अष्टाङ्गहृदयम्/सूत्रस्थानम्/अध्यायः ३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २ अष्टाङ्गहृदयम्
सूत्रस्थानम्
अध्यायः ४ →

अध्यायः ३

मासैर् द्वि-संख्यैर् माघाद्यैः क्रमात् षड् ऋतवः स्मृताः ।
शिशिरो ऽथ वसन्तश् च ग्रीष्मो वर्षा-शरद्-धिमाः ॥ १ ॥

शिशिराद्यास् त्रिभिस् तैस् तु विद्याद् अयनम् उत्तरम् ।
आदानं च तद् आदत्ते नृणां प्रति-दिनं बलम् ॥ २ ॥

तस्मिन् ह्य् अत्य्-अर्थ-तीक्ष्णोष्ण-रूक्षा मार्ग-स्व-भावतः ।
आदित्य-पवनाः सौम्यान् क्षपयन्ति गुणान् भुवः ॥ ३ ॥

तिक्तः कषायः कटुको बलिनो ऽत्र रसाः क्रमात् ।
तस्माद् आदानम् आग्नेयम् ऋतवो दक्षिणायनम् ॥ ४ ॥

वर्षादयो विसर्गश् च यद् बलं विसृजत्य् अयम् ।
सौम्य-त्वाद् अत्र सोमो हि बल-वान् हीयते रविः ॥ ५ ॥

मेघ-वृष्ट्य्-अनिलैः शीतैः शान्त-तापे मही-तले ।
स्निग्धाश् चेहाम्ल-लवण-मधुरा बलिनो रसाः ॥ ६ ॥

शीते ऽग्र्यं वृष्टि-घर्मे ऽल्पं बलं मध्यं तु शेषयोः ।
बलिनः शीत-संरोधाद् धेमन्ते प्रबलो ऽनलः ॥ ७ ॥

भवत्य् अल्पेन्धनो धातून् स पचेद् वायुनेरितः ।
अतो हिमे ऽस्मिन् सेवेत स्वाद्व्-अम्ल-लवणान् रसान् ॥ ८ ॥

दैर्घ्यान् निशानाम् एतर्हि प्रातर् एव बुभुक्षितः ।
अवश्य-कार्यं संभाव्य यथोक्तं शीलयेद् अनु ॥ ९ ॥

वात-घ्न-तैलैर् अभ्यङ्गं मूर्ध्नि तैलं विमर्दनम् ।
नियुद्धं कुशलैः सार्धं पादाघातं च युक्तितः ॥ १० ॥

३.१०bv मूर्ध-तैलं विमर्दनम् कषायापहृत-स्नेहस् ततः स्नातो यथा-विधि ।
कुङ्कुमेन स-दर्पेण प्रदिग्धो ऽगुरु-धूपितः ॥ ११ ॥

रसान् स्निग्धान् पलं पुष्टं गौडम् अच्छ-सुरां सुराम् ।
गोधूम-पिष्ट-माषेक्षु-क्षीरोत्थ-विकृतीः शुभाः ॥ १२ ॥

नवम् अन्नं वसां तैलं शौच-कार्ये सुखोदकम् ।
प्रावाराजिन-कौशेय-प्रवेणी-कौचवास्तृतम् ॥ १३ ॥

३.१३dv -प्रवेणी-कुथकास्तृतम् उष्ण-स्व-भावैर् लघुभिः प्रावृतः शयनं भजेत् ।
युक्त्यार्क-किरणान् स्वेदं पाद-त्राणं च सर्व-दा ॥ १४ ॥

पीवरोरु-स्तन-श्रोण्यः स-मदाः प्रमदाः प्रियाः ।
हरन्ति शीतम् उष्णाङ्ग्यो धूप-कुङ्कुम-यौवनैः ॥ १५ ॥

अङ्गार-ताप-संतप्त-गर्भ-भू-वेश्म-चारिणः ।
शीत-पारुष्य-जनितो न दोषो जातु जायते ॥ १६ ॥

अयम् एव विधिः कार्यः शिशिरे ऽपि विशेषतः ।
तदा हि शीतम् अधिकं रौक्ष्यं चादान-काल-जम् ॥ १७ ॥

कफश् चितो हि शिशिरे वसन्ते ऽर्कांशु-तापितः ।
हत्वाग्निं कुरुते रोगान् अतस् तं त्वरया त्यजेत् ॥ १८ ॥

तीक्ष्णैर् वमन-नस्याद्यैर् लघु-रूक्षैश् च भोजनैः ।
व्यायामोद्वर्तनाघातैर् जित्वा श्लेष्माणम् उल्बणम् ॥ १९ ॥

स्नातो ऽनुलिप्तः कर्पूर-चन्दनागुरु-कुङ्कुमैः ।
पुराण-यव-गोधूम-क्षौद्र-जाङ्गल-शूल्य-भुक् ॥ २० ॥

