सामग्री पर जाएँ

अलङ्कारसङ्ग्रहः/परिच्छेदः ७

विकिस्रोतः तः
← परिच्छेदः ६ अलङ्कारसङ्ग्रहः
परिच्छेदः ७
अमृतानन्दयोगीन्द्र:
परिच्छेदः ८ →

चतुर्वेदसमुद्भूतं साराभिनयभूषितम्।
धर्म्यमर्थ्यं यशस्यं च नाट्यं को नाभिनन्दति ।। १ ।।

न तच्छास्त्रं न सा विद्या न तच्छिल्पं न ताः कलाः।
नासौ योगो न तज्ज्ञानं नाटके यन्न रस्यते ।। २ ।।

जायते यन्न काव्याङ्गमहो ! भारो महान् कवेः।
अवस्थानुकृतिर्नाट्यं रूपं दृश्यतयोच्यते ।। ३ ।।

रूपकं तत्समारोपाद्बहुधात्र रसाश्रयम्।
वस्तुभेदान्नेतृभेदाद्रसभेदाच्च तत्?ित्रधा ।। ४ ।।

इतिवृत्तं वस्तु चेति कथाया नाम तद्विधा।
तत्राधिकारिकं मुख्यमङ्गं प्रासङ्गिकं विदुः ।। ५ ।।

प्रख्यातं मिश्रमुत्पाद्यमिति तद्द्विविधं त्रिधा।
इतिहासादिषु ख्यातं प्रख्यातमिति कीर्त्यते ।। ६ ।।

उत्पाद्यं कविक्लृप्तं स्यान्मिश्रं तद्द्वयसङ्करात्।
बीजं बिन्दुः पताका च प्रकरी कार्यमेव च ।। ७ ।।

अर्थप्रकृतयः पञ्च क्रमेण परिकीर्तिताः।
स्वल्पमेव समुद्दिष्टं पश्चाद्विस्तार्यनेकधा ।। ८ ।।

हेतुः कार्यप्रसिद्धौ यस्तद्बीजं बीजवद्यथा।
"कुमुदिनीपरिभोगकृतागसं
मधुकरं नलिनीर्मलयानिलः।
नयति सम्प्रति नर्मसुहृज्जनः
कलुषितां रमणीमिव कामुकम् ।। "

अवान्तरार्थकथनाद्वस्तुविच्छेदसम्भवे ।। ९ ।।

तस्य विच्छेदकथनं बिन्दुरित्युच्यते यथा।
"कामं प्रिया न सुलभा मनस्तु तद्भावनादर्शनायासि।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ।। "

प्रासङ्गिककथैवैषा या दूरमनुवर्तते ।। १० ।।

सा पताका समाख्याता सुग्रीवचरितं यथा।
भाविनः प्रस्तुतार्थस्य यदन्योक्त्यैव सूचनम् ।। ११ ।।

पताकास्थानकं तुल्यं संविधानविशेषणम्।
"यतोऽस्मि पद्मवदने! समयो ममैष
सुप्ता मयैव भवती प्रतिबोधनीया।
प्रत्यायनामयमितीव सरोरुहिण्याः
सूर्योऽस्तमस्तकनिविष्टकरः करोति ।। "

"उद्दामोत्कलिकां विपाण्डुररुचं प्रारब्धजृम्भां क्षणा-
दायासं श्वसनोद्गमैरविरलैरातन्वतीमात्मनः।
अद्योद्यानलतामिमां समदनां नारीमिवान्यां ध्रुवं
पश्यन् कोपविपाटलद्युति मुखं देव्याः करिष्याम्यहम् ।। "

आद्यं तुल्यात्संविधानाद्द्वितीयं तद्विशेषणात् ।। १२ ।।

प्रासङ्गिककथैवैकदेशसम्बन्धकीर्तिता।
प्रकरी नाम सा ज्ञेया जटायुचरितं यथा ।। १३ ।।

कार्यं फलं त्रिवर्गं स्यादेकानेकानुबन्धवत्।
आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ।। १४ ।।

