अलङ्कारसङ्ग्रहः/परिच्छेदः ९

विकिस्रोतः तः
Jump to navigation Jump to search
← परिच्छेदः ८ अलङ्कारसङ्ग्रहः
परिच्छेदः ९
अमृतानन्दयोगीन्द्र:
परिच्छेदः १० →

नाटकं सप्रकरणं भाणः प्रहसनं डिमः।
व्यायोगसमवाकारौ वीथ्यङ्केहामृगा इति ।। १ ।।

प्रधानरूपकाण्याहुर्दशैतानि विपश्चितः।
नाटिका सट्टकं त्रोटो प्रेङ्खणं गोष्ठिभाणिके ।। २ ।।

संलापकश्च प्रस्थानं काव्यहल्लीसरासके।
श्रीगदितं च लासिका दुर्मल्ली नाट्यरासकम् ।। ३ ।।

उल्लाप्यमुपरूपाणि भवन्त्येतानि षोडश।
प्रकृतित्वादथान्येषां भूयो रसपरिग्रहात् ।। ४ ।।

सम्पूर्णलक्षणत्वाच्च पूर्वं नाटकमुच्यते।
रङ्गः सदस्यास्थानोर्वी नेपथ्यं नटवर्गभूः ।। ५ ।।

यन्नाट्यवस्तुनः पूर्वं रङ्गविघ्नोपशान्तये ।
कुशीलवाः प्रकुर्वन्ति पूर्वरङ्कः प्रकीर्तितः ।। ६ ।।

प्रत्याहारोऽवतरणमारम्भाश्रावणे अपि।
वक्त्रपाणिः परिघट्टना या सङ्घोटना तथा ।। ७ ।।

मार्गापसारितं शुद्धापकृष्टोत्थापने तथा।
परिवर्तनकं नान्दी तथा चैव प्ररोचना ।। ८ ।।

त्रिगतं चासारितकं तथा गीतिविधिध्रुवा।
त्रिसामकमतो रङ्गद्वारं स्याद्वर्धमानकम् ।। ९ ।।

चारिर्महाचारिरिति पूर्वरङ्गाङ्गसङ्गतिः ।
यद्यप्यङ्गानि भूयांसि पूर्वरङ्कस्य नाटके ।। १० ।।

तथाप्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये।
आशीर्वचनसंयुक्ता यस्मान्नित्यं भवेदिह ।। ११ ।।

देवद्विजनृपादीनां तस्मान्नान्दीति शब्दिता।
नान्दी गुणनिका वाद्यमानद्धादित्रयोत्थितम् ।। १२ ।।

नन्दीशः पूज्यते पुष्पैः तस्मान्नान्दीति सूच्यते।
या काचित् पठ्यते सूक्तिर्यां काञ्चिद्देवतां प्रति ।। १३ ।।

सूत्रधारेण नाट्यादौ सा नान्दी नन्दिनो मुदे।
मङ्गल्यशङ्खचक्राब्जकोककैरवशंसिनी ।। १४ ।।

नान्दी पदैर्द्वादशभिरष्टाभिर्वाप्यलङ्कृता।
पूर्वरङ्गं विधायेत्थं सूत्रधारे विनिर्गते ।। १५ ।।

प्रविश्य तद्वदपरः काव्यमास्थापयेन्नटः।
दिव्यमर्त्ये स तद्रूपो मिश्रमन्यतरस्तयोः ।। १६ ।।

सूचयेद्वस्तु बीजं वा मुखं पात्रक्रमाद्यथा।
"रामो मूर्ध्नि निधाय काननमगान्मालामिवाज्ञां गुरो-
स्तद्भक्त्या भरतेन राज्यमखिलं मात्रा सहैवोज्झितम्।
तौ सुग्रीवविभीषणावनुगतौ नीतौ परां सम्पदं
प्रोद्वृत्ता दशकन्धरप्रभृतयो ध्वस्ताः समस्ता द्विषः ।। "

"यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि सहायताम्।
अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति ।। "

"आसादितप्रकटनिर्मलचन्द्रहासः
प्राप्तः शरत्समय एष विशुद्धकान्तः।
उत्खाय गाढतमसं घनकालमुग्रं
रामो दशास्यमिव सम्भृतबन्धुजीवः ।। "

"तवास्मि गीतरागेण हारिणा प्रसभं हृतः।
एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ।। "

रङ्गं प्रसाद्य मधुरैः श्लोकैः काव्यार्थसूचकैः ।। १७ ।।

ऋतुं कञ्चिदुपादाय भारतीं वृत्तिमाश्रयेत्।
प्ररोचना प्रशंसा वस्तून्मुखीकरणं यथा ।। १८ ।।

"श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी
लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयम्।
वस्त्वैकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुन-
र्मद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ।। "

सूत्राधारो नटीं ब्रूते मारिषं वा विदूषकम्।
स्वकार्यप्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम् ।। १९ ।।

प्रस्तावनेति वा तत्र कथोद्घातः प्रवृत्तकम्।
प्रयोगातिशयश्चाथ वीथ्यङ्गानि त्रयोदश ।। २० ।।

स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः।
गृहीत्वा प्रविशेत्पात्रं कथोद्घातो द्विधा यथा ।। २१ ।।

"द्वीपादन्यस्मादापि मध्यादपि जलनिधेर्दिशोऽप्यन्तात्।
आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः ।। "

"लाक्षागृहानलविषान्नसभाप्रवेशैः
प्राणेषु वित्तनिचयेषु च नः प्रहृत्य।
आकृष्टपाण्डववधूपरिधानकेशाः
स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ।। "

कालसाम्यात् प्रवेशो यः प्रवृत्तकमिदं यथा।
"प्रौढपयोधरभारा प्रावृण्मलिनाम्बरा प्रबाष्पधारा।
मानसगराजहंसा मानवतीवाऽद्य भाति मदनार्ता ।। "

