अष्टाङ्गहृदयम्/सूत्रस्थानम्/अध्यायः ४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ३ अष्टाङ्गहृदयम्
सूत्रस्थानम्
अध्यायः ५ →

अध्यायः ४

वेगान् न धारयेद् वात-विण्-मूत्र-क्षव-तृट्-क्षुधाम् ।
निद्रा-कास-श्रम-श्वास-जृम्भाश्रु-च्छर्दि-रेतसाम् ॥ १ ॥

अधो-वातस्य रोधेन गुल्मोदावर्त-रुक्-क्लमाः ।
वात-मूत्र-शकृत्-सङ्ग-दृष्ट्य्-अग्नि-वध-हृद्-गदाः ॥ २ ॥

स्नेह-स्वेद-विधिस् तत्र वर्तयो भोजनानि च ।
पानानि वस्तयश् चैव शस्तं वातानुलोमनम् ॥ २+१ ॥

शकृतः पिण्डिकोद्वेष्ट-प्रतिश्याय-शिरो-रुजः ।
ऊर्ध्व-वायुः परीकर्तो हृदयस्योपरोधनम् ॥ ३ ॥

४.३cv ऊर्ध्वं वायुः परीकर्तो मुखेन विट्-प्रवृत्तिश् च पूर्वोक्ताश् चामयाः स्मृताः ।
अङ्ग-भङ्गाश्मरी-वस्ति-मेढ्र-वङ्क्षण-वेदनाः ॥ ४ ॥

मूत्रस्य रोधात् पूर्वे च प्रायो रोगास् तद्-औषधम् ।
वर्त्य्-अभ्यङ्गावगाहाश् च स्वेदनं वस्ति-कर्म च ॥ ५ ॥

अन्न-पानं च विड्-भेदि विड्-रोधोत्थेषु यक्ष्मसु ।
मूत्र-जेषु तु पाने च प्राग्-भक्तं शस्यते घृतम् ॥ ६ ॥

४.६cv मूत्र-जेषु च पानं तु ४.६cv मूत्र-जेषु प्रयुञ्जीत ४.६dv सर्पिषश् चावपीडकम् जीर्णान्तिकं चोत्तमया मात्रया योजना-द्वयम् ।
अवपीडकम् एतच् च संज्ञितं धारणात् पुनः ॥ ७ ॥

उद्गारस्या-रुचिः कम्पो विबन्धो हृदयोरसोः ।
आध्मान-कास-हिध्माश् च हिध्मा-वत् तत्र भेषजम् ॥ ८ ॥

शिरो-ऽर्तीन्द्रिय-दौर्बल्य-मन्या-स्तम्भार्दितं क्षुतेः ।
तीक्ष्ण-धूमाञ्जनाघ्राण-नावनार्क-विलोकनैः ॥ ९ ॥

प्रवर्तयेत् क्षुतिं सक्तां स्नेह-स्वेदौ च शीलयेत् ।
शोषाङ्ग-साद-बाधिर्य-संमोह-भ्रम-हृद्-गदाः ॥ १० ॥

तृष्णाया निग्रहात् तत्र शीतः सर्वो विधिर् हितः ।
अङ्ग-भङ्गा-रुचि-ग्लानि-कार्श्य-शूल-भ्रमाः क्षुधः ॥ ११ ॥

४.११dv -कार्श्य-शूल-श्रम-भ्रमाः तत्र योज्यं लघु स्निग्धम् उष्णम् अल्पं च भोजनम् ।
निद्राया मोह-मूर्धाक्षि-गौरवालस्य-जृम्भिकाः ॥ १२ ॥

४.१२av वैवर्ण्यं च क्षुधस् तत्र ४.१२bv स्निग्धोष्णं लघु भोजनम् अङ्ग-मर्दश् च तत्रेष्टः स्वप्नः संवाहनानि च ।
कासस्य रोधात् तद्-वृद्धिः श्वासा-रुचि-हृद्-आमयाः ॥ १३ ॥

शोषो हिध्मा च कार्यो ऽत्र कास-हा सु-तरां विधिः ।
गुल्म-हृद्-रोग-संमोहाः श्रम-श्वासाद् विधारितात् ॥ १४ ॥

४.१४dv श्रम-श्वासा-विधारणात् हितं विश्रमणं तत्र वात-घ्नश् च क्रिया-क्रमः ।
जृम्भायाः क्षव-वद् रोगाः सर्वश् चानिल-जिद् विधिः ॥ १५ ॥

४.१५च्च् जृम्भायाः क्षुति-वद् रोगाः पीनसाक्षि-शिरो-हृद्-रुङ्-मन्या-स्तम्भा-रुचि-भ्रमाः ।
स-गुल्मा बाष्पतस् तत्र स्वप्नो मद्यं प्रियाः कथाः ॥ १६ ॥

विसर्प-कोठ-कुष्ठाक्षि-कण्डू-पाण्ड्व्-आमय-ज्वराः ।
स-कास-श्वास-हृल्-लास-व्यङ्ग-श्वयथवो वमेः ॥ १७ ॥