औत्सुक्यमात्रमारम्भः फललाभाय भूयसे।
"आरम्भेऽस्मिन् स्वामिनो वृद्धिहेतौ
दैवेनेत्थं दत्तहस्तावलम्बे।
सिद्धेर्भ्रान्तिर्नास्ति सत्यं तथापि
स्वेच्छाचारी भीत एवास्मि भर्तुः ।। "

तदलाभे प्रयत्नः स्याद्व्यापारस्त्वरया यथा ।। १५ ।।

राजा--- वयस्य! एक एव मालवेश्वरोऽस्माभिर्यातव्यः। तदुद्धरणाय त्वरितं
प्रयतामहे। उपायापायशङ्काभ्यां प्राप्त्याशा सम्भवो यथा।
राजा---
"मन्त्रनिरुद्धप्रसरोऽप्यस्मत्कार्यानुरोधेन।
भिन्नकबरीव सम्प्रति समागमाशा प्रवर्तते शतधा ।। "

अपायाभावतः प्राप्तिर्नियताप्तिर्मता यथा ।। १६ ।।

नवमालिका---अंव्व एव्वं ण मन्तव्वम्। णिरयायार लंघणं उपायदो सम्पदिदम्। इदोपरं मम पिअसहि तुह आंगव्व मन्तव्वम्।
समग्रफलसम्प्राप्तिः फलयोगो मतो यथा।
पुरोधाः---
"कलितानि पदानि सप्त साक्षि-
ण्यनले वामुभयोरतोऽस्तु सख्यम्।
शिवयोरिव शाश्वतैकरस्यं
चरतो यावदशीतशीतभानू ।। "

आरम्भादिभिरेताभिरवस्थाभिः समन्वितम् ।। १७ ।।

मुखादिसन्धिरूपेण जातं बीजादिपञ्चकम्।
अवान्तरार्थसम्बन्धः सन्धिरेकान्वये सति ।। १८ ।।

मुखं प्रतिमुखं चैव गर्भश्च तदनन्तरम्।
विमर्शोऽन्ते निर्वहणमित्यमी पञ्चसन्धयः ।। १९ ।।

मुखं बीजसमुत्पत्तिर्नानार्थरससम्भवा।
अङ्गानि द्वादशैतस्य बीजारम्भसमन्वयात् ।। २० ।।

उपक्षेपः परिकरः परिन्यासो विलोभनम्।
युक्तिः प्राप्तिः समाधानं विधानं परिभावना ।। २१ ।।

उद्भेदभेदकरणान्यन्वर्थान्यथ लक्षणम्।
उपक्षेपस्तु बीजेन वस्तुनो योजनं यथा ।। २२ ।।

"राजा---
तत्र सा कुवलयेक्षणा मया
वीक्षितोपवनभूविहारिणी।
शम्बरारिशरदेवतेव मे
मानसं तुदति मत्तकाशिनी ।।

वयस्य! किं तत्र व्रजामः?"
बहुलीकरणं तस्य युक्त्या परिकरो यथा।
"सौरभः--- वयस्य! न केवलं त्वदीयमेव हृदयं सा समाकर्षति, अपितु--
"अव्याजमुग्धमधुरैररविन्दकोण-
निर्यन्मधुव्रतनिकायनिभैः कटाक्षैः।
भावावतारपिशुनैरपि भो वयस्य!
बाला भवन्तमकरोदपदेशलक्ष्यम् ।। "

परिन्यासस्तु कार्यस्य निष्पन्नप्रायता यथा ।। २३ ।।

"कैरवः--- वयस्य! यदि मामुद्दिश्य प्रेषयति,तर्हि--
मदनस्य मया राज्यं प्राज्यं बलवता हृतम्।
पुण्यैः पुरातनैरद्य प्रायेण फलितं मम ।। "

विलोभनं गुणाख्यानं मानसोल्लासकृद्यथा।
"कैरवः--- वयस्य! कोपे तु नैवम्। यतः,
बालातपक्रान्तपयोजपत्र-
मित्रे तु नेत्रे मिषतो न भीमे।
आकर्णकृष्टाङ्गजचापयष्टिः
भुग्ने भ्रुवौ न भ्रुकुटिस्तयोस्तु ।। "