एषोऽयमित्युपक्षेपात्सूत्रधारप्रयोगतः ।। २२ ।।

पात्रप्रवेशो यत्रैषः प्रयोगातिशयो यथा।
"सौरभेण सहकारपादपः
पद्मतो हरति षट्पदावलिम्।
रामणीयकगुणेन रागिणीं
कौमुदीदृशमिवैष कैरवः ।। "

"?Bवर्णयितुमस्य महिमा वसन्तसमयस्य शक्यते तेन।
यदयं विप्रो वृद्धोऽप्युज्झति दामोदरो निजां प्रकृतिम् ।। "

वीथ्यङ्गान्यान्मुखाङ्गत्वादुच्यन्तेऽत्रैव तानि तु ।। २३ ।।

उद्वात्यकावलगिते प्रपञ्चत्रिगते छलम्।
वाक्केल्यधिबले गण्डमवस्यन्दितनालिके ।। २४ ।।

असत्प्रलापव्यापारमृदवानि त्रयोदश।
वीथीप्रसङ्गे वीथ्यङ्गलक्षणं तत्र वक्ष्यते ।। २५ ।।

आदौ प्रसङ्गाद्वीथ्यङ्गलक्षणं तत्र कथ्यते।
एषामन्यतमेनार्थं पात्रं वाऽऽक्षिप्य सूत्रभृत् ।। २६ ।।

प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रपञ्चयेत्।
पूर्वरङ्गः सभापूजा कवेर्गोत्रानुकीर्तनम् ।। २७ ।।

नाटकादेस्तथा सञ्ज्ञा सूत्रधारोऽप्यथामुखम्।
अर्थोपक्षेपकाः चतस्रो वृत्तयोऽपि च ।। २८ ।।

अर्थोपक्षेपकाः पञ्च चतस्रो वृत्तयोऽपि च।
नाट्योक्तिश्च समावेशस्तथा भाषाविभाषयोः ।। २९ ।।

प्रायशः सर्वनाट्येषु कीर्त्यन्ते सङ्गता इमे।
संज्ञा तु नाटकादीनां नायकेनेतरेण वा ।। ३० ।।

नायिकानायकाख्यानात्सञ्ज्ञा प्रकरणादिषु।
नाटिका सट्टकादीनां नायिकाभिर्विशेषणम् ।। ३१ ।।

अभिगम्यगुणैर्युक्तो धीरोदात्तः प्रतापवान्।
कीर्तिकामो महोत्साहस्त्रय्यास्त्राता महीपतिः ।। ३२ ।।

प्रख्यातवंशो राजन्यो दिव्यो वा यत्र नायकः।
तत्प्रख्यातं विधातव्यं वृत्तमत्राधिकारिकम् ।। ३३ ।।

यत्तत्रानुगतं किञ्चिन्नायकस्य रसस्य वा।
विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ।। ३४ ।।

यथा वालिवधस्त्यक्तश्चद्मनोदात्तराघवे।
कल्पितो वीरचरिते वधस्तस्यैव चाऽन्यथा ।। ३५ ।।

आद्यन्तमेवं निश्चित्य पञ्चधा तद्विभज्य च।
खण्डशः सन्धिसञ्ज्ञांस्तान्भागानपि च खण्डयेत् ।। ३६ ।।

द्वित्रिद्वित्रिचतुर्युक्तदशसङ्ख्यान्यनुक्रमात्।
चतुःषष्टिश्च तानि स्युरङ्गानि त्विह सन्धिषु ।। ३७ ।।

आदौ विष्कम्भकं कुर्यादङ्कं वा कार्ययुक्तितः।
अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् ।। ३८ ।।

यदा सन्दर्शयेच्छेषं कुर्याद्विष्कम्भकं यथा।
यदा तु सरसं वस्तु मूलादेव प्रवर्तते ।। ३९ ।।

आदावेव तदा कुर्यादामुखाक्षेपसंश्रयम्।
प्रत्यक्षनेतृचरितो बिन्दुव्याप्तिपुरस्कृतः ।। ४० ।।

अङ्को नानाप्रकारार्थसंविधानरसाश्रयः।
अनुभावविभावाभ्यां स्थायिनो व्यभिचारिभिः ।। ४१ ।।

गृहीतमुक्तैः कर्तव्यमङ्गिनः परिपोषणम्।
न चातिरसतो वस्तु दूरं विच्छिन्नतां नयेत् ।। ४२ ।।

रसं वा न तिरोदध्याद्वस्त्वलङ्कारलक्षणैः।
एको रसोऽङ्गी कर्तव्यो वीरः शृङ्गार एव वा ।। ४३ ।।

अङ्गमन्ये रसाः सर्वे कुर्यान्निर्वहणेऽद्भुतम्।
दूराध्वानं वधं युद्धं राज्यदेशादिविप्लवम् ।। ४४ ।।

संरोधं भोजनं स्नानं सुरतं चानुलेपनम्।
अम्बरग्रहणादीनि प्रत्यक्षाणि न निर्दिशेत् ।। ४५ ।।

नाधिकारिवधं क्वापि त्याज्यमावश्यकं न च।
एकाहचरितैकार्थं कुर्याच्चासन्ननायकम् ।। ४६ ।।

पात्रैस्त्रिचतुरैरङ्कं तेषामन्तेऽस्य निर्गमः।
एवमङ्काः प्रकर्तव्याः प्रवेशादिपुरस्कृताः ।। ४७ ।।

पञ्चाङ्कं च षडङ्कं च सप्ताङ्कं च तथाऽपरम्।
अष्टाङ्कं च नवाङ्कं च दशाङ्कं नाटकं विदुः ।। ४८ ।।

मारीचवञ्चनं नाम पञ्चाङ्कं परिकीर्तनम्।
वेणीसंहारसञ्ज्ञं तु षडङ्कं नाटकं मतम् ।। ४९ ।।

शाकुन्तलं तु सप्ताङ्कमष्टाङ्कं नलविक्रमम्।
देवीपरिणयाख्यानं नवाङ्कं परिकीर्तितम् ।। ५० ।।

