ।
२,८ १ अस्मान् पृणीष्व युज्याय जीवसे जातवेदः पुनीहि मा ।
२,८ २ मर्तो यो नो दिदासत्य् अधिरथा न नीनशत् ।
२,८ २ दविध्वतो विभावसो जागारम् उत ते धियम् ।
२,८ ३ अनमीवा भवन्त्व् अघ्न्या सु सन् गर्भो विमोचतु ।
२,८ ३ अरातीयन्ति ये केचित् सूरयश् चाभि मज्मना ।
२,८ ४ रायस् पोषम् विधारय जातवेदः पुनीहि मा ।
२,८ ४ उस्रा भवन्तु नो मयो बह्वीर् गोष्ठे घृताच्यः ।
२,८ ५ अच्छा नो मित्रमहो देव देवान् अग्ने वोचस् सुमतिम् रोदस्योः ।
२,८ ५ वीहि स्वस्तिम् सुक्षितिम् दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥११ ( प् ८० )

२,९ १ संस्रवन्तु मरुतस् सम् अश्वास् उ पूरुषाः ।
२,९ १ सम् धान्यस्य या स्फातिस् संस्राव्येण हविषा जुहोमि ।
२,९ २ एह यन्ति पशवो ये परेयुर् वायुर् येषाम् सहचाराम् जुजोष ।
२,९ २ त्वष्टा येषाम् रूप धेयानि वेदास्मिंस् ताम् लोके सविताभिरक्षतु ।
२,९ ३ इमम् गोष्ठम् पशवस् संस्रवन्तु बृहस्पतिर् आनयतु प्रजानन् ।
२,९ ३ सिनीवाली नयत्य् अग्रैषाम् आजग्मुषो अनुमते नियच्छ ।
२,९ ४ संसिञ्चामि गवाम् क्षीरम् सम् आज्येन बलम् रसम् ।
२,९ ४ संसिक्तास्माकम् वीरा ध्रुवा गावस् सन्तु गोपतौ ।
२,९ ५ आहरामि गवाम् क्षीरम् आहरामि धान्यम् रसम् ।
२,९ ५ आहृतास्माकम् वीरा पत्नीर् इदम् अस्तकम् ॥१२

२,१० १ आ ते गर्भो योनिम् एतु पुमान् बाणेवेषुधिम् ।
२,१० १ आ वीरो अत्र जायताम् पुत्रस् ते दश मास्यः ।
२,१० २ करोमि ते प्राजापत्यम् आ गर्भो योनिम् एतु ते ।
२,१० २ अनूनः पूर्णो जायताम् अनन्धो अश्रोणो अपिशाच धीतः । ( प् ८१ )
२,१० ३ पुमांस् ते पुत्रो जायताम् पुमान् अनुजायताम् ।
२,१० ३ यानि भद्राणि बीजान्य् ऋषभा जनयन्ति नः ।
२,१० ४ तानि भद्राणि बीजान्य् ऋषभा जनयन्तु ते ।
२,१० ४ तैस् त्वम् पुत्रम् जनयेस् स जायताम् वीरतमस् स्वानाम् ।
२,१० ५ यो वशायाम् गर्भो यो अपि वेहतीन्द्रस् तन् निदधे वनस्पतौ ।
२,१० ५ तैस् त्वम् पुत्रान् विन्दस्व सा प्रसूर् धेनुका भव ।
२,१० ६ सम् वो मनांसि जानाताम् सम् नभिस् सम् ततो असत् ।
२,१० ६ सम् त्वा कामस्य योक्त्रेण युञ्जान्य् अविमोचनाय ।
२,१० ७ कामस् समृध्यताम् मह्यम् अपराजितम् एव मे ।
२,१० ७ यम् कामम् कामये देव तम् मे वायो समर्धय ॥१३ ( प् ८२ )