सम्प्रधारणमर्थानां युक्तिरित्युच्यते यथा ।। २४ ।।

"वन्दी-- देव, सत्यमेतत्।
नृत्ताचार्यो मम सुहृदभूदत्र कन्दर्पदासः
तेनावश्यं पितुरभिनवं नृत्तमादर्शयन्ती।
बद्ध्वा पत्रं सलिपि नगरद्वारि तेनानुशिष्ट-
स्तुष्टेनाऽहं दुहितृभवने चित्रकृत्येऽलिखं त्वाम् ।। "

या चित्तस्य सुखप्राप्तिः सा प्राप्तिर्गीयते यथा।
"राजा--- (स्वगतम्)
आलोच्य वाक्यं स्वयमन्तरात्मा
हृष्टः परानन्दमिव प्रविष्टः।
प्रायेण भावीनि भवन्ति वस्तू-
न्यालोच्यमानानि मनोहराणि ।। "

बीजागमः समाधानमिति सङ्कीर्त्यते यथा ।। २५ ।।

"राजा--- (अपवार्य) वयस्य! वयं निलीना एव निवसामः।
अनुरागमङ्गनाया मुखेन यः श्रोत्रपेयमाधुर्यम्।
आकर्णयत्यजस्रं स एव मदनस्य शास्ति साम्राज्यम् ।। "

सुखदुःखकरं यत्स्याद्विधानं तद्विदुर्यथा।
"कैरवः--- पुरस्तादवलोकय तस्यास्ताम्बूलकरङ्कवाहिनीम्।
आज्ञेव शम्बररिपोरवलङ्घनीया
वाञ्छेव विग्रहवती वशगा दृशोर्मे।
अन्यार्थमेव किमुतापणमभ्युपैति
सन्देशमानयति सा किमु सारसाक्ष्याः ।।

अतो मे मनसि मोदखेदौ वर्तेते।"
अद्भुतापादनं यत्स्यात्परिभावो मतो यथा ।। २६ ।।

"कैरवः---वयस्य! पश्य,
रङ्गोत्थिता रतिपतेरिह राज्यलक्ष्मी-
र्नारीललाम नयनोत्करपूर्वपुण्यम्।
आलिङ्गितुं मलयमारुतमञ्जसा सा
वाञ्छत्यहो ! सुभगताऽस्य तु वागतीता ।। "

गूढार्थभेदनं यत्स्यादुद्भेदः प्रोच्यते यथा।
विदूषक---वअस्स, विसुमरिदं तुए। जं ताए एव्व अहंपि सरिसं एव्व
पेक्खामित्ति भणिदं।
(वयस्य, विस्मृतं त्वया। यत्तयैवाहमति सदृशमेव पश्यामीति भणितम्)
"राजा---सखे! तदिदानीं संस्मृतम्।"
प्रारब्धकार्यसिद्ध्यर्थं भेदः प्रोत्साहना यथा ।। २७ ।।

"सौरभः---कलिके! त्वमग्रतो गच्छ। मार्गं दर्शय।"
उद्दिष्टार्थस्य सिद्ध्यर्थं प्रारम्भः करणं यथा।
"राजा---शुद्धपार्ष्णिना हि जेतव्या रिपवः। अतो गौडेशमुन्मूल्य मालवेश-
मभियास्यामः।
बन्दी--- देव!
अकृते तु घनावरोधभेदे
सति सायन्तनमारुतेन ते न।
अवलोकयितुं सुखेन शक्या
शशिरेखा शमिताखिलाभितापा ।। "

उपक्षेपः परिकरः परन्यासस्ततथैव च ।। २८ ।।

युक्त्युद्भेदौ समाधानं मुखे वाच्यान्यवश्यतः।
लक्ष्यालक्ष्य इवोद्भेदः तस्य प्रतिमुखं भवेत् ।। २९ ।।

बिन्दुप्रयत्नानुगमादङ्गान्यस्य त्रयोदश।
विलासः परिसर्पश्च विधूतं शमनर्मणी ।। ३० ।।