बालरामायणं नाम दशाङ्कं नाटकं स्मृतम्।
अथ प्रकरणम्---
अथ प्रकरणे वृत्तमुत्पाद्यं लोकसंश्रयम् ।। ५१ ।।

अमात्यविप्रवणिजामेकं कुर्याच्च नायकम्।
धीरप्रशान्तं सापायं धर्मकामार्थतत्परम् ।। ५२ ।।

नायिका तु द्विधा नेतुः कुलस्त्री गणिका तथा।
क्वचिदेकैव कुलजा वेश्या क्वापि द्वयं क्वचित् ।। ५३ ।।

आभिः प्रकरणं त्रेधा शुद्धं स्यात्कुलजान्वितम्।
सङ्कीर्णं वेश्यया युक्तं मिश्रं तद्द्वयसङ्गतम् ।। ५४ ।।

शेषं नाटकवत् सन्धिप्रवेशिकरसादिकम्।
अथ भाणः---
भाणस्तु धूर्तचरितं स्वानुभूतं परेण वा ।। ५५ ।।

यत्रोपवर्णयेदेको निपुणः पण्डितो विटः।
सम्बोधनोक्तिप्रत्युक्ती कुर्यादाकाशभाषितैः ।। ५६ ।।

सूचयेद्वीरशृङ्गारौ शौर्यसौभाग्यसंस्तवैः।
भूयसा भारतीवृत्तिरेकाङ्कं वस्तु कल्पितम् ।। ५७ ।।

मुखनिर्वहणे साङ्गे लास्याङ्गानि दशापि च।
लास्याङ्गानि---
गेयपदं स्थितपाठ्यमासीनं पुष्पगन्धिका।५८ ।।

प्रच्छेदकस्त्रिमूढं च सैन्धवाख्यं द्विमूढकम्।
उत्तमोत्तमकं चैवमुक्तप्रत्यक्तमेव च ।। ५९ ।।

लास्ये दशविधं ह्येतदङ्गनिर्देशकल्पनम्।
सुखासीनः श्रुतिमुखं यत्र गायन्ति गायकाः ।। ६० ।।

ततादिवाद्यमिश्रं तच्छुष्कं गेयपदं यथा।
सुखासीनाः सन्तः सुरभिकुसुमामोदसुभगे
तले सान्द्रच्छाये तरुणसहकारस्य शिशिरे।
कलैर्वीणावाद्यैः सममृदुलसन्दिग्धवचसो
रसावेशोल्लासान्मदनमिह गायन्ति मधुरम् ।। "

पठेद्यत्रासनासीना प्राकृतं विरहातुरा।
अङ्गनानङ्गतप्ताङ्गी स्थितपाठ्यं मतं यथा ।। ६१ ।।

"रत्ति ए हित्थहि अओ महुअर मोत्तूण पदुमिर्णामण्णत्तो।
गच्छसि गच्छ पुणो सा पेच्छादिणण्णं णिमीलिदंबुरुहच्छी ।।

(रात्र्या त्रस्तहृदयो मधुकर! मुक्त्वा पद्मिनीमन्यत्र।
गच्छसि गच्छ पुनः सा पश्यति नान्यं निमीलिताम्बुरुहाक्षी ।। )"
शोकचिन्तापरवशं वाद्याभिनयवर्जितम्।
आस्यते यत्र कामिन्या तदासीनं मतं यथा ।। ६२ ।।

"बाले! मालतिके!
म्लानं ते वदनं मनो विगलितं मन्दो विलासक्रमः
चिन्ताशोकवशं चिरोज्झितसुखं चित्तं वपुर्धूसरम्।
निःशब्दाभिनयं निवेश्य विजने त्वं चेष्टसे नो यथा
प्रालेयप्रकरेण पीडितपरिक्लिष्टाम्बुजा पद्मिनी ।। "

नर्तक्याः पुरुषस्येव प्रगल्भं चेष्टितं यथा।
नैकभेदं च सङ्गीतं स्याद्यथा पुष्पगन्धिका ।। ६३ ।।

"ग्रीवाविभूषणविषक्तदुकूलकोण-
सञ्छन्नपीवरपयोधरभारनाम्रा।
मैरेयमत्तमहिलाकरदत्तताल-
मातन्वती समदनर्तनमाविरास्ते ।।

सखि शारदिके! पुंवत्प्रगल्भा विविधगानमुखरविलासिनीमध्यगता निस्त्रपं
नृत्यसि।"
स हि प्रच्छेदको यत्र ज्योत्स्नासम्पातविक्लवाः।
कामिन्यो यान्त्यपव्रीडाः सागसोऽपि प्रिया यथा ।। ६४ ।।

"प्रशिथिलनिजलज्जाः प्राङ्मुखं वीक्षमाणा-
स्तिमिरविगमभीतास्तीर्णमार्गाश्च तूर्णम्।
वलयचलनलोला वञ्चितात्मीयलोकाः
सततमभिसरेयुः सागसोऽप्यात्मनाथान् ।। "

पुंभावप्रचुरं नाट्यं समवृत्तपरिष्कृतम्।
मृदुश्लक्ष्णपदं यत्र तत् त्रिगूढं स्मृतं यथा ।। ६५ ।।

"अस्याः खलु---
अभिनयशस्तौ हस्तौ पादौ परिभूतकिसलयौ सलयौ।
अङ्गं रञ्जितरङ्गं नृत्तं पुम्भावशालि समवृत्तम् ।। "

न नाट्ये लक्ष्यते पाठ्यं पात्रं सङ्केतवर्जितम्।
जायते सैन्धवी भाषा यत्र तत्सैन्धवं यथा ।। ६६ ।।

"नाट्यमलक्षितपाठ्यं पात्रे सङ्केतवर्जितं यत्र।
सैन्धवभाषा चतुरैर्विहितं वैदेशिकैर्नटैर्वीथ्याम्।"
रसभावाः परिक्लिष्टाश्चतुरस्रः परिश्रमः।
मुखप्रतिमुखे चित्रे तद्द्विमूढं मतं यथा ।। ६७ ।।