२,११ १ अग्निर् एतु प्रथमो देवतानाम् सो स्याः प्रजाम् मुञ्चतु मृत्यु पाशात् ।
२,११ १ तद् अयम् राजा वरुणो अनुमन्यताम् यथेयम् स्त्री पौत्रम् अघन् न रोदीत् ।
२,११ २ इमाम् अग्निस् त्रायताम् गार्हस्पत्यः प्रजाम् अस्यै तिरतु दीर्घम् आयुः ।
२,११ २ अशून्योपस्था जीवताम् अस्तु माता पौत्रम् आनन्दम् अभि विबुध्यताम् इयम् ।
२,११ ३ मा ते गृहे निशि घोरोत्थाद् अन्यत्र त्वद् रुदत्यस् संविशन्तु ।
२,११ ३ मा त्वम् विकेश्य् उरावधिष्ठा जीव पुत्रा पति लोके विराज प्रजाम् पश्यन्ती सुमनस्यमाना ।
२,११ ४ अप्रजस्यम् पौत्र मर्त्यम् पाप्मानम् उत वाघम् ।
२,११ ४ प्रजाम् इवोन्मुच्यस्व द्विषद्भ्यः प्रति मुञ्चामि पाशान् ।
२,११ ५ देव कृतम् ब्राह्मणम् कल्पमानम् तेन हन्मि योनिषदः पिशाचान् ।
२,११ ५ क्रव्यादो मृत्यून् अधरान् पातयामि दीर्घम् आयुस् तव जीवन्तु पुत्राः ।
२,११ ५ त्वम् ह्य् अग्ने प्रथमो मओता ॥१४ ( प् ८३ )

२,१२ १ चक्षुश् च श्रोत्रम् च मनश् च वाक् च प्राणापाणौ देहेदम् शरीरम् ।
२,१२ १ द्वौ प्रत्यञ्चाव् अनुलोमौ विसर्गाव् एदन् तम् मन्ये दश यन्त्रम् उत्सम् ।
२,१२ १ यानयत् परावतः ॥१५ ( प् ८४ )
२,१२ २ उरश् च पृष्ठश् च करौ च बाहू जंघे चोरूदरम् शिरश् च ।
२,१२ २ रोमाणि मांसम् रुधिरास्थि मज्जम् एतत् शरीरम् जल बुद्बुदोपमम् ।
२,१२ ३ भ्रुवौ ललाटे च तथा च कर्णौ हनू कपोलौ छुबुकस् तथा च ।
२,१२ ३ ओष्ठौ च दन्ताश् च तथैव जिह्वा मे तत् शरीरम् मुख रत्न कोशम् ॥

२,१३ १ शंवतीः पारयन्त्य् एतेदम् पृच्छस्व वचो यथा ।
२,१३ १ अभ्यारन् तम् समाकेतम् यैवेदम् इति ब्रवत् ।
२,१३ २ जाया केतम् परिस्रुतम् भारती ब्रह्म वादिनी ।
२,१३ २ संजानाना मही जाता यैवेदम् इति ब्रवत् ।
२,१३ ३ इन्द्रस् तम् किम् विभुम् प्रभुम् भानुना यम् जुहोषति ।
२,१३ ३ तेन सूर्यम् अरोचयद् येनेमे रोदस्युभे ।
२,१३ ४ जुषस्वाग्नेऽङ्गिरः काण्वम् मेध्यातिथिम् ।
२,१३ ४ मा त्वा सोमस्य बर्बृहत् सुतस्य मधुअत्तमः ।
२,१३ ५ त्वाम् अग्नेऽङ्गिरश् शोचस्व देववीतमः ।
२,१३ ५ आ शंतम शंतमाभिर् अभि स् तिभिश् शान्तिम् स्वस्तिम् अकुर्वत ।
२,१३ ६ सम् नः कनिक्रदद् देवः पर्जन्यो अभि वर्षत्व् ओषधयस् सम् प्रवर्धन्तम् ।
२,१३ ६ सम् नो द्यावा पृथिवी शम् प्रजाभ्यस् शम् नो अस्तु द्विपदे शम् चतुष्पदे ।
२,१३ ६ शम् नेन्द्राग्नी भवताम् अवोभिः ॥१६ ( प् ८५ )