सहकार-रसोन्मिश्रान् आस्वाद्य प्रिययार्पितान् ।
प्रियास्य-सङ्ग-सुरभीन् प्रिया-नेत्रोत्पलाङ्कितान् ॥ २१ ॥

सौमनस्य-कृतो हृद्यान् वयस्यैः सहितः पिबेत् ।
निर्गदान् आसवारिष्ट-सीधु-मार्द्वीक-माधवान् ॥ २२ ॥

शृङ्गवेराम्बु साराम्बु मध्व्-अम्बु जलदाम्बु च ।
दक्षिणानिल-शीतेषु परितो जल-वाहिषु ॥ २३ ॥

३.२३bv मध्व्-अम्बु जलदाम्बु वा अ-दृष्ट-नष्ट-सूर्येषु मणि-कुट्टिम-कान्तिषु ।
परपुष्ट-विघुष्टेषु काम-कर्मान्त-भूमिषु ॥ २४ ॥

३.२४av अ-दृष्टा-नष्ट-सूर्येषु विचित्र-पुष्प-वृक्षेषु काननेषु सु-गन्धिषु ।
गोष्ठी-कथाभिश् चित्राभिर् मध्याह्नं गमयेत् सुखी ॥ २५ ॥

गुरु-शीत-दिवा-स्वप्न-स्निग्धाम्ल-मधुरांस् त्यजेत् ।
तीक्ष्णांशुर् अति-तीक्ष्णांशुर् ग्रीष्मे संक्षिपतीव यत् ॥ २६ ॥

३.२६cv स्नेहम् अर्को ऽति-तीक्ष्णांशुर् प्रत्य्-अहं क्षीयते श्लेष्मा तेन वायुश् च वर्धते ।
अतो ऽस्मिन् पटु-कट्व्-अम्ल-व्यायामार्क-करांस् त्यजेत् ॥ २७ ॥

भजेन् मधुरम् एवान्नं लघु स्निग्धं हिमं द्रवम् ।
सु-शीत-तोय-सिक्ताङ्गो लिह्यात् सक्तून् स-शर्करान् ॥ २८ ॥

मद्यं न पेयं पेयं वा स्व्-अल्पं सु-बहु-वारि वा ।
अन्य-था शोष-शैथिल्य-दाह-मोहान् करोति तत् ॥ २९ ॥

३.२९cv अन्य-था शोफ-शैथिल्य- कुन्देन्दु-धवलं शालिम् अश्नीयाज् जाङ्गलैः पलैः ।
पिबेद् रसं नाति-घनं रसालां राग-खाण्डवौ ॥ ३० ॥

३.३०av कुन्देन्दु-धवलाञ् छालीन् ३.३०dv रसालां राग-खाडवौ ३.३०dv रसालां राग-षाडवौ पानकं पञ्च-सारं वा नव-मृद्-भाजने स्थितम् ।
मोच-चोच-दलैर् युक्तं साम्लं मृन्-मय-शुक्तिभिः ॥ ३१ ॥

३.३१bv नव-मृद्-भाजन-स्थितम् पाटला-वासितं चाम्भः स-कर्पूरं सु-शीतलम् ।
शशाङ्क-किरणान् भक्ष्यान् रजन्यां भक्षयन् पिबेत् ॥ ३२ ॥

स-सितं माहिषं क्षीरं चन्द्र-नक्षत्र-शीतलम् ।
अभ्रङ्-कष-महा-शाल-ताल-रुद्धोष्ण-रश्मिषु ॥ ३३ ॥

वनेषु माधवी-श्लिष्ट-द्राक्षा-स्तबक-शालिषु ।
सु-गन्धि-हिम-पानीय-सिच्यमान-पटालिके ॥ ३४ ॥

कायमाने चिते चूत-प्रवाल-फल-लुम्बिभिः ।
कदली-दल-कल्हार-मृणाल-कमलोत्पलैः ॥ ३५ ॥

कोमलैः कल्पिते तल्पे हसत्-कुसुम-पल्लवे ।
मध्यन्-दिने ऽर्क-तापार्तः स्वप्याद् धारा-गृहे ऽथ-वा ॥ ३६ ॥

पुस्त-स्त्री-स्तन-हस्तास्य-प्रवृत्तोशीर-वारिणि ।
निशा-कर-कराकीर्णे सौध-पृष्ठे निशासु च ॥ ३७ ॥

आसना स्वस्थ-चित्तस्य चन्दनार्द्रस्य मालिनः ।
निवृत्त-काम-तन्त्रस्य सु-सूक्ष्म-तनु-वाससः ॥ ३८ ॥