अत एव खल्वस्याः---
रसभावाः परिक्लिष्टाः प्रौढो विद्यापरिश्रमः।
चित्रे मुखप्रतिमुखे सलयः पादयोः क्रमः ।। "

विचित्राः श्लोकसन्दर्भा यत्र नानाविधो रसः।
हेला भावाशच ललिताश्चोत्तमोत्तमकं यथा ।। ६८ ।।

"?Bकेयमपटीक्षेपेण प्रविशति?
"अङ्कूरत्कुचमप्यनल्पविलसत्तत्सन्निवेशक्रमं
वक्षोऽस्या वलिरेखिकाभिरुदरं वामभ्रुवो वास्यते।
अङ्गं रङ्गदृशामनङ्गनृपतेः कारागृहं श्रीयते
भावैश्चित्रपदार्थभावितरसान् श्लोकान् पठत्याननम् ।। "

पदानि साधिक्षेपाणि चित्रं गीतार्थयोजनम्।
यत्र कोपप्रसादाभ्यामुक्तप्रत्युक्तकं यथा ।। ६९ ।।

अपि च---तस्याः पश्चान्निषण्णा काचित् कुपिता---
गायति गेयं साधिक्षेपपदं सहचरीमुखे स्खलिते।
तस्यामियं प्रसन्ना चित्रं गीतार्थमभिनयत्यङ्गैः ।। "

अथ प्रहसनम्---
अथ प्रहसनं त्रेधा शुद्धवैकृतसङ्करैः।
पाषण्डविप्रप्रभृतिचेटचेटीविटाकुलम् ।। ७० ।।

चेष्टितं वेषभाषादिशुद्धं हास्यवचोन्वितम्।
कामुकादिवचोवेषैः षण्डकञ्चुकितापसैः।७१ ।।

विकृतं, सङ्कराद्वीथ्या सङ्कीर्णं धूर्तसङ्कुलम्।
रौद्रबीभत्सरहिता रसाः स्युर्हास्य एव वा।७२ ।।

भाणवत्सन्धिलास्याङ्गान्येकाङ्कं द्व्यङ्कमेव वा।
अथ डिमः---
डिमे वस्तु प्रसिद्धं स्याद्वृत्तयः कैशिकीं विना ।। ७३ ।।

नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः।
मृतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ।। ७४ ।।

रसैरहास्यशृङ्गारशान्तैः षड्भिः समन्वितः।
मायेन्द्रजालसङ्ग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ।। ७५ ।।

चन्द्रसूर्योपरागैश्च न्याय्ये रौद्ररसेऽङ्गिनि।
चतुरङ्कश्चतुःसन्धिर्निर्विमर्शो डिमः स्मृतः ।। ७६ ।।

इदं त्रिपुरदाहे तु लक्षणं ब्रह्मणोदितम्।
ततस्त्रिपुरदाहश्च डिमसञ्झः प्रयोजितः ।। ७७ ।।

अथ व्यायोगः---
ख्यातेतिवृत्तो व्यायोगः ख्यातोद्धतनराश्रयः।
हीनो गर्भावमर्शाभ्यां दीप्ताः स्युर्डिमवद्रसाः ।। ७८ ।।

अस्त्रीनिमित्तसङ्ग्रामो जामदग्न्यजयो यथा।
एकाहचरितैकाङ्को व्यायोगो बहुभिर्नरैः ।। ७९ ।।

अथ समवकारः---
कार्यं समवकारेऽपि चामुखं नाटकादिवत्।
ख्यातं देवासुरं वस्तु निर्विमर्शास्तु सन्धयः ।। ८० ।।

वृत्तयो हीनकैशिक्यो नेतारो देवदानवाः।
द्वादशोद्धतविख्याताः फलं तेषां पृथक् पृथक् ।। ८१ ।।

अङ्गी वीरोऽङ्गानि चान्ये यद्वदम्भोधिमन्थने।
अङ्कैस्त्रिभिस्त्रिकपटस्त्रिशृङ्गारस्त्रिविद्रवः ।। ८२ ।।

द्विसन्धिरङ्कः प्रथमः कार्यो द्वादशनाडिकः।
चतुर्द्विनाडिकावन्त्यौ नाडिका घटिकाद्वयम् ।। ८३ ।।

वस्तुस्वाभावदैवारिकृताः स्युः कपटास्त्रयः।
धर्मार्थकामैः शृङ्गारो नात्र बिन्दुप्रवेशकौ ।। ८४ ।।

व्राताद्युज्ज्वलता शौचं धर्मशृङ्गार उच्यते।
मुक्तारत्नाद्यलङ्कारैरर्थशृङ्गार उच्यते ।। ८५ ।।

सम्भोगविप्रलम्भादिः कामशृङ्गार इत्ययम्।
पुरावरोधयुद्धेभवाताग्न्यादिकविद्रवाः ।। ८६ ।।

वीथ्यङ्गानि यथालाभं कुर्यात्प्रहसने यथा।
अथ वीथी---
वीथी तु कैशिकीवृत्तौ सन्ध्यङ्गाङ्काश्च भाणवत् ।। ८७ ।।

रसः सूच्यस्तु शृङ्गारः स्पृशेदपि रसान्तरम्।
नायिकानायकौ कार्यौ शृङ्गारद्वयसंश्रयौ ।। ८८ ।।

अथ वीथ्यङ्गानि---
युक्ता प्रस्तावनाख्यातैरङ्गैरुद्धात्यकादिभिः।
उद्धात्यकावलगिते प्रपञ्चत्रिगते छलम् ।। ८९ ।।

वाक्केल्यधिबले गण्डमवस्यन्दितनालिके।
असत्प्रलापव्याहारमृदवानि त्रयोदश ।। ९० ।।

गूढार्थपदपर्यायमाला प्रश्नोत्तरस्य वा।
यत्रान्योन्यसमालापो द्वेधोद्धात्यं मतं यथा ।। ९१ ।।