२,१४ १ स्वप्नस् स्वप्नाधिकरणे सर्वम् निष्वापया जनम् ।
२,१४ १ आ सूर्यम् अन्यान् स्वापयाव्युषम् जागृयाम् अहम् ।
२,१४ १ केम् व्यक्ता नरस् सनीढाः ॥१७
२,१४ २ अजगरो नाम सर्पः सर्पिरविषो महान् ।
२,१४ २ तस्मिन् हि सर्पः सुधितस् तेन त्वा स्वापयामसि ।
२,१४ ३ सर्पः सर्पो अजगरः सर्पिरविषो महान् ।
२,१४ ३ तस्य सर्पात् सिंधवस् तस्य गाधम् असीमहि ।
२,१४ ४ कालिको नाम सर्पो नव नाग सहस्र बलः । ( काळिक, बळ )
२,१४ ४ यमुन ह्रदे ह सो जातो यो नारायण वाहनः ।
२,१४ ५ यदि कालिक दूतस्य यदि काह्कालिकाद् भयम् । ( काळिक )
२,१४ ५ जन्म भूमिम् अतिक्रान्तो निर्विषो याति कालिकः । ( काळिक ) ( प् ८६ )
२,१४ ६ आयाहीन्द्र पथिभिर् इडितेभिर् यज्ञम् इमम् नो भाग धेयम् जुषस्व ।
२,१४ ६ तृप्ताम् जुहुर् मातुलस्येव योषा भागस् ते पैतृ स्वसेयी वपाम् इव । ( मातुळ )
२,१४ ७ यशस्करम् बलवन्तम् प्रभुत्वम् तम् एव राजाधिपतिर् बभूव ।
२,१४ ७ संकीर्ण नागाश्व पतिर् नराणाम् सुमङ्गल्यम् सततम् दीर्घम् आयुः ।
२,१४ ८ कर्कोटको नाम सर्पो यो दृष्टी विषोच्यते ।
२,१४ ८ तस्य सर्पस्य सर्पत्वम् तस्मै सर्प नमो अस्तु ते ।
२,१४ ९ (१)अ अति कालिक रौद्रस्य विष्णुः सौम्येन भामिना । ( काळिक )
२,१४ ९ (१)ब् यमुन नदी कालिकम् ते विष्णु स्तोत्रम् अनुस्मरम् । ( काळिक )
२,१४ ९ (२)अ येऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु ।
२,१४ ९ (२)ब् तेषाम् अप्सु सदस् कृतम् तेभ्यः सर्पेभ्यो नमः ।
२,१४ १० नमो अस्तु सर्पेभ्यो ये के च पृथिवीम् अनु ।
२,१४ १० येऽन्तरिक्षे ये दिव् तेभ्यः सर्पेभ्यो नमः ।
२,१४ ११ उग्रायुधाः प्रमथिनः प्रवीरा मायाविनो बलिनो मिच्छमानाः ।
२,१४ ११ ये देवासुरान् पराभवन् तांस् त्वम् वज्रेण मघवन् निवारय ।( प् ८७ )

२,१५ यस्य व्रतम् उपतिष्ठन्तापो यस्य व्रते पशवो यान्ति सर्वे ।
२,१५ यस्य व्रते पुष्टि पत्र् निविष्टस् तम् सरस्वन्तम् अवसे जोहवीमि ।
२,१५ यज्ञे दिवो नृषदने पृथिव्याः ॥१८

२,१६ १ उप प्रवद मण्डूकि वर्षम् आवद तादुरि ।
२,१६ १ मध्ये ह्रदस्य प्लवस्व निगृह्य चतुरः पदः ।
इन्द्रासोमा तपतम् रक्षोब्जतम् ॥१९ ( प् ८८ )


