आपस्तम्बीय श्रौतप्रयोगः/अग्निचयने द्वितीयोऽध्यायः

विकिस्रोतः तः

द्वितीयाचितिः

॥ अथ द्वितीया चितिः ॥
श्वो भूते विसृष्टवाचि यजमाने पौर्वाह्निकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्य द्वितीयां चितिं चिनोति । या ते अग्नेऽयाशया तनूः इत्युपसदाहुतिः । सुब्रह्मण्यान्ते[१]१३६ इष्टकादोषप्रायश्चित्तं पूर्ववत् । दक्षिणतः श्वेतोऽश्वस्तिष्ठति तमालभ्य । वाङ्म आसन्नसोः --- नमस्ते अस्तु मा मा हिᳪं、सीः आरोहञ्जपति ॥
ध्रुवक्षितिध्रुवयोनिर्धुवासि ध्रुवाँय्योनिमा सीद साध्या । उख्यस्य केतुं प्रथमं पुस्तादश्विनाध्वर्यू सादयतामिह त्वा तया ॥ स्वे दक्षे दक्षपितेह सीद देवत्रा पृथिवी बृहती रराणा । स्वासस्था तनुवा सँव्विशस्व पितेवैधि सूनव आ सुशेवाऽश्विनाध्वर्यू सादयतामिह त्वा तया ॥ कुलायिनी वसुमती वयोधा रयिं नो वर्ध बहुल‍ᳪं、 सुवीरम् । अपामतिं दुर्मतिं बाधमाना रायस्पोषे यज्ञपतिमाभजन्ती सुवर्धेहि यजमानाय पोषमश्विनाध्वर्यू सादयतामिह त्वा तया ॥ अग्नेः पुरीषमसि देवयानी तां त्वा विश्वे अभिगृणन्तु देवाः । स्तोमपृष्ठा घृतवतीह सीद प्रजावदस्मे द्रविणाऽऽयजस्वाश्विनाध्वर्यू सादयतामिह त्वा तया ॥ दिवो मूर्धासि पृथिव्या नाभिर्विष्टम्भनी दिशामधिपत्नी भुवनानाम् । ऊर्मिर्द्रप्सो अपामसि विश्वकर्मा त ऋषिरश्विनाध्वर्यू सादयतामिह वा तया पञ्चाश्विनीरुपदधाति ॥
सजूर्ऋतुभिः सजूर्विधाभिः सजूर्वसुभिः सजूर्देवैर्वयोनाधैरग्नये त्वा वैश्वानराया- रश्विनाध्वर्यू सादयतामिह त्वा तया ॥ सजूर्ऋतुभिः सजूर्विधाभिः सजू रुद्रैः सजूर्देवैर्वयोनाधैः--- इह त्वा तया ॥ सजूर्ऋतुभिः सजूर्विधाभिः सजूरादित्यैः सजूर्देवैर्वयोनाधैः --- इह त्वा तया ॥ सजूर्ऋतुभिः सजूर्विधाभिः सजूर्विश्वैर्देवैः सजूर्देवैर्वयोनाधैः --- इह त्वा तया ॥ सजूर्ऋतुभिः सजूर्विधाभिः सजूर्देवैस्सजूर्देवैर्वयोनाधैः - - - इह त्वा तया पञ्चर्तव्या आश्विनीरनूपदधाति ॥
प्राणं मे पाहि तया ॥ अपानं मे पाहि तया ॥ व्यानं मे पाहि तया ॥ चक्षुर्म उर्व्या वि भाहि तया ॥ श्रोत्रं मे श्लोकय तया पञ्च प्राणभृत ऋतव्या अनूपधाय ॥
अपस्पिन्व तया ॥ ओषधीर्जिन्व तया ॥ द्विपात्पाहि तया ॥ चतुष्पादव तया ॥ दिवो वृष्टिमेरय तया पञ्चापस्या अनुपरिहारम् ॥
वायोर्यान्यसि तया ॥ देवानां वायोयान्यसि तया द्वे संयान्यौ ॥
शुक्रश्च शुचिश्च ग्रैष्मावृतू अग्नेरन्तःश्लेषोऽसि कल्पेतां - - - अन्तरा द्यावापृथिवी ग्रैष्मावृतू अभिकल्पमाना ---- अभि संविशन्तु तया देवतयाङ्गिरस्वद्ध्रुवे सीदतम्
द्वे ऋतव्ये समानतयादेवते हस्तद्वयेन युगपदुपदधाति । अवकामनूपदधाति ॥
अथ वयस्याः :-
त्र्यविर्वयस्त्रिष्टुप् छन्दस्तया । दित्यवाड्वयो विराट् छन्दस्तया । पञ्चाविर्वयो गायत्री छन्दस्तया । त्रिवत्सो वय उष्णिहा छन्दस्तया । तुर्यवाड्वयोऽनुष्टुप् छन्दस्तया पञ्च दक्षिणस्यां श्रोण्याम् ।
पष्ठवाड्वयो बृहती छन्दस्तया । उक्षा वयस्सतोबृहती छन्दस्तया । ऋषभो वयः ककुच्छन्दस्तया । धेनुर्वयो जगती छन्दस्तया । अनड्वान् वयः पङ्क्तिश्छन्दस्तया पञ्चोत्तरस्यां श्रोण्याम् ॥
बस्तो वयो विवलं छन्दस्तया दक्षिणेंऽसे ॥ वृष्णिर्वयो विशालं छन्दस्तया उत्तरेंऽसे । व्याघ्रो वयोऽनाधृष्टं छन्दस्तया दक्षिणे पक्षे । सिᳪं、हो वयश्छदिश्छन्दस्तया उत्तरे पक्षे । पुरुषो वयस्तन्द्रं छन्दस्तया मध्ये । विष्टम्भो वयोऽधिपतिश्छन्दस्तया । क्षत्रं वयो मयन्दं छन्दस्तया । विश्वकर्मा वयः परमेष्ठी छन्दस्तया । मूर्धा वयः प्रजापतिश्छन्दस्तया चतस्रो वयस्याः पुरस्तात्प्रतीचीरुपधाय[२]१३७ । ऋषभादिश्चित्यन्तः ॥
त्वामग्ने वृषभं चेकितानं पुनर्युवानं जनयन्नुपागाम् । अस्थूरिणो गार्हपत्यानि सन्तु तिग्मेन नो ब्रह्मणा सं शिशाधि तया ऋषभमुपधाय । लोकंपृण- - - दिवस्तया।
अवशिष्टाः षट्पञ्चाशदधिकशतं लोकंपृणाः ॥
ततश्चितौ हिरण्यं निधाय । चित्तिमचित्तिं- - - रास्वादितिमुरुष्य चितिक्लृप्त्याभिमृशति ।
यत्ते चितं यदु चितं, यास्ते अग्ने, चित्तिमचित्तिं वयमग्ने धनवन्तः, रायस्पोषं नो धेहि जातवेदः, ईशानं त्वा शुश्रुमो, दुहां ते द्यौः, यो रुद्रो अग्नौ- - - नमो अस्तु देवाः एताभिः स्वयञ्चित्याभिमृशति ।
उत्तरतः कृष्णोऽश्वस्तिष्ठति । श्यावो वा । तमालभ्य चात्वालात् पुरीषमाहृत्य । पृष्टो दिवि- - - पातु नक्तम् वैश्वानर्यर्चा चितावनुव्यूहति । सा चितिर्भवति । वाङ्म आसन्नसोः- - - मा मा हिᳪं、सीः प्रत्यवरोहञ्जपति ।
जुह्वां सकृत् सकृत् गृहीत्वा[३]१३८ यो अप्स्वन्तरग्निः, यस्सोमे अन्तः, पृष्टो दिवि, येनेन्द्रस्य रथं, यᳪं、हुतादमग्निं, उक्षान्नाय वशान्नाय इति षडाहुतीर्हुत्वा । अग्ने भूरीणि तव- - - पृष्टबन्धो स्वाहा आग्नेय्या धामच्छदा चितिं चितिमुपधायाभिजुहोति ॥
अगन्म महा मनसा यविष्ठँय्यो दीदाय समिद्धस्स्वे दुरोणे । चित्रभानू रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् आग्नेय्या त्रिष्टुभा द्वितीयां चितिमभिमृशेत् । ततो मध्यन्दिने व्रतप्रदानम्[४]१३९ इत्यादि नाभ्यभिमर्शनान्तम् । तत आपराह्निकीभ्यां प्रवर्ग्योपसद्भ्यां चरन्ति । या ते अग्नेऽयाशया तनूः इत्युपसदाहुतिः । सुब्रह्मण्यान्ते अश्वपरिणयनम् । अधिवृक्षसूर्ये अग्नीन् ज्योतिष्मतः कुरुत इत्यादि व्रतं कृणुतेत्यन्तम् । ततो मध्यरात्रे व्रतप्रदानम्१३९। न रात्रौ जागरणम् । अग्ने त्वᳪं、 सुजागृहि इत्यादि ॥
॥ इति द्वितीया चितिः ॥

तृतीयाचितिचयनम्
अथ तृतीया चितिः
उपोदये अग्नीन् ज्योतिष्मतः कुरुत इत्यादि पूर्ववत् । श्वो भूते विसृष्टवाचि यजमाने पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्य तृतीयां चितिं चिनोति । या ते अग्ने रजाशया तनूः इत्युपसदाहुतिः ॥ सुब्रह्मण्यान्ते[५]१४० इष्टकादोषप्रायश्चित्तं पूर्ववत् । श्वेतमश्वमालभ्य । वाङ्म आसन् - - - मा मा हिᳪं、सीः आरोहञ्जपति ।
द्वितीयस्वयमातृण्णाया उपधानम् :-
इन्द्राग्नी अव्यथमानामिष्टकां दृᳪं、हतं युवम् । पृष्ठेन द्यावापृथिवी अन्तरिक्षं च विबाधताम् स्वयमातृण्णामभिमृश्याश्वेनावघ्राप्य[६]१४१ । विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे व्यचस्वतीं प्रथस्वतीं भास्वतीᳪं、 सूरिमतीमा या द्यां भास्या पृथिवीमोर्वन्तरिक्षमन्तरिक्षं यच्छान्तरिक्षं दृᳪं、हान्तरिक्षं मा हिᳪं、सीर्विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय वायुस्त्वाभि पातु मह्या स्वस्त्या छर्दिषा शन्तमेन तया देवतयाङ्गिरस्वद्ध्रुवा सीद । भुवः ऊर्ध्वज्ञुः स्वयमातृण्णां मध्येऽग्नेरुपदधात्यविदुषा ब्राह्मणेन सह[७]१४२। चित्तिं जुहोमि- - - हविस्स्वाहा स्वयमातृण्णायां हुत्वा व्यनिति[८]१४३ । विश्वकर्मण इदम् । अविद्वान्ब्राह्मणोऽध्वर्यवे
वरं ददाति । स्वयमातृण्णायाᳪं、 साम गाय इति सम्प्रेष्यति ।
ज्योतिरसि ज्योतिर्मे यच्छान्तरिक्षं यच्छान्तरिक्षान्मा पाहि तया हिरण्येष्टकां मध्ये । अधिद्यौरन्तरिक्षं ब्रह्मणा विष्टा मरुतस्ते गोप्तारो वायुर्वियत्तोऽस्यां तामहं प्रपद्ये सा मे शर्म च वर्म चास्तु तया मण्डलेष्टकाम् ।
अत्र तिस्रो रेतस्सिचो विवयस उपदधाति विराड्ज्योतिरधारयत्तया । सम्म्राड्ज्योति- रधारयत्तया । स्वराड्ज्योतिरधारयत्तया मध्यमं मन्त्रं मनसा स्मरन् ।
विश्वकर्मा त्वा सादयत्वन्तरिक्षस्य पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय विश्वं ज्योतिर्यच्छ वायुस्तेऽधिपतिस्तया विश्वज्योतिषम् [९]१४३ (अ) । अन्तरिक्षस्य यान्यसि तया ।
देवानामन्तरिक्षयान्यसि तया द्वे सँय्यान्यौ ।
नभश्च नभस्यश्च वार्षिकावृतू अग्नेरन्तःश्लेषोऽसि- - - अन्तरा द्यावापृथिवी
वार्षिकावृतू अभिकल्पमाना - - - विशन्तु तया देवतयाङ्गिरस्वद्ध्रुवे सीदतम् । अवकामनूपदधाति । इषश्चोर्जश्च शारदावृतू अग्नेरन्तःश्लेषोऽसि - - - अन्तरा द्यावापृथिवी शारदावृतू अभिकल्पमाना- - - विशन्तु तया देवतयाङ्गिरस्वद्ध्रुवे सीदतम् चतस्र ऋतव्याः द्वे द्वे समानतयादेवते । अवकामनूपदधाति ।
राज्ञ्यसि प्राची दिक्तया । विराडसि दक्षिणा दिक्तया । सम्म्राडसि प्रतीची दिक्तया । स्वराडस्युदीची दिक्तया । अधिपत्न्यसि बृहती दिक्तया पञ्च दिश्याः पुरस्तादरभ्य प्रतिदिशमेकां मध्ये ।
आयुर्मे पाहि तया । प्राणं मे पाहि तया । अपानं मे पाहि तया । व्यानं मे पाहि तया । चक्षुर्मे पाहि तया । श्रोत्रं मे पाहि तया । मनो मे जिन्व तया । वाचं मे पिन्व तया । आत्मानं मे पाहि तया । ज्योतिर्मे यच्छ तया दश प्राणभृतः पुरस्तादुपधाय षट्त्रिंशतं बृहतीरुपदधाति ।
अथ बृहतीः :-
मा छन्दस्तया । प्र मा छन्दस्तया । प्रतिमा छन्दस्तया । अस्रीविश्छन्दस्तया । पङ्क्तिश्छन्दस्तया । उष्णिहा छन्दस्तया । बृहती छन्दस्तया । अनुष्टुप् छन्दस्तया । विराट् छन्दस्तया । गायत्री छन्दस्तया । त्रिष्टुप्छन्दस्तया । जगती छन्दस्तया द्वादश दक्षिणतः ।
पृथिवी छन्दस्तया । अन्तरिक्षं छन्दस्तया । द्यौश्छन्दस्तया । समाश्छन्दस्तया । नक्षत्राणि छन्दस्तया । मनश्छन्दस्तया । वाक् छन्दस्तया । कृषिश्छन्दस्तया । हिरण्यं छन्दस्तया । गौश्छन्दस्तया । अजा छन्दस्तया । अश्वश्छन्दस्तया द्वादश पश्चात् ।
अग्निर्देवता तया । वातो देवता तया । सूर्यो देवता तया । चन्द्रमा देवता तया । वसवो देवता तया । रुद्रा देवता तया । आदित्या देवता तया । विश्वे देवा देवता तया । मरुतो देवता तया । बृहस्पतिर्देवता तया । इन्द्रो देवता तया । वरुणो देवता तया द्वादशोत्तरतः ।
मूर्धासि राट् तया । ध्रुवासि धरुणा तया । यन्त्र्यसि यमित्री तया । इषे त्वा तया । ऊर्जे त्वा तया । कृष्यै त्वा तया । क्षेमाय त्वा तया सप्त वालखिल्याः पुरस्तात्प्रतीचीरुपदधाति।
यन्त्री राट् तया । ध्रुवासि धरणी तया । धर्त्र्यसि धरित्री तया । आयुषे त्वा तया । वर्चसे त्वा तया । ओजसे त्वा तया । बलाय त्वा तया सप्त पश्चात्प्राचीः ।
प्रसवाय त्वा तया । उपयामाय त्वा तया । काटाय त्वा तया । अर्णवाय त्वा तया । धर्णसाय त्वा तया । द्रविणाय त्वा तया । सिन्धवे त्वा तया । समुद्राय त्वा तया । सरस्वते त्वा तया । विश्वव्यचसे त्वा तया । सुभूताय त्वा तया । अन्तरिक्षाय त्वा तया द्वादश भूतेष्टकाः । ऋषभादिश्चित्यन्तः ।
त्वामग्ने वृषभं- - - शिशाधि तया । ऋषभमुपधाय । लोकम्पृण, ता अस्य
सूददोहसः इति द्वाभ्यां एकादशाधिकशतं लोकम्पृणाः ।
ततश्चितौ हिरण्यं निधाय । चित्तिमचित्तिं- - - रास्वादितिमुरुष्य चितिक्लृप्त्याभिमृशति ।
यत्ते चितं यदु चितं, यास्ते अग्ने, चित्तिमचित्तिं वयमग्ने धनवन्तः, रायस्पोषं नो धेहि जातवेदः, ईशानं त्वा शुश्रुमो, दुहां ते द्यौः, यो रुद्रो अग्नौ --- नमो अस्तु देवाः एताभिः स्वयञ्चित्याभिमृशति ।
उत्तरतः कृष्णोऽश्वस्तिष्ठति । श्यावो वा । तमालभ्य चात्वालात् पुरीषमाहृत्य । पृष्टो दिवि - - - पातु नक्तम् वैश्वानर्यर्चा चितावनुव्यूहति । सा चितिर्भवति । वाङ्म आसन्नसोः - - - मा मा हिᳪं、सीः प्रत्यवरोहन् जपति ।
जुह्वां सकृत् सकृत् गृहीत्वा[१०]१४४ यो अप्स्वन्तरग्निः, यस्सोमे अन्तः, पृष्टो दिवि, येनेन्द्रस्य रथं, यहु्ᳪं、तादमग्निं, उक्षान्नाय वशान्नाय इति षडाहुतीर्हुत्वा । अग्ने भूरीणि तव - - - पृष्टबन्धो स्वाहा आग्नेय्या धामच्छदा चितिं चितिमुपधायाभिजुहोति ॥
मेधाकारं विदथस्य प्रसाधनमग्नि‍ᳪं、 होतारं परिभूतमं मतिम् । त्वामर्भस्य हविषस्स- मानमित् त्वां महो वृणते नरो नान्यन्त्वत् आग्नेय्या जगत्या तृतीयां चितिमभिमृशेत् । ततो व्रतकाले त्रिस्तनं व्रतं प्रयच्छति । अस्मिन्नहनि यूपकरणम् । अग्निष्ठप्रथमान् त्रयोदशयूपान् एकयूपं वा मन्त्रेण छिनत्ति[११]१४५ । ततः आपराह्निकीभ्यां प्रवर्ग्योपसद्भ्यां चरन्ति । या ते अग्ने रजाशया तनूः इत्युपसदाहुतिः । सुब्रह्मण्यान्ते श्वेतमश्वं परिणीय वसन्ति । रात्रौ च त्रिस्तनं व्रतम् । अग्ने त्वᳪं、 सुजागृहि इत्यादि ॥
॥ इति तृतीया चितिः ॥