"मानवती---अय्ये! कादम्बिणि ! आआदो तुह कालो।
(आर्ये कादम्बिनि, आगतस्तवकालः।)
कादम्बिनी---वत्से! मानवती! अत एव खल्वहं विहरामि। किं त्वकालेऽप्ययं राजहंसः प्रविष्ट इति विचारयामि ।।

राजा---(समन्तादवलोक्य अनाकलितविहङ्गविहारः स्वगतम्)
वचनमिदमात्मविषयं वर्णितमनयावधार्यते युक्त्या।
प्रमदानामनुरागः प्रायः प्राप्तेरपि प्रियं तनुते ।।

मानवती---अय्ये! राअहंसो कहिं दिट्टो?
(आर्ये! राजहंसः कुत्र दृष्टः?)
कादम्बिनी---वत्से! तव मानसे।"
मानवती---अय्ये मत्तासि! आर्ये मत्तासि ।। )"
"का श्लाघा गुणिनां क्षमा परिभवः को यः स्वकीयैः कृतः
किं दुःखं परसंश्रयो जगति कः श्लाघ्यो य आश्रीयते।
का मृत्युर्व्यसनं शुचं जहति के यैर्निर्जिताः शत्रवः
कैर्विज्ञातनिदं विराटनगरे छन्नस्थितैः पाण्डवैः ।। "

यत्रैकत्र समावेशात्कार्यमन्यत्प्रसाध्यते।
प्रस्तुतेऽन्यत्र वा तत्स्याद्द्विधावलगितं यथा ।। ९२ ।।

"रामः---लक्ष्मण ! तातवियुक्तामयोध्यां विमानस्थो नाहं प्रवेष्टुं शक्नोमि, तदवतीर्य
गच्छामि।
(इत्यवतीर्य कतिचित्पदानि गत्वा निरूप्य)
"कोऽयं सिंहासनस्याधः स्थितः पादुकयोः पुरः।
जटावानक्षवलयी च चामरी च विराजते ।। "

इति भरतदर्शनकार्यसिद्धिः
विदूषकः---(अपवार्य) वअस्स! मह कण्ठे, कासेण कंडूदि होदि, किं कादव्यम्?
(वयस्य, मम कण्ठे काशेन कण्डूतिर्भवति।
रामः---(सानुनयं) वयस्य! सकर्पूरं ताम्बूलं चर। तावता कण्ठकण्डूतिर्निवर्तते।
ताम्बूलं चेदम्।"
असद्भूतं मिथः स्तोत्रं प्रपञ्चो हास्यकृद्यथा।
"राजा---वयस्य! त्वया वयमतिसंहिताः।
विदूषकः---वअस्स, तुए एव्व सिक्खिदणेवुणो तुह एव्व कहं अदिसंदाणं
कप्पेमि। किंदु
घडेमि अण्णेण परस्स जाअं मुणीण मोएमि वदं मुहुत्ते।
मणस्सिणीणं विहडेमिमाणं तुह प्पाहावेण तणोमि सव्वं ।। "

(वयस्य, त्वयैव शिक्षितनैपुणस्तवैव कथमतिसन्धानं कल्पयामि। किन्तु,
घटयाम्यन्येन परस्य जायां मुनीनां मोचयामि व्रतं मुहूर्ते।
मनस्विनीनां निघटयामि मानं तव प्रभावेण तनोमि सर्वम् ।। )"
श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं त्विह ।। ९३ ।।

नटादित्रितयालापः पूर्वरङ्गे मतं यथा।
"नटी---अय्य! तहा होदु।
(आर्ये, तथा भवतु)
सूत्रधारः---(आकाशमवलोक्य)
विलोलविद्युल्लतिकावरत्रा
विनिःसरद्वारिमदप्रवाहाः।
घनद्विपा गर्जितबृंहिताढ्या
श्चरन्ति खे चातकचञ्चरीकाः ।। "

प्रियाभैरप्रियैर्वाक्यैर्विलोभश्छलनं यथा ।। ९४ ।।

"राजा---(सोत्प्रासम्)
समसुखदुःखः सम्प्रति सखा ममान्योऽस्ति कस्त्वया सदृशः।
यदमुष्मिन्नपि यतसे कार्ये साहाय्यमेवमाचरितुम् ।। "

विनिवृत्त्यास्य वाक्केली द्विस्त्रिः प्रत्युक्तितो यथा।
"मानवती--- अय्ये! कादम्बिणि!
अणिसं पि मअरकेदू अयमणिवारिदवेरहृदुत्साहो।
तं पि दहेत्किंमं विअ दाहो एक्केण तेण दुव्वज्जो ।। "

(आर्ये, कादम्बिनि,
अनिशमपि मकरकेतुरयमनिवारितवैरहृदुत्साहः।
तमपि दहेत्किं मामिव दाह एकेन तेन दुर्वार्यः ।। )
कादम्बिनी---
मन्मथो ननु मात्सर्यात्तद्रूपविजितस्तव।
तापं तनोति नामुष्य नान्यथा कथमागतः ।।

मानवती---अय्ये! सो एव्व सव्वत्त दीसई कहं णाअदो?
(आर्ये, स एव सर्वत्र दृश्यते। कथं नागत?)"
अन्योन्यवक्याधिक्योक्तिः स्पर्धयाधिबलं यथा ।। ९५ ।।

"भीमः---
सकलरिपुजयाशा यत्र बद्धा सुतैस्ते-
तृणमिव परिभूतो यस्य गर्वेण लोकः।"
इत्युपक्रमे---अरे! नाहं भवानिव विकत्थनाप्रगल्भः।
किन्तु---
द्रक्ष्यन्ति न चिरात्सुप्तं बान्धवास्त्वां रणाङ्गणे।
मद्गदाभिन्नवक्षोऽस्थिवेणिकाबन्धभीषणम् ।। "

गण्डं प्रस्तुतधिक्कारि भिन्नं वेगोदितं यथा।
"कादम्बिनी---वत्से! समागतः।
मानवती---(सानन्दं ) अय्ये कोऽसौ? (आर्ये, कोऽसौ?)
कादम्बिनी---तवानुजः।
मानवती---(सविषादं )"
अमुमेवान्यथा गण्डं प्राहुः पञ्चविधं परे ।। ९६ ।।

