अलङ्कारसङ्ग्रहः/परिच्छेदः ८

विकिस्रोतः तः
Jump to navigation Jump to search
← परिच्छेदः ७ अलङ्कारसङ्ग्रहः
परिच्छेदः ८
अमृतानन्दयोगीन्द्र:
परिच्छेदः ९ →

नेतृव्यापाररूपा या वृत्तिः सा स्याच्चतुर्विधा।
भारती सात्त्वती चारभटी कैशिक्यतः परम् ।। १ ।।

चतस्रो वृत्तयो ज्ञेयाः सर्वनाट्यस्य मातृकाः।
भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः ।। २ ।।

भरतैस्तु प्रयोज्यत्वाद्भारती चतुरङ्गिका।
प्ररोचनामुखं चैव वीथी प्रहसनं तथा ।। ३ ।।

स्थाने प्रहसनस्याऽथ भाणमप्याह कोहलः।
एतेषां लक्षणं पश्चात्प्रसङ्गादभिधीयते ।। ४ ।।

सात्त्वती सा मता सत्त्वशौर्यत्यागदयार्जवैः।
युक्ता हर्षोत्तरा शोकवर्जिता समुदीरिता ।। ५ ।।

संलापोत्थापकावस्याः सङ्घातपरिवर्तकौ।
अङ्गानि चत्वार्येतेषां क्रमाल्लक्षणमुच्यते ।। ६ ।।

संलापको गभीरोक्तिर्नानाभावरसो यथा।
"रामः--अयं सः, यः किल सपरिवारकार्तिकेयविजयावर्जितेन भगवता
नीललोहितेन परिवत्सरसहस्रान्तेवासिने तुभ्यं प्रसादीकृतः परशुः।
परशुरामः--- आम्, दाशरथे! स एव ममाचार्यपादानां प्रियः परशुः।
अस्त्रप्रयोगखुरलीकलहे गणानां
सैन्यैर्वृतो विजित एव मया कुमारः।
एतावतापि परिरभ्य कृतप्रसादः
प्रादादमुं प्रियगुणो भगवान् गुरुर्मे ।। "

उत्थापकस्तु यत्रारिं युद्धायोत्थापयेद्यथा।
"आनन्दाय च विस्मयाय च मया दृष्टोऽसि दुःखाय वा
वैतृष्ण्यं तु कुतोऽद्य सम्प्रति मम त्वद्दर्शने चक्षुषः।
त्वत्साङ्गत्य सुखस्य नास्मि विषयः किं वा बहुव्याहृतै
रस्मिन् विस्मृतजामदग्न्यविजये बाहौ धनुर्जृम्भताम् ।। "

नीत्या दैवेन वा भेदः सख्यः कथ्यते यथा ।। ७ ।।

"चाणक्यो नीतिसामर्थ्याद्राक्षसीयानभेदयत्।
भेदो विभीषणस्याऽभूद्रावणाद्दैवयोगतः ।। ८ ।।

भेदं साम च दानं च निष्फलीकृत्य यत्र तु।
परिवर्तक इत्युक्तो दण्डस्वीकरणं यथा ।। ९ ।।

"(परशुरामः--)
हेरम्बदन्तमुसलोल्लिखितैकभित्ति-
वक्षो विशाखविशिस्वव्रणलाञ्छितं मे।
रोमाञ्चकञ्चुकितमद्भुतवीरलाभा-
द्यत्सत्यमद्य परिरब्धुमिवेच्छति त्वाम् ।।

रामः---भगवन्! परिरम्भणमिति प्रस्तुतप्रतीपमेतत्।"
मायेन्द्रजालसङ्ग्रामक्रोधभ्रान्त्यादिचेष्टितैः।
युक्ता भवेदारभटी चत्वार्यङ्गानि तत्र च ।। १० ।।

सङ्क्षिप्तिका स्यात्सम्फेटो वस्तूत्थानावपातने।
सङ्क्षिप्तवस्तुरचना सङ्क्षिप्तिः शिल्पतो यथा ।। ११ ।।

चरिते वत्सराजस्य कलिङ्गद्विपयोजनम्।
संक्षिप्तिरथवा नेतृदशान्तरकृतिर्यथा ।। १२ ।।

वालिनाशेन सुग्रीवः किष्किन्धाधिपतिः कृतः।
भार्गवस्यापि चौद्धत्यनिवृत्त्या शान्तताश्रयः ।। १३ ।।

सम्फेटस्तु समाघातः क्रुद्धुसंरब्धयोर्यथा।
लक्ष्मणेन्द्रजितोर्युद्धं रामरावणयोश्च वा ।। १४ ।।

मायाद्युत्थापितं वस्तु वस्तूत्थापनकं यथा।
माययेन्द्रजिता युद्धे दिवा ध्वान्तप्रदर्शनम् ।। १५ ।।

क्षिप्रप्रवेशनिर्वाणसम्भ्रमत्रासविद्रवैः।
अवपातस्त्वसौ ज्ञेयोऽनिष्टदर्शनतो यथा ।। १६ ।।

"नष्टं वर्षवरैर्मनुष्यगणना भावादकृत्वा त्रपा-
मन्तः कञ्चुकिकञ्चुकस्य विशति त्रासादसौ वामनः।
पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं
कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ।। "

या रम्यनेपथ्यविशेषयुक्ता
स्त्रीभिर्युता वा बहुनृत्तगीता।
कामोपभोगप्रचुरप्रकारा
सा कैशिकी वृत्तिरुदाहृता स्यात् ।।

नर्म च नर्मस्पन्दो नर्मस्फोटश्च नर्मगर्भश्च।
कैशिक्याश्चत्वारो भेदा ह्येते समुद्दिष्टाः ।। १७ ।।