चतुर्थीचितिः
अथ चतुर्थी चितिः
उपोदये अग्नीन् ज्योतिष्मतः कुरुत इत्यादि पूर्ववत् । श्वो भूते विसृष्टवाचि यजमाने १४६ या ते अग्ने रजाशया पौर्वाह्निकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्य चतुर्थीं चितिं चिनोति[१२] १४६ या ते अग्ने रजाशया इत्युपसदाहुतिः । सुब्रह्मण्यान्ते[१३] १४७ इष्टकादोषनिमित्तप्रायश्चित्तं पूर्ववत् । श्वेतमश्वमालभ्य वाङ्म आसन् --- मा मा हिᳪं、सीः आरोहञ्जपति ।
आशुस्त्रिवृत्तया पुरस्तात् । व्योम सप्तदशस्तया दक्षिणतः । धरुण एकविᳪं、शस्तया पश्चात् । भान्तः पञ्चदशस्तया उत्तरतः । एवमग्रेऽपि । अनुवाकद्वयशेषेण चतस्रश्चतस्रः प्रतिदिशमुपधेयाः । प्रतूर्तिरष्टादशस्तया । अभिवर्तस्सविᳪं、शस्तया । वर्चो द्वाविᳪं、शस्तया । तपो नवदशस्तया । योनिश्चतुर्विᳪं、शस्तया । गर्भाः पञ्चविंᳪं、शस्तया । ओजस्त्रिणवस्तया । सम्भरणस्त्रयोविᳪं、शस्तया ॥ क्रतुरेकत्रिᳪं、शस्तया । ब्रध्नस्य विष्टपं चतुस्त्रिᳪं、शस्तया । प्रतिष्ठा त्रयस्त्रिᳪं、शस्तया । नाकष्षट्त्रिᳪं、शस्तया ॥
[१४]अग्नेर्भागोऽसि दीक्षाया आधिपत्यं ब्रह्म स्पृतं त्रिवृत् स्तोमस्तया । नृचक्षसां भागोऽसि धातुराधिपत्यं जनित्रᳪं、 स्पृतᳪं、 सप्तदशस्तोमस्तया । मित्रस्य भागोऽसि वरुणस्याधिपत्यं दिवो वृष्टिर्वाताः स्पृता एकविᳪं、शस्तोमस्तया । इन्द्रस्य भागोऽसि विष्णोराधिपत्यं क्षत्रᳪं、 स्पृतं पञ्चदशस्तोमस्तया ॥ वसूनां भागोऽसि रुद्राणामाधिपत्यं चतुष्पात् स्पृतं चतुर्विᳪं、शस्तोमस्तया । आदित्यानां भागोऽसि मरुतामाधिपत्यं गर्भास्स्पृताः पञ्चविᳪं、शस्तोमस्तया । अदित्यै भागोऽसि पूष्ण आधिपत्यमोजस्पृतं त्रिणवस्तोमस्तया । देवस्य सवितुर्भागोसि बृहस्पतेराधिपत्य‍ᳪं、 समीचीर्दिशस्पृताश्चतुष्टोमस्स्तोमस्तया ।
धर्त्रश्चतुष्टोमस्तया । यावानां भागोऽस्ययावानामाधिपत्यं प्रजास्स्पृताश्चतुश्चत्वारिᳪं、शस्तोमस्तया । ऋभूणां भागोऽसि विश्वेषां देवानामाधिपत्यं भूतं निशान्तᳪं、 स्पृतं त्रयस्त्रिᳪं、शस्तोमस्तया । विवर्तोऽष्टाचत्वारिᳪं、शस्तोमस्तया एताभ्यामनुवाकभ्यां यथाब्राह्मणमुपधाय ।
अन्तरिक्षमसि तया । अन्तरिक्षाय त्वा तया । द्वे सँय्यान्यौ ।
सहश्च सहस्यश्च हैमन्तिकावृतू अग्नेरन्तःश्लेषोऽसि ---अन्तरा द्यावापृथिवी हैमन्तिकावृतू अभिकल्पमाना ---विशन्तु तया देवतयाङ्गिरस्वद्ध्रुवे सीदतम् द्वे ऋतव्ये समानतयादेवते । अवकामनूपदधाति ।
अथ सृष्टीः :-
[१५]एकयाऽस्तुवत प्रजा अधीयन्त प्रजापतिरधिपतिरासीत्तया । तिसृभिरस्तुवत ब्रह्मासृज्यत ब्रह्मणस्पतिरधिपतिरासीत्तया । पञ्चभिरस्तुवत भूतान्यसृज्यन्त भूतानां पतिरधिपतिरासीत्तया । सप्तभिरस्तुवत सप्तर्षयोऽसृज्यन्त धाताऽधिपतिरासीत्तया । नवभिरस्तुवत पितरोऽसृज्यन्तादितिरधिपत्न्यासीत्तया । एकादशभिरस्तुवतर्तवोऽसृज्यन्तार्तवोऽधिपतिरासीत्तया । त्रयोदशभिरस्तुवत मासा असृज्यन्त सँव्वत्सरोऽधिपतिरासीत्तया । पञ्चदशभिरस्तुवत क्षत्रमसृज्यतेन्द्रोऽधिपतिरासीत्तया । सप्तदशभिरस्तुवत पशवोऽसृज्यन्त बृहस्पतिरधिपतिरासीत्तया । नवदशभिरस्तुवत शूद्रार्यावसृज्येतामहोरात्रे अधिपत्नी आस्तां तया । एकविᳪं、शत्याऽस्तुवतैकशफाः पशवोऽसृज्यन्त वरुणोऽधिपतिरासीत्तया । त्रयोविᳪं、शत्यास्तुवत क्षुद्राः पशवोऽसृज्यन्त पूषाऽधिपतिरासीत्तया । पञ्चविᳪं、शत्याऽस्तुवतारण्याः पशवोऽसृज्यन्त वायुरधिपतिरासीत्तया । सप्तविᳪं、शत्याऽस्तुवत द्यावापृथिवी व्यैतां वसवो रुद्रा आदित्या अनुव्यायन् तेषा- माधिपत्यमासीत्तया । नवविᳪं、शत्याऽस्तुवत वनस्पतयोऽसृज्यन्त सोमोऽधिपतिरा- सीत्तया । एकत्रिᳪं、शताऽस्तुवत प्रजा असृज्यन्त यावानां चायावानां चाधिपत्यमासी- त्तया । त्रयस्त्रिᳪं、शतास्तुवत भूतान्यशाम्यन् प्रजपतिः परमेष्ठ्यधिपतिरासीत्तया सप्तदश सृष्टीर्दक्षिणे पार्श्वे ।
[१६]अथ व्युष्टीः :-
इयमेव सा या प्रथमा व्यौच्छदन्तरस्यां चरति प्रविष्टा । वधूर्जजान नवगज्जनित्री त्रय एनां महिमानस्सचन्ते तया ॥ छन्दस्वती उषसा पेपिशाने समानँय्योनिमनु सञ्चरन्ती । सूर्यपत्नी वि चरतः प्रजानती केतुं कृण्वाने अजरे भूरिरेतसा तया ॥ ऋतस्य पन्थामनु तिस्र आऽगुस्त्रयो घर्मासो अनु ज्योतिषाऽऽगुः । प्रजामेका रक्षत्यूर्जमेका व्रतमेका रक्षति देवयूनां तया ॥ चतुष्टोमो अभवद्या तुरीया यज्ञस्य पक्षावृषयो भवन्ती । गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं बृहदर्कं युञ्जानास्सुवराभरन्निदं तया ॥ पञ्चभिर्धाता विदधाविदं यत्तासाᳪं、 स्वसॄरजनयत् पञ्चपञ्च । तासामु यन्ति प्रयवेण पञ्च नाना रूपाणि क्रतवो वसानास्तया ॥ त्रिᳪं、शत्स्वसार उप यन्ति निष्कृत‍ᳪं、 समानं केतुं प्रतिमुञ्चमानाः । ऋतूᳪं、स्तन्वते कवयः प्रजानतीर्मध्येछन्दसः परि यन्ति भास्वतीस्तया ॥ ज्योतिष्मती प्रति मुञ्चते नभो रात्री देवी सूर्यस्य व्रतानि । वि पश्यन्ति पशवो जायमाना नानारूपा मातुरस्या उपस्थे तया ॥ एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् । तेन दस्यून्व्यसहन्त देवा हन्ताऽसुराणामभवच्छचीभिस्तया ॥ अनानुजामनुजां मामकर्त सत्यँव्वदन्त्यन्विच्छ एतत् । भूयासमस्य सुमतौ यथा यूयमन्या वो अन्यामति मा प्रयुक्त तया । अभून्मम सुमतौ विश्ववेदा आष्ट प्रतिष्ठामविदद्धि गाधम् । भूयासमस्य सुमतौ यथा यूयमन्या वो अन्यामति मा प्रयुक्त तया ॥ पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च । पञ्च दिशः पञ्चदशेन क्लृप्तास्समानमूर्ध्नीरभि लोकमेकं तया ॥ ऋतस्य गर्भः प्रथमा व्यूषुष्यपामेका महिमानं बिभर्ति । सूर्यस्यैका चरति निष्कृतेषु घर्मस्यैका सवितैकान्नियच्छति तया ॥ या प्रथमा व्यौच्छत्सा धेनुरभवद्यमे । सा नः पयस्वती धुक्ष्वोत्तरामुत्तराᳪं、 समां तया ॥ शुक्रर्षभा नभसा ज्योतिषाऽऽगाद्विश्वरूपा शबलीरग्निकेतुः । समानमर्थᳪं、 स्वपस्यमाना बिभ्रती जरामजर उष आगास्तया ॥ ऋतूनां पत्नी प्रथमेयमागादह्नां नेत्री जनित्री प्रजानाम् । एका सती बहुधोषो व्युच्छस्यजीर्णा
त्वं जरयसि सर्वमन्यत्तया ॥ ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छन्तीमुषसं मर्त्यासः । अस्माभिरू नु प्रतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्याᳪं、 स्तया षोडश व्युष्टीरुत्तरे
पार्श्वे ।
त्वामग्ने वृषभं --- शिशाधि तया ऋषभमुपधाय । लोकम्पृण---। ता अस्य सूददोहस इति द्वाभ्यां चतुस्त्रिंशदधिकशतं लोकम्पृणाः ।
ततश्चितौ हिरण्यं निधाय । चित्तिमचित्तिं --- रास्वादितिमुरुष्य चितिक्लृप्त्याभिमृशति ।
यत्ते चितं यदु चितं, यास्ते अग्ने, चित्तिमचित्तिं, वयमग्ने धनवन्तः, रायस्पोषं नो धेहि जातवेदः, ईशानं त्वा शुश्रुमो, दुहां ते द्यौः, यो रुद्रो अग्नौ --- नमो अस्तु देवाः एताभिः स्वयञ्चित्याभिमृशति ।
उत्तरतः कृष्णोऽश्वस्तिष्ठति । श्यावो वा । तमालभ्य चात्वालात् पुरीषमाहृत्य । पृष्टो दिवि--- पातु नक्तम् वैश्वानर्यर्चा चितावनुव्यूहति । सा चितिर्भवति । वाङ्म आसन्नसोः --- मा मा हिᳪं、सी: प्रत्यवरोहन जपति ।
जुह्वां सकृत्सकृत् गृहीत्वा[१७]१४८ यो अप्स्वन्तरग्निः, यस्सोमे अन्तः, पृष्टो दिवि, येनेन्द्रस्य रथं, य৺हुतादमग्निं, उक्षान्नाय वशान्नाय इति षडाहुतीर्हुत्वा । अग्ने भूरीणि तव --- पृष्टबन्धो स्वाहा आग्नेय्या धामच्छदा चितिं चितिमुपधायाभिजुहोति ॥
मनुष्वत्त्वा निधीमहि मनुष्वत्समिधीमहि । अग्ने मनुष्वदङ्गिरो देवान्देवायते यज आग्नेय्यानुष्टुभा चतुर्थीं चितिमभिमृशेत् । पूर्ववन्मध्यन्दिने त्रिस्तनव्रतम् । आपराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां चरन्ति । या ते अग्ने रजाशया तनूः इत्युपसदाहुतिः । सुब्रह्मण्यान्ते श्वेतमश्वं परिणीय वसन्ति । रात्रौ द्विस्तनं व्रतम् । अग्ने त्वᳪं、 सुजागृहि इत्यादि ॥
॥ इति चतुर्थी चितिः ॥