आकस्मिकमसम्बद्धं सम्बद्धमिव यत्पदम्।
वाचामन्ते स गण्डः स्याद्भाव्यनिष्टार्थसूचकः ।। ९७ ।।

प्रतिहारो रहो हर्षः प्रतिभा व्याहतोऽपि च।
प्रतिक्रियान्वितो यस्तु प्रतिहारो मतो यथा ।। ९८ ।।

"को मां हन्तुं समर्थः स्यादित्युक्तो रावणेन तु।
राक्षसो राम इत्याह किं राम इति चोदितः।
पुनराह यदा रामः कदाचिदुपयास्यति।
दूरीकृत्य परं मोहादशिवां वाचमाहरत्।"
आत्मानं निर्दिशेद्यस्तु स रहोगण्ड उच्यते ।।

"यथा दुर्योधनो भीमं हन्तीत्याशयवान् भ्रमात्।
प्राह दुर्योधनं भीमो हन्तीति कुरुनायकः ।। "

उत्सवोच्छूकरोमाञ्चः प्रविश्यामोदकृद्वचः ।। ९९ ।।

भाषते भावि यत्रासौ हर्षगण्डः स्मृतो यथा।
"केनाप्यर्थेन कंसस्येत्युक्तवत्येव यादवे।
नृत्यन्नानर्तकोऽप्याह दारको जातवानिति ।। "

उक्तमन्यार्थमन्येन वचोऽन्यार्थं प्रकल्पयेत् ।। १०० ।।

सामान्यपदसामर्थ्यात् स गण्डः प्रतिभा यथा।
"यो जातोऽन्यत्र योऽन्यत्र वर्धितो मधुसम्भवः ।।

परपुष्ठः स क्रुद्धोऽयं मारयत्यनिवारितः ।
इत्युत्कण्ठितया प्रोक्तं कंसेनाऽहितमन्यथा ।। "

द्व्यर्थो वाक्यस्य विन्यासः शुभाशुभसमन्वितः ।। १०१ ।।

प्रत्यक्षं प्रोच्यते यत्र गण्डः स व्याहतो मतः।
"यथा देवमुनिस्तत्र दानवं कंसमब्रवीत्।
सभृत्यबलवीर्यस्य प्राप्तोऽसि भवतः क्षयम् ।। "

प्रसक्तस्याऽन्यथा व्यख्या यत्रावस्यन्दितं यथा ।। १०२ ।।

सीता---जाद! कल्लं खु तुम्हेहिं अजुज्झाए गन्तव्वं। तहिं सो राआ
विणएण णमिदव्वो।
(जात, कल्यं खलु युवाभ्यामयोध्यायां गन्तव्यम्। तत्र स राजा विनयेन नन्तव्यः)
लवः---अम्ब! किमावाभ्यां राजोपजीविभ्यां भवितव्यम्?।
सीता---जाद! सो खु तुम्हाणं पिदा।
(जात, स खलु युवयोः पिता)
लवः---किमावयो रघुपतिः पिता?
सीता---(साशङ्कम्) जाद ण कहु तुम्हाणं। सअलाए एव्व पुहवीए।
(न खलु युवयोः। सकलाया एव पृथिव्याः)"
बहुप्रपञ्चसंयुक्ता हास्यलेशसमन्विता।
प्रहेलिकेव गूढार्था नालिकेत्युच्यते तथा ।। १०३ ।।

"राजा---(पुरतो निर्वर्ण्य)
वल्लरी किमुत वामलोचना
दूरतो वसति दृष्टिवर्तिनी।
वायुना चलति किं नु नर्तिता
मन्मुखी मदनवेदनासहा ।। "

विदूषकः---वअस्स! मए विणिच्चिदिम्।
(वयस्य मया विनिश्चितम्)"
असम्बद्धकथाप्रायोऽसत्प्रलापो यथोत्तरः।
विरहोन्मत्तबालादिभाषणेषु मतो यथा ।। १०४ ।।

"हंस! प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता।
विभावितैकदेशेन स्तेयं तदभियुज्यते ।। "

"भुक्ता हि महागिरयः स्नातोऽहं वह्निना पिबामि नभः।
हरिहरहिरण्यगर्भा मम पुत्रास्तेन नृत्यामि ।। "

"अर्चिष्मन्ति विदार्य वक्त्रकुहराण्यासृक्कणो वासुके-
रङ्गुल्या विषकर्बुरान्गणयतः संस्पृश्य दन्ताङ्कुरान्।
एकं त्रीणि नवाष्ट सप्त षडिति प्रत्यस्तसङ्ख्याक्रमा
वाचः क्रौञ्चरिपोः शिशुत्वविकलाः श्रेयांसि पुष्णन्तु वः ।। "

अन्यार्थ एव व्याहारो हास्यलेशकरो यथा।
"(लास्यप्रयोगावसाने मालविका निर्गन्तुमिच्छति)
विदूषकः---मा दाव उवससुद्धा गमिस्ससि।
(मा तावत्, उपदेशशुद्धा निर्गमिष्यसि)
इत्युपक्रमेण---
गणदासः---(विदूषकं प्रति) आर्य! उच्यतां यस्त्वया क्रमभेदो लक्षितः।
विदूषकः---पढमप्पयोगे बम्हणस्स पूआ भोदि। सा ता णकिदा (प्रथमप्रयोगे
ब्राह्मणस्य पूजा भवति। सा तथा न कृता) (मालविकास्मयते)"
दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं यथा ।। १०५ ।।

"कष्टं खलु विप्रकुले जननं कष्टं च भार्यया विरहः।
धन्याः शूद्रा येषां दारपरिग्रहणमल्पमूल्येन ।। "

एवं दिशि विधातव्या द्वित्रिपात्रप्रयोजिता।
आथाङ्कः---
उत्सृष्टिकाङ्के प्रख्यातं वृत्तं बुद्ध्या प्रपञ्चयेत् ।। १०६ ।।