नर्मद्युतिः प्रगमनं निरोधः पर्युपासनम्।
पुष्पं वज्रमुपन्यासो वर्णसंहार इत्यपि ।। ३१ ।।

रत्युद्देशेन या काङ्क्षा विलासः स मतो यथा।
"राजा---(विहस्य) वयस्य!
विदितरसो विभवयुतो युवा यदि स्यात्सचेतनः सदृशीम्।
कः खलु कामयमानां कान्तामप्राप्य कातरो न भवेत् ।। "

दृष्टनष्टानुसर्पः स्यात्परिसर्पो मतो यथा ।। ३२ ।।

"राजा---(ससम्भ्रमम्) वयस्य! त्वद्वचनचातुरीविस्मृतविषयान्तरो गम्यमान-
मपि पन्थानं न गमयामि। क्वाऽसौ नगरी? (इत्युपसर्पति)"
अरतिर्मनसो या स्याद्विधूतं कथ्यते यथा।
?०"राजा---(निर्वर्ण्य सानन्दं) वयस्य! समाकर्णय।
दूराद्दर्शनवाञ्छा सविधगतायां समागमोत्कण्ठा।
अप्राप्तायामधुना कथमिव मनसो रतिस्तस्याम् ।। "

तस्यास्तु शान्तिररतेः शम इत्युच्यते यथा ।। ३३ ।।

"राजा---(निवर्ण्य सानन्दं ) वयस्य! मम हि---
दृढविरहविदाहमेष दृष्टो
हरति चरो दयिता सखीसमेतः।
शशधर इव चन्द्रिकासनाथो
निशि जगतो नितरां निदाघतापम् ।। "

परिहासकरं वाक्यं कथ्यते नर्म तद्यथा।
"विदूषकः--वअस्य! इह एव्व रमणिज्जा वट्ठिदा तुह पिआ होदु।
(वयस्य। इहैव रमणीयोपस्थिता तव प्रिया भवतु)
राजा---(विहस्य) वयस्य! अधमवृत्तिमवलम्बसे।"
द्युतिर्नर्मसमुद्भूता नर्मद्युतिरसौ यथा ।। ३४ ।।

"कः स्वलु धीरोदारो गभीरसलिलां पिपासुरपि गङ्गाम्।
दूरादपि नासीदेदारादपि सारिणीं समुल्लङ्घ्य ।। "

उत्तरादुत्तरं वाक्यं प्रगमः कथ्यते यथा।
"मङ्गलवती---
वत्से! वारं वारं वचनानि मयाऽद्य वर्णितानि तव।
विगलन्ति कर्णविवराद्भग्नाद्भाण्डादिवाऽऽशु सलिलानि ।। "

कौमुदी---
"माए मह प्परूडो दुव्वारदमो ण होदि किं मअणो।
पज्जलदि किं ण पुण्णो अग्गि ज्जवालेव्व विअण पवेण हि।
(मातर्मम प्ररूढो दुर्वारतमो न भवति किं मदनः।
प्रज्वलति किं न पूर्णोऽग्निज्ज्वाल एव व्यजनपवनैः ।। )
निरोधनं हितार्थस्य निरोधः कथ्यते यथा ।। ३५ ।।

"राजा---धिङ्मूर्ख!
"प्राप्ता कथमपि दैवात्कण्ठमनीतैव सा प्रकटरागा।
रत्नावलीव कान्ता मम हस्ताद् भ्रंशिता भवता ।। "

पर्युपासनमुक्तं स्यात्क्रुद्धस्यानुनयो यथा।
राजा--- अयि कोपने!
"आपराधमिमं क्षमस्व सख्या-
श्चरणौ ते मदपेक्षया गृहाण।
अरुणप्रभयावलीढपद्मां
नलिनीं ह्याशु नयेद्विकासमर्कः ।। "