पञ्चमीचितिः
॥ अथ पञ्चमी चितिः ॥
उपोदये अग्नीन् ज्योतिष्मतः कुरुत इत्यादि पूर्ववत् । श्वो भूते विसृष्टवाचि यजमाने पौर्वाह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचर्य पञ्चमीं चितिं चिनोति । या ते अग्ने हराशया इत्युपसदाहुतिः। सुब्रह्मण्यान्ते[१८]१४९ इष्टकादोषनिमित्तप्रायश्चित्तं पूर्ववत् । श्वेतमश्वमालभ्य वाङ्म आसन् --- मा मा हिᳪं、सीः आरोहञ्जपति ।
अथ असपत्ना: :-
अग्ने जातान्प्रणुदा नस्सपत्नान्प्रत्यजाताञ्जातवेदो नुदस्व । अस्मे दीदिहि सुमना अहेडन् तव स्याᳪं、 शर्मन् त्रिवरूथ उद्भित्तया पुरस्तादुपदधाति । सहसा जातान्प्र णुदा नस्सपत्नान्प्रत्यजाताञ्जातवेदो नुदस्व । अधि नो ब्रूहि सुमनस्यमानो वयᳪं、 स्याम प्रणुदा नस्सपत्नान्तया पश्चात् । चतुश्चत्वारिᳪं、शस्स्तोमो वर्चो द्रविणं तया दक्षिणतः । षोडश स्तोम ओजो द्रविणं तया उत्तरतः । इष्टकायां पुरीषमध्यूह्य । पृथिव्याः पुरीषमस्यप्सो नाम तया मध्येऽग्नेः पुरीषवतीम् ।
अथ विराजः :-
एवश्छन्दस्तया । वरिवश्छन्दस्तया । शम्भूश्छन्दस्तया । परिभूश्छन्दस्तया । आच्छच्छन्दस्तया । मनश्छन्दस्तया । व्यचश्छन्दस्तया । सिन्धुश्छन्दस्तया । समुद्रञ्छन्दस्तया । सलिलञ्छन्दस्तया दश पूर्वस्याम् ॥
सँय्यच्छन्दस्तया । वियच्छन्दस्तया । बृहच्छन्दस्तया । रथन्तरञ्छन्दस्तया । निकायश्छन्दस्तया । विवधश्छन्दस्तया । गिरश्छन्दस्तया । भ्रजश्छन्दस्तया । स्रष्टुप् छन्दस्तया । अनुष्टुप् छन्दस्तया दश दक्षिणतः ।
ककुच्छन्दस्तया । त्रिककुच्छन्दस्तया । काव्यञ्छन्दस्तया । अकुपञ्छन्दस्तया । पदपङ्क्तिश्छन्दस्तया । अक्षरपङ्क्तिश्छन्दस्तया । विष्टारपङ्क्तिश्छन्दस्तया । क्षुरो भृज्वान् छन्दस्तया । प्रच्छच्छन्दस्तया । पक्षश्छन्दस्तया दश पश्चात् ।
एवश्छन्दस्तया । वरिवश्छन्दस्तया । वयश्छन्दस्तया । वयस्कृच्छन्दस्तया ।
विशालञ्छन्दस्तया । विष्पर्धाश्छन्दस्तया । छदिश्छन्दस्तया । दूरोहणञ्छन्दस्तया । तन्द्रञ्छन्दस्तया । अङ्काङ्कञ्छन्दस्तया दशोत्तरतः । चत्वारिंशतं विराजो दश दश प्रतिदिशमक्ष्णया ।।
अथ स्तोमभागाः :-
रश्मिरसि क्षयाय त्वा क्षयं जिन्व तया । प्रेतिरसि धर्माय त्वा धर्मं जिन्व तया । अन्वितिरसि दिवे त्वा दिवं जिन्व तया । सन्धिरस्यन्तरिक्षाय त्वान्तरिक्षं जिन्व तया । प्रतिधिरसि पृथिव्यै त्वा पृथिवीं जिन्व तया । विष्टम्भोऽसि वृष्ट्यै त्वा वृष्टिं जिन्व तया । प्रवास्यह्ने त्वाहर्जिन्व तया । सप्त पुरस्तात् ।
अनुवासि रात्रियै त्वा रात्रिं जिन्व तया । उशिगसि वसुभ्यस्त्वा वसून् जिन्व तया । प्रकेतोऽसि रुद्रेभ्यस्त्वा रुद्रान् जिन्व तया । सुदीतिरस्यादिभ्यस्त्वाऽऽदित्यान् जिन्व तया । ओजोऽसि पितृभ्यस्त्वा पितॄन् जिन्व तया । तन्तुरसि प्रजाभ्यस्त्वा प्रजा जिन्व तया । पृतनाषाडसि पशुभ्यस्त्वा पशून् जिन्व तया । सप्त दक्षिणतः ।
रेवदस्योषधीभ्यस्त्वौषधीर्जिन्व तया । अभिजिदसि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्व तया । अधिपतिरसि प्राणाय त्वा प्राणं जिन्व तया । यन्तास्यपानाय त्वाऽपानं जिन्व तया । सᳪं、सर्पोऽसि चक्षुषे त्वा चक्षुर्जिन्व तया । वयोधा असि श्रोत्राय त्वा श्रोत्रं जिन्व तया । त्रिवृदसि तया । सप्त पश्चात् ।
प्रवृदसि तया । सँव्वृदसि तया । विवृदसि तया । सᳪं、रोहोऽसि तया । नीरोहोऽसि तया । प्ररोहोऽसि तया । अनुरोहोऽसि तया । सप्त उत्तरतः । वसुकोऽसि तया । वेषश्रिरसि तया । वस्यष्टिरसि तया तिस्रो मध्ये । एकत्रिंशत् स्तोमभागाः सप्तसप्त प्रतिदिशं अवशिष्टा मध्ये।
अथ नाकसदः :-
राज्ञ्यसि प्राची दिग्वसवस्ते देवा अधिपतयोऽग्निर्हेतीनां प्रतिधर्ता त्रिवृत्त्वा स्तोमः पृथिव्याᳪ、 श्रयत्वाज्यमुक्थमव्यथयत्स्तभ्नातु रथन्तरᳪं、 साम प्रतिष्ठित्या अन्तरिक्षायर्षयस्त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायमधिपतिश्च ते त्वा सर्वे सँव्विदाना नाकस्य पृष्ठे सुवर्गे लोके यजमानं च सादयन्तु तया ॥
विराडसि दक्षिणा दिग्रुद्रास्ते देवा अधिपतय इन्द्रो हेतीनां प्रतिधर्ता पञ्चदशस्त्वा स्तोमः पृथिव्यांᳪ、 श्रयतु प्रउगमुक्थमव्यथयत्स्तभ्नातु बृहत्साम प्रतिष्ठित्या अन्तरिक्षायर्षयस्त्वा --- यजमानं च सादयन्तु तया ॥
सम्राडसि प्रतीची दिगादित्यास्ते देवा अधिपतयस्सोमो हेतीनां प्रतिधर्ता सप्तदशस्त्वा स्तोमः पृथिव्याᳪ、 श्रयतु मरुत्वतीयमुक्थमव्यथयत्स्तभ्नातु वैरूपᳪं、 साम प्रतिष्ठित्या अन्तरिक्षायर्षयस्त्वा --- यजमानं च सादयन्तु तया ॥
स्वराडस्युदीची दिग्विश्वे ते देवा अधिपतयो वरुणो हेतीनां प्रतिधर्तैकविᳪं、शस्त्वा स्तोमः पृथिव्याᳪ、 श्रयतु निष्केवल्यमुक्थमव्यथस्यत्स्तभ्नातु वैराज‍ᳪं、 साम प्रतिष्ठित्या अन्तरिक्षायर्षयस्त्वा --- यजमानं च सादयन्तु तया ॥
अधिपत्न्यसि बृहती दिङ्मरुतस्ते देवा अधिपतयो बृहस्पतिर्हेतीनां प्रतिधर्ता त्रिणवत्रयस्त्रिᳪं、शौ त्वा स्तोमौ पृथिव्याᳪ、 श्रयतां वैश्वदेवाग्निमारुते उक्थे अव्यथयन्तीस्तभ्नीताᳪं、 शाक्वररैवते सामनी प्रतिष्ठित्या अन्तरिक्षायर्षयस्त्वा
--- यजमानं च सादयन्तु तया पञ्च नाकसदः प्रतिदिशमेकां मध्ये । तासु पुरीषमध्यूह्य ।
अथ पञ्चचोडाः :-
अयं पुरो हरिकेशस्सूर्यरश्मिस्तस्य रथगृत्सश्च रथौजाश्च सेनानिग्रामण्यौ पुञ्जिकस्थला च कृतस्थला चाप्सरसौ यातुधाना हेती रक्षाᳪं、सि प्रहेतिस्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि पाप्मानं तया ॥
अयं दक्षिणा विश्वकर्मा तस्य रथस्वनश्च रथेचित्रश्च सेनानिग्रामण्यौ मेनका च सहजन्या चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिस्तेभ्यो नमस्ते नो --- जम्भे दधामि पाप्मानं तया ॥
अयमुत्तरात्सँय्यद्वसुस्तस्य सेनजिच्च सुषेणश्च सेनानिग्रामण्यौ विश्वाची च घृताची चाप्सरसावापो हेतिर्वातः प्रहेतिस्तेभ्यो नमस्ते नो --- जम्भे दधामि पाप्मानं
तया ॥
अयमुपर्यर्वाग्वसुस्तस्य तार्क्ष्यश्चारिष्टनेमिश्च सेनानिग्रामण्यावुर्वशी च पूर्वचित्ति- श्चाप्सरसौ विद्युद्धेतिरवस्फूर्जन् प्रहेतिस्तेभ्यो नमस्ते नो --- जम्भे दधामि पाप्मानं तया ॥
अयं पश्चाद्विश्वव्यचास्तस्य रथप्रोतश्चासमरथश्च सेनानिग्रामण्यौ प्रम्लोचन्ती चाऽनुम्लोचन्ती चाप्सरसौ सर्पा हेतिर्व्याघ्राः प्रहेतिस्तेभ्यो नमस्ते नो --- जम्भे दधामि पाप्मानं तया पञ्चचोडा अभ्युपदधाति द्वेष्यं मनसा ध्यायन् । पश्चात्प्राचीमुत्तमाम् ।
अथोत्तमस्वयमातृण्णाया उपधानम् :-
आयोस्त्वा सदने सादयाम्यवतश्छायायां नमस्समुद्राय नमस्समुद्रस्य चक्षसे स्वयमातृण्णामभिमृश्य अश्वेनावघ्राप्य[१९]१५० परमेष्ठी त्वा सादयतु दिवः पृष्ठे व्यचस्वतीं प्रथस्वतीं विभूमतीं प्रभूमतीं परिभूमतीं दिवँय्यच्छ दिवं दृᳪं、ह दिवं मा हिᳪं、सीर्विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय सूर्यस्त्वाभि पातु मह्या स्वस्त्यां छर्दिषा शन्तमेन तया देवतयाङिरस्वद्ध्रुवा सीद । सुवः तिष्ठन्नविदुषा ब्राह्मणेन सह मध्येऽग्नेरुपदधाति । सुवरिति चैतया व्याहृत्या ।
चित्तिं जुहोमि --- हविः स्वाहा स्वयमातृण्ण्यायां हुत्वापानिति [२०]* । अविद्वान् ब्राह्मणो वरं ददाति । स्वयमातृण्णायाᳪं、 साम गाय इति सम्प्रेष्यति ।
प्रोथदश्वो न यवसे अविष्यन् यदा महस्सँव्वरणाद्व्यस्थात् । आदस्य वातो अनुवाति शोचिरध स्म ते व्रजनं कृष्णमस्ति तया उत्तरेंऽसे विकर्णीम् । ते नान्याभिरिष्टकाभि- रभ्युपदधाति[२१]१५१।
सुवरसि सुवर्मे यच्छ दिवं यच्छ दिवो मा पाहि तया हिरण्येष्टकाम् । द्यौरपराजितामृतेन विष्टादित्यास्ते गोप्तारस्सूर्यो वियत्तोऽस्यां तामहं प्रपद्ये सा मे शर्म च वर्म चास्तु तया मण्डलेष्टकाम् ।
जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे । घृतप्रतीको बृहता दिविस्पृशा द्युमद्विभाति भरतेभ्यः शुचिस्तया ॥ त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने । स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमङ्गिरस्तया ॥ यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समिन्धते । इन्द्रेण देवैस्सरथᳪं、 स बर्हिषि सीदन्नि होता यजथाय सुक्रतुस्तया तिस्रो जगतीः पश्चात् ।
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः । शोचिष्केशं पुरुप्रियाग्ने हव्याय वोढवे तया ॥ सखायः सँव्वः सम्यञ्चमिष‍ᳪ、 स्तोमं चाग्नये । वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते तया ॥ सᳪं、समिद्युवसे वृषन्नग्ने विश्वान्यर्य आ । इडस्पदे समिध्यसे स नो वसून्या भर तया तिस्रोऽनुष्टुभ उत्तरतः ।
एना वो अग्निं नमसोर्जो नपातमा हुवे । प्रियं चेतिष्ठमरतिᳪ、‍ स्वध्वरं विश्वस्य दूतममृतन्तया ॥ स योजते अरुषो विश्वभोजसा स दुद्रवत्स्वाहुतः । सुब्रह्मा यज्ञस्सुशमी वसूनां देव‍ᳪं、 राधो जनानान्तया ॥ उदस्य शोचिरस्थादाजुह्वानस्य मीढुषः । उद्धूमासो अरुषासो दिविस्पृशः समग्निमिन्धते नरस्तया तिस्रो बृहतीर्यथावकाशम् ।
अग्ने वाजस्य गोमत ईशानस्सहसो यहो । अस्मे धेहि जातवेदो महि श्रवस्तया ॥ स इधानो वसुष्कविरग्निरीडेन्यो गिरा । रेवदस्मभ्यं पुर्वणीक दीदिहि तया ॥ क्षपो राजन्नुत त्मनाऽग्ने वस्तोरुतोषसः । स तिग्मजम्भ रक्षसो दह प्रति तया तिस्र उष्णिहो यथावकाशम् ॥
आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । यद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषᳪ、 स्तोतृभ्य आ भर तया ॥ आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते । सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्य‍ᳪं、 हूयत इषᳪ、 स्तोतृभ्य आ भर तया ॥ उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि । उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषᳪ、 स्तोतृभ्य आ भर तया तिस्रः पङ्क्तीर्यथावकाशम् ।
अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रᳪं、 हृदि स्पृशम् । ऋध्यामा त ओहैस्तया ॥ अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः । रथीर्ऋतस्य बृहतो बभूथ तया ॥ आभिष्टे अद्य गीर्भिर्गृणन्तोऽग्ने दाशेम । प्र ते दिवो न स्तनयन्ति शुष्मास्तया । तिस्रोऽक्षरपङ्क्तीर्यथावकाशम्[२२]१५३ ।
अग्निᳪं、‍ होतारं मन्ये दास्वन्तं वसोस्सूनु‍ᳪं、 सहसो जातवेदसम् । विप्रं न जातवेदसम् । य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषस्तया अतिछन्दसं मध्ये ।
अग्ने त्वं नो अन्तम उत त्राता शिवो भव वरूथ्यस्तया । तं त्वा शोचिष्ठ दीदिवस्सु॒म्नाय नूनमीमहे सखिभ्य॒स्तया ॥ वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा नक्षि द्यु॒मत्त॑मो
रयिं दास्तया तिम्रो द्विपदा अन्ततः[२३]१५४।
इन्द्राग्निभ्यां त्वा सयुजा युजा युनज्मि तया । आघाराभ्यां त्वा सयुजा युजा युनज्मि तया । तेजसा त्वा सयुजा युजा युनज्मि तया । वर्चसा त्वा सयुजा युजा युनज्मि तया । उक्थेभिस्त्वा सयुजा युजा युनज्मि तया । स्तोमेभिस्त्वा सयुजा युजा युनज्मि तया । छन्दोभिस्त्वा सयुजा युजा युनज्मि तया । रय्यै पोषाय सजातानां मध्यमस्थेयाय मया त्वा सयुजा युजा युनज्मि तया अष्टौ सयुजः ॥
रोहितेषु त्वा जीमूतेषु सादयामि तया । अरुणेषु त्वा जीमूतेषु सादयामि तया । कृष्णेषु त्वा जीमूतेषु सादयामि तया । नीलेषु त्वा जीमूतेषु सादयामि तया । सितेषु त्वा जीमूतेषु सादयामि तया पञ्च जीमूताः ॥
अम्बा नामासि प्रजापतिना त्वा विश्वाभिर्धीभिरुप दधामि तया ॥ दुला नामासि प्रजापतिना त्वा विश्वाभिर्धीभिरुप दधामि तया ॥ नितत्निर्नामासि प्रजापतिना त्वा विश्वाभिर्धीभिरुप दधामि तया ॥ अभ्रयन्ती नामासि प्रजापतिना त्वा विश्वाभिर्धीभिरुपदधामि तया ॥ मेघयन्ती नामासि प्रजापतिना त्वा विश्वाभिर्धीभिरुप दधामि तया ॥ वर्षयन्ती नामासि प्रजापतिना त्वा विश्वाभिर्धीभिरुप दधामि तया ॥ चुपुणीका नामासि प्रजापतिना त्वा विश्वाभिर्धीभिरुप दधामि तया सप्त कृत्तिकाः ॥
पुरोवातसनिरसि तया । अभ्रसनिरसि तया । विद्युत्सनिरसि तया । स्तनयित्नुसनिरसि तया । वृष्टिसनिरसि तया पञ्च वृष्टिसनीरनुपरिहारम् । प्रतिदिशमेकां मध्ये
सलिलाय त्वा तया । सर्णीकाया त्वा तया । सतीकाय त्वा तया । केताय त्वा तया । प्रचेतसे त्वा तया । विवस्वते त्वा तया । दिवस्त्वा ज्योतिषे तया । आदित्येभ्यस्त्वा तया अष्टावादित्येष्टकाः ॥
ऋचे त्वा तया । रुचे त्वा तया । द्युते त्वा तया । भासे त्वा तया । ज्योतिषे त्वा तया पञ्च घृतेष्टका अनुपरिहारम् ॥
यशोदां त्वा यशसि सादयामि तेनर्षिणा तेन ब्रह्मणा तया । तेजोदां त्वा तेजसि सादयामि तेनर्षिणा तेन ब्रह्मणा तया । पयोदां त्वा पयसि सादयामि तेनर्षिणा तेन ब्रह्मणा तया । वर्चोदां त्वा वर्चसि सादयामि तेनर्षिणा तेन ब्रह्मणा तया । द्रविणोदां त्वा दविणे सादयामि तेनर्षिणा तेन ब्रह्मणा तया पञ्च यशोदाः[२४]१५५ ॥
भूयस्कृदसि तया । वरिवस्कृदसि तया । प्राच्यसि तया । ऊर्ध्वासि तया । अन्तरिक्षसदस्यन्तरिक्षे सीद तया पञ्च भूयस्कृतः ॥
अप्सुषदसि तया । श्येनसदसि तया । गृध्रसदसि तया । सुपर्णसदसि तया । नाकसदसि तया । पञ्चाग्निरूपाणि ॥
पृथिव्यास्त्वा द्रविणे सादयामि तया । अन्तरिक्षस्य त्वा द्रविणे सादयामि तया ।
दिवस्त्वा द्रविणे सादयमि तया । दिशां त्वा द्रविणे सादयमि तया । द्रविणोदां त्वा द्रविणे सादयमि तया पञ्च द्रविणोदाः ॥
प्राणं मे पाहि तया । अपानं मे पाहि तया । व्यानं मे पाहि तया । आयुर्मे पाहि तया । विश्वायुर्मे पाहि तया । सर्वायुर्मे पाहि तया षडायुष्याः ॥
अग्ने यत्ते परᳪं、 हृन्नाम तावेहि सᳪं、रभावहै पाञ्चजन्येष्वप्येध्यग्ने तया अग्नेर्हृदयम् ॥
यावास्तया । अयावास्तया । एवास्तया । ऊमास्तया । सब्दस्तया । सगरस्तया । सुमेकस्तया सप्तर्तव्याः । एतासु ऋतव्यासु न अवकामनूपदधाति ॥
विश्वकर्मा दिशां पतिस्स नः पशून्पातु सोऽस्मान् पातु तस्मै नमस्तया । प्रजापतिर्दिशां पतिस्स नः पशून्पातु सोऽस्मान् पातु तस्मै नमस्तया । रुद्रो दिशां पतिस्स नः पशून्पातु सोऽस्मान् पातु तस्मै नमस्तया । वरुणो दिशां पतिस्स नः पशून्पातु सोऽस्मान् पातु तस्मै नमस्तया । अग्निर्दिशां पतिस्स नः पशून्पातु सोऽस्मान् पातु तस्मै नमस्तया पञ्च हिरण्येष्टकाः प्रतिदिशमेकां मध्ये ॥
प्राणाय त्वा चक्षुषे त्वा तया । व्यानाय त्वा चक्षुषे त्वा तया । अपानाय त्वा चक्षुषे त्वा तया । वाचे त्वा चक्षुषे त्वा तया चतस्रः स्वयमातृण्णाः प्रतिदिशम् ॥
त्वामग्ने वृषभं चेकितानं पुनर्युवानं जनयन्नुपागाम् । अस्थूरि णो गार्हपत्यानि सन्तु तिग्मेन नो ब्रह्मणा सᳪं、 शिशाधि तया ऋषभेष्टकामुपदधाय ।
संवत्सरस्य प्रतिमां यां त्वा रात्र्युपासते । प्रजाᳪं、 सुवीराङ्कृत्वा विश्वमायुर्व्यश्नवत्तया
प्राजापत्याम् ।
शतायुधाय शतवीर्याय शतोतयेऽभिमातिषाहे । शतं यो नश्शरदो अजीतानिन्द्रो नेषदति दुरितानि विश्वा तया ॥ ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति । तेषां यो अज्यानिमजीतिमावहात्तस्मै नो देवाः परि दत्तेह सर्वे तया ॥ ग्रीष्मो हेमन्त उत नो वसन्तश्शरद्वर्षास्सुवितन्नो अस्तु । तेषामृतूनाᳪं、 शतशारदानान्निवात एषामभये स्याम तया ॥ इदुवत्सराय परिवत्सराय सँव्वत्सराय कृणुता बृहन्नमः ।
तेषां वय‍ᳪं、 सुमतौ यज्ञियानां ज्योगजीता अहतास्स्याम तया ॥ भद्रान्नश्श्रेयस्समनैष्ट देवास्त्वयाऽवसेन समशीमहि त्वा । स नो मयोभूः पितो आ विशस्व शन्तोकाय तनुवे स्योनस्तया पञ्चाज्यानीः प्रतिदिशमेकां मध्ये
इन्द्रस्य वज्रोऽसि वार्त्रघ्नस्तनूपा नः प्रतिस्पशः । यो नः पुरस्स्तादघायुरभिदासत्येतᳪं、 सोऽश्मानमृच्छतु तया ॥ इन्द्रस्य वज्रोऽसि वार्त्रघ्नस्तनूपा नः प्रतिस्पशः । यो नो दक्षिणतोऽघायुरभिदासत्येतᳪं、 सोऽश्मानमृच्छतु तया ॥ इन्द्रस्य वज्रोऽसि वार्त्रघ्नस्तनूपा नः प्रतिस्पशः । यो नः पश्चादघायुरभिदासत्येतᳪं、 सोऽश्मानमृच्छतु तया ॥ इन्द्रस्य वज्रोऽसि वार्त्रघ्नस्तनूपा नः प्रतिस्पशः । यो न उत्तरतोऽघायुरभिदासत्येत‍ᳪं、 सोऽश्मानमृच्छतु तया चतस्रो वज्रिणीः प्रतिदिशमश्मनः इषुहस्त उपदधाति ।
इन्द्रस्य वज्रोऽसि वार्त्रघ्नस्तनूपा नः प्रतिस्पशः । यो न उपरिष्टादघायुरभिदासत्येतᳪं、 सोऽश्मानमृच्छतु तया मध्ये पञ्चमीमेके समामनन्ति ।
अग्ने यशस्विन् यशसेममर्पयेन्द्रावतीमपचितीमिहाऽऽवह । अयं मूर्धा परमेष्ठी सुवर्चास्समानानामुत्तमश्लोको अस्तु तया ॥ भद्रं पश्यन्त उप सेदुरग्रे तपो दीक्षामृषयस्सुवर्विदः । ततः क्षत्रं बलमोजश्च जातन्तदस्मै देवा अभि सन्नमन्तु तया ॥ धाता विधाता परमोत सन्दृक्प्रजापतिः परमेष्ठी विराजा । स्तोमाश्छन्दाᳪं、सि निविदो म आहुरेतस्मै राष्ट्रमभिसन्नमाम तया ॥ अभ्यावर्तध्वमुपमेत साकमयᳪं、 शास्ताऽधिपतिर्वो अस्तु । अस्य विज्ञानमनु सᳪं、रभध्वमिमं पश्चादनु जीवाथ सर्वे तया चतस्रो राष्ट्रभृतः पुरस्तादुपधाय हिरण्येष्टकाभिः सर्वतोमुखमुपदधाति ।
अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपाᳪं、 रेताᳪं、सि जिन्वति तया गायत्रीं पुरस्तादुपदधाति ॥
भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिस्सचसे शिवाभिः । दिवि मूर्धानं दधिषे सुवर्षां जिह्वामग्ने चकृषे हव्यवाहं तया त्रिष्टुभम् दक्षिणे पक्षे ॥
जनस्य गोपा अजनिष्ट जागृविरग्निस्सुदक्षः सुविताय नव्यसे । घृतप्रतीको बृहता दिविस्पृशा द्युमद्वि भाति भरतेभ्यः शुचिस्तया जगतीम् पुच्छे ॥
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः । शोचिष्केशं पुरुप्रियाग्ने हव्याय वोढवे तया अनुष्टुभमुत्तरे पक्षे ॥
अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रᳪं、 हृदिस्पृशम् । ऋध्यामा त ओहैस्तया पङ्क्तिं मध्ये ॥
लोकम्पृण --- असीषदन्न् ॥ ता अस्य सूददोहसः --- दिवस्तया। इति द्वाभ्यां
अवशिष्टमेकविंशत्या[२५]१५६ पञ्चभिर्वा लोकम्पृणाभिः प्रच्छादयति ॥
ततश्चितौ हिरण्यं निधाय । चित्तिमचित्तिं --- रास्वादितिमुरुष्य चितिक्लृप्त्याभिमृशति ।
यत्ते चितं यदु चितं, यास्ते अग्ने, चित्तिमचित्तिं, वयमग्ने धनवन्तः, रायस्पोषं नो धेहि जातवेदः, ईशानं त्वा शुश्रुमो, दुहां ते द्यौः, यो रुद्रो अग्नौ --- नमो अस्तु देवाः एताभिः स्वयञ्चित्याभिमृशति ।
उत्तरतः कृष्णोऽश्वस्तिष्ठति । श्यावो वा । तमालभ्य चात्वालात् पुरीषमाहृत्य । पृष्टो दिवि --- पातु नक्तम् वैश्वानर्यर्चा चितावनुव्यूहति । सा चितिर्भवति । वाङ्म आसन्नसोः --- मा मा हिᳪं、सीः प्रत्यवरोहन् जपति ।
जुह्वां सकृत् सकृत् गृहीत्वा[२६]१५७ यो अप्स्वन्तरग्निः, यस्सोमे अन्तः, पृष्टो दिवि, येनेन्द्रस्य रथं, यᳪं、हुतादमग्निं, उक्षान्नाय वशान्नाय इति षडाहुतीर्हुत्वा । अग्ने भूरीणि तव --- पृष्टबन्धो स्वाहा आग्नेय्या धामच्छदा चितिं चितिमुपधायाभिजुहोति ॥
अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः । अग्नी राये स्वाभुवं सप्रीतो याति वार्यमिष‍ᳪ、 स्तोतृभ्य आभर आग्नेय्या पङ्क्त्या पञ्चमीं चितिमभिमृशति ॥
तदानीमेव आपराह्णिकीभ्यां प्रवर्ग्योपसद्भ्यां प्रचरन्ति । प्रवर्ग्येण प्रचरिष्यन्त इत्यादि समानम् । तूष्णीं समिधमाधाय भूः स्वाहा इत्यग्निहोत्रहोमः । या ते अग्ने हराशया इत्युपसदाहुतिः ।