रसस्तु करुणः स्थायी नेतारः प्राकृता नराः।
भाणवत्सन्धिवृत्त्यङ्गैर्युक्तः स्त्रीपरिदेवितैः ।। १०७ ।।

वाचां युद्धं विधातव्यं तथा जयपराजयौ।
अथेहमृगः---
मिश्रमीहामृगे वस्तु चतुरङ्कः त्रिसन्धिमत् ।। १०८ ।।

नरदिव्यावनियमान्नायकप्रतिनायकौ।
ख्यातौ धीरोद्धतावन्त्यो विपर्यासादयुक्तकृत् ।। १०९ ।।

दिव्यस्त्रियमनिच्छन्तीमपहारादिनेच्छतः।
शृङ्गाराभासमप्यस्य किञ्चित् किञ्चित् प्रदर्शयेत् ।। ११० ।।

संरंभं परमानीय युद्धं व्याजान्निवारयेत्।
वधं प्राप्तस्य कुर्वीत परं नैव महात्मनः ।। १११ ।।

कैशिकीवृत्तिरहितो हास्यशृङ्गारवर्जितः।
अत्र षण्णायकानन्ये वदन्तीहामृगे नरान् ।। ११२ ।।

अथ नाटिका---
लक्ष्यते नाटिकाप्यत्र मिश्रवस्तुसमाश्रया।
तत्र वस्तु प्रकरणान्नाटकान्नायको नृपः ।। ११३ ।।

प्रख्यातो धीरललितः शृङ्गारोऽङ्गी सलक्षणः।
देवी तत्र भवेज्ज्येष्ठा प्रगल्भा नृपवंशजा ।। ११४ ।।

गम्भीरा मानिनी कृच्छ्रात्तद्वशान्नेतृसङ्गमः।
नायिका तादृशी मुग्धा दिव्या वाऽतिमनोहरा ।। ११५ ।।

अन्तःपुरातिसम्बन्धादासन्ना श्रुतिदर्शनैः।
अनुरागो नवावस्थो नेतुस्तस्यां यथोत्तरम् ।। ११६ ।।

नेता तत्र प्रवर्तेत देवीत्रासेन शङ्कितः।
कैशिक्यङ्गैश्चतुर्भिश्च युक्ताङ्कैरिति नाटिका ।। ११७ ।।

अथ सट्टकम्---
सट्टकं नाटिकावत्स्यात् किन्त्वेतत् प्राकृतैः कृतम्।
प्रवेशकविहीनं च शृङ्गाराद्भुतभूषितम् ।। ११८ ।।

चतुर्यवनिकं कार्यं वयस्यन्तं प्रकीर्तितम्।
अथ त्रोटकम्---
दिव्यमानुषसंयोगो यत्राङ्केऽङ्के विदूषकः ।। ११९ ।।

त्रोटकं नाम तद्ज्ञेयं गूढनाटकलक्षणम्।
सप्ताष्टनवपञ्चाङ्कमन्यन्नाटकवन्मतम् ।। १२० ।।

सप्ताङ्कं स्तम्भितारम्भस्त्वष्टाङ्कं परिकीर्तितम् ।। १२१ ।।

प्रकीर्त्यते परं प्राज्ञैः पञ्चाङ्कं विक्रमोर्वशी।
अथ प्रेङ्खणम्---
गर्भावमर्शहीनं वा मुखनिर्वहणान्वितम् ।। १२२ ।।

सूत्रधारविहीनं च सर्ववृत्तिसमन्वितम्।
नियुद्धसम्फेटयुतं परिवर्तकभूषितम् ।। १२३ ।।

मागधी शौरसेनी वा हीननायकचेष्टितम्।
नेपथ्ये गीतनाट्यं च तथा तत्र प्ररोचना ।। १२४ ।।

अप्रवेशकविष्कम्भमेकाङ्कं प्रेङ्खणं विदुः।
निदर्शनमिह ज्ञेयं वस्तु वालिवधादिकम् ।। १२५ ।।

अथ गोष्ठी---
अथ गोष्ठी मतैकाङ्का कैशिकीवृत्तिशालिनी।
कामशृङ्गारसंयुक्ता पञ्चषड्योषिदन्विता ।। १२६ ।।

प्राकृतैर्नवभिः पुम्भिर्दशभिर्वाप्यलङ्कृता।
गर्भावमर्शसन्धिभ्यां शून्या नोदात्तवाक्कृता ।। १२७ ।।

निदर्शनं रैवतमदनिकाख्यमिहोदितम्।
अथ भाणिका---
अथ स्याद्भाणिकोदात्तनायिकैकाङ्कभूषिता ।। १२८ ।।

श्लक्ष्णनेपथ्यभाङ्मध्यपुरुषा च प्रकीर्तिता।
कैशिकीभारतीप्राया त्वङ्कैः सप्तभिरुज्ज्वला ।। १२९ ।।

उपन्यासोऽथ विन्यासो विबोधः साध्वसं तथा।
समर्पणं चानुवृत्तिः संहारश्चापि सप्तमः ।। १३० ।।

प्रसङ्गात्कार्यकथनमुपन्यासः प्रकीर्तितः।
निर्वेदवाक्यव्युत्पत्तिस्तत्र विन्यास उच्यते ।। १३१ ।।

विबोधो भ्रान्तिनाशः स्यान्मिथ्याज्ञानं तु साध्वसम्।
समर्पणमुपालम्भवचः स्यात्कोपविद्धया ।। १३२ ।।

अनुवृत्तिर्निदर्शनस्योपन्यासः प्रकीर्तितः।
समापनं तु कार्यस्य संहार इति कीर्तितः ।। १३३ ।।

मुखनिर्वहणोपेता कामदत्ता निदर्शनम्।
अथ संलापः---
शृङ्गारहास्यरहितः संलाप इति कीर्तितः ।। १३४ ।।