मा बिभेर् न मरिष्यसि परि त्वा पामि सर्वतः ।
घनेन हन्मि वृश्चिकम् अहिम् दण्डेनागतम् ।
त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिः ॥१ ( प् ६९ )
आदित्य रथ वेगेन विष्णोर् बाहु बलेन च ।
गरुड पक्ष निपातेन भूमिम् गच्छ महा यशाः ।
गरुडस्य जात मात्रेण त्रयो लोकाः प्रकम्पिताः ।
प्रकम्पिता मही सर्वा सशैल वन कानना ।
गगनम् नष्ट चन्द्रार्कम् ज्योतिषम् न प्रकाशते ।
देवता भय भीताश् च मारुतो न प्लवायति मारुतो न प्लवायत्य् ओम् नमः ।
भो सर्प भद्र भद्रम् ते दूरम् गच्छ महा यशाः ।
जनमेजयस्य यज्ञान्ते आस्तीक वचनम् स्मर ।
आस्तीक वचनम् श्रुत्वा यः सर्पो न निवर्तते ।
शतधा भिद्यते मूर्ध्नि शिंश वृक्ष फलम् यथा ।
अगस्त्यो माधवश् चैव मुचुकुन्दो ( मुचुकुंदो ) महा मुनिः ।
कपिलो मुनिर् आस्तीकः पञ्चैते सुख शायिनः ।
नर्मदायै नमः प्रातर् नर्मदायै नमो निशि ।
नमो अस्तु नर्मदे तुभ्यम् त्राहि माम् विष सर्पतः ।
यो जरत्कारुणा जातो जरत् कन्याम् महा यशाः ।
तस्य सर्पो अपि भद्रम् ते दूरम् गच्छ महा यशाः ।
तस्य सर्पस्य सर्पत्वम् तस्मै सर्प नमो अस्तु ते । ( प् ७० )

भद्रम् वद दक्षिणतो भद्रम् उत्तरतो वद ।
भद्रम् पुरस्तान् नो वद भद्रम् पश्चात् कपिञ्जल ।
भद्रम् वद पुत्रैर् भद्रम् वद गृहेषु च ।
भद्रम् अस्माकम् वद भद्रम् नो अभयम् वद ।
भद्रम् अधस्तान् नो वद भद्रम् उपरिष्टान् नो वद ।
भद्रम् भद्रम् नावद भद्रम् नस् सर्वतो वद ।
असपत्नम् पुरस्तान् नश् शिवम् दक्षिणतस् कृधि ।
अभयम् सततम् पश्चाद् भद्रम् उत्तरतो गृहे ।
यौवनानि महयसि जिग्युषाम् इव दुन्दुभिः ।
शकुन्तक प्रकक्षिणम् शत पत्राभि नो वद ।
आवदंस् त्वम् शकुने भद्रम् आ वद ॥२ ( प् ७१ )

जागर्षि त्वम् भुवने जातवेदो जागर्षि यत्र यजते हविष्मान् ।
इदम् हविश् श्रद्दधानो जुहोमि तेन पासि गुह्यम् नाम गोनाम् ।
विदा दिवो विष्यन्न् अद्रिम् उक्थैः ॥३

स्वस्त्ययनम् तार्क्ष्यम् अरिष्टनेमिम् महद् भूतम् वायसम् देवतानाम् ।
असुरघ्नम् इन्द्र सखम् समत्सु बृहद् यशो नावम् इवारुहेम ।
अंहो मुचम् आङ्गिरसम् गयम् च स्वस्त्य् आत्रेयम् मनसा च तार्क्ष्यम् । ( प् ७१ )
प्रयत पाणिश् शरणम् प्रपद्ये स्वस्ति सम्बाधेष्व् अभयन् नो अस्तु ।
प्र श्यावाश्व धृष्णुया ॥

वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
रोहन्तु सर्व बीजान्य् अव ब्रह्म द्विषो जहि ।
प्र संराजे बृहदर्चा गभीरम् ॥५


यः शुचिः प्रयतो भूत्वा जुहुयाद् आज्यम् अन्वहम् ।
सूक्तम् पञ्चदशर्चम् च श्री कामः सततम् जपेत् ।
पद्मानने पद्मोरू पद्माक्षी पद्म संहवे ।
तन् मे भजसि पद्माक्षी येन सौख्यम् लभाम्य् अहम् ।
अश्वदायै गोदायै धनदायै महा धने ।
धनम् मे जुषताम् देवि सर्व कामांश् च देहि मे ।
पुत्र पौत्रम् धनम् धान्यम् हस्त्य् अश्वादि गवे रथम् ।
प्रजानाम् भवसि मातायुष्मन्तम् करोतु मे ।
धनम् अग्निर् धनम् वायुर् धनम् सूर्यो धनम् वसुः ।
धनम् इन्द्रो बृहस्पतिर् वरुणम् धनम् उत्सृजे ।
वैनतेय सोमम् पिब सोमम् पिबतु वृत्रहा ।
सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः ।
न क्रोधो न च मात्सर्यम् न लोभो नाशुभा मतिः ।
भवन्ति कृत पुण्यानाम् भक्तानाम् श्री सूक्तम् जपेत् ।
सरसिज निलये सरोज हस्ते धवलतराम् शुभ गन्ध माल्य शोभे ।
भगवति हरि वल्लभे मनोज्ञे त्रिभुवन भूति करि प्रसीद मह्यम् । ( प् ७७ )
श्री वर्चस्वम् आयुष्यम् आरोग्यम् आविधात् शुभमानम् महीयते ।
धान्यम् धनम् पशुम् बहु पुत्र लाभम् शत संवत्सरम् दीर्घम् आयुः ।
विष्णु पत्नीम् क्षमाम् देवीम् माधवीम् माधव प्रियाम् ।
लक्ष्मीम् प्रिय सखीम् देवीम् नमान्य् अच्युत वल्लभाम् ।
महा लक्ष्मी च विद्महे विष्णु पत्नी च धीमहि ।
तन् नो लक्ष्मीः प्रचोदयात् ।
पद्मानने पद्मिनि पद्म पत्रे पद्म प्रिये पद्म दलायताक्षि ।
विश्व प्रिये विश्व मनो अनुकूले त्वत् पाद पद्मम् हृदि सन्निधत्स्व ।
आनन्दः कर्दमः श्रीतस् चिक्लीतेव विश्रितः ।
ऋषयश् श्रियः पुत्राश् च श्रीर् देवी देव देवता । ( प् ७८ )
ऋण रोगादि दारिद्र्यम् पाप क्षुद् अपमृत्यवः ।
भयः शोक मनस् तापा नश्यन्तु मम सर्वदा ।

चन्द्राभम् लक्ष्मीम् ईशानाम् सूर्याभम् श्रियम् ऐश्वरीम् ।
चन्द्र सूर्याग्नि वर्णाभाम् महा लक्ष्मीम् उपास्महे ।
वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः ।
रोहन्तु सर्व बीजान्य् अव ब्रह्म द्विषो जहि ।
पद्म प्रिये पद्मिनि पद्म हस्ते पद्मानने ।
विश्व प्रिये विष्णु मनो अनुकूले त्वत् पाद पद्मम् मयि सन्निधत्स्व ।
या सा पद्मासनस्था विपुल कटि तटी पद्म पत्रायताक्षी गम्भीरा ।
वर्त नाभि स्तन भर नमिता शुभ्र वस्त्रोत्तरीया ।
लक्ष्मीर् दिव्यैर् गजेन्द्रैर् मणि गण खचितै स्नापिता हेम कुम्भैः ।
नित्यम् सा पद्म हस्ता मम वसतु गृहे सर्व माङ्गल्य युक्ता ।
सिद्ध लक्ष्मीर् मोक्ष लक्ष्मीर् जय लक्ष्मीः सरस्वती ।
श्रीर् लक्ष्मीर् वर लक्ष्मीश् च प्रसन्ना मम सर्वदा ।
वराम् कुशा पाशम् अभीतिम् उद्राम् करैर् वहन्ती कमलासनस्थाम् ।
बालार्क कोटि प्रतिभाम् त्रिनेत्राम् भजेऽहम् आद्याम् जगद् ईश्वरीम् ताम् ।
सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके ।
शरधये त्र्यम्बके गौरी नारायणि नमो अस्तु ते । ( प् ७९ )