संचितिः ( रौद्राग्नेः शान्तिकर्म)
॥ अथ सञ्चितकर्म ॥
सुब्रह्मण्यान्ते श्वेतमश्वं परिणीय अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्त्याशवः ॥ युक्ष्वा हि देवहूतमाᳪं、 अश्वाᳪं、 अग्ने रथीरिव । नि होता पूर्व्यस्सदः द्वाभ्यां सञ्चितमग्निमभिमृशति । ब्रह्मा दक्षिणत आस्ते ।
वसवस्त्वा रुद्रैः पुरस्तात्पान्तु पुरस्तात् प्रत्यङ्मुखः । न प्राचीनावीती[२७]१५८ पितरस्त्वा यमराजानः पितृभिर्दक्षिणतः पान्तु दक्षिणत उदङ्मुखः । प्रसव्यमेत्य आदित्यास्त्वा विश्वैर्देवैः पश्चात्पान्तु पश्चात् प्राङ्मुखः । द्युतानस्त्वा मारुतो मरुद्भिरुत्तरतः पातु उत्तरतो दक्षिणामुखः । देवास्त्वेन्द्रज्येष्ठा वरुणराजानोऽधस्ताच्चोपरिष्टाच्च पान्तु एतैर्यथालिङ्गं सञ्चितमग्निमाज्येन प्रोक्षति । मध्य उत्तमेन प्राङ्मुखः ।
सहस्रस्य प्रमा असि । सहस्रस्य प्रतिमा असि । सहस्रस्य विमा असि । सहस्रस्योन्मा असि । साहस्रोऽसि सहस्राय त्वा सहस्रेण हिरण्यशल्कैः ऊर्ध्वस्तिष्ठन् प्रतिदिशमग्निं प्रोक्षति द्वाभ्यां द्वाभ्यां शताभ्याम् । मध्य उत्तमाभ्यां प्राङ्मुखः ॥
इमा मे अग्न इष्टका धेनवस्सन्त्वेका च शतं च सहस्रं चायुतं च नियुतं च प्रयुतं चार्बुदं च न्यर्बुदं च समुद्रश्च मध्यं चान्तश्च परार्धश्चेमा मे अग्न इष्टका धेनवस्सन्तु षष्टिस्सहस्रमयुतमक्षीयमाणा ऋतस्थास्स्थर्तावृधो घृतश्चुतो मधुश्चुत ऊर्जस्वतीस्स्वधाविनीस्ता मे अग्न इष्टका धेनवस्सन्तु विराजो नाम कामदुघा अमुत्रामुष्मिँल्लोके इष्टका धेनूः यजमानः कुरुते ॥
अध्वर्युः - अग्निरसि वैश्वानरोऽसि । सँव्वत्सरोऽसि परिवत्सरोऽसि । इदावत्सरोऽ- सीदुवत्सरोऽसि । इद्वत्सरोऽसि वत्सरोऽसि । तस्य ते वसन्तश्शिरः । ग्रीष्मो दक्षिणः पक्षः । वर्षाः पुच्छम् । शरदुत्तरः पक्षः । हेमन्तो मध्यम् । पूर्वपक्षाश्चितयः । अपरपक्षाः पुरीषम् । अहोरात्राणीष्टकाः । तस्य ते मासाश्चार्धमासाश्च कल्पन्ताम् । ऋतवस्ते कल्पन्ताम् । सँव्वत्सरस्ते कल्पताम् । अहोरात्राणि ते कल्पन्ताम् । एति प्रेति वीति समित्युदिति । प्रजापतिस्त्वा सादयतु । तया देवतयाङ्गिरस्वद्ध्रुवस्सीद । ऐडिक्या चित्या अध्वर्युरग्निमभिमृश्य । शतरुद्रीयं जुहोति ।
शतरुद्रीयहोम: :-
जर्तिलयवाग्वा गवीधुकयवाग्वा वा जर्तिलैर्गवीधुकसक्तुभिः कुसयसर्पिषाऽजाक्षीरेण मृगीक्षीरेण वा जुहुयात् अर्कपर्णेन उदङ्मुखस्तिष्ठन् । उत्तरस्य पक्षस्य उत्तरापरस्यां स्रक्त्यां विकर्ण्यां स्वयमातृण्णायां अनुपरिचारं वा । नमस्ते रुद्रमन्यव इत्येताननुवाकान् त्रैधं विभज्य[२८]१५९ उक्तक्षीराणामन्यतमेन माहिषक्षीरेण वा उत्तरपक्षस्य अपरकोणसमीपे लौकिकेष्टकाभिः अग्निसंमितं पीठं कृत्वा तत्रस्थ एव दक्षिणेनार्कपर्णेन सन्ततया धारया शतरुद्रियानुवाकानां तृतीयेन नमस्ते रुद्रमन्यव इत्यारभ्य नमस्सभाभ्यः सभापतिभ्यश्च वो नमः स्वाहा इत्यन्तं जानुदघ्ने धारयमाणो जुहोति । रुद्रेभ्य इदम्[२९]१६०। स्वयमातृण्णायां चेद्दीर्घवंशान्तर्गतपर्वस्थलानि छित्वा तदन्तेऽर्कपर्णं बध्वा वंशे पय आसिच्य तेन सन्ततया धारया जुहुयात् । नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नम इत्यारभ्य नमः पार्याय चावार्याय च स्वाहा नाभिदघ्ने जुहोति । रुद्रेभ्य इदम् ॥ नमः प्रतरणाय च इत्यारभ्य य एतावन्तश्च --- तन्मसि स्वाहा आस्यदघ्ने जुहोति । रुद्रेभ्य इदम् ॥
अस्मिन् महत्यादिषु चाष्टकेषु तेषां सहस्रेत्यनुषङ्ग इष्टः ।
नमो रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तँव्वो जम्भे दधामि स्वाहा जानुदघ्ने जुहोति । रुद्रेभ्य इदम् ॥
नमो रुद्रेभ्यो येऽन्तरिक्षे येषां वात इषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तँव्वो जम्भे दधामि स्वाहा नाभिदघ्ने जुहोति । रुद्रेभ्य इदम् ॥
नमो रुद्रेभ्यो ये दिवि येषां वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तँव्वो जम्भे दधामि स्वाहा आस्यदघ्ने जुहोति[३०]१६१ । रुद्रेभ्य इदम् ॥ नमो रुद्रेभ्यः इत्येतानेव यजमानं वाचयति ।
[३१]१६२अपि वा नमस्ते रुद्रमन्यव इत्युपक्रम्य नमस्तक्षभ्यस्स्वाहा जानुदघ्ने धारयमाणो जुहोति । रुद्रेभ्य इदम् । रथकारेभ्यश्च वो नम इत्युपक्रम्य नमस्स्वायुधाय च स्वाहा नाभिदघ्ने धारयमाणो जुहोति । रुद्रेभ्य इदम् । सुधन्वने च इत्युपक्रम्य पराचीना मुखा कृधि स्वाहा आस्यदघ्ने धारयमाणो जुहोति । रुद्रेभ्य इदमिति सर्वत्र त्यागः ।
सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् । तेषांᳪं、 सहस्रयोजनेऽव धन्वानि तन्मसि स्वाहा ॥
अस्मिन्महत्यर्णवेऽन्तरिक्षे भवा अधि । तेषाᳪं、 सहस्रयोजनेऽव धन्वानि तन्मसि स्वाहा ॥
नीलग्रीवाः शितिकण्ठाः शर्वा अधः, क्षमाचराः । तेषाᳪं、 सहस्रयोजनेऽव धन्वानि तन्मसि स्वाहा ॥
नीलग्रीवाः शितिकण्ठा दिवᳪं、 रुद्रा उपश्रिताः । तेषा‍ᳪं、 सहस्रयोजनेऽव धन्वानि तन्मसि स्वाहा ॥
ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः । तेषाᳪं、 सहस्रयोजनेऽव धन्वानि तन्मसि स्वाहा ॥
ये भूतानामधिपतयो विशिखासः कपर्दिनः । तेषाᳪं、 सहस्रयोजनेऽव धन्वानि तन्मसि स्वाहा ॥
ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् । तेषाᳪं、 सहस्रयोजनेऽव धन्वानि तन्मसि स्वाहा ॥
ये पथां पथिरक्षय ऐलबृदा यव्युधः । तेषाᳪं、 सहस्रयोजनेऽव धन्वानि तन्मसि स्वाहा ॥
ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः । तेषा‍ᳪं、 सहस्रयोजनेऽव धन्वानि तन्मसि स्वाहा ॥
य एतावन्तश्च भूयाᳪं、सश्च दिशो रुद्रा वितस्थिरे । तेषाᳪं、 सहस्रयोजनेऽव धन्वानि तन्मसि स्वाहा ॥ इत्येताभिः दशभिः प्रतिमन्त्रं जुहोति ।
नमो रुद्रेभ्य इति तिसृभिः पूर्ववदन्वारोहं जुहोति । नमो रुद्रेभ्यो ये पृथिव्यां ---दधामि स्वाहा इति जानुदघ्ने । नमो रुद्रेभ्यो येऽन्तरिक्षे ----दधामि स्वाहा इति नाभिदघ्ने । नमो रुद्रेभ्यो ये दिवि --- दधामि स्वाहा इत्यास्यदघ्ने । आरोहान् हुत्वा एतानेव यजमानं वाचयित्वा एतानेव विपरीतान् प्रत्यवरोहान् जुहोति ।
नमो रुद्रेभ्यो ये दिवि --- दधामि स्वाहा इत्यास्यदघ्ने । नमो रुद्रेभ्यो येऽन्तरिक्षे --- दधामि स्वाहा इति नाभिदघ्ने । नमो रुद्रेभ्यो ये पृथिव्यां --- दधामि स्वाहा
इति जानुदघ्ने । असञ्चरे पशूनामर्कपर्णमुदस्यति । अप उपस्पृश्य । यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाविवेश तस्मै रुद्राय नमो अस्तु रौद्रं गावीधुकं चरुं लौकिकेऽग्नौ श्रपयित्वा एतेन यजुषा यस्यामिष्टकायां शतरुद्रीयं जुहोति तस्यां प्रतिष्ठापयति ।
तिसृधन्वमयाचितं यजमानो ब्राह्मणाय दत्वा अध्वर्यवे[३२]१६३ । यत्ते रुद्र पुरो धनुस्तद्वातो अनु वातु ते तस्मै ते रुद्र सँव्वत्सरेण नमस्करोमि इति पुरस्ताप्रत्यङ्मुखः । यत्ते रुद्र दक्षिणा धनुस्तद्वातो अनु वातु ते तस्मै ते रुद्र परिवत्सरेण नमस्करोमि इति दक्षिणत उदङ्मुखः। यत्ते रुद्र पश्चाद्धनुस्तद्वातो अनु वातु ते तस्मै ते रुद्रेदावत्सरेण नमस्करोमि इति पश्चात्प्राङ्मुखः । यत्ते रुद्रोत्तराद्धनुस्तद्वातो अनु वातु ते तस्मै ते रुद्रेदुवत्सरेण नमस्करोमि इति उत्तरतो दक्षिणामुखः । यत्ते रुद्रोपरि धनुस्तद्वातो अनु वातु ते तस्मै ते रुद्र वत्सरेण नमस्करोमि इति पश्चात्प्राङ्मुख उपरिष्टात् । एवमेतैः सञ्चितमग्निं यथालिङ्गमुपतिष्ठते ।
उदकुम्भमादायाध्वर्युः । अश्मन्नूर्जं पर्वते शिश्रियाणां वाते पर्जन्ये वरुणस्य शुष्मे । अद्भ्य ओषधीभ्यो वनस्पतिभ्योऽधि सम्भृतां तां न इषमूर्जं धत्त मरुतः सᳪं、रराणाः त्रिः प्रदक्षिणमग्निं परिषिञ्चन् पर्येति । निधाय कुम्भं पुनरादाय । अश्मᳪ、स्ते क्षुत्पाप्मानं[३३]१६४ ते शुगृच्छतु यं द्विष्मः त्रिरपरिषिञ्चन् प्रतिपर्येति[३४]१६५ । अवकां वेतसशाखां मण्डूकं च दीर्घवंशे प्रबध्य समुद्रस्य त्वाऽवाकयाऽग्ने परि व्ययामसि । पावको अस्मभ्यं ᳪं、 शिवो भव ॥ हिमस्य त्वा जरायुणाऽग्ने परि व्ययामसि । पावको अस्मभ्य‍ᳪं、 शिवो भव ॥ उप ज्मन्नुपवेतसेऽवत्तरं नदीष्वा । अग्ने पित्तमपामसि ॥ मण्डूकि ताभिरा गहि सेमं नो यज्ञम् । पावकवर्णᳪं、 शिवं कृधि ॥ पावक आ चितयन्त्या कृपा । क्षामन्रुरुच उषसो न भानुना ॥ तूर्वन्न यामन्नेतशस्य नू रण आ यो घृणे । न ततृषाणो अजरः ॥ अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान् वक्षि यक्षि च ॥ स नः पावक दीदिवोऽग्ने देवाᳪं、 इहाऽऽवह । उप यज्ञ‍ᳪं、 हविश्च नः सप्तभिरष्टाभिर्वा अग्निं विकर्षति । विकर्षन्नेवानुगमयित्वा मण्डूकस्य प्राणान् सर्वान् सँल्लोभ्योत्करे उदस्याप उपस्पृश्य पृष्ठैरुपतिष्ठते ।
गायत्रेण पुरस्तादुपतिष्ठते । बृहद्रथन्तराभ्यां पक्षी । ऋतुस्थायज्ञायज्ञियेन पुच्छम् । दक्षिणस्यां श्रोण्यां वारवन्तीयेन । उत्तरस्यां वामदेव्येन । अपिपक्षे प्रजापतेः सामानृचं[३५]१६६ गायति । अथवा प्रस्तोता स्वाधीतेन[३६]१६७ अग्न आयूंषीत्यादि । स्तुतस्य स्तुतमसि --- पतयो रयीणां अध्वर्युर्यजमानं वाचयति । अथाग्निं सञ्चितमनुगीतमनुशंसेत्[३७]१६८ । यजमानः पश्चादग्निपुच्छस्योपविश्य[३८]१६९ अभिहिङ्कृत्य हिं भूर्भुवस्सुवरो३म् अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नामो३म् इति त्रिः मध्यमया वाचा । शस्त्रस्य शस्त्रमसि --- पतयो रयीणां अध्वर्युर्यजमानं वाचयति । अग्ने युक्ष्वाहीत्याद्येतदन्तं ब्रह्मा दक्षिणत आस्ते । एतत्संचितं कर्म ॥
अत्र प्रवर्ग्यमुद्वासयति । प्रवर्ग्यमुद्वासयिष्यन्नित्यादि इममूषुत्यमस्मभ्यमित्यन्तम् ।
जुह्वां पञ्चगृहीतं गृहीत्वा । स्वयं कृण्वानस्सुगमप्रयावं तिग्मशृङ्गो वृषभश्शोशुचानः । प्रत्नᳪं、 सधस्थमनुपश्यमान आतन्तुमग्निर्दिव्यं ततान स्वाहा । अग्नये तन्तुमत इदम् । त्वं नस्स्तन्तुरुत सेतुरग्ने त्वं पन्था भवसि देवयानः । त्वयाग्ने पृष्ठं वयमारुहेमाथा देवैस्सधमादं मदेम स्वाहा । अग्नये तन्तुमत इदम् । अतिसर्गं वदतो मानवायर्जुं पन्थामनु पश्यमानाः । अजुषन्त मरुतो यज्ञमेतं वृष्टिर्देवानाममृतᳪ、 स्वर्विदᳪ、 स्वाहा[३९]१७०
मरुद्भ्य इदम् । आवर्तमानो भुवनस्य मध्ये प्रजा विकुर्वन् जनयन्विरूपाः । संवत्सरः परमेष्ठी धृतव्रतो यज्ञं नः पातु रजसः पुरस्तात्स्वाहा[४०]१७१ संवत्सराय परमेष्ठिन इदम् । प्रजां दधातु परिवत्सरो नो धाता ददातु सुमनस्यमानः । बह्वीस्साकं बहुधा विश्वरूपा एकव्रता मामभि[४१]१७२ संविशन्तु स्वाहा । परिवत्सराय धात्र इदम् । पञ्चान्वारोहान् शालामुखीये हुत्वा अपरं पञ्चगृहीतं गृहीत्वा कार्ष्णी उपानहावुपमुञ्चते । चिते त्वा दक्षिणाम् । मनुचिते[४२]१७३ त्वा उत्तराम् । एवं यजमानः कार्ष्र्णी उपानहौ चिते त्वा, मनुचिते त्वा । अपामिदं न्ययन‍ᳪं、 समुद्रस्य निवेशनम् । अन्यं ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यᳪं、 शिवो भव ॥ नमस्ते हरसे शोचिषे नमस्ते अस्त्वर्चिषे । अन्यं ते अस्मत्तपन्तु हेतयः पावको अस्मभ्यᳪं、 शिवो भव द्वाभ्यामध्वर्युरग्निमधिरोहति ।
पृथिवीमाक्रमिषं प्राणो मा मा हासीत् । अन्तरिक्षमाक्रमिषं प्रजा मा मा हासीत् । दिवमाक्रमिष‍ᳪं、 सुवरगन्म । एतैर्यजमानोऽधिरोहति ।
सर्वत्र हिरण्यमुपास्यन् । नृषदे वट् दक्षिणमंसम् । नृषद इदम् । अप्सुषदे वट् उत्तरां श्रोणिम् । अप्सुषद इदम् । वनसदे वट् दक्षिणां श्रोणिम् । वनसद इदम् । बर्हिषदे वट् उत्तरमंसम् । बर्हिषद इदम् । सुवर्विदे वट् मध्ये । सुवर्विद इदम् । पञ्चभिरुत्तरवेदिवत् अग्निं स्वयमातृण्णां वा व्याघार्य । उद्ग्रहणान्तम् । न स्वाहाकारः । सर्वत्र अग्नय इदमिति वा ।
ये देवा देवानां यज्ञिया यज्ञियानाᳪं、 सँव्वत्सरीणमुप भागमासते । अहुतादो हविषो यज्ञे अस्मिन्त्स्वयं जुहुध्वं मधुनो घृतस्य ॥ ये देवा देवेष्वधि देवत्वमायन् ये ब्रह्मणः पुरएतारो अस्य । येभ्यो नर्ते पवते धाम किञ्चन न ते दिवो न पृथिव्या अधि स्नुषु द्वाभ्यामनुपरिचारं दध्ना मधुमिश्रेण दर्भग्रुमुष्टिना अग्निं व्यवोक्ष्य कूर्मपृषन्तं[४३]१७४ कृत्वा ॥ प्राणदा अपानदा व्यानदाश्चक्षुर्दा वर्चोदा वरिवोदाः । अन्यं ते अस्मत्तपन्तु हेतयः पावको अस्मभ्य‍ᳪं、 शिवो भव प्रत्यवरुह्य । तूष्णीं यजमानः प्रत्यवरोहति । उभावुपानहावुन्मुच्य । जुह्वां सकृद्गृहीत्वा अग्निस्तिग्मेन शोचिषा यᳪं、सद्विश्वं न्यत्रिणम् । अग्निर्नो वᳪं、सते रयिम् ॥ सैनाऽनीकेन सुविदत्रो अस्मे यष्टा देवाᳪं、 आयजिष्ठः स्वस्ति । अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि स्वाहा द्वाभ्यां शालामुखीये अग्नयेऽनीकवत एकामाहुतिं जुहोति ॥ अग्नयेऽनीकवत इदम् ॥
वैश्वकर्महोमः :-
षोडशगृहीतेन स्रुचं पूरयित्वा शालामुखीये एव वैश्वकर्मणानि जुहोति । य इमा विश्वा भुवनानि जुह्वदृषिर्होता निषसादा पिता नः । स आशिषा द्रविणमिच्छमानः परमच्छदो वर आ विवेश ॥ विश्वकर्मा मनसा यद्विहाया धाता विधाता परमोत सन्दृक् । तेषामिष्टानि समिषा मदन्ति यत्र सप्तऋषीन् पर एकमाहुः ॥ यो नः पिता जनिता यो विधाता यो नस्सतो अभ्या सज्जजान । यो देवानां नामधा एक एव तᳪं、 सम्प्रश्नं भुवना यन्त्यन्या ॥ त आऽयजन्त द्रविणᳪं、 समस्मा ऋषयः पूर्वे जरितारो न भूना । असूर्ता सूर्ता रजसो विमाने ये भूतानि समकृण्वन्निमानि ॥ न तं विदाथ य इदं जजानान्यद्युष्माकमन्तरं भवाति । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति ॥ परो दिवा पर एना पृथिव्या परो देवेभिरसुरैर्गुहा यत् । कᳪ、 स्विद्गर्भं प्रथमं दध आपो यत्र देवाः समगच्छन्त विश्वे ॥ तमिद्गर्भं प्रथमं दध्र आपो यत्र देवास्समगच्छन्त विश्वे । अजस्य नाभावध्येकमर्पितं यस्मिन्निदं विश्वं भुवनमधि श्रितम् ॥ विश्वकर्मा ह्यजनिष्ट देव आदिद्गन्धर्वो अभवद् द्वितीयः । तृतीयः पिता जनितौषधीनामपां गर्भं व्यदधात् पुरुत्रा स्वाहा ॥ अर्धमाज्यं जुहोति । विश्वकर्मण इदं ।
चक्षुषः पिता मनसा हि धीरो घृतमेने अजनन्नन्नमाने । यदेदन्ता अददृᳪं、हन्त पूर्व आदिद्यावापृथिवी अप्रथेताम् ॥ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् । सं बाहुभ्यां नमति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः ॥ किᳪ、 स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्किमासीत् । यदी भूमिं जनयन्विश्वकर्मा वि द्यामौर्णोन्महिना विश्वचक्षाः ॥ किᳪ、 स्विद्वनं क उ स वृक्ष आसीद्यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदु तद्यदध्यतिष्ठद् भुवनानि धारयन्न् ॥ या ते धामानि परमाणि याऽवमा या मध्यमा विश्वकर्मन्नुतेमा । शिक्षा सखिभ्यो हविषि स्वधावस्स्वयं यजस्व तनुवं जुषाणः ॥ वाचस्पतिं विश्वकर्माणमूतये मनोयुजं वाजे अद्या हुवेम । स नो नेदिष्ठा हवनानि जोषते विश्वशम्भूरवसे साधुकर्मा | विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व तनुवं जुषाणः । मुह्यन्त्वन्ये अभितस्सपत्ना इहास्माकं मघवा सूरिरस्तु ॥ विश्वकर्मन्, हविषा वर्धनेन त्रातारमिन्द्रमकृणोरवध्यम् । तस्मै विशस्समनमन्त पूर्वीरयमुग्रो विहव्यो यथाऽसत्स्वाहा । विश्वकर्मण इदम् । नानासूक्ताभ्यां द्वे आहुती हुत्वा ।