पुरोपरोधसङ्ग्रामविद्रवैः कपटैर्युतः।
कैशिकीभारतीहीनो भवेत्पाषण्डनायकः ।। १३५ ।।

हीनोपनायकयुतः श्मशानादिसमाकुलः।
सप्तविंशतिरङ्गानि भवन्त्यस्य यथोच्यते ।। १३६ ।।

उत्कण्ठा चावहित्था च प्रयत्नो ग्रथनं तथा।
आशंसा तर्कसन्देहतापोद्वेगाश्च मुग्धता ।। १३७ ।।

आलस्यं प्रतिपत्तिश्च विलापो वाक्यमेव च।
साधनानुगमोच्छ्वासविस्मयाश्च चमत्कृतिः ।। १३८ ।।

विस्मृतिर्लोभसम्फेटौ वैशारद्यं प्रबोधनम्।
आश्वासश्च प्रहर्षश्च प्रसत्तिरिति कीर्तिताः ।। १३९ ।।

सलक्षणोदाहरणं व्यक्तत्वान्नात्र दर्शितम्।
शेषं नाटकवत्सर्वं संलापः समुदाहृतः ।। १४० ।।

निदर्शनं कनकवतीमाधवं समवेक्ष्यताम्।
अथ प्रस्थानम्---
दासादिनायकं दासीनायकं द्व्यङ्कमीरितम् ।। १४१ ।।

कैशिकीवृत्तिबहुलं बहुताललयान्वितम्।
सुरापानसमायुक्तं तथा हीनोपनायकम् ।। १४२ ।।

विलासोद्दिष्टसङ्क्षिप्तं प्रस्थानमिति कीर्तितम्।
निदर्शनमिह ज्ञेयं शृङ्गारतिलकाह्वयम् ।। १४३ ।।

अथ काव्यम्---
काव्यमारभटीहीनमेकाङ्कं हास्यसङ्कुलम्।
गर्भावमर्शसन्धिभ्यां हीनं शृङ्गारभूषितम् ।। १४४ ।।

खण्डमात्राद्विपदिकाभग्नतालैरलङ्कृतम्।
उदात्तोक्तिसमायुक्तं बहुताललयान्वितम् ।। १४५ ।।

निदर्शनं तु काव्यस्य विज्ञेयो यादवोदयः।
अथ हल्लीसकम्---
हल्लीसकं तु सप्ताष्टदशस्त्रीजनसङ्कुलम् ।। १४६ ।।

सम्प्रयोज्यैकपुरुषं कैशिकीवृत्तिभूषितम्।
एकाङ्कं स्यादुदात्तोक्तिबहुताललयात्मकम् ।। १४७ ।।

निदर्शनं भवेदस्य केलिरैवतकं मतम्।
अथ रासकम्---
अथ रासकमेकाङ्कं सूत्रधारेण वर्जितम् ।। १४८ ।।

सुश्लिष्टनान्दीसहितं पञ्चपात्रं द्विसान्धकम्।
पूर्णं भाषाविभूषाद्यैर्भारतीकैशिकीयुतम् ।। १४९ ।।

वीथ्यङ्गमण्डितं मुख्यनायकं ख्यातनायकम्।
उदात्तभावविन्याससंश्रितं चोत्तरोत्तरम् ।। १५० ।।

गर्भावमर्शशून्यं च यथा स्यान्मेनकाद्विजम्।
अथ श्रीगदितम्---
करुणं स्त्री समासीना गायेद्यत्र पठेदपि ।। १५१ ।।

एकाङ्गं भारतीप्रायं तच्छ्रीगदितमुच्यते।
गर्भावमर्शरहितं प्रख्यातोदात्तनायकम् ।। १५२ ।।

प्रसिद्धनायकं ज्ञेयं यद्वत्क्रीडारसालकम्।
अथ लासिका---
शृङ्गारबहुलैकाङ्का त्रिसन्धिर्न्यूननायिका ।। १५३ ।।

स्वल्पनृत्ताल्पनेपथ्या पीठमर्देन भूषिता।
विदूषकविटोपेता दशलास्याङ्गभूषिता ।। १५४ ।।

लासिका सा समुद्दिष्टा यथा वीणावती मता।
अथ दुर्मल्ली---
दुर्मल्ली चतुरङ्का स्यात्कैशिकीभारतीयुता ।। १५५ ।।

विगर्भा नागरनरा न्यूननायकभूषिता।
त्रिनाडिः प्रथमोऽङ्कोऽस्यां विटक्रीडामयो भवेत् ।। १५६ ।।

द्वितीयः पञ्चनाडिः स्यात् विदूषकविलासवान्।
षण्णाडिस्तृतीयः स्यात्पीठमर्दविलासवान् ।। १५७ ।।

चतुर्थो दशनाडिः स्यादङ्कः क्रीडितनागरः।
निदर्शनं भवेदत्र यथा बिन्दुमती मता ।। १५८ ।।

अथ नाट्यरासकम्---
नाट्यरासकमेकाङ्कं बहुताललयात्मकम्।
हास्यशृङ्गारसंयुक्तं दशलास्याङ्गभूषितम् ।। १५९ ।।

उदात्तनायकं चैव पीठमर्दोपनायकम्।
द्वितीयसन्धिशून्यं स्याद्वाससज्जात्र नायिका ।। १६० ।।

निदर्शनं दर्शनीयं स्याद्विलासवती यथा।
अथ उल्लाप्यम्---
उल्लाप्यं दिव्यचरितं मुखनिर्वहणान्वितम् ।। १६१ ।।

शृङ्गारहास्यकारुण्ययुतमेकाङ्कभूषितम्।
बहुपुस्तं गीतमयं चतुरोज्ज्वलनायकम् ।। १६२ ।।




।।

नाट्यप्रबन्धनिकुरुम्बमिदं विभाति
दानं त्वदीयमिव मन्मधरातलेन्द्र! ।। १६३ ।।

इत्यमृतानन्दयोगीन्द्रविरचितेऽलङ्कारसङ्ग्रहे रूपकनिरूपणं नाम नवमः परिच्छेदः ।।