उक्ताद्विशेषवद्वाक्यं पुष्पं सङ्कीर्त्यते यथा ।। ३६ ।।

"विदूषकः--भो वअस्स, सव्वथा एसो मुक्ताहारो जवकालजोग्गा अक्खमालाहोदु।
(भो वयस्य, सर्वथा एष मुक्ताहारो जपकालयोग्या अक्षमाला भवतु)
राजा---वयस्य! सत्यमेतत्।अन्यच्च---
आसित्वा विजने विमुक्तविषयाङ्गं मनो निश्चलं
कृत्वा हृज्जलजान्तरे प्रियतमारूपं परं दैवतम्।
ध्यात्वा हारलतामयाक्षवलयं हस्तेन धृत्वा मया
तत्सायुज्यफलाप्तये प्रतिदिनं तन्नाम सञ्जप्यते ।। "

प्रत्यक्षनिष्ठुरं वाक्यं वज्रमित्युच्यते यथा।
"विदूषकः---भो वअस्स! अह्म एदं खु दुक्करं।
(भो! वयस्य! अस्माकमिदं खलु दुष्करम्)
राजा---आः! अत्यन्तनिष्ठुरमेतद्वाक्यम्।
विषमिव मनसो मे मोहनमशनिरिव नितान्तनिष्ठुरं श्रवसोः।
प्राणप्रयाणभेरीभाङ्कारः प्रणयजलधिबडबाग्निः ।। "

उपन्यासः प्रसादोक्तिरुपायेनोच्यते यथा ।। ३७ ।।

"मङ्गलवती---
सर्वथेयं समासक्ता तस्मिन् तामरसेक्षणे।
भव प्रसन्ना भद्रे ! त्वं तेन दोषो न ते परम् ।। "

चातुर्वर्ण्योपगमनं वर्णसंहरणं यथा।
"कौमुदी---एदं ण सुदं तुए।
साव्वाणं सहि वण्णाणं ब्रह्मणो पअमो गुरू।
आराहणिज्जो अण्णेहिं वण्णेहिं जेण वण्णिदो ।।

(एतन्न श्रुतं त्वया?
सर्वेषां सखि! वर्णानां ब्रह्मणः प्रथमो गुरुः।
आराधनीयोऽन्यैर्वर्णैर्येन वर्णितः ।। )
प्रगमः परिसर्पश्चोपन्यासो वज्रमेव च ।। ३८ ।।

पुष्पं च नियमाद्वाच्यान्यन्यानि तु यथा रुचि।
गर्भस्तु दृष्टनष्टस्य बीजस्यान्वेषणं मुहुः ।। ३९ ।।

भवेन्न तु पताकात्र प्राप्त्याशा नियमाद्भवेत्।
अभूताहरणं मार्गो रूपोदाहरणे क्रमः ।। ४० ।।

सङ्ग्रहश्चानुमानं च तोटकाधिबले तथा।
उद्वेगः सम्भ्रमाक्षेपावङ्गानि द्वादशाऽस्य तु ।। ४१ ।।

छद्मकर्म समाख्यातमभूताहरणं यथा।
"सौरभः---आर्ये! किमुच्यते? छद्मनानुप्रविश्य साधयामोऽभिलषितम्।"
तत्त्वार्थकथनं यत्तन्मार्ग इत्युच्यते यथा ।। ४२ ।।

"मङ्गलवती---ननु सौरभ!
कपटमिव कायवन्तं क इव विटच्छद्मना खिलामेनाम्।
अलमतिसन्धानमतस्तत्त्वं कथयामि तावतोऽर्थस्य ।। "

सवितर्कं तु यद्वाक्यं रूपं तत्कथ्यते यथा।
"राजा---वयस्य!
नेयं निशा दिवस एव भवेत् कथं मे
निद्राऽन्यथा नयनयोर्युगलं न याति।
नायं शशी तपन एव तनोति ताप-
मुत्पात एव यदि मास्तु विभान्ति ताराः ।। "

यदुत्कर्षकरं वाक्यं तदुदाहरणं यथा ।। ४३ ।।

"राजा---(मलयमारुतं चोद्दिश्य)
मन्दोऽसि मलयमारुत! कथमिव निश्वासमारुतैस्तस्याः।
स्पर्धां करोषि मे त्वं विषायसे तेऽधुना सुधायन्ते ।। "