अग्निप्रणयनम्
अग्निप्रणयनम् :-
उदेनमुत्तरां नयाग्ने घृतेनाऽऽहुत । रायस्पोषेण स‍ᳪं、 सृज प्रजया च धनेन च ॥ अग्नय इदम् । इन्द्रेमं प्रतरां कृधि सजातानामसद्वशी । समेनं वर्चसा सृज देवेभ्यो भागधा असत् ॥ इन्द्रायेदम् । यस्य कुर्मो हविर्गृहे तमग्ने वर्धया त्वम् । तस्मै देवा अधि ब्रवन्नयं च ब्रह्मणस्पतिः अग्नय इदम् । औदुम्बरीस्समिधो घृतोषितास्तिसृभिस्तिस्र आधाय । पशुबन्धवदग्निं प्रणयति । आहवनीये प्रणयनीयमिध्ममादीप्य सिकताभिरुपयम्य अग्नये प्रणीयमानायानुब्रू३हि । उदु त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः । स नो भव शिवतमः सुप्रतीको विभावसुः उद्यम्याग्निमाहवनीय उद्यतहोमं जुहोति यत्ते पावक चकृम --- पुरस्तात्स्वाहा । अपादानभूतायाग्नय इदम् । प्रथमायां त्रिरनूक्तायां पञ्च दिशो दैवीर्यज्ञमवन्तु देवीरपामतिं दुर्मतिं बाधमानाः । रायस्पोषे यज्ञपतिमाभजन्तीः ॥ रायस्पोषे अधि यज्ञो अस्थात्समिद्धे अग्नावधि मामहानः । उक्थपत्र ईड्यो गृभीतस्तप्तं घर्मं परिगृह्यायजन्त ॥ ऊर्जा यद्यज्ञमशमन्त देवा दैव्याय धर्त्रे जोष्ट्रे । देवश्रीश्श्रीमणा- श्शतपयाः परिगृह्य देवा यज्ञमायन् ॥ सूर्यरश्मिर् हरिकेशः पुरस्तात्सविता ज्योतिरुदयाᳪं、 अजस्रम् । तस्य पूषा प्रसवँय्याति देवः सम्पश्यन्विश्वा भुवनानि गोपाः ॥ देवा देवेभ्यो अध्वर्यन्तो अस्थुर्वीतᳪं、 शमित्रे शमिता यजध्यै । तुरीयो यज्ञो यत्र हव्यमेति ततः पावका आशिषो नो जुषन्ताम् पञ्चभिर्हरत्याग्नीध्रात् ।
आशुश्शिशान इति दक्षिणतो ब्रह्मा दशर्चेनान्वेति । आशुश्शिशानो वृषभो न युध्मो घनाघनः, क्षोभणश्चर्षणीनाम् । सङ्क्रन्दनोऽनिमिष एकवीरश्शत‍ᳪं、 सेना अजयत् साकमिन्द्रः ॥ सङ्क्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा । स इषुहस्तैस्स निषङ्गिभिर्वशी सᳪ、स्रष्टा स युध इन्द्रो गणेन । सᳪं、सृष्टजित्सोमपा बाहुशर्ध्यूर्ध्वधन्वा प्रति- हिताभिरस्ता । बृहस्पते परि दीया रथेन रक्षोहाऽमित्राᳪं、 अपबाधमानः । प्रभञ्जन्त्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् । गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा । इमᳪं、 सजाता अनु वीरयध्वमिन्द्रᳪं、‍ सखायोऽनु स‍ᳪं、 रभध्वम् । बलविज्ञायस्स्थविरः प्रवीरस्सहस्वान्, वाजी सहमान उग्रः । अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् । अभि गोत्राणि सहसा गाहमानो ऽदयो वीरश्शतमन्युरिन्द्रः । दुश्च्यवनः पृतनाषाडयुध्योऽस्माकᳪं、 सेना अवतु प्रयुत्सु । इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः । देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रे । इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुताᳪं、 शर्ध उग्रम् । महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् । अस्माकमिन्द्रस्समृतेषु ध्वजेष्वस्माकँय्या इषवस्ता जयन्तु । अस्माकँव्वीरा उत्तरे भवन्त्वस्मानु देवा अवता हवेषु इति ॥
अध्वर्युः - आग्नीध्रदेशं प्राप्य विमान एष दिवो मध्य आस्त आपप्रिवान्रोदसी अन्तरिक्षम् । स विश्वाचीरभि चष्टे घृताचीरन्तरा पूर्वमपरं च केतुम् ॥ उक्षा समुद्रो अरुणस्सुपर्णः पूर्वस्य योनिं पितुरा विवेश । मध्ये दिवो निहितः पृश्निरश्मा वि चक्रमे रजसः पात्यन्तौ द्वाभ्यामाग्नीध्रीयेऽश्मानं निधाय[४४]१७५ I
इन्द्रँव्विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः । रथीतमᳪं、 रथीनां वाजानाᳪं、 सत्पतिं पतिम् ॥ सुम्नहूर्यज्ञो देवाᳪं、 आ च वक्षद्यक्षदग्निर्देवो देवाᳪं、 आ च वक्षत् ॥ वाजस्य मा प्रसवेनोऽद्ग्राभेणोदग्रभीत् । अथा सपत्नाᳪं、 इन्द्रो मे निग्राभेणाधराᳪं、 अकः ॥ उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् । अथा सपत्नानिन्द्राग्नी मे विषूचीनान्व्यस्यताम् चतसृभिः आपुच्छात् गत्वा ।
प्राचीमनु प्रदिशं प्रेहि विद्वानग्नेरग्ने पुरोअग्निर्भवेह । विश्वा आशा दीद्यानो वि भाह्यूर्जं नो धेहि द्विपदे चतुष्पदे ॥ क्रमध्वमग्निना नाकमुख्य‍ᳪं、 हस्तेषु बिभ्रतः । दिवः पृष्ठᳪं、 सुवर्गत्वा मिश्रा देवेभिराध्वम् ॥ पृथिव्या अहमुदन्तरिक्षमाऽरुहमन्तरिक्षाद्दिवमाऽरुहम् । दिवो नाकस्य पृष्ठात्सुवर्ज्योतिरगामहम् ॥ सुवर्यन्तो नापेक्षन्त आ द्याᳪं、 रोहन्ति रोदसी । यज्ञँय्ये विश्वतोधारᳪं、 सुविद्वाᳪं、सो वितेनिरे ॥ अग्ने प्रेहि प्रथमो देवयतां चक्षुर्देवानामुत मर्त्यानाम् । इयक्षमाणा भृगुभिस्सजोषास्सुर्वर्यन्तु यजमानास्स्वस्ति इति पञ्चभिरध्वर्युरग्निमधिरोहति । प्रतिप्रस्थात्रेऽग्निं प्रदाय ।
नक्तोषासा समनसा विरूपे धापयेते शिशुमेक‍ᳪं、 समीची । द्यावा क्षामा रुक्मो अन्तर्विभाति देवा अग्निं धारयन् द्रविणोदा अग्ने सहस्राक्ष शतमूर्धञ्छतं ते प्राणाः सहस्रमपानाः । त्वᳪं、 साहस्रस्य राय ईशिषे तस्मै ते विधेम वाजाय स्वाहा द्वाभ्यां
संहिताभ्यां[४५]१७६ दध्नः पूर्णामौदुम्बरीं[४६]१७६अ स्वयमातृण्णायां जुहोति । अग्नय इदम् ।
नक्तोषासा --- द्रविणोदास्स्वाहा जुह्वा कृष्णायै श्वेतवत्सायै पयसा स्वयमातृष्णायामेव जुहोति । अग्नय इदम् ।
ऊर्णावन्तं प्रथमस्सीद योनिमिति होतुरभिज्ञाय विश्वायुरसीत्यादिभिः पौतुद्रवैः परिधिभिरग्निं परिदधाति[४७]१७७ । अग्नेर्भस्मासीति स्वयमातृण्णायां सम्भारान्निवपति गुल्गुलु सुगन्धितेजनमित्यादीन् । सुपर्णोऽसि गरुत्मान् पृथिव्याᳪं、 सीद पृष्ठे पृथिव्यास्सीद, भासाऽन्तरिक्षमा पृण ज्योतिषा दिवमुत्तभान तेजसा दिश उद्दृᳪं、ह । आजुह्वानस्सुप्रतीकः पुरस्तादग्ने स्वाँय्योनिमा सीद साध्या । अस्मिन्त्सधस्थे अध्युत्तरस्मिन्विश्वे देवा यजमानश्च सीदत तिसृभिः स्वयमातृष्णायामग्निं प्रतिष्ठाप्य[४८]१७८ । अग्नेर्भस्मास्यग्नेः पुरीषमसि । उत्तरत उपयमनीर्न्युप्य । मनुष्वत्त्वा --- देवायते यज उपसमिध्य ।
प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ । त्वाᳪं、 शश्वन्त उप यन्ति वाजाः औदुम्बरीं समिधमादधाति । अग्नय इदम् । विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सधस्थे । यस्माद्योनेरुदारिथा यजे तं प्र त्वे हवीᳪं、षि जुहुरे समिद्धे वैकङ्कतीम् । अग्नय इदम् । ताᳪं、 सवितुर्वरेण्यस्य चित्रामाऽहं वृणे सुमतिं विश्वजन्याम् । यामस्य कण्वो अदुहत्प्रपीनाᳪं、 सहस्रधारां पयसा महीं गाम् शमीमयीम् । सवित्र इदम् ।
ततः सकृत्सकृद्गृहीत्वा चित्तिं जुहोमि मनसा घृतेन यथा देवा इहागमन्वीतिहोत्रा ऋतावृधस्समुद्रस्य वयुनस्य पत्मन् जुहोमि विश्वकर्मणे विश्वाहामर्त्यᳪं、 हविस्स्वाहा । अग्नय इदम्, विश्वकर्मण इदम् इति वा । अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रᳪं、 हृदिस्पृशम् । ऋध्यामा त ओहैस्स्वाहा । अग्नय इदम् । द्वे आहुती हुत्वा । द्वादशगृहीतेन स्रुचं पूरयित्वा सप्त ते अग्ने समिधस्सप्त जिह्वास्सप्तर्षयस्सप्त धाम प्रियाणि । सप्त होत्रास्सप्तधा त्वा यजन्ति सप्त योनीरा पृणस्वा घृतेन स्वाहा । अग्नये सप्तवत इदम् । तां जुह्वत् यो दिक्ष्वग्निरिह सोऽस्तु इति दिग्भ्योऽग्निं मनसा ध्ययति ।
अथ अग्निर्यज्ञं नयतु प्रजानन्नित्यादि चतस्रोऽतिमुक्तीर्जुहोति । अग्निवत्युत्तरं परिग्राहं परिगृह्णाति । वसवस्त्वा । धा असि । अत्र प्रतिप्रस्थाता मैत्रावरुण्याः पयस्याया वत्सानपाकरोति । इषे त्वा इत्यादि कुम्भीलेपनान्तम् । प्रोक्ष्य बर्हिस्त्रिर्वेदिं प्रोक्षति ॥

॥ वैश्वानरेष्टिः ॥
ततो वैश्वानरस्य तन्त्रं प्रक्रमयति । पौर्णमासं तन्त्रम् । उत्तरेण गार्हपत्यमित्यादि प्रस्तरबर्हिषामाहरणम्[४९]१७९ । अपि वा जुहूमेव प्रस्तरे इत्यस्मिन् पक्षे न प्रस्तराहरणम् । न व्रतप्रवेशः । ततो परिस्तरणादि । एकोनविंशतिदारुरिध्मः । यत्कृष्णो रूपं ----ततस्त्वामेकोनविंशतिधा --- सुसम्भृता । त्रीन्परिधीनेकाᳪं、 समिधं यज्ञायुरनुसञ्चरान् । इध्मप्रवृश्चननिधानम् । त्वया वेदिम् । उपवेषोऽसि । समूहन्त्यग्न्यगारम् । प्राजहितवर्जानां अलङ्कृत्य परिस्तरणम् । देवा देवेषु । कर्मणे वाम् इत्यादि । पात्रप्रयोगकाले वैश्वानरस्य द्वादशकपालानि मारुतानामेकोनपञ्चाशत्कपालानि स्फ्यश्च द्वन्द्वम् । अग्निहोत्रहवणी शूर्पद्वयञ्च द्वन्द्वम्, कृष्णाजिनादि षट् । पुरतः स्रुवं जुहूमित्यादि, पात्रीद्वयम् । प्राशित्रेडापात्रप्रणीतान्वाहार्यस्थालीवर्जम् । इतराणि प्रकृतिवत् । पवित्रे कृत्वा न ब्रह्मवरणम् । वेषाय त्वा इत्येव शूर्पद्वयग्रहणम्[५०]१८० । निर्वपणकाले अग्नये वैश्वानराय जुष्टं निर्वपामि । अन्वावापान्तं कृत्वा अन्यस्मिन् शूर्पे सप्तानां मारुतानां तूष्णीं निर्वापः । सप्तकृत्वोऽन्वावापान्तम् । इदं देवानामित्यादि । अग्ने वैश्वानर हव्य‍ᳪं、 रक्षस्व । तूष्णीं मारुतानामुपसादनम् । निर्वापवत्प्रोक्षणाधिवापसँवापाभिघाराः । अग्नये वैश्वानराय वो जुष्टं प्रोक्षामि । मारुतानां तूष्णीं प्रोक्षणम् । वैश्वानरस्य कृष्णाजिनादानादि तण्डुलप्रस्कन्दनान्तं कृत्वा । तूष्णीं हविरावपनादि मारुतानामेवमन्तम् । वैश्वानरस्य अदब्धेन व इत्यादि । मारुतानां तूष्णीं फलीकरणम् । त्रिष्फली क्रियमाणानाम् । कृष्णाजिनादानादि अग्नये वैश्वानराय जुष्टमधिवपामि धान्यमसि इत्यादि । मारुतानां तूष्णीमधिवापः । वैश्वानरस्य कपालोपधानकाले युग्मानामावृत्तिः । मारुतानां तूष्णीमुपधानम् । भृगूणामङ्गिरसां वैश्वानरस्याङ्गाराध्यूहनादि । मारुतानां तूष्णीमङ्गाराध्यूहनम् । अग्नये वैश्वानराय जुष्टं सँव्वपामि । मारुतानामन्यस्यां पात्र्यां सँव्वापः । पिष्टान्युत्पूय अन्या आपो यजुषोत्पूय समापो अद्भिरग्मत इत्यादि । वैश्वानरस्य मखस्य शिरोऽसि इति पिण्डं कृत्वा । मारुतानां तूष्णीं उत्पवनादि, पिण्डं कृत्वा विभज्य लक्षणानि करोति । प्रथमो द्वितीय इत्यादि । एवं क्रमेण उत्तरेषु कर्मसु सप्तानां मारुतानां आहोमात् । घर्मोऽसि वैश्वानरमधिश्रित्य मारुतानां तूष्णीमधिश्रयणम् । उरु प्रथस्व इत्यादि । प्रथनादि सर्वं तूष्णीं मारुतानाम् । आप्यलेपं निनीय ।
न वेदिकरणम् । प्रोक्षणीरासादय --- स्रुचौ च संमृड्ढ्याज्येनोदेहि इति संप्रैषः[५१]१८१
 । नोपभृत्संमार्गः न च प्राशित्रसम्मृजिः । अग्ने गृहपत इत्यादि शालामुखीये[५२]१८२।
आज्यग्रहणकाले ध्रुवायामेव गृह्णाति । सुप्रजास्त्वाय त्वा । आपो देवी: इत्यादि सूर्यस्त्वा पुरस्तात् इत्यन्तम् । वीतिहोत्रं इत्येका समित् । स्तरणकाले अपरेणाग्निं बर्हिस्तृणाति । विशो यन्त्रे स्थः । विच्छिनद्मि । वसूनाम् । अयं प्रस्तरः । तूष्णीं जुहूपभृतावासाद्य । ध्रुवासि ध्रुवामासाद्य । यो मा वाचा । ऋषभोऽसि । स्योनो मे सीद । इयᳪ、 स्थाली । एतावसदताम् । विष्ण्वसि । इदमहᳪं、 सेनाया इत्यादि । अग्नये वैश्वानराय जुष्टमभिघारयामि । प्रियेण इत्यासादनम् । मारुतानां तूष्णीमभिघारणमुद्वासनमलङ्करणमासादनं च । यज्ञोऽस्ययं यज्ञो ममाग्ने चतुर्होता । अयं वेद इत्यादि । अग्नये समिध्यमानायानुब्रूहि । नानूयाजसमिधमवशिनष्टि । स्रौवमाघार्य आप्यायनान्तम् । न सम्प्रेष्यति । न संमार्ष्टि । स्रुच्याघारस्य लोपः । क इदमित्यादि मानुष इत्यन्तम् । देवाः पितरः । न प्रयाजान् यजति । आज्यभागाभ्यां प्रचर्य । आज्यभागान्त्यावदाने न ध्रौव्वाप्यायनम्[५३]१८३ । जुह्वामुपस्तीर्य । अग्निर्होता । तूष्णीं कृत्स्नं वैश्वानरमवदाय । द्विरभिघार्य पञ्चावत्तिनां त्रिः । वैश्वानरप्रचारे ध्रौव्वसमाप्तिः । अग्नये वैश्वानरायानुब्रू३हि । उच्चैर्वैश्वानरस्याश्रावयति । अग्निं वैश्वानरं यज । वषट्कृते सर्वहुतं जुहोति । अग्नये वैश्वानरायेदम् । अग्नेर्वैश्वानरस्याहं --- अन्नादः । प्रत्याक्रम्य प्रस्तरादन्यत्र स्रुचौ सादयित्वा हस्तं प्रक्षाल्य । उपांशु मारुतान्त्सर्वहुतानासीनो हस्तेन गणेन गणमनुदृत्य जुहोति।


मारुतहोम: :-
ईदृङ्चाऽन्यादृङ्चैतादृङ्च प्रतिदृङ्च मितश्च सम्मितश्च सभराः । शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्माᳪ、श्च सत्यश्चर्तपाश्चात्यᳪं、हाः । मितासश्च सम्मितासश्च
न ऊतये सभरसो मरुतो यज्ञे अस्मिन्निन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मानो यथेन्द्रं दैवीर्विशो मरुतोऽनुवर्त्मान एवमिमँय्यजमानं दैवीश्च विशो मानुषीश्चानुवर्त्मानो भवन्तु स्वाहा ॥ मरुद्भ्य इदम् ।
शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिश्च ज्योतिष्माᳪ、श्च सत्यश्चर्तपाश्चाऽत्यᳪं、हाः । ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्चान्त्यमित्रश्च दूरेअमित्रश्च गणः ॥ मितासश्च सम्मितासश्च ---भवन्तु स्वाहा ॥ मरुद्भ्य इदम् ।
ऋतजिच्च सत्यजिच्च सेनजिच्च सुषेणश्चान्त्यमित्रश्च दूरे अमित्रश्च गणः । धुनिश्च ध्वान्तश्च ध्वनश्च ध्वनयᳪ、श्च निलिम्पश्च विलिम्पश्च विक्षिपः । मितासश्च सम्मितासश्च --- भवन्तु स्वाहा ॥ मरुद्भ्य इदम् ।
धुनिश्च ध्वान्तश्च ध्वनश्च ध्वनयᳪ、श्च निलिम्पश्च विलिम्पश्च विक्षिपः । ऋतश्च सत्यश्च ध्रुवश्च धरुणश्च धर्ता च विधर्ता च विधारयः । मितासश्च सम्मितासश्च --- भवन्तु स्वाहा ॥ मरुद्भ्य इदम् ।
ऋतश्च सत्यश्च ध्रुवश्च धरुणश्च धर्ता च विधर्ता च विधारयः । स्वतवाᳪ、श्च प्रघासी च सान्तपनश्च गृहमेधी च क्रीडी च साकीचोर्जिषी च । मितासश्च सँमितासश्च --- भवन्तु स्वाहा ॥ मरुद्भ्य इदम् ।
स्वतवाᳪ、श्च प्रघासी च सान्तपनश्च गृहमेधी च क्रीडी च साकीचोर्जिषी च । ईदृक्षास एतादृक्षास ऊ षु णः सदृक्षासः प्रतिसदृक्षास एतन । मितासश्च सम्मितासश्च --- भवन्तु स्वाहा ॥ मरुद्भ्य इदम् ।
ईदृक्षास एतादृक्षास ऊ षु णः सदृक्षासः प्रतिसदृक्षास एतन । ईदृङ् चान्यादृङ् चैतादृङ् च प्रतिदृङ् च मितश्च सम्मितश्च सभराः । मितासश्च सम्मितासश्च --- भवन्तु स्वाहा ॥ मरुद्भ्य इदम् ।[५४]१८४
एवं मारुतान् हुत्वा स्रुचावादाय नारिष्ठान् जुहोति । न स्विष्टकृत् । वैश्वानरे हविः । आयतने स्रुचौ सादयित्वा ।
न प्राशित्रम् । न चेडा । न मार्जनम् । न दक्षिणा । न सम्प्रेष्यति । नानूयाजसमित् । न सम्मार्ष्टि । यो भूतानां इध्मसन्नहनप्रहरणम् । नानूयाजाः । वाजस्य मा प्रसवेनेत्यादि । सूक्तवाके अग्नेर्वैश्वानरस्याहमुज्जितिम् । एमा अग्मन्, सा मे सत्याशीः इति न भवति । अग्नीद्गमयेत्यादि । पत्नीस्सँय्याजयन्ति । प्रायश्चित्तहोमान्ते न समिष्टयजुर्जुहोति । तूष्णीं बर्हिप्रहरणम् । अभिस्तृणीहि । यं देवा मनुष्येषु । यानि घर्मे । तूष्णीं मारुतकपालानां विमोकः । विष्णोः क्रमोऽसि इत्यादि । न व्रतविसर्गः । यज्ञ शं च म, वृष्टि वर्जम् । ब्राह्मणतर्पणान्तम्[५५]१८५