चिक्लीतो यस्य नाम तद् दिव नक्तम् च सुक्रतो ।
अस्मान् दीदास युज्याय जीवसे जातवेदः पुनन्तु माम् देव जनाः ।
पुनन्तु मनसा धियः पुनन्तु विश्वा भूतानि ।
जातवेदो यद् अस्तुतम् ।
विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ।
सम्भूतास्माकम् वीरा ध्रुवा ध्रुवेशु तिष्ठति ।
ध्रुवा द्यौर् ध्रुवा पृथिवी ध्रुवा ध्रुवेषु तिष्ठति ।
अग्नेऽच्छा यद् अस्तुतम् रायस् पोषम् च धारय ।
अच्छा नो मित्र महो देव देवान् अग्ने वोचस् सुमतिम् रोदस्योः ।
वीहि स्वस्तिम् सुक्षितिम् दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥१०

मयि श्लेषो मा वधीः प्र संराजम् च सुक्रतो ।
अस्मान् पृणीष्व युज्याय जीवसे जातवेदः पुनीहि मा ।
मर्तो यो नो दिदासत्य् अधिरथा न नीनशत् ।
दविध्वतो विभावसो जागारम् उत ते धियम् ।
अनमीवा भवन्त्व् अघ्न्या सु सन् गर्भो विमोचतु ।
अरातीयन्ति ये केचित् सूरयश् चाभि मज्मना ।
रायस् पोषम् विधारय जातवेदः पुनीहि मा ।
उस्रा भवन्तु नो मयो बह्वीर् गोष्ठे घृताच्यः ।
अच्छा नो मित्रमहो देव देवान् अग्ने वोचस् सुमतिम् रोदस्योः ।
वीहि स्वस्तिम् सुक्षितिम् दिवो नॄन् द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥११ ( प् ८० )

संस्रवन्तु मरुतस् सम् अश्वास् उ पूरुषाः ।
सम् धान्यस्य या स्फातिस् संस्राव्येण हविषा जुहोमि ।
एह यन्ति पशवो ये परेयुर् वायुर् येषाम् सहचाराम् जुजोष ।
त्वष्टा येषाम् रूप धेयानि वेदास्मिंस् ताम् लोके सविताभिरक्षतु ।
इमम् गोष्ठम् पशवस् संस्रवन्तु बृहस्पतिर् आनयतु प्रजानन् ।
सिनीवाली नयत्य् अग्रैषाम् आजग्मुषो अनुमते नियच्छ ।
संसिञ्चामि गवाम् क्षीरम् सम् आज्येन बलम् रसम् ।
संसिक्तास्माकम् वीरा ध्रुवा गावस् सन्तु गोपतौ ।
आहरामि गवाम् क्षीरम् आहरामि धान्यम् रसम् ।
आहृतास्माकम् वीरा पत्नीर् इदम् अस्तकम् ॥१२