क्रमः सञ्चिन्त्यमानाप्तिर्ज्ञानं भावस्य वा यथा।
"राजा---(इति वदन्नेव नेत्रे निमीलयति)
विदूषकः---णोमालिए! एसो वअस्सो णिमीलिअणअणो
संकष्पसमाअममुख अणुहादि।
(नवमालिके! एष वयस्यो निमीलितनयनः
सङ्कल्पसमागमसुखमनुभवति।)
यौक्तिकपिधानं च सङ्ग्रहः कथ्यते यथा ।। ४४ ।।

"सौरभः---
अर्थैरनेकैर्जननीममुष्या-
श्चित्तं च दत्त्वा चिरकालचिन्त्यम्।
सन्तोषयेयं सहसैव भद्रे!
न चेत्कथं स्यादिह नः प्रवेशः ।। "

लिङ्गलिङ्गिपरिज्ञानमनुमानं मतं यथा।
"मङ्गलवती---
कारणं ज्ञायते कार्याद्धूमाद्धूमध्वजो यथा।
अस्ति चेदर्थसम्पत्तिरचिरादवलोक्यते ।। "

ससंरम्भं तु यद्वाक्यं तोटकं कथ्यते यथा ।। ४५ ।।

"मकरदंष्ट्रा---(ससंभ्रमं) जुत्तं पि सच्चं भणसि। जुज्जदि खु,
चोरो मज्झ करादो हारलदं हंत संभमेण हरंतो।
पहरइ पासाणेहिं पेच्छसि तुमपि किमेत्थ पडिकादव्वां ।।

(युक्तमपि सत्यं भणसि! युज्यते खलु-
चोरो मम करात् हारलतां हन्त सम्भ्रमेण हरन्।
प्रहरति पाषाणैः पश्यसि त्वमपि किमत्र प्रतिकर्तव्यम्")
वाक्यं यत्सातिसन्धानं कथ्यतेऽधिबलं यथा।
"सौरभः---(स्वगतम्)अस्तु नाम तथापि अभ्युपदत्त पदार्थबलादेवैनामति सन्धाय साधयामि कार्यम्।
शत्रुभिर्या कृता भीतिरुद्वेगः कथ्यते यथा ।। ४६ ।।

मकरदंष्ट्रा---ता राअपुत्तस्स पुण्णमुत्तिणो किअमाणदुसे दुवेवि दुब्बम्म-
ह्मणे दाणिं एव्व मारेमि।
(तत् राजपुत्रस्य पुण्यमूर्तेः क्रियमाणद्वेषौ द्वावपि दुर्ब्राह्म
णाविदानीमेव मारयामि।)
शङ्कात्रासौ यत्र वाक्ये सम्भ्रमः कथ्यते यथा।
"सौरभः---(सशङ्कं सत्रासं च स्वगतम्) किमेषा पूर्ववदेव कारयिष्यति।"
गर्भबीजसमाक्षेपादाक्षेपः कथ्यते यथा ।। ४७ ।।

"सौरभः---
प्रसादं तव सम्प्राप्य साधनीयं समीहितम्।
विभावरीं विना सेव्या चकोरेण न चन्द्रिका ।। "

अभूताहरणं मार्गस्तोटकाधिबले अपि।
आक्षेपश्चात्र नियमाद्वाच्यान्यन्यान्यपीच्छया ।। ४८ ।।

क्रोधेनावमृशेद्यत्र व्यसनाद्वा विलोभनात्।
गर्भनिर्भिन्नबीजार्थः सोऽवमर्शोऽवमर्शनात् ।। ४९ ।।

तत्रापवादसम्फेटौ विद्रवद्रवशक्तयः।
द्युतिः प्रसङ्गश्छलनं व्यवसायो विरोधनम् ।। ५० ।।

प्ररोचना विचलनमादानं च त्रयोदश।
दोषप्रख्यापनं यत्स्यादपवादो मतो यथा ।। ५१ ।।

"कैरवः---
पापे पुरा पातयितुं प्रवृत्ता
सन्तानकं स्वल्पफलाय तर्हि।
यागैरनेकैर्यमिभिर्वरेण्यो
लोकः कथं लोचनगोचरस्ते ।। "