वसोर्धारा :-
जुह्वां चतुर्गृहीतं गृहीत्वा । अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः । द्युम्नैर्वाजेभिरागतᳪ、 स्वाहा । अग्नाविष्णुभ्यामिदम् । औदुम्बरीं स्रुचं व्यायाममात्रीं मृदा प्रदिग्धां पश्चादासेचनवतीं घृतस्य पूरयित्वा सन्ततां वसोर्धारां जुहोति । मन्त्रादेः धारायाश्च सहोपक्रमः । वाजश्च मे प्रसवश्च मे इत्यादि भुवनश्चाधिपतिश्च स्वाहा एकादशानुवाकान्ते सकृत् स्वाहाकारः[५६]१८६। । {वाजश्च मे स्वाहा प्रसवश्च मे स्वाहा इत्यादि । अष्टाचत्वारिᳪं、शच्च मे स्वाहा इत्यन्तम् । वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चाऽऽन्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च स्वाहा |} अग्नाविष्णुभ्यामिदम्, वाजादिभ्यो वसोर्धारादेवताभ्य इदम् इति वा । आज्यमवशेषयित्वा जुहोति ।
समुद्रादूर्मिर्मधुमाᳪं、 उदारदुपाᳪं、शुना सममृतत्वमानट् । घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥ वयं नाम प्रब्रवामा घृतेनास्मिन् यज्ञे धारयामा नमोभिः । उप ब्रह्मा शृणवच्छस्यमानं चतुश्शृङ्गोवमीद्गौर एतत् ॥ चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्या‍ᳪं、 आविवेश ॥ त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् । इन्द्र एकᳪं、 सूर्य एकं जजान वेनादेकᳪ、 स्वधया निष्टतक्षुः ॥ एता अर्षन्ति हृद्यात्समुद्राच्छतव्रजा रिपुणा नावचक्षे । घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम् ॥ सम्यक् स्रवन्ति सरितो न धेना अन्तर्हृदा मनसा पूयमानाः । एते अर्षन्त्यूर्मयो घृतस्य मृगा इव क्षिपणो रीषमाणाः ॥ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः । घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥ अभिप्रवन्त समनेव योषाः कल्याण्य १: स्मयमानासो अग्निम् । घृतस्य धारास्समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥ कन्या इव वहतुमेतवा उ अञ्ज्यञ्जाना अभि चाकशीमि । यत्र सोमस्सूयते यत्र यज्ञो घृतस्य धारा अभि तत्पवन्ते ॥ अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त । इमँय्यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते ॥ धामन्ते विश्वं भुवनमधि श्रितमन्तस्समुद्रे हृद्य १न्तरायुषि । अपामनीके समिथे य आभृतस्तमश्याम मधुमन्तं त ऊर्मिम् हुतां हूयमानां वा यजमानोऽनुमन्त्रयते[५७]१८७ ॥ (स्वरसहितो मन्त्रपाठः १६६ पृष्ठे दत्तः) ।

ब्रह्मौदनं वाजप्रसवीयहोमाश्च :-
यदाज्यमुच्छिष्येत तस्मिन् ब्रह्मौदनं पक्त्वा चतुरो ब्राह्मणान् भोजयेत् । चतुश्शरावमोदनं लौकिकेऽग्नौ तस्मिन् घृते श्रपयित्वा अध्वर्यवादींश्चतुरो महर्त्विजो भोजयेत्[५८]१८८ । प्राशितवद्भ्यः चतस्रो धेनूर्दद्यात् । रुद्राय गामिति प्रतिग्रहः । वाजप्रसवीयं जुहोति । सप्त ग्राम्या ओषधयस्सप्तारण्याः । लौकिकेऽग्नौ श्रपयित्वा पृथगन्नानि द्रवीकृत्य औदुम्बरेण स्रुवेण तिलमाषादि यवागूञ्जुहोति । अथ ग्राम्याः । वाजस्येमं प्रसवस्सुषुवे अग्रे सोम‍ᳪं、 राजानमोषधीष्वप्सु । ता अस्मभ्यं मधुमतीर्भवन्तु वयᳪं、 राष्ट्रे जाग्रियाम पुरोहितास्स्वाहा तिलयवागूञ्जुहोति । हुत्वा हुत्वा पात्र्यां सम्पातमवनयति ।
अग्नय इदमिति सर्वत्र त्यागः ॥
वाजस्येदं प्रसव आ बभूवेमा च विश्वा भुवनानि सर्वतः । स विराजं पर्येति प्रजानन्प्रजां पुष्टिं वर्धयमानो अस्मे स्वाहा माषयवागूम् ॥
वाजस्येमां प्रसवः शिश्रिये दिवमिमा च विश्वा भुवनानि सम्राट् । अदित्सन्तं दापयतु प्रजानन्रयिं च नः सर्ववीरां नि यच्छतु स्वाहा व्रीहियवागूम् ॥
अग्ने अच्छा वदेह नः प्रति नः सुमना भव । प्रणो यच्छ भुवस्पते धनदा असि नस्त्वᳪ、 स्वाहा यवकृतयवागूम् ॥
प्र णो यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः । प्र देवाः प्रोत सूनृता प्र वाग्देवी ददातु नस्स्वाहा प्रियङ्गुयवागूम् ॥
अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय । वाचं विष्णुᳪं、 सरस्वती‍ᳪं、 सवितारं च वाजिनᳪ、 स्वाहा अणुयवागूम् ॥
सोमᳪं、 राजानं वरुणमग्निमन्वारभामहे । आदित्यान्, विष्णुᳪं、‍ सूर्यं ब्रह्माणं च बृहस्पतिᳪ、 स्वाहा गोधूमयवागूम् । एते सप्त ग्राम्याः ॥
अथारण्याः = वाजो नस्सप्त प्रदिशश्चतस्रो वा परावतः । वाजो नो विश्वैर्देवैर्धनसाताविहावतु स्वाहा वेणुयवागूम् ॥
विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्वग्नयस्समिद्धाः । विश्वे नो देवा अवसाऽऽगमन्तु विश्वमस्तु द्रविणं वाजो अस्मे स्वाहा श्यामाकयवागूम् ॥
वाजस्य प्रसवं देवा रथैर्याता हिरण्ययैः । अग्निरिन्द्रो बृहस्पतिर्मरुतस्सोमपीतये स्वाहा नीवारयवागूम् ॥
वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैस्स्वाहा जर्तिलयवागूम् ॥
वाजः पुरस्तादुत मध्यतो नो वाजो देवाᳪं、 ऋतुभिः कल्पयाति । वाजस्य हि प्रसवो नन्नमीति विश्वा आशा वाजपतिर्भवेयᳪ、 स्वाहा गवीधुकयवागूम् ॥
पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाम् । पयस्वतीः प्रदिशस्सन्तु मह्यᳪ、 स्वाहा मर्कटकयवागूम् ॥
सं मा सृजामि पयसा घृतेन सं मा सृजाम्यप ओषधीभिः । सोऽहं वाजᳪं、 सनेयमग्ने स्वाहा गार्मुतयवागूम् । इति सप्तारण्याः ॥


सम्पाताभिषेकः :-
दक्षिणं प्रत्यपिपक्षं औदुम्बरीमासन्दीं प्रतिष्ठाप्य तस्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तीर्य तस्मिन्नासीनं यजमानं अग्निमन्वारब्धं सम्पातैरभिषिञ्चति । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याᳪं、 सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्नेस्त्वा साम्राज्येनाभिषिञ्चामि प्राङ्मुखमासीनं प्रत्यङ्मुखस्तिष्ठन् शीर्षतोऽभिषिच्यामुखादन्ववस्रावयति ।


राष्ट्रभृद्धोमः :-
नक्तोषासा समनसा --- द्रविणोदास्स्वाहा जुह्वा कृष्णायै श्वेतवत्सायै पयसा जुहोति । अग्नय इदम् । षड्भिः पर्यायैर्द्वादश राष्ट्रभृतो जुहोति ॥ ऋताषाडृतधामाग्निर्गन्धर्वस्तस्यौषधयोऽप्सरस ऊर्जी नाम स इदं ब्रह्म क्षत्रं पातु ता इदं ब्रह्म क्षत्रं पान्तु तस्मै स्वाहा । अग्नये गन्धर्वायेदम् । ताभ्यस्स्वाहा । ओषधीभ्योऽप्सरोभ्य ऊर्ग्भ्य इदम् । ओषधीभ्योऽप्सरोभ्य इदम् इति वा ।
सᳪं、हितो विश्वसामा सूर्यो गन्धर्वस्तस्य मरीचयोऽप्सरस आयुवो नाम स इदं ब्रह्म --- तस्मै स्वाहा । सूर्याय गन्धर्वायेदम् । ताभ्यस्स्वाहा । मरीचिभ्योऽप्सरोभ्य आयुभ्य इदम् । मरीचिभ्योऽप्सरोभ्य इदम् इति वा ।
सुषुम्नस्सूर्यरश्मिश्चन्द्रमा गन्धर्वस्तस्य नक्षत्राण्यप्सरसो बेकुरयो नाम स इदं ब्रह्म --- तस्मै स्वाहा । चन्द्रमसे गन्धर्वायेदम् । ताभ्यस्स्वाहा । नक्षत्रेभ्योऽप्सरोभ्यो बेकुरिभ्य इदम् । नक्षत्रेभ्योऽप्सरोभ्यो इदम् इति वा ।
भुज्युस्सुपर्णो यज्ञो गन्धर्वस्तस्य दक्षिणा अप्सरसस्स्तवा नाम स इदं ब्रह्म --- तस्मै स्वाहा । यज्ञाय गन्धर्वायेदम् । ताभ्यस्स्वाहा । दक्षिणाभ्योऽप्सरोभ्यस्स्तवाभ्य इदम् । दक्षिणाभ्योऽप्सरोभ्य इदम् इति वा ।
प्रजापतिर्विश्वकर्मा मनो गन्धर्वस्तस्यर्क्सामान्यप्सरसो वह्नयो नाम स इदं ब्रह्म --- तस्मै स्वाहा । मनसे गन्धर्वायेदम् । ताभ्यस्स्वाहा । ऋक्सामेभ्योऽप्सरेभ्यो वह्निभ्य इदम् । ऋक्सामेभ्योऽप्सरेभ्य इदम् इति वा ।
इषिरो विश्वव्यचा वातो गन्धर्वस्तस्यापोऽप्सरसो मुदा नाम स इदं ब्रह्म --- तस्मै स्वाहा । वाताय गन्धर्वायेदम् । ताभ्यस्स्वाहा । अद्भ्योऽप्सरोभ्यो मुदाभ्य इदम् । अद्भ्योऽप्सरोभ्यो इदम् इति वा ।
भुवनस्य पते यस्य त उपरि गृहा इह च । स नो रास्वाज्यानिᳪं、‍ रायस्पोषंसᳪं、 सुवीर्य‍ᳪं、 सँव्वत्सरीणाᳪ、 स्वस्तिᳪ、 स्वाहा । भुवनस्य पतय इदम् । प्रजापतय इदम् इति वा।
अथ भुवनस्य पत इति रथमुखे पञ्चाहुतीर्जुहोति । दश वा । उपर्याहवनीये रथशिरो धार्यमाणमभि जुहोतीत्येके[५९]१८९ । पुनः भुवनस्य पते यस्य त उपरि गृहा इह च । स नो रास्वाज्यानिᳪं、‍ रायस्पोषᳪं、 सुवीर्यᳪं、 सँव्वत्सरीणाᳪ、 स्वस्तिᳪ、 स्वाहा । भुवनस्य पतय इदम् । प्रजापतय इदम् इति वा ।
परमेष्ठ्यधिपतिर्मृत्युर्गन्धर्वस्तस्य विश्वमप्सरसो भुवो नाम स इदं ब्रह्म ---
तस्मै स्वाहा । मृत्यवे गन्धर्वायेदम् । ताभ्यस्स्वाहा । विश्वस्मा अप्सरोभ्यो भूभ्य इदम् । विश्वस्मा अप्सरोभ्य इदम् इति वा ।
सुक्षितिस्सुभूतिर्भद्रकृत्सुवर्वान् पर्जन्यो गन्धर्वस्तस्य विद्युतोऽप्सरसो रुचो नाम स इदं ब्रह्म --- तस्मै स्वाहा । पर्जन्याय गन्धर्वायेदम् । ताभ्यस्स्वाहा । विद्युद्भ्योऽप्सरोभ्यो रुग्भ्य इदम् । विद्युद्भ्योऽप्सरोभ्य इदम् इति वा ।
दूरेहेतिरमृडयो मृत्युर्गन्धर्वस्तस्य प्रजा अप्सरसो भीरुवो नाम स इदं ब्रह्म -- तस्मै स्वाहा । मृत्यवे गन्धर्वायेदम् । ताभ्यस्स्वाहा । प्रजाभ्योऽप्सरोभ्यो भीरुभ्य इदम् । प्रजाभ्योऽप्सरोभ्य इदम् इति वा ।
चारुः कृपणकाशी कामो गन्धर्वस्तस्याधयोऽप्सरसश्शोचयन्तीर्नाम स इदं ब्रह्म --- तस्मै स्वाहा । कामाय गन्धर्वायेदम् । ताभ्यस्स्वाहा । आधिभ्योऽप्सरोभ्यश्शोचयन्तीभ्य इदम् । आधिभ्योऽप्सरोभ्य इदम् इति वा ।
स नो भुवनस्य पते यस्य त उपरि गृहा इह च । उरु ब्रह्मणेऽस्मै क्षत्राय मयि शर्म यच्छ स्वाहा । भुवनस्य पतय इदम् । प्रजापतय इदम् इति वा ।
एवं दशाहुतीर्हुत्वा । अभिहुतमुद्यम्याध्वर्योरावसथं हरन्ति । अनुनयन्ति त्रीनश्वान्श्चतुरो वा । तान् सरथान् अध्वर्यवे ददाति । अध्वर्यो सरथान् अश्वांस्ते ददामि । सप्तदशकृत्वोऽपान्यात् । देवस्य त्वा
--- देवि दक्षिणे वरुणायाश्वम् । तेनामृतत्वमश्यां --- प्रतिगृह्णातु । देवस्य त्वा --- देवि दक्षिणे वैश्वानराय रथम् । वैश्वानरः प्रत्नथा नाकमारुहत् । दिवः पृष्ठं भन्दमानस्सुमन्मभिः । सपूर्ववज्जनयज्जन्तवे धनम् । समानमज्मा परि याति जागृविः । राजा त्वा वरुणो नयतु देवि दक्षिणे वैश्वानराय रथम् । तेनामृतत्वमश्यां --- प्रतिगृह्णातु इति उभयोः प्रतिग्रहः[६०]१९० ॥
अञ्जलिना त्रीणि वातनामानि जुहोति । वात एव द्रव्यम् । समुद्रोऽसि नभस्वानार्द्रदानुश्शम्भूर्मयोभूरभि मा वाहि स्वाहा ॥ मारुतोऽसि मरुतां गणश्शम्भूर्मयोभूरभि मा वाहि स्वाहा ॥ अवस्युरसि दुवस्वाञ्छम्भूर्मयोभूरभि मा वाहि स्वाहा ॥ प्रजापतय इदमिति सर्वत्र । वातायेदमिति वा ।
अथ पञ्चाज्याहुतीः । अग्न उदधे या त इषुर्युवा नाम तया नो मृड तस्यास्ते नमस्तस्यास्त उप जीवन्तो भूयास्म स्वाहा ॥ अग्ने दुध्र या त इषुर्युवा नाम तया नो मृड तस्यास्ते नमस्तस्यास्त उप जीवन्तो भूयास्म स्वाहा ॥ अग्ने गह्य या त इषुर्युवा नाम तया नो मृड तस्यास्ते नमस्तस्यास्त उप जीवन्तो भूयास्म स्वाहा ॥ अग्ने किᳪं、शिल या त इषुर्युवा नाम तया नो मृड तस्यास्ते नमस्तस्यास्त उप जीवन्तो भूयास्म स्वाहा ॥ अग्ने वन्य या त इषुर्युवा नाम तया नो मृड तस्यास्ते नमस्तस्यास्त उप जीवन्तो भूयास्म स्वाहा ॥ सर्वत्र अग्नय इदम् ।


सर्पाहुती: :-
दध्ना मधुमिश्रेण षट् सर्पाहुतीरनुपरिचारं जुहोति । मधुमिश्रं दधि स्रुवेण जुह्वामादाय पुरस्तात् प्रत्यङ्मुखस्स्थित्वा अग्निं प्रदक्षिणीकृत्य पुनः तत्रैवोपविश्य[६१]१९१ जुहोति । समीची नामासि प्राची दिक्तस्यास्तेऽग्निरधिपतिरसितो रक्षिता यश्चाधिपतिर्यश्च गोप्ता ताभ्यां नमस्तौ नो मृडयतां ते यन्द्विष्मो यश्च नो द्वेष्टि तं वां जम्भे दधामि स्वाहा अग्नये असितायेदम् । ओजस्विनी नामासि दक्षिणा दिक्तस्यास्त इन्द्रोऽधिपतिः पृदाकू रक्षिता यश्चाधिपतिर्यश्च गोप्ता ताभ्यां --- जम्भे दधामि स्वाहा । दक्षिणतो गत्वा पूर्ववत् परिक्रम्य उदङ्मुख उपविश्य । इन्द्राय पृदाकव इदम् । प्राची नामासि प्रतीची दिक्तस्यास्ते सोमो ऽधिपतिस्स्वजो रक्षिता यश्चाधिपतिर्यश्च गोप्ता ताभ्यां --- जम्भे दधामि स्वाहा पश्चात् प्राङ्मुखः । सोमाय स्वजायेदम् । अवस्थावा नामास्युदीची दिक्तस्यास्ते वरुणोऽधिपतिस्तिरश्चराजी रक्षिता यश्चाधिपतिर्यश्च गोप्ता ताभ्यां --- जम्भे दधामि स्वाहा । उत्तरतो दक्षिणामुखः । वरुणाय तिरश्चराजय इदम् । अधिपत्नी नामासि बृहती दिक्तस्यास्ते बृहस्पतिरधिपतिश्श्वित्रो रक्षिता यश्चाधिपतिर्यश्च गोप्ता ताभ्यां --- जम्भे दधामि स्वाहा पश्चात् प्राङ्मुखो जुहोति । बृहस्पतये श्वित्रायेदम् । वशिनी नामासीयन्दिक्तस्यास्ते यमोऽधिपतिः कल्माषग्रीवो रक्षिता यश्चाधिपतिर्यश्च गोप्ता ताभ्यां --- जम्भे दधामि स्वाहा पश्चात् प्राङ्मुखो जुहोति । यमाय कल्माषग्रीवायेदम् ।

महाहुती: :-
अथ षण्महाहुतीः यथा सर्पाहुतीरनुपरिचारं जुहोति[६२]१९२ । हेतयो नाम स्थ तेषां वः पुरो गृहा अग्निर्व इषवस्सलिलो वातनामन्तेभ्यो वो नमस्ते नो मृडयत ते यन्द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि स्वाहा ॥ हेतिभ्य इदम् । निलिम्पा नाम स्थ तेषां वो दक्षिणा गृहाः पितरो व इषवस्सगरो वातनामन्तेभ्यो - - - दधामि स्वाहा ॥ निलिम्पेभ्य इदम् ॥ वज्रिणो नाम स्थ तेषां वः पश्चाद्गृहास्स्वप्नो व इषवो गह्वरो वातनामन्तेभ्यो --- दधामि स्वाहा ॥ वज्रिभ्य इदम् । अवस्थावानो नाम स्थ तेषां व उत्तराद्गृहा आपो व इषवस्समुद्रो वातनामन्तेभ्यो --- दधामि स्वाहा ॥ अवस्थावभ्य इदम् । अधिपतयो नाम स्थ तेषां व उपरि गृहा वर्षं व इषवोऽवस्वान् वातनामन्तेभ्यो --- दधामि
स्वाहा ॥ अधिपतिभ्य इदम् । क्रव्या नाम स्थ पार्थिवास्तेषां व इह गृहा अन्नं व इषवो निमिषो वातनामन्तेभ्यो --- दधामि स्वाहा ॥ क्रव्येभ्य इदम् ।
अथ पञ्च अर्काहुतीराज्येन जुहोति । सुवर्न घर्मस्स्वाहा । घर्मायेदम् । सुवर्नार्कस्स्वाहा । अर्कायेदम् । सुवर्न शुक्रस्स्वाहा । शुक्रायेदम् । सुवर्न ज्योतिस्स्वाहा । ज्योतिष इदम् । सुवर्न सूर्यस्स्वाहा । सूर्यायेदम् । यास्ते अग्ने सूर्ये रुच उद्यतो दिवमातन्वन्ति रश्मिभिः । ताभिस्सर्वाभी रुचे जनाय नस्कृधिस्वाहा । अग्नय इदम् । या वो देवास्सूर्ये रुचो गोष्वश्वेषु या रुचः । इन्द्राग्नी ताभिस्सर्वाभी रुचं नो धत्त बृहस्पते स्वाहा । देवेन्द्राग्निबृहस्पतिभ्य इदम् । रुचं नो धेहि ब्राह्मणेषु रुचᳪं、 राजसु नस्कृधि । रुचं विश्येषु शूद्रेषु मयि धेहि रुचा रुचᳪ、 स्वाहा । अग्नय इदम् । तिस्रो रुच आज्येनैव जुहोति ।
वेद्यास्स्तरणादि सौमिकं कर्म प्रतिपद्यते । अथैनां बर्हिषा बहुलं प्राचीनं स्तीर्त्वेत्यादि । सदःकरणकाले अग्निष्टोमश्चेत् प्रकृतिवत् नव छदींषि । अतिरात्राप्तोर्यामयोः सप्तदश छदींषि । ऐन्द्रमसीति पञ्च मध्यमानि छदींष्यध्यूहति । विश्वजनस्य छाया पञ्च दक्षिणानि । इन्द्रस्य सदोऽसि सप्तोत्तराणि । एकवदुपरवमन्त्रानेके समामनन्ति । उत्तरेषु क्रतुष्विति विशेषः । रक्षोहणं वलगहनं वैष्णवं खनामि इत्यादि । चतुरस्रं खरं करोति सोमपात्रेभ्य आप्तमित्यन्तं कृत्वा ।