आ ते गर्भो योनिम् एतु पुमान् बाणेवेषुधिम् ।
आ वीरो अत्र जायताम् पुत्रस् ते दश मास्यः ।
करोमि ते प्राजापत्यम् आ गर्भो योनिम् एतु ते ।
अनूनः पूर्णो जायताम् अनन्धो अश्रोणो अपिशाच धीतः । ( प् ८१ )
पुमांस् ते पुत्रो जायताम् पुमान् अनुजायताम् ।
यानि भद्राणि बीजान्य् ऋषभा जनयन्ति नः ।
तानि भद्राणि बीजान्य् ऋषभा जनयन्तु ते ।
तैस् त्वम् पुत्रम् जनयेस् स जायताम् वीरतमस् स्वानाम् ।
यो वशायाम् गर्भो यो अपि वेहतीन्द्रस् तन् निदधे वनस्पतौ ।
तैस् त्वम् पुत्रान् विन्दस्व सा प्रसूर् धेनुका भव ।
सम् वो मनांसि जानाताम् सम् नभिस् सम् ततो असत् ।
सम् त्वा कामस्य योक्त्रेण युञ्जान्य् अविमोचनाय ।
कामस् समृध्यताम् मह्यम् अपराजितम् एव मे ।
यम् कामम् कामये देव तम् मे वायो समर्धय ॥१३ ( प् ८२ )

अग्निर् एतु प्रथमो देवतानाम् सो स्याः प्रजाम् मुञ्चतु मृत्यु पाशात् ।
तद् अयम् राजा वरुणो अनुमन्यताम् यथेयम् स्त्री पौत्रम् अघन् न रोदीत् ।
इमाम् अग्निस् त्रायताम् गार्हस्पत्यः प्रजाम् अस्यै तिरतु दीर्घम् आयुः ।
अशून्योपस्था जीवताम् अस्तु माता पौत्रम् आनन्दम् अभि विबुध्यताम् इयम् ।
मा ते गृहे निशि घोरोत्थाद् अन्यत्र त्वद् रुदत्यस् संविशन्तु ।
मा त्वम् विकेश्य् उरावधिष्ठा जीव पुत्रा पति लोके विराज प्रजाम् पश्यन्ती सुमनस्यमाना ।
अप्रजस्यम् पौत्र मर्त्यम् पाप्मानम् उत वाघम् ।
प्रजाम् इवोन्मुच्यस्व द्विषद्भ्यः प्रति मुञ्चामि पाशान् ।
देव कृतम् ब्राह्मणम् कल्पमानम् तेन हन्मि योनिषदः पिशाचान् ।
क्रव्यादो मृत्यून् अधरान् पातयामि दीर्घम् आयुस् तव जीवन्तु पुत्राः ।
त्वम् ह्य् अग्ने प्रथमो मओता ॥१४ ( प् ८३ )

चक्षुश् च श्रोत्रम् च मनश् च वाक् च प्राणापाणौ देहेदम् शरीरम् ।
द्वौ प्रत्यञ्चाव् अनुलोमौ विसर्गाव् एदन् तम् मन्ये दश यन्त्रम् उत्सम् ।
यानयत् परावतः ॥१५ ( प् ८४ )
उरश् च पृष्ठश् च करौ च बाहू जंघे चोरूदरम् शिरश् च ।
रोमाणि मांसम् रुधिरास्थि मज्जम् एतत् शरीरम् जल बुद्बुदोपमम् ।
भ्रुवौ ललाटे च तथा च कर्णौ हनू कपोलौ छुबुकस् तथा च ।
ओष्ठौ च दन्ताश् च तथैव जिह्वा मे तत् शरीरम् मुख रत्न कोशम् ॥

