अलङ्कारसङ्ग्रहः/परिच्छेदः १०

विकिस्रोतः तः
← परिच्छेदः ९ अलङ्कारसङ्ग्रहः
परिच्छेदः १०
अमृतानन्दयोगीन्द्र:
परिच्छेदः ११ →

अथ नाट्यालङ्काराः---
सिद्धिः प्राप्तिर्विचारश्चानुनयस्तदनन्तरम्।
उद्दिष्टमपि दाक्षिण्यं प्रसिद्धिर्ग्रहणं यथा ।। १ ।।

पश्चात्तापस्पृहाक्षोभाऽऽक्रन्दाः परिहृतिस्तथा।
नीतिरुत्तेजनं शोभाऽभिमानः संशयस्तथा ।। २ ।।

तुल्यतर्कोऽक्षमा चैवाऽध्यवसायो विमर्शनम्।
युक्तिः प्रोत्साहनं चैव साहाय्यं च निवेदनम् ।। ३ ।।

अभिज्ञानं च पृच्छा चातिशयो गुणकीर्तनम्।
इति त्रिंशदलङ्काराः प्रायो नाट्येषु सङ्गताः ।। ४ ।।

सिद्धिरिष्टार्थसंसिद्धेरनेकेषामुदाहृतिः।
यथा---
"हे भूतधात्रि! यदि तावदहं विशुद्धा
तन्मे वरं त्वमिह देहि वृणो वरं च।
हे विष्णुवासवमहेश्वरचन्द्रसूर्या !
जन्मान्तरेषु भविता प्रभुरेव रामः ।। "

प्राप्तिः सा समुदायस्य ज्ञानं यच्चैकदेशतः ।। ५ ।।

यथा---
"हंस! प्रयच्छ मे कान्तां गतिस्तस्या हृता त्वया।
सम्भावितैकदेशेन स्तेयं यदभियुज्यते ।। "

विचारः स हि विज्ञेयः संशये निर्णयस्तु यः।
यथा---
"असंशयं क्षत्रपरिग्रहक्षमा
यदार्यमस्यामभिलाषि मे मनः।
सतां हि सन्देहपदेषु वस्तुषु
प्रमाणमन्तःकरणप्रवृत्तयः ।। "

वचसा कर्मणा प्रीतिर्यस्मिन्ननुनयो हि सः ।। ६ ।।

यथा---
"परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे।
समुद्ररशना चोर्वी सखी च युवयोरियम्।
उद्दिष्टं स्यात्परोक्षे च प्रत्यक्षे चार्थकीर्तनम्
परोक्षे यथा----
"तस्मिन् जीवति दुर्धर्षे हतमप्यहतं बलम्।
तस्मिंस्तु गमितप्राणे जीवन्तोऽपि मृता वयम् ।। "

प्रत्यक्षे यथा---
"हा ! धिक्! प्रियतमा सेयं दुःसंस्थानमलीमसा
सर्वथा प्रत्यभिज्ञेया मूर्तीभवति तद्यथा ।। "

दाक्षिण्यं श्लक्ष्णया वाचा परचित्तानुवर्तनम् ।। ७ ।।

यथा---
"प्रसाधय पुरीं लङ्कां राजा त्वं हि विभीषण!।
आर्येणानुगृहीतस्य न विघ्नः सिद्धिमन्तरा ।। "

प्रसिद्धिर्लोकसिद्धार्थैरुत्कृष्टैरर्थसाधनम्।
यथा---
"सूर्याचन्द्रमसौ यस्य मातामहपितामहौ।
स्वयं वृतः पतिर्द्वाभ्यामूर्वश्या च भुवा च यः ।। "

तद् गर्हणं भवेद्यत्तुदोषोद्भेदेन कृत्सनम् ।। ८ ।।

यथा---
"अन्यासक्तमवध्यं च निघ्नन् क्षात्रपराङ्मुखः।
न कथं लक्ष्मणो धन्वी लज्जते हृदयादपि ।। "

पश्चात्तापोऽनुतापस्तु कृत्वाकार्यं च योजयेत्।
"प्लवगप्रवरं निघ्नन् भ्रातृयुद्धाभियोगिनम्।
अहं सूर्यकुलस्यास्याऽद्य कलङ्कं किं कृतं मया ।। "

स्पृहा यस्त्वभिलाषः स्याद्वस्तुनो रामणीयके ।। ९ ।।

यथा---
"जीवस्तु तातपादेषु नवे दारपरिग्रहे।
मातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः ।। "

अधिक्षेपवचोयुक्तः कोपजः क्षोभ उच्यते।
यथा---
"त्वया तपस्वि चण्डाल! प्रच्छन्नवधवर्तिनः।
न केवलं हतो वाली स्वात्मा च परलोकतः ।। "

शोकप्रलाप आक्रन्दो नाट्यविद्भिरुदीरितः ।। १० ।।

यथा---
"हा विधे! नष्टपक्षेण मय्येव परिवर्तसे ।
हरिस्तातो हृता पत्नी भ्राता च निहतो युधि ।। "

परिहारः स विज्ञेयः कृतानुचितमार्जनम्।
यथा---
"प्राणप्रयाणदुःखार्त उक्तवानस्म्यनक्षरम्।
तत् क्षमस्व विभो! किञ्च सुग्रीवस्ते समर्पितः ।। "

न्यायानुवृत्तिरेकत्र नीतिरित्युच्यते यथा ।। ११ ।।

"स्नेहं प्रति न पुत्रेषु विशेषः कश्चिदस्ति मे।
किं तु न्यायं पुरस्कृत्य मया ज्येष्ठोऽभिषिच्यते ।। "