धिष्णियानां चयनम् :-
ममाग्ने वर्चो विहवेष्वस्त्वित्यनुवाकेन प्रतिमन्त्रमिष्टकाभिर्धिष्णियांश्चिनोति । अश्मनवमा आग्नीध्रीय उपदधाति । द्वादश होत्रीये । एकादश ब्राह्माणाच्छंसीये । षण्मार्जालीये । अष्टावष्टावन्येषु धिष्णियेषूपदधाति । चतुरश्राः परिमण्डला वा धिष्णियाः । तेषां यावत्य इष्टकास्तावतीश्शर्कराः परिश्रिताः[६३]१९३।
चतुरश्रपक्षमाश्रित्य प्रयोगः । अथाग्नीध्रीयं नवभिः शर्कराभिः परिश्रयति । अथाग्नीध्रीयस्येष्टकोपधानम् । ममाग्ने --- जयेम तया देवतया । मम देवा --- अस्मिन्तया देवतया । मयि देवा --- सुवीरास्तया देवतया । मह्यं यजन्तु --- अधिवोचता मे तया देवतया । देवीष्षडुर्वीरुरु --- सोमराजन् तया देवतया । अग्निर्मन्युं --- विनेशत् तया देवतया । धाता धातॄणां न्यर्थात्तया देवतया । उरुव्यचा नो --- मा परा दास्तया देवतया ।
एवमादित अष्टाभिः क्रमेण अष्टाविष्टका उपधाय । ये नस्सपत्ना ---
अधिराजमक्रन्तया देवतया । मध्ये पूर्वनिहितमश्मानमुपदधाति । चात्वालात्पुरीषमाहृत्य तूष्णीं तासु व्यूहति[६४]१९४।
अथ होत्रीयं द्वादशभिश्शर्कराभिः परिश्रित्य । ममाग्ने वर्च इति पञ्चभिः पञ्चोपधाय देवीष्षडुर्वीरित्यावृत्तिः । अग्निर्मन्युमित्यारभ्य पञ्चोपधाय अर्वाञ्चमित्यावृत्तिः । अथ पुरीषम् ॥
अग्रेणाहवनीयं गत्वा प्रशास्त्रीयमष्टाभिः परिश्रित्य ममाग्ने वर्च इत्यरभ्य अष्टावुपधाय पुरीषम् । यथेतं गत्वा ब्राह्मणाच्छंसीयमेकादशभिः परिश्रित्य ममाग्ने वर्च इति दशभिर्दशोपधाय अर्वाञ्चमित्यावृत्तिः । एवमेकादश । अथ पुरीषम् ।
पोतृनेष्ट्रच्छावाकानां क्रमेण अष्टाभिः परिश्रित्य ममाग्ने वर्च इत्याष्टाभिरष्टावष्टावुपधाय पुरीषम् । प्रशास्त्रीयस्य दक्षिणतः[६५]१९५ सञ्चरमवशिष्य ब्रह्मसदनम् । अष्टाभिः परिश्रित्य ममाग्ने वर्च इति आदितः पञ्चभिः पञ्चोपधाय । तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः । इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवन्तया देवतया । बृहस्पते अति यदर्यो अर्हाद्द्द्दुमद्विभाति क्रतुमज्जनेषु । यद्दीदयच्छवसर्तप्रजात तदस्मासु द्रविणं धेहि चित्रं तया । बृहस्पतिस्समजयद्वसूनि महो व्रजाङ्गोमतो देव एषः । अपस्सिषासन्त्सुवरप्रतीत्तो बृहस्पतिर्हन्त्यमित्रमर्कैस्तया इत्यष्टौ, पुरीषं च ।
मार्जालीयं षड्भिः परिश्रित्य ममाग्ने वर्च इति आदितः तिसृभिस्तिस्र उपधाय । यमो दाधार पृथिवीं यमो विश्वमिदं जगत् । यमाय सर्वमित्रस्थे यत्प्राणद्वायुरक्षितम् तया । यथा पञ्च यथा षड्यथा पञ्च दशर्षयः । यमं यो विद्यात्स ब्रूयाद्यथैक ऋषिर्विजानते तया । त्रिकद्रुकेभिः पतति षडुर्वीरेकमिद्बृहत् । गायत्री त्रिष्टुप् छन्दांᳪं、सि सर्वा ता यम आहिता तया । इति षट् पुरीषं च । चात्वालमष्टाभिः परिश्रित्य ममाग्ने इति पञ्च । मृडा नो रुद्रोत नो--- रुद्र प्रणीतौ तया । अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः । सुम्नायन्निद्विशो अस्माकमाचरारिष्ट वीरा जुहुवाम ते हविस्तया । त्वेषं वयᳪं、 रुद्रं यज्ञसाधनं वङ्कुं कविमवसे निह्वयामहे । आरे अस्मदमतिᳪं、हेडो अस्य तु सुमतिमिद्वयमस्या वृणीमहे तया इत्यष्टौ पुरीषं च ।
शामित्रमष्टाभिः परिश्रित्य । हव्यं प्रीणीहि तया । हव्यᳪ、 श्रीणीहि तया । हव्यं पच तया । हव्यᳪ、 श्रपय तया । हव्यमसि तया । हव्याय त्वा तया । हव्येभ्यस्त्वा तया । हव्ये सीद तया इत्यष्टौ, पुरीषं च ।
अवभृथस्थानं गत्वा अष्टाभिश्शर्कराभिः परिश्रित्य[६६]१९६ ममाग्ने वर्च इति पञ्च । अव ते हेडो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः । क्षयन्नस्मभ्यमसुर प्रचेतो राजन्नेनाᳪं、सि शिश्रथः कृतानि तया । उदुत्तमं वरुण --- स्याम तया । तत्त्वा यामि --- प्रमोषीस्तया । इत्यष्टौ, पुरीषं च । तासु प्रचरन्ति । अवभृथकाले अवभृथेष्टका उपधीयन्त इति केचित्[६७]१९७ । तदा अवभृथेष्टकाश्शर्कराश्च प्रज्ञातानि निदधाति । खण्डाः कृष्णा लक्ष्मणा चोत्कर उदस्यति । अवशिष्टाश्च भित्वा चोत्करे क्षिपति । धिष्णियानां न विभूरसीति निवपनम् । अध्वनामध्वपत इत्याद्यग्निष्टोमवत्[६८]१९८ । एकस्तनं व्रतम् । अपरेणोत्तरवेदिं व्रतं प्रयच्छति । या ते अग्ने रुद्रिया । शिवाः पीता भवथ ॥


॥ चयने अग्नीषोमीयपशुप्रयोगः ॥
अग्नीषोमीयस्य पशोस्तन्त्रं प्रक्रमयति । इषे त्वा इत्यादि । विष्णूनि स्थ इत्याज्याभिमन्त्रणान्तं समानमग्निष्टोमवत् । एकयूपमेकादश वा यूपान्त्सम्मिनोति । यूपसम्मानादि, अग्नीषोमीयवपाहोमान्ते सुब्रह्मण्याह्वानं वसतीवरीग्रहणं च । अग्नीषोमीयस्य पशुपुरोडाशं अष्टौ देवसुवां हवींषि अनुनिर्वपति । उत्तरेण गार्हपत्याहवनीयौ दर्भान् संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति । द्विचत्वारिंशत्कपालानि पञ्च स्थाल्यो नव शूर्पाणि च द्वन्द्वम् । इतरत् समानं पशुपुरोडाशेन । नव पात्र्यः, नवगृहयुक्ता एकैव वा पात्री प्राशित्रहरणं मदन्तीं मेक्षणमुपवेषमुत्पवनार्थं पात्रं तृणं च । पवित्रकरणादि ।
वेषाय वः शूर्पाण्यादत्ते । नवग्रहयुक्तायामेकस्यां पात्र्यामसंस्पृष्टानि बीजानि स्थापयित्वा । धूरसि इत्यादि । निरस्तं इति तन्त्रेण निरसनम् । शूर्पे पवित्रे निधायेत्यन्तं कृत्वा । देवस्य त्वा --- हस्ताभ्यामग्नीषोमाभ्यां जुष्टं निर्वपामि । पुरोडाशार्थान् । अन्वावापान्तम् । एकैकस्य निर्वापं कृत्वाग्निहोत्रहवणीं पवित्रे हस्तौ च प्रक्षालयति । यजमानः अग्निँ होतारमिति प्रतिहविर्निरुप्यमाणमनुमन्त्रयते ।
अध्वर्युः - अन्यस्मिन् शूर्पे पवित्रे निधाय । देवस्य त्वा --- हस्ताभ्यामग्नये गृहपतये जुष्टं निर्वपामि । पुरोडाशार्थान् कृष्णान् व्रीहीन् निरुप्य । अन्वावापान्तं सर्वत्र । अन्यस्मिन् शूर्पे पवित्रे निधाय । देवस्य त्वा --- हस्ताभ्याᳪं、 सोमाय वनस्पतये जुष्टं निर्वपामि । चर्वर्थान् श्यामाकान् । अन्यस्मिन् शूर्पे पवित्रे निधाय । देवस्य त्वा --- हस्ताभ्याᳪं、 सवित्रे सत्यप्रसवाय जुष्टं निर्वपामि । पुरोडाशार्थानाशून्व्रीहीन् । अन्यस्मिन् शूर्पे पवित्रे निधाय । देवस्य त्वा ---हस्ताभ्या৺ रुद्राय पशुपतये जुष्टं निर्वपामि । चर्वर्थान् गवीधुकान् । अन्यस्मिन् शूर्पे पवित्रे निधाय । देवस्य त्वा --- हस्ताभ्यां बृहस्पतये वाचस्पतये जुष्टं निर्वपामि । चर्वर्थान् नीवारान् । अन्यस्मिन् शूर्पे पवित्रे निधाय । देवस्य त्वा --- हस्ताभ्यामिन्द्राय ज्येष्ठाय जुष्टं निर्वपामि । पुरोडाशार्थान् महाव्रीहीन् । अन्यस्मिन् शूर्पे पवित्रे निधाय । देवस्य त्वा --- हस्ताभ्याम्मित्राय सत्याय जुष्टं निर्वपामि । चर्वर्थानाम्बान् । अन्यस्मिन् शूर्पे पवित्रे निधाय । देवस्य त्वा --- हस्ताभ्यां वरुणाय धर्मपतये जुष्टं निर्वपामि । चर्वर्थान् यवान् । एवं सर्वेषामन्वावापान्तं कृत्वा । इदं देवानां इत्यावृत्तिः इदमु नस्सह इति च । स्फात्यै त्वा इत्यादि तन्त्रेण । क्रमेण उपसादनमसामर्थ्ये ।
अदित्यास्त्वोपस्थे सादयाम्यग्नीषोमौ हव्यᳪं、 रक्षेथामग्ने गृहपते हव्यᳪं、 रक्षस्व सोम वनस्पते हव्यᳪं、 रक्षस्व सवितस्सत्यप्रसव हव्यᳪं、 रक्षस्व रुद्र पशुपते हव्य‍ᳪं、 रक्षस्व बृहस्पते वाचस्पते हव्यᳪं、 रक्षस्वेन्द्र ज्येष्ठ हव्यᳪं、 रक्षस्व मित्र सत्य हव्यᳪं、 रक्षस्व वरुण धर्मपते हव्यᳪं、 रक्षस्व इत्युपसादनम् । न कस्त्वा । सशूकायामित्यादि । देवस्य त्वा --- हस्ताभ्यामग्नीषोमाभ्यां वो जुष्टं प्रोक्षाम्यग्नये गृहपतये वो जुष्टं प्रोक्षामि सोमाय वनस्पतये वो जुष्टं प्रोक्षामि सवित्रे सत्यप्रसवाय वो जुष्टं प्रोक्षामि रुद्राय पशुपतये वो जुष्टं प्रोक्षामि बृहस्पतये वाचस्पतये वो जुष्टं प्रोक्षामीन्द्राय ज्येष्ठाय वो जुष्टं प्रोक्षामि मित्राय सत्याय वो जुष्टं प्रोक्षामि वरुणाय धर्मपतये वो जुष्टं प्रोक्षामि । शुन्धध्वमित्यादि । पात्रप्रोक्षणे प्रोक्षणीनां समाप्तिः ।
कृष्णाजिनादानादि । अधिषवणमसि इत्यन्तं तन्त्रेण कृत्वा । अग्नेस्तनूरसि इत्यादि तण्डुलप्रस्कन्दनान्तं प्रतिबीजमावर्तते हविष्कृदेहि इति च[६९]१९९ प्रतिबीजम् । प्रथमबीजे आग्नीध्रप्रैषश्च अश्माघातश्च । प्रतिबीजमुलूखलमुसलहस्तानां प्रक्षालनम् । श्यामाकादिचरूणां हस्तेन तुषोपवपनम् । वारुणस्य अग्नेस्तनूरसि इत्यन्तं कृत्वा हविष्कृता वाचं विसृज्य पशुं विशास्ति । गुदं मा निर्व्लेषीः इत्यादि । शूले प्रणीक्ष्य हृदयं शामित्रे श्रपयतीत्यन्तं कृत्वा । वारुणस्य अवहननादि[७०]२०० । अदब्धेन व इति तन्त्रेण । त्रिष्फलीकर्तवै इति च । पर्यायेण फलीकरणमेकैकस्य त्रिस्त्रिः प्रक्षालनं च । सर्वहविषां प्रक्षालितमुदकमेकस्मिन् पात्रे आनीय त्रिष्फलीक्रियमाणानामिति तन्त्रेण निनयनम् ।
कृष्णाजिनादानादि दृषदमत्यादधातीत्यन्तं तन्त्रेण । अधिवापादि अणूनि कुरुतात् इत्यन्तमेकैकस्य पुरोडाशस्यावर्तते[७१]२०१ । कपालानामुपधानकाले अग्नीषोमीयस्यैकादश कपालानि, अष्टावुपधाय तूष्णीं त्रीणि । अग्नेर्गृहपतेरष्टौ कपालानि । ध्रुवोऽसीति सौम्यस्थालीम् । सावित्रस्य द्वादशकपालानि द्वितीयचतुर्थषष्ठाष्टमानामावृत्तिः । ध्रुवोऽसीति रौद्रस्थालीं बार्हस्पत्यस्थालीं च । ऐन्द्रस्यैकादश कपालानि । ध्रुवोऽसीति मैत्रस्थालीं वारुणस्थालीं च । भृगूणामङ्गिरसां इत्यादि । अधिवापवत् सँवापः पृथक्पृथक् । पिष्टानां तण्डुलानाञ्चोत्पत्तिक्रमेणोत्पवनम् । अन्या आपो यजुषोत्पूय समापो अद्भिः । अद्भ्यः परि । जनयत्यै त्वा । मखस्य शिरोऽसि इत्यादि प्रतिपुरोडाशमावर्तते । नात्र निर्देशः । निर्वापक्रमेण अधिश्रयणम् । प्रथनादि पुरोडाशनामन्तरितं सर्वेषाम् । आप्यलेपं बर्हिषि निनीय ।
घृतागेहि इत्यादि प्राशित्रं सम्मृज्य । प्रस्तरे पवित्रे अपिसृज्य । इदमह‍ᳪं、 सेनाया इत्यादि । अग्नीषोमीयं तूष्णीमभिघार्य । आप्यायतां --- तेजसाग्नये गृहपतये जुष्टमभिघारयामि । तूष्णीं सौम्यम् । सवित्रे सत्यप्रसवाय जुष्टमभिघारयामि । रुद्राय पशुपतये जुष्टमभिघारयामि । बृहस्पतये वाचस्पतये जुष्टमभिघारयामि । तूष्णीमैन्द्रम् । मित्राय सत्याय जुष्टमभिघारयामि । वरुणाय धर्मपतये जुष्टमभिघारयामि । स्योनन्त इत्यादि क्रमेणोद्वासनम् । आर्द्रो भुवनस्येति चरूणामुद्वासनम् । सर्वेषामलङ्करणम् । प्रियेणेत्यासादनम् । यज्ञोऽसीति षट् । अयं यज्ञः । यो नः कनीयः --- अपतमिन्द्रो ज्येष्ठो भुवनान्नुदताम् । ममाग्ने चतुर्होता । शृते पशौ पञ्चहोता । जुह्वामुपस्तीर्येत्यादि । अग्नीषोमाभ्यां पुरोडाशस्यानुब्रूहि । अग्नीषोमाभ्यां पुरोडाशस्य प्रेष्य । अग्नीषोमाभ्यामिदम् । अग्नीषोमयोरहं देवयज्यया वृत्रहा भूयासम् ।
उपांशु देवसुवां प्रचारः वारुणवर्जम्[७२]२०२ । अग्नये गृहपतये, अनुब्रूहि । अग्निं गृहपतिं, यज[७३]२०३ । अग्नये गृहपतय इदम् । अग्नेर्गृहपतेरहं --- अन्नादो भूयासम् । सोमाय वनस्पतये, अनुब्रूहि । सोमं वनस्पतिं, यज । सोमाय वनस्पतय इदम् । सोमस्य वनस्पतेरहं --- वृत्रहा भूयासम् । सवित्रे सत्यप्रसवाय, अनुब्रूहि । सवितारं सत्यप्रसवं, यज । सवित्रे सत्यप्रसवायेदम् । सवितुस्सत्यप्रसवस्याहं देवयज्ययान्नादो भूयासम् । रुद्राय पशुपतये, अनुब्रूहि । रुद्रं पशुपतिं, यज । रुद्राय पशुपतय इदम् । रुद्रस्य पशुपतेरहं देवयज्ययान्नादो भूयासम् । अप उपस्पृश्य । बृहस्पतये वाचस्पतये, अनुब्रूहि । बृहस्पतिं वाचस्पतिं, यज । बृहस्पतये वाचस्पतय इदम् । बृहस्पतेर्वाचस्पतेरहं देवयज्ययान्नादो भूयासम् । इन्द्राय ज्येष्ठाय, अनुब्रूहि । इन्द्रं ज्येष्ठं, यज । इन्द्राय ज्येष्ठायेदम् । इन्द्रस्य ज्येष्ठस्याहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् । मित्राय सत्याय, अनुब्रूहि । मित्रं सत्यं, यज । मित्राय सत्यायेदम् । मित्रस्य सत्यस्याहं देवयज्ययान्नादो भूयासम् । अथोच्चैः वरुणाय धर्मपतयेऽनुब्रूहि । वरुणं धर्मपतिं यज । वरुणाय धर्मपतय इदम् । वरुणस्य धर्मपतेरहं देवयज्ययान्नादो भूयासम् । नात्र नारिष्ठाः । समानं तु स्विष्टकृदिडम्[७४]२०४ । अग्नीषोमीयस्य मुख्यत्वात् अग्नयेऽनुब्रूहि अग्नये प्रेष्य इत्येव स्विष्टकृतः सम्प्रैषः । रौद्रं शेषं क्षिपेदप्सु प्राशित्रेडं न तस्य तु[७५]२०५ । अग्नीषोमीयसौम्यऐन्द्रवर्ज्यानां विरुज्य प्राशित्रम् । इडावदानकाले न यजमानभागम् । इडामार्जनान्ते । स्रुवेण पृषदाज्यस्योपहत्येत्यादि समानमा समाप्तेः । पत्नीसंयाजान्तोऽग्नीषोमीयस्सन्तिष्ठते । निशायां वसतीवरीपरिहरणादि अग्निष्टोमवत् । रात्रौ परिस्तरणान्ते व्रतम्[७६]२०६ । प्राजहिते दीक्षितस्य व्रतमित्यादि । अपरेण शालामुखीयं व्रतं प्रयच्छति । ये देवा मनोजाता इति व्रतयति । शिवाः पीता भवथ । रात्रौ यजमानं जागरयन्ति ।
॥ इति चयने अग्नीषोमीयपशुप्रयोगः ॥


