शंवतीः पारयन्त्य् एतेदम् पृच्छस्व वचो यथा ।
अभ्यारन् तम् समाकेतम् यैवेदम् इति ब्रवत् ।
जाया केतम् परिस्रुतम् भारती ब्रह्म वादिनी ।
संजानाना मही जाता यैवेदम् इति ब्रवत् ।
इन्द्रस् तम् किम् विभुम् प्रभुम् भानुना यम् जुहोषति ।
तेन सूर्यम् अरोचयद् येनेमे रोदस्युभे ।
जुषस्वाग्नेऽङ्गिरः काण्वम् मेध्यातिथिम् ।
मा त्वा सोमस्य बर्बृहत् सुतस्य मधुअत्तमः ।
त्वाम् अग्नेऽङ्गिरश् शोचस्व देववीतमः ।
आ शंतम शंतमाभिर् अभि स् तिभिश् शान्तिम् स्वस्तिम् अकुर्वत ।
सम् नः कनिक्रदद् देवः पर्जन्यो अभि वर्षत्व् ओषधयस् सम् प्रवर्धन्तम् ।
सम् नो द्यावा पृथिवी शम् प्रजाभ्यस् शम् नो अस्तु द्विपदे शम् चतुष्पदे ।
शम् नेन्द्राग्नी भवताम् अवोभिः ॥१६ ( प् ८५ )

स्वप्नस् स्वप्नाधिकरणे सर्वम् निष्वापया जनम् ।
आ सूर्यम् अन्यान् स्वापयाव्युषम् जागृयाम् अहम् ।
केम् व्यक्ता नरस् सनीढाः ॥१७
अजगरो नाम सर्पः सर्पिरविषो महान् ।
तस्मिन् हि सर्पः सुधितस् तेन त्वा स्वापयामसि ।
सर्पः सर्पो अजगरः सर्पिरविषो महान् ।
तस्य सर्पात् सिंधवस् तस्य गाधम् असीमहि ।
कालिको नाम सर्पो नव नाग सहस्र बलः । ( काळिक, बळ )
यमुन ह्रदे ह सो जातो यो नारायण वाहनः ।
यदि कालिक दूतस्य यदि काह्कालिकाद् भयम् । ( काळिक )
जन्म भूमिम् अतिक्रान्तो निर्विषो याति कालिकः । ( काळिक ) ( प् ८६ )
आयाहीन्द्र पथिभिर् इडितेभिर् यज्ञम् इमम् नो भाग धेयम् जुषस्व ।
तृप्ताम् जुहुर् मातुलस्येव योषा भागस् ते पैतृ स्वसेयी वपाम् इव । ( मातुळ )
यशस्करम् बलवन्तम् प्रभुत्वम् तम् एव राजाधिपतिर् बभूव ।
संकीर्ण नागाश्व पतिर् नराणाम् सुमङ्गल्यम् सततम् दीर्घम् आयुः ।
कर्कोटको नाम सर्पो यो दृष्टी विषोच्यते ।
तस्य सर्पस्य सर्पत्वम् तस्मै सर्प नमो अस्तु ते ।
(१)अ अति कालिक रौद्रस्य विष्णुः सौम्येन भामिना । ( काळिक )
(१)ब् यमुन नदी कालिकम् ते विष्णु स्तोत्रम् अनुस्मरम् । ( काळिक )
(२)अ येऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु ।
(२)ब् तेषाम् अप्सु सदस् कृतम् तेभ्यः सर्पेभ्यो नमः ।
० नमो अस्तु सर्पेभ्यो ये के च पृथिवीम् अनु ।
० येऽन्तरिक्षे ये दिव् तेभ्यः सर्पेभ्यो नमः ।
१ उग्रायुधाः प्रमथिनः प्रवीरा मायाविनो बलिनो मिच्छमानाः ।
१ ये देवासुरान् पराभवन् तांस् त्वम् वज्रेण मघवन् निवारय ।( प् ८७ )

स्य व्रतम् उपतिष्ठन्तापो यस्य व्रते पशवो यान्ति सर्वे ।
स्य व्रते पुष्टि पत्र् निविष्टस् तम् सरस्वन्तम् अवसे जोहवीमि ।
ज्ञे दिवो नृषदने पृथिव्याः ॥१८

उप प्रवद मण्डूकि वर्षम् आवद तादुरि ।
मध्ये ह्रदस्य प्लवस्व निगृह्य चतुरः पदः ।
ासोमा तपतम् रक्षोब्जतम् ॥१९ ( प् ८८ )