गण्डूष-धूमान्-आहारा रूक्षं भुक्त्वा तद्-उद्वमः ।
व्यायामः स्रुतिर् अस्रस्य शस्तं चात्र विरेचनम् ॥ १८ ॥

४.१८av गण्डूष-धूमान्-आहारं ४.१८av गण्डूष-धूमान्-आहारान् ४.१८bv रूक्षं भुक्त्वा तद् उद्वमेत् ४.१८bv रूक्षान् भुक्त्वा तद् उद्वमेत् स-क्षार-लवणं तैलम् अभ्यङ्गार्थं च शस्यते ।
शुक्रात् तत्-स्रवणं गुह्य-वेदना-श्वयथु-ज्वराः ॥ १९ ॥

४.१९bv अभ्यङ्गार्थे च शस्यते हृद्-व्यथा-मूत्र-सङ्गाङ्ग-भङ्ग-वृद्ध्य्-अश्म-षण्ढ-ताः ।
ताम्र-चूड-सुरा-शालि-वस्त्य्-अभ्यङ्गावगाहनम् ॥ २० ॥

वस्ति-शुद्धि-करैः सिद्धं भजेत् क्षीरं प्रियाः स्त्रियः ।
तृट्-शूलार्तं त्यजेत् क्षीणं विड्-वमं वेग-रोधिनम् ॥ २१ ॥

रोगाः सर्वे ऽपि जायन्ते वेगोदीरण-धारणैः ।
निर्दिष्टं साधनं तत्र भूयिष्ठं ये तु तान् प्रति ॥ २२ ॥

ततश् चानेक-धा प्रायः पवनो यत् प्रकुप्यति ।
अन्न-पानौषधं तस्य युञ्जीतातो ऽनुलोमनम् ॥ २३ ॥

धारयेत् तु सदा वेगान् हितैषी प्रेत्य चेह च ।
लोभेर्ष्या-द्वेष-मात्सर्य-रागादीनां जितेन्द्रियः ॥ २४ ॥

यतेत च यथा-कालं मलानां शोधनं प्रति ।
अत्य्-अर्थ-संचितास् ते हि क्रुद्धाः स्युर् जीवित-च्छिदः ॥ २५ ॥

दोषाः कदा-चित् कुप्यन्ति जिता लङ्घन-पाचनैः ।
ये तु संशोधनैः शुद्धा न तेषां पुनर्-उद्भवः ॥ २६ ॥

४.२६cv ये तु संशोधनैः शुद्धास् ४.२६dv तेषां न पुनर्-उद्भवःच यथा-क्रमं यथा-योगम् अत ऊर्ध्वं प्रयोजयेत् ।
रसायनानि सिद्धानि वृष्य-योगांश् च काल-वित् ॥ २७ ॥

४.२७av यथा-क्रमं यथा-योग्यम् भेषज-क्षपिते पथ्यम् आहारैर् बृंहणं क्रमात् ।
शालि-षष्टिक-गोधूम-मुद्ग-मांस-घृतादिभिः ॥ २८ ॥

४.२८dv -मुद्ग-मांस-रसादिभिः हृद्य-दीपन-भैषज्य-संयोगाद् रुचि-पक्ति-दैः ।
साभ्यङ्गोद्वर्तन-स्नान-निरूह-स्नेह-वस्तिभिः ॥ २९ ॥

तथा स लभते शर्म सर्व-पावक-पाटवम् ।
धी-वर्णेन्द्रिय-वैमल्यं वृष-तां दैर्घ्यम् आयुषः ॥ ३० ॥

ये भूत-विष-वाय्व्-अग्नि-क्षत-भङ्गादि-संभवाः ।
राग-द्वेष-भयाद्याश् च ते स्युर् आगन्तवो गदाः ॥ ३१ ॥

४.३१cv काम-क्रोध-भायाद्याश् त्यागः प्रज्ञापराधानाम् इन्द्रियोपशमः स्मृतिः ।
देश-कालात्म-विज्ञानं सद्-वृत्तस्यानुवर्तनम् ॥ ३२ ॥

अथर्व-विहिता शान्तिः प्रतिकूल-ग्रहार्चनम् ।
भूताद्य-स्पर्शनोपायो निर्दिष्टश् च पृथक् पृथक् ॥ ३३ ॥

अन्-उत्पत्त्यै समासेन विधिर् एष प्रदर्शितः ।
निजागन्तु-विकाराणाम् उत्पन्नानां च शान्तये ॥ ३४ ॥

४.३४av अन्-उत्पत्तौ समासेन शीतोद्भवं दोष-चयं वसन्ते विशोधयन् ग्रीष्म-जम् अभ्र-काले ।
घनात्यये वार्षिकम् आशु सम्यक् प्राप्नोति रोगान् ऋतु-जान् न जातु ॥ ३५ ॥

नित्यं हिताहार-विहार-सेवी समीक्ष्य-कारी विषयेष्व् अ-सक्तः ।
दाता समः सत्य-परः क्षमा-वान् आप्तोपसेवी च भवत्य् अ-रोगः ॥ ३६ ॥