ललितमधुराभिधानं शृङ्गाररसाश्रयं सुखोपेतम्।
इच्छाभयहास्ययुतं नर्म त्रिविधं वदन्ति यथा ।। १८ ।।

"मध्याह्नं गमय त्यज श्रमजलं स्थित्वा पयः पीयताम्
मोच्छ्वासं तु विमुञ्च पान्थ, विवशः शीतः प्रपामण्डपः।
तामेव स्मर घस्मरस्मरशरत्रस्तां निजां प्रेयसीं
त्वच्चित्तं तु न रञ्जयन्ति पथिक! प्रायः प्रपापालिकाः ।। "

"अभिव्यक्तालीको विफलसकलोपायविभव
श्चिरं ध्यात्वा सद्यो धृतकृतकसंरम्भनिपुणः।
अतः पृष्टे पृष्टे किमिदमिति सन्त्रास्य सहसा
कृताश्लेषां धूर्तः स्मितमधुरमालिङ्गति वधूम् ।। "

"शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै-
र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम्।
विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ।। "

उत्कण्ठानिर्भरप्रेमनवसङ्गमसम्भ्रमम्।
अन्ते भयानकं प्राहुः नर्मस्पन्दं तु तद्यथा ।। १९ ।।

"विसृज सुन्दरि! सङ्गमसाध्वसं
ननु चिरात्प्रभृति प्रणयोन्मुखे।
परिगृहाण गते सहकारतां
त्वमतिमुक्तलताचरितं मयि ।। "

कन्या नायकयोर्यत्र वृत्तं च स्फुटितं भवेत्।
नर्मस्फोटः स विज्ञेयः सम्भ्रमादियुतो यथा ।। २० ।।

"गमनमलसं शून्या दृष्टिः शरीरमसौष्ठवं
श्वसितमधिकं किं न्वेतत्स्यात्किमन्यदितोऽथवा।
भ्रमति भुवने कन्दर्पास्त्रं विकारि च यौवनं
ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ।। "

नर्मगर्भश्छन्ननेतृव्यलीकार्थाय तद्यथा।
"दृष्ट्वैकासनसङ्गते प्रियतमे पश्चादुपेत्याऽऽदरा-
देकस्या नयने पिधाय विहितक्रीडानुबन्धच्छलः।
तिर्यग्वक्रितकन्धरः सपुलकः प्रेमोल्लसन्मानसा-
मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ।। "

भारती शब्दवृत्तिः स्यादन्यास्तिस्त्रोऽर्थवृत्तयः ।। २१ ।।

शृङ्गारे कैशिकी वीरे सात्त्वत्यारभटी पुनः।
रसे रौद्रे सबीभत्से वृत्तिः सर्वत्र भारती ।। २२ ।।

आसां भेदचतुष्केऽस्मिन्नेकैकमपि वाञ्छितम्।
प्रयोगे कविभिः कार्यं सर्वमेकत्र दुर्लभम् ।। २३ ।।

पाठ्यं तु संस्कृतं नॄणामनीचानां कृतात्मनाम्‌।
लिङ्गिनीनां महादेव्या मन्त्रज्ञावेश्ययोः क्वचित् ।। २४ ।।

स्त्रीणां तु प्राकृतं प्रायः शौरसेन्यधमेषु च।
पिशाचात्यन्तनीचादौ पैशाचं मागधं तथा ।। २५ ।।

यद्देश्यं नीचपात्रं स्यात्तद्देश्यं तस्य भाषितम्।
भगवन्तोऽवरैर्वाच्या विद्वद्देवर्षिलिङ्गिनः ।। २६ ।।

विप्रामात्याग्रजाश्चार्या नटीसूत्रभृतौ मिथः।
रथी सूतेन चायुष्मान् पूज्यैः शिष्यात्मजानुजाः ।। २७ ।।

वत्सेति तातः पूज्योऽपि सुगृहीताभिधश्च तैः।
भावो नटेन सूत्री च मारिषस्तेन सोऽपि च ।। २८ ।।

देवः स्वामीति नृपतिर्भृत्यैर्भट्टेति चाधमैः।
आमन्त्रणीयाः पतिवज्ज्येष्ठमध्याधमस्त्रियः ।। २९ ।।

सखी हलेति च प्रेष्या हञ्जे वेश्याज्जुकेति च।
कुट्टिन्यत्तेत्यनुगतैः पूज्या वा जरती जनैः ।। ३० ।।

विदूषकेण भवती राज्ञी चेति च शब्द्यते।
हण्डे नीचा पुरस्कार्या लालिता तु यवीयसी ।। ३१ ।।

भगिनीपतिरावुत्तो राजा भट्टारको जनैः ।
युवराजः कुमारः स्याद्भर्तृदारक इत्यपि ।। ३२ ।।

राजपुत्री तु तद्वत्स्यादार्यपुत्रः पतिः स्त्रिया।
प्रियेति भर्त्रा राज्ञी स्यात्स्यालो राष्ट्रिय उच्यते ।। ३३ ।।

देवी कृताभिषेकायामितरासु तु भट्टिनी।
अत्तिका भगिनी ज्येष्ठा बाला वासूरितीर्यते ।। ३४ ।।

सद्वृत्तिशालि सरसं नाट्यं नियतभाषितम्।
त्वच्चरित्रमिवाभाति महितं मन्मभूपते ।। ३५ ।।

इत्यमृतानन्दयोगीन्द्रवितचितेऽलङ्कारसङ्ग्रहे वृत्तिनिरूपणं नाम
अष्ठमः परिच्छेदः ।।