उत्तेजनं तु कार्यार्थं यत्रानक्षरमुच्यते।
यथा---
"इन्द्रजिच्चण्डवीर्योऽसि नाम्नैव बलवानसि।
धिक्! धिक्! प्रच्छन्नरूपेण युध्यसेऽस्मद्भयाकुलः ।। "

सिद्धैः पदं समं श्लिष्टं साध्यं शोभाऽभिधीयते ।। १२ ।।

यथा---
"सद्वंशसम्भवः शुद्धः कोटिदोऽपि गुणान्वितः।
कामं धनुरिव क्रूरो वर्जनीयः सतां प्रभुः ।। "

अभिमानोऽपरित्यागः दर्पदुःखसुखस्य च।
यथा---
"खरेन्द्रजिद्दूषणकुम्भकर्णा
गताः किमेतेन गता गतास्ते।
अहं च गच्छामि यदि प्रणाशं
तथाऽपि सीतां न समर्पयामि ।। '
अनिश्चयेन वाक्येन समाप्तिः संशयो यथा ।। १३ ।।

"इयं स्वर्गाधिनाथस्य लक्ष्मीः किं यक्षकन्यका।
अथ वा विपिनस्यैव देवता किमु पार्वती ।। "

स्यादुत्प्रेक्षादिसम्पन्नस्तुल्यतर्कस्तु तद्यथा।
यथा---
"तरङ्गभ्रूलताफेनं दुकूलमिव बिभ्रती।
मन्ये परिणता सेयं सरिद्भावेन भामिनी ।। "

अक्षमा त्वहितानां या परिभूतिर्न सह्यते ।। १४ ।।

यथा----
"सीताहरणदुर्वृत्तपरपाकफलोन्मुखः।
स्वकुलस्यान्तकः स त्वमाशराग्रे भवामि ते ।। "

कार्याद्यध्यवसायो यस्तन्निश्चयपरं वचः।
यथा---
"कियन्मात्रमकूपारः कियन्मात्रं च सा पुरी।
कियन्मात्रं दशास्योऽपि क्रुद्धस्य मम धन्विनः ।। "

विमर्शो दुःखदीनानामनिष्टफलनिश्चयः ।। १५ ।।

यथा---
"विद्वान् प्रणाशं समरे स्वयं च
न तावदात्मानमहं ब्रवीमि।
महामुनेर्विश्रवसःकुलेऽस्मिन्
निवापबीजं किमपीह न स्यात् ।। "

अवधारणमर्थस्य केनचिद्युक्तिरिष्यते।
यथा---
"यदि समरमपास्य नास्ति मृत्यो-
र्भयमिति युक्तमितोऽन्यतः प्रयातुम्।
अथ मरणमवश्यमेव जन्तोः
किमिति मुधा मलिनं यशः कुरुध्वम् ।। "

प्रोत्साहनं स्यादुत्साहगिरा कस्यापि योजनम् ।। १६ ।।

यथा----
"कालरात्रकरालेयं स्त्रीति किं विचिकित्ससि।
तज्जगत्?ित्रतयं त्रातुं तात! ताडय ताटकाम् ।। "

सहाय्यमानुकूल्येन कार्ये कस्यापि योजनम्।
यथा---
"रन्ध्राणि तु सजातीयो दुर्लक्षाण्यपि पश्यति।
इन्द्रजिन्निधनं नाथ! लक्ष्मणानुचरे मयि ।। "

भूतस्य कथनं भाविसूचनाय निवेदनम् ।। १७ ।।

यथा---
"वानरः क्षत्रियः कोऽपि शत्रुः क्षुद्रो न गण्यताम्।
वालिनं कार्तवीर्यं च स कथं विस्मृतो भवान्? ।। "

अभिज्ञानं यदुद्बोधः पूर्वदृष्टस्य केनचित्।
"आकृतेः किञ्चिदुल्लेखो विभावयति लक्षणम् ।। "

महतोपप्लवेनेव पीडितं चन्द्रमण्डलम् ।। "

पृच्छान्वेषणमर्थस्य स्यादर्थाभ्यर्थनापरम् ।। १८ ।।

यथा---
"भवद्भिः सर्वाङ्गप्रकृतिरमणीया कुलवधू-
रिहास्ते दृष्टाष्टा वा विदितमथवा स्याः किमु भवेत्।
वयोऽवस्थां तस्याः शृणुत सुभगो यत्र मदनः
प्रगल्भव्यापारश्चरति हृदि मूर्खश्च वपुषि ।। "

गुणमेकस्य सङ्कीर्त्य तस्यातिशयवर्णनम्।
क्रियते यत्र वाक्यार्थः स स्यादतिशयो यथा ।। १९ ।।

यथा---
"विधायापूर्वपूर्णेन्दुमस्या मुखमभूद्ध्रुवम्।
धाता निजासनाम्भोजविनिमीलनदुःस्थितः ।। "

इष्टसिद्धौ गुणानां तु कीर्तनं गुणकीर्तनम्।
यथा---
"शिरोऽर्चितशिवः शौर्यवशीकृतजगत्?त्रयः।
सुरस्त्रीदुर्लभः सोऽहं मनस्वी च दशाननः ।। "


नानाविधैरलङ्कारैर्नाट्यविद्या विभूषिता।
मोदाय भवतो भूयान्मनसो मन्मभूपते! ।। २० ।।

इत्यमृतानन्दयोगीन्द्रविरचितेऽलङ्कारसङ्ग्रहे नाट्यालङ्कारनिरूपणं नाम दशमः परिच्छेदः ।।