  1. १३६. एतदनन्तरं 'द्वितीयप्रस्तारस्य शुल्बोपधानं कृत्वा' इति आन्ध्रपाठः ।
  2. १३७. मध्ये पुरस्तादारभ्य प्रत्यगपवर्गाः इति पाठा० ।
  3. १३८. जुह्वां षड्गृहीतं गृहीत्वा पाठा० ।
  4. १३९. चतुस्स्तनं व्रतं ददाति ।
  5. १४०. एतदनन्तरं ‘प्रथमप्रस्तारवत् शुल्बोपधानं कृत्वा' इति आन्ध्रपाठः ।
  6. १४१. अश्वेनोपघ्राप्य इति पाठा० A. V. पाठश्च ॥
  7. १४२. मध्ये सन्ध्यन्तराले उपधातव्यम्, मृन्मयीनामिष्टकानामबाधाय
  8. १४३. होमं कृत्वा निरुछ्वासेनावतिष्ठते इत्यर्थः ।
  9. १४३(अ). अत्र चित्यग्निप्रणयनेन प्रणीतानां तिसृणां पादेष्टकानां द्वितीयामुपदधाति ।
  10. १४४. जुह्वां षड्गृहीतं गृहीत्वा पाठा० ।
  11. १४५. एतदनन्तरं “ अथ यूपकर्म ततो व्रतं " इत्यान्ध्रपाठः ।
  12. १४६. श्वोभूते चतुर्थ्योपसदहे पौर्वाह्णिकीभ्यां प्रचर्य इति पाठा० ।
  13. १४७. एतदनन्तरं “ द्वितीयप्रस्तावत् शुल्बोपधानं कृत्वा " इति आन्ध्रपाठः ।
  14. माश ८.४.२.१
  15. तैसं. ४.३.१०.१
  16. तैसं. ४.३.११.१
  17. १४८. जुह्वां षड्गृहीतं गृहीत्वा इति पाठा० ।
  18. १४९. एतदनन्तरं ‘प्रथमप्रस्तारवत् शुल्बोपधानं कृत्वा इति आन्ध्रपाठः ।
  19. १५०. अश्वेनोपघ्राप्य इति पाठा० A. V. पाठश्च ।
  20. *. श्वासं गृह्णातीत्यर्थः ।
  21. १५१. अत्र कपर्दिभाष्यम् – 'ते त्विष्टके स्वयमातृण्णा च विकर्णी च । तयोरुपरि नान्यामिष्टकामुपदधाति । यत्रापि द्विप्रस्तारः(रा) त्रिप्रस्तारो (रा) वा चितिः तदाप्येना (ने) उपधाय तासामुपरि स्वयमातृण्णा विकर्णी चोपधीयते । अथवा अत्र वा विकर्णी स्वयमातृण्णां चोपदध्यादिति वा करोति पक्षम्' इति ।
  22. १५३. एभिर्नो अर्कैर्भवा नो अर्वाङ्सुवर्न ज्योतिः । अग्ने विश्वेभिः सुमना अनीकैस्तया इति चतुर्थी अक्षरपङ्तिो र्विकल्प्यते ।
  23. १५४. उपधानकाले एतेषां मन्त्राणां पाठविषये भूमिका द्रष्टव्या । कपर्दिभाष्यानुसारेण वासुदेवदीक्षितकारिकानुसारेण च एवं अर्धर्चे विरामो न भवति ।
  24. १५५. उज्वलकारिकारीत्या अष्टोत्तरशतद्वये पञ्चमे प्रस्तारे यशोदानन्तरं ऋषभः प्राजापत्या पञ्चाज्यान्यः । पृथिव्यै त्वा, अन्तरिक्षाय त्वा, दिवे त्वा इति तिस्रो लोकेष्टकाः । अग्नये त्वा पवमानाय, अग्नये त्वा पावकाय, अग्नये त्वा शुचये इति तिस्रः पावमान्यः । ऋचा त्वा छन्दसा सादयामि, वषट्कारेण त्वा छन्दसा सादयामि, हिङ्कारेण त्वा छन्दसा सादयामि, प्रस्तावेन त्वा छन्दसा सादयामि, प्रतिहारेण त्वा छन्दसा सादयामि, उद्गीथेन त्वा छन्दसा सादयामि, निधनेन त्वा छन्दसा सादयामि इति सप्त छन्दस्याः । चतस्रो राष्ट्रभृतः । अवशिष्टाः एकोनत्रिंशत् लोकंपृणा इत्युपधानक्रमः ।
  25. १५६. पञ्चम्यां चितौ अस्मिन् द्विशते प्रस्तारे यशोदान्ते ऋषभः, प्राजापत्या, पञ्चाज्यान्यः, तिस्रो लोकेष्टकाः, तिस्रः पावमान्यः, सप्त छन्दस्याः, चतस्रो राष्ट्रभृतः इत्येवंक्रमेण उपधाने अवशिष्टा एकविंशतिर्लोकम्पृणास्सम्पद्यन्ते।
  26. १५७. जुह्वां षड्गृहीतं गृहीत्वा इति पाठा० ।
  27. १५८. अग्निसंस्कारत्वात्, अपितृकर्मत्वात् ।
  28. १५९. त्रेधाविभागस्य होमविषये भूमिका द्रष्टव्या ।
  29. १६०. शतरुद्रेभ्य इदं इति पाठा० ।
  30. १६१. अयमेव क्रमः सर्वेषु मातृकाग्रन्थेषु दृश्यते । किं तु कपर्दिभाष्ये 'आस्यदघ्ने च उत्तरास्तिस्रः' इति । प्राचीनकारिकासु 'क्रमेण सर्वा अपि चास्यदघ्ने' इति । आन्ध्रपाठे च 'आस्यदघ्ने एव तिस्र आहुती:' इति । पक्षद्वयस्याप्याधारं नैवोपलभामहे । प्रयोगस्य भाष्यादिभिर्विप्रतिपत्तेः कारणं न जानीमः । विमृशन्तु सूक्ष्मदृष्टयो विद्वांसः । K.D.M. पाठे एतदनन्तरं 'एतानेव विपरीतान् प्रत्यवरोहान् जपति जुहोतीत्येके' इति विद्यते ।
  31. १६२. अपि वा प्रथमादिति पक्षमाश्रित्योत्तरस्य पक्षस्योत्तरापरस्यां स्रक्त्यामिति च पक्षमाश्रित्याजाक्षीरपक्षमाश्रित्य च प्रयोगः । अग्निसंमितां वेदिमुद्धृत्य तस्यामर्कपर्णं धारयन्नध्वर्युरुदङ्मुखस्तिष्ठति । अन्यः कश्चित्तस्मिन्नर्कपुटे अजाक्षीरमासिञ्चन् तिष्ठति । यदा धाराग्निं प्राप्नोति तत्प्रतिपद्यते । जानुदघ्ने धारयन् नमस्ते रुद्रमन्यव इति प्रथमं द्वितीयं तृतीयं चानुवाकं निगद्य चतुर्थेनुवाके नमस्तक्षभ्य इत्युक्त्वा स्वाहाकरोति । रुद्रेभ्य इदम् । अथ नाभिदघ्ने धारयन् रथकारेभ्यश्च व इति शिष्टमनुवाकं पञ्चमं षष्ठं चानुवाकं सप्तमानुवाके नमस्स्वायुधायेत्यन्तमुक्त्वा स्वाहाकरोति । रुद्रेभ्य इदम् । अथ मुखदघ्ने धारयन् सुधन्वने चेत्यादि शिष्टमनुवाकमष्टमं नवमं दशमं चानुवाकं निगद्य पराचीना मुखा कृधीत्यन्ते स्वाहाकरोति । रुद्रेभ्य इदम् । सहस्राणि सहस्रशो --- तन्मसि स्वाहा ॥ रुद्रेभ्य इदम् । अस्मिन्महत्यर्णवे --- तन्मसि स्वाहा ॥ रुद्रेभ्य इदम् । नीलग्रीवाः शितिकण्ठा ---तन्मसि स्वाहा ॥ रुद्रेभ्य इदम् । नीलग्रीवाः शितिकण्ठा ---तन्मसि स्वाहा ॥ रुद्रेभ्य इदम्। ये वृक्षेषु --- तन्मसि स्वाहा॥ रुद्रेभ्य इदम्। ये भूतानामधिपतयो --- तन्मसि स्वाहा ॥ रुद्रेभ्य इदम् । ये अन्नेषु --- तन्मसि स्वाहा ॥ रुद्रेभ्य इदम् । ये पथां --- तन्मसि स्वाहा॥ रुद्रेभ्य इदम्। ये तीर्थानि ——तन्मसि स्वाहा ॥ रुद्रेभ्य इदम् तन्मसि स्वाहा ॥ रुद्रेभ्य इदम् । य एतावन्तश्च --- तन्मसि स्वाहा ॥ रुद्रेभ्य इदम् । इति मुखदघ्ने धारयन्नेव दशावतानान् हुत्वा अथान्वारोहान् जुहोति । नमो रुद्रेभ्यो ये पृथिव्यां येषामन्नमिषवस्तेभ्यो --- दधामि स्वाहा जानुदघ्ने जुहोति । रुद्रेभ्य इदम् ॥ नमो रुद्रेभ्यो येऽन्तरिक्षे येषां वात इषवस्तेभ्यो --- दधामि स्वाहा नाभिदघ्ने जुहोति । रुद्रेभ्य इदम् ॥ नमो रुद्रेभ्यो ये दिवि येषां वर्षमिषवस्तेभ्यो --- दधामि स्वाहा आस्यदघ्ने जुहोति । रुद्रेभ्य इदम् ।। आरोहान् हुत्वा एतानेव यजमानं वाचयित्वा एतानेव विपरीतान् प्रत्यवरोहान् जुहोति । नमो रुद्रेभ्यो ये दिवि --- दधामि स्वाहा इत्यास्यदघ्ने । नमो रुद्रेभ्यो येऽन्तरिक्षे --- दधामि स्वाहा इति नाभिदघ्ने । नमो रुद्रेभ्यो ये पृथिव्यां --- दधामि स्वाहा इति जानुदने । असञ्चरे
    पशूनामर्कपर्णमुदस्यति । अप उपस्पृश्य इति M.M पाठः ।
  32. १६३. तिसृभिरिषुभिर्युक्तमेकं धनुः अयाचितमपि ब्राह्मणाय दद्यात् इति सायणभाष्यम् ॥ 'अध्वर्यो तिसृधन्वं ते ददामि । अध्वर्युः उत्तानस्त्वाङ्गीरसः प्रतिगृह्णातु इति प्रतिगृह्णाति' इति पाठा० ।
  33. १६४ क्षुदमुं इति पाठा० ।
  34. १६५. निधाय कुम्भं अश्मᳪ、स्ते --- यं द्विष्मः त्रिरपरिषिञ्चन् प्रतिपर्येति इति पाठा० ।
  35. १६६. साम अनृचमिति छेदः । ऋग्वर्जितस्तोभवता साम्ना इत्यर्थः । पक्षस्य आत्मनश्च सन्धिस्थानमपिपक्षः ।
  36. १६७. स्वविधिना इति पाठा० ।
  37. १६८. सञ्चितमग्निं प्रस्तोत्रा सामभिरनुगीतं सन्तं होता यजमानो वा वक्ष्यमाणेन विधिनाऽनुशंसेत् । अनुगीतमिति वचनात् प्रस्तोतुरनुगानानन्तरमेव अनुशंसनं क्रियते ।
  38. १६९. अत्रैवं सूत्रं - 'पिता मातरिश्वेति सञ्चितोक्थ्येन होतानुशंसति । होतर्यकामयमानेऽध्वर्युः' इति । अस्य कपर्दिभाष्यं- “पिता मातरिश्वेति सञ्चितस्याग्नेः यच्छस्त्रं तेन होताग्नेः पश्चात्स्थितः शंसति । अकामयमाने अनिच्छति होतरि शंसनं कर्तुं, अध्वर्युरेव शंसति । पिता मातरिश्वेत्यारभ्य पदानुतक्षुरिति विरम्य बृहस्पतिरुक्थामदानि शंसिषों इत्येतामेव त्रिः । पराचानुशंसतीति वचनात् । अथवा बह्वृचानामेका ऋक् अग्निरस्मि जन्मना इत्यनूच्यते । सकृदेव प्रयोगः इत्युपदेशः' इति ।
  39. १७०. आजुषन्त---सुवर्विदᳪ、 स्वाहा इति पाठा० । वृष्टिं देवानां इति पाठा० ।
  40. १७१. परस्तात्स्वाहा इति पाठा० ।
  41. १७२. एकव्रतानामभि इति पाठा० ।
  42. १७३. अनुचिते, मनचिते इति पाठा० ।
  43. १७४. कूर्मपृष्ठं यथा तथा कृत्वा ।
  44. १७५. अश्मा श्वेतवर्णः स्यात् 'निहितः पृश्निरश्मेति' लिङ्गात् ।
  45. १७६. ‘देवा अग्निं धारयन् द्रविणोदा अग्ने सहस्राक्षेत्येवं संहिताभ्याम् । अन्ये त्वाहुः अवसानं क्रियते नोच्छ्वस्यते मध्ये ऋचा' इति कपर्दिभाष्यम् ।
  46. १७६अ. अन्यया औदुम्बर्या स्रुचा । 'औदुम्बरीस्थं दधि अभेदेन उच्यते' इति भट्टभास्करभाष्यम् । स्वयमातृण्णायां दधि जुहोतीत्यर्थः ।
  47. १७७. ‘अनवतीर्ण एव (चितेरुपरिस्थित एव) विश्वायुरसीत्यादि परिधिपरिधानादि कर्म कुर्यात् । अग्नेरधस्तात् (चितेरधस्तात्) परिधानम् ' इति कपर्दिभाष्यम् ।
  48. १७८. 'स्वयमातृण्णायां संभारवत्यां प्रतिष्ठापनमग्नेः इति' कपर्दिभाष्यम् ।
  49. १७९. बर्हिराहरणकाले प्रस्तरमेव आहरेत् इति पाठा० ।
  50. १८०. वैश्वानरहविषः शूर्पस्य वेषाय त्वा इति ग्रहणम् । मारुतानां हविषः शूर्पस्य तूष्णीं इत्यर्थः । वेषाय वाम् शूर्पद्वयं इति पाठा० ।
  51. १८१. एषः प्राचीनकारिकानुसृतः पाठः, वासुदेवदीक्षितकारिकानुसृतपाठस्तु स्रुचस्सम्मृड्ढि इत्येव ।
  52. १८२. प्राजहिते पत्नीकर्माणि आज्याधिश्रयणं शालामुखीये इति आन्ध्र प्र.पा. एवमेव वासु.का. मतम् ।
  53. १८३. न हि असिदादानप्रभृति एतत्क्षणपर्यंतमित्यादि इति पाठा० ।
  54. १८४. वैश्वनरी मारुतान्ता उपदेशमतादिह इति आन्ध्र. प्र.पा.। एतन्मतेऽत्रैवेष्टिस्सन्तिष्ठते ततो वसोर्धाराहोम एव ।
  55. १८५. यज्ञो बभूव यज्ञ शञ्च म वृष्टि वर्जम् इति वासुदेवकारिका ।
  56. १८६. मातृकाग्रन्थेषु वसोर्धाराहोमस्य द्विधा प्रयोगो दृष्यते । तथैव अनुष्ठानञ्च द्विधा उपलभ्यते । कपर्दिभाष्ये पक्षद्वयमपि दर्शितम् ॥
  57. १८७. सूत्रपाठक्रमे यजमानस्य घृतसूक्तेन वसोर्धारानुमन्त्रणं ब्रह्मौदनात् परमेव विद्यते । क्वचिन्मातृकाग्रन्थेषु तु ब्रह्मौदनात् पूर्वं क्वचित्परं च दृश्यते । अनुमन्त्रणस्य ब्रह्मौदनात् पूर्ववर्तित्वात् पूर्वमेव दत्तम् ।
  58. १८८. चतुश्शरावं वौदनं पक्त्वा तद्व्यञ्जनं भोजयेत् इति सूत्रे पक्षान्तरमप्युक्तम् । एवमेव प्रायोऽनुष्ठीयते ।
  59. १८९. रथमुखं प्राचीनं भवेदिति आन्ध्रसम्प्रदायः ।
  60. १९०. अङ्गदक्षिणात्वात् तूष्णीं प्रतिग्रह इति पाठा० ।
  61. १९१. पुरस्तात् प्रत्यङ्मुख उपविश्य इत्यर्थः । अनुपरिचारं जुहोतीति विहिताः सर्वा आहुतीः एवमेव होतव्याः ।
  62. १९२. दध्ना मधुमिश्रेणैव इति कपर्दिभाष्यम् ।
  63. १९३. सर्वेषां धिष्णियानां तूष्णीमेव परिश्रयणम् । अत्र क्वचित् मातृकाग्रन्थेषु उपधानात् प्रागेव परिश्रयणवाक्यानि एकत्रैव संगृह्य दर्शितानि यथा 'होत्रीयं द्वादशभिः शर्कराभिः परिश्रित्य ममाग्ने वर्चः । एकादशभिः ब्राह्मणाच्छंसीयं परिश्रित्य ममाग्ने वर्चः इत्यादि' इत्येवम् ।
  64. १९४. धिष्णियानां इष्टकोपधानान्ते सर्वत्र तूष्णीं पुरीषव्यूहनम् ।
  65. १९५. प्रशास्त्रीयस्य पुरतः इति द्रा. प्र ।
  66. १९६. “सर्वतः कृत्वा परिश्रयणं पूर्वम्, पश्चादुपधानमिष्टकानाम् । इहापि अवभृथे तासु प्रचरणम् । साङ्गस्यावभृथस्य प्रधानकालत्वादङ्गानाम् । उदके यथा (इष्टकाः) तिष्ठन्ति तासु च यथा आहुतयो भवन्ति तथा कर्तव्यमवभृथकाले” इति कपर्दिभाष्यम् । ‘यस्मिन्देशे उपहिताश्चेष्टकाः साङ्गप्रधानाहुतयः तासु भवन्ति तस्मिन् स्थले जले अष्टाभिः शर्कराभिः परिश्रयणम् । प्रधानदेशत्वादङ्गानाम्' इति T.G..M पाठे एव विद्यते ।
  67. १९७. ‘उपदेशस्तु बर्हिरभिजुहोत्याहुतीनां प्रतिष्ठित्या इति बर्हिप्रत्याम्नायत्वादिष्टकानां तासु प्रचरन्तीति तस्मिन्नेव काल उपदधाति नास्मिन्काल इति । अस्मिन्काल इति न्यायः । अस्मिन्काल उपहिता अपि तृणप्रत्याम्नाय एव । नैव तृणं प्रह्रियते' इति कपर्दिभाष्यम् ।
  68. १९८. एतानेवोपस्थानान् व्याघारणांश्चैके समामनन्ति इति सूत्रकारेण सोमप्रकरणे पक्षान्तरमप्युक्तम् । तस्मिन्पक्षे धिष्णियचयनानन्तरं विभूरसीत्यादिभिरुपस्थानं कर्तव्यम् । तत अध्वनामध्वपत इत्यादि । अग्निष्टोमे येषां आग्नीध्रीयादीनां धिष्णियानां निवपनं विहितं तेषां निवपनमत्र निवर्तते निवपनप्रत्याम्नायाच्चयनस्य । चात्वालशामित्रयोः कृतेऽपि चयने अनुदेशस्तु न निवर्तते । अनुदेशस्य प्रत्याम्नायेन अनुक्तत्वात् ।
  69. १९९. मातृकाग्रन्थेषु ‘हविष्कृदेहीति प्रथमबीजे आग्नीध्रप्रैषश्चाश्माघातश्च' इति विद्यते । आण्ड्विल्लाप्रयोगेऽपि 'हविष्कृदाह्वानं तन्त्रेण' इत्येवास्ति । सूत्रकारेण आग्रयणप्रकरणे नानाबीजप्रयोग उक्तः । तत्र भाष्यकारेण 'एकस्मिन्नुलूखले कालभेदादावर्तते' इत्युक्तम् । वृत्तिकारोऽपि भाष्यकारपक्षमेवानुसरति । परिभाषासूत्रेऽपि कपर्दिना आवृत्तिः दर्शिता । अत अस्माभिरेवं परिष्कृतम् । केचित् प्रतिबीजं उलूखलमुसलहस्तानां प्रक्षालनमिच्छन्ति ।
  70. २००. ‘समाहतान् सर्वान् तुषान् अग्नीषोमीयस्य मध्यमे पुरोडाशकपाले ओप्य रक्षसां भागोऽसि इति निरसनं करोति' इत्येकेषां पाठः। 'पुरोडाशानां तेन तेन मध्यमेन पुरोडाशकपालेन, श्यामाकादि चरूणां हस्तेन तुषोपवपनम्' इत्यन्येषां पाठः ।
  71. २०१. तद्यथा “अग्नीषोमाभ्यां जुष्टमधिवपामि । अणूनि कुरुतादित्यन्तम् । अग्नये गृहपतये जुष्टमधिवपामि । अणूनि कुरुतादित्यन्तम् । सवित्रे सत्यप्रसवाय जुष्टमधिवपामि । अणूनि कुरुतादित्यन्तम् । इन्द्राय ज्येष्टाय जुष्टमधिवपामि । अणूनि कुरुतादित्यन्तम्” ॥
  72. २०२. 'स्रुचं प्रक्षाल्य हस्तं प्रक्षाल्य देवसुवाहविषां प्रचारः' इति आन्ध्रप्रयोगः ।
  73. २०३. अत्र सर्वत्र अर्धविरामचिह्नपर्यन्तः पठितो मन्त्रभाग उपांशु । तदनन्तरः उच्चैः ।
  74. २०४. अग्नीषोमयेन पशुपुरोडाशेन सहैव देवसुवां हविषां स्विष्टकृद्यागः इडावदानं च इत्यर्थः ।
  75. २०५. नास्तीदं वाक्यं क्वचिन्मातृकाग्रन्थेषु । अपेक्षितं तु, बौधायनेनोक्तत्वात् ।
  76. २०६. आन्ध्रप्रयोगे द्राविडप्रयोगे च अत्र व्रतं न विद्यते ।