जलार्द्रास् ताल-वृन्तानि विस्तृताः पद्मिनी-पुटाः ।
उत्क्षेपाश् च मृदूत्क्षेपा जल-वर्षि-हिमानिलाः ॥ ३९ ॥

कर्पूर-मल्लिका-माला हाराः स-हरि-चन्दनाः ।
मनो-हर-कलालापाः शिशवः सारिकाः शुकाः ॥ ४० ॥

मृणाल-वलयाः कान्ताः प्रोत्फुल्ल-कमलोज्ज्वलाः ।
जङ्गमा इव पद्मिन्यो हरन्ति दयिताः क्लमम् ॥ ४१ ॥

आदान-ग्लान-वपुषाम् अग्निः सन्नो ऽपि सीदति ।
वर्षासु दोषैर् दुष्यन्ति ते ऽम्बु-लम्बाम्बु-दे ऽम्बरे ॥ ४२ ॥

३.४२av आदान-म्लान-वपुषाम् स-तुषारेण मरुता सहसा शीतलेन च ।
भू-बाष्पेणाम्ल-पाकेन मलिनेन च वारिणा ॥ ४३ ॥

वह्निनैव च मन्देन तेष्व् इत्य् अन्यो-ऽन्य-दूषिषु ।
भजेत् साधारणं सर्वम् ऊष्मणस् तेजनं च यत् ॥ ४४ ॥

आस्थापनं शुद्ध-तनुर् जीर्णं धान्यं रसान् कृतान् ।
जाङ्गलं पिशितं यूषान् मध्व्-अरिष्टं चिरन्-तनम् ॥ ४५ ॥

मस्तु सौवर्चलाढ्यं वा पञ्च-कोलावचूर्णितम् ।
दिव्यं कौपं शृतं चाम्भो भोजनं त्व् अति-दुर्-दिने ॥ ४६ ॥

३.४६av मस्तु सौवर्चलाढ्यं च व्यक्ताम्ल-लवण-स्नेहं संशुष्कं क्षौद्र-वल् लघु ।
अ-पाद-चारी सुरभिः सततं धूपिताम्बरः ॥ ४७ ॥

हर्म्य-पृष्ठे वसेद् बाष्प-शीत-सीकर-वर्जिते ।
नदी-जलोद-मन्थाहः-स्वप्नायासातपांश् त्यजेत् ॥ ४८ ॥

वर्षा-शीतोचिताङ्गानां सहसैवार्क-रश्मिभिः ।
तप्तानां संचितं वृष्टौ पित्तं शरदि कुप्यति ॥ ४९ ॥

तज्-जयाय घृतं तिक्तं विरेको रक्त-मोक्षणम् ।
तिक्तं स्वादु कषायं च क्षुधितो ऽन्नं भजेल् लघु ॥ ५० ॥

शालि-मुद्ग-सिता-धात्री-पटोल-मधु-जाङ्गलम् ।
तप्तं तप्तांशु-किरणैः शीतं शीतांशु-रश्मिभिः ॥ ५१ ॥

समन्ताद् अप्य् अहो-रात्रम् अगस्त्योदय-निर्-विषम् ।
शुचि हंसोदकं नाम निर्-मलं मल-जिज् जलम् ॥ ५२ ॥

नाभिष्यन्दि न वा रूक्षं पानादिष्व् अमृतोपमम् ।
चन्दनोशीर-कर्पूर-मुक्ता-स्रग्-वसनोज्ज्वलः ॥ ५३ ॥

सौधेषु सौध-धवलां चन्द्रिकां रजनी-मुखे ।
तुषार-क्षार-सौहित्य-दधि-तैल-वसातपान् ॥ ५४ ॥

तीक्ष्ण-मद्य-दिवा-स्वप्न-पुरो-वातान् परित्यजेत् ।
शीते वर्षासु चाद्यांस् त्रीन् वसन्ते ऽन्त्यान् रसान् भजेत् ॥ ५५ ॥

स्वादुं निदाघे शरदि स्वादु-तिक्त-कषायकान् ।
शरद्-वसन्तयो रूक्षं शीतं घर्म-घनान्तयोः ॥ ५६ ॥

अन्न-पानं समासेन विपरीतम् अतो ऽन्य-दा ।
नित्यं सर्व-रसाभ्यासः स्व-स्वाधिक्यम् ऋताव् ऋतौ ॥ ५७ ॥

ऋत्वोर् अन्त्यादि-सप्ताहाव् ऋतु-संधिर् इति स्मृतः ।
तत्र पूर्वो विधिस् त्याज्यः सेवनीयो ऽपरः क्रमात् ॥ ५८ ॥

३.५८av ऋत्वोर् अन्त्यादि-सप्ताहाद् अ-सात्म्य-जा हि रोगाः स्युः सहसा त्याग-शीलनात् ॥ ५८ऊ̆ ॥