रोषेण भाषणं यत्स्यात्सम्फेटोऽभिमतो यथा।
"मकरदंष्ट्रा---
पत्ता सुधा वारविलासिणी ए
माआभअंगेण न मारिदेत्ति।
का केदई कामिअफुल्लपुष्फा
कत्ता पुरा कण्डइणी विसेण ।। "

(प्राप्ता सुधा वारविलासिन्या
माया भुजङ्गेन न मारितेति।
सा केतकी कामितपुल्लपुष्पा
क्लृप्ता पुरा कण्टकिनी विषेण ।। )
"कैरवः---धूर्ते! नाद्यापि रोषं मुञ्चसि।
वधबन्धादिकथनं विद्रवः कथ्यते यथा ।। ५२ ।।

"कैरवः---
"बद्धः पश्चाद्बलिभिरवनीपालभृत्यैर्नियोगा-
द्यस्याः क्रूरैर्यमपरिसरं प्रापणीयो यथासम्।
सा त्वं दोषं मयि वितनुषे साम्प्रतं साम्प्रतं ते
सर्पिः क्षीरं विषमिव खले साधयेत्साधु तेन ।। "

द्रवो गुरुतिरस्कारकथनं कथ्यते यथा।
"लवः---
वृद्धास्ते न विचारणीयचरितास्तिष्ठन्तु हुं वर्धतां
सुन्दस्रीदमनेऽप्यखण्डयशसो लोके महान्तो हि ते।
यानि त्रीण्यकुतोमुखान्यपि पदान्यासन् खरायोधने
किं वा कौशलमिन्द्रसूनुनिधने तत्राप्यभिज्ञो जनः ।। "

शक्तिः सङ्कीर्त्यते सा यद्विरोधशमनं यथा ।। ५३ ।।

"राजा-- वयस्य!
विसृज्य मनसि रोषं मा विरुद्धं वचो मे
तव भवतु निजानामेव कोपप्रसादौ।
खरतररविरश्मिव्रातपातेऽपि सद्यः
सरसिजनिकुरुम्बं स्वैरमुन्मेषमेति ।। "

तर्जनोद्वेजने यत्र सा द्युतिः कीर्त्यते यथा।
"कैरवः---
या त्वं दूती यमस्येव तदा तर्जितवत्यपि।
सैव सम्प्रति सोद्वेगा चपले! चारु भाषसे ।। "

कीर्तनं गुरुनाम्नो यत्प्रसङगः कथ्यते यथा ।। ५४ ।।


"मकरदंष्ट्रा---
जादो जलधिझरादो कासारादो विणिक्कन्तं।
सुमरदि णागो हिअए किं पंकालित्तकासरं जादु ।।

(जातो जलधिझरात् कासाराद्विनिष्क्रान्तम्।
स्मरति नागो हृदये किं पङ्कालिप्तकासरं जातु ।। )
यत्रावमाननं वाक्ये छलनं तन्मतं यथा।
बन्दी-- देव!
"कोऽयं ते प्रतिकर्तुमत्र भवतश्चेलान्तबद्धाक्षतो
भूयः स्वस्ति वदन्नटत्यनुगृहं दूर्वार्पणार्ताङ्गुलिः।
किं कर्णाटमहीपतिः! किमु महाराष्ट्राः ! किमङ्गाधिपः!
कि पाण्ड्यः! किमु घूर्जरः! किममुना सर्वेऽपि ते सेवकाः ।। "

स्वसामर्थ्यस्य कथनं व्यवसायो मतो यथा ।। ५५ ।।

"कैरवः---
जडं जलनिधेर्वारि मुक्त्वा मुनिनिराकृतम्।
मम स्वान्ते मधुध्वंसी नित्यं शेते निरामये ।।

अतोऽखिलजगत्स्वहमेवातुलप्रभावः"
विरोधनं स्वशक्त्युक्तिः संरब्धानां मतं यथा।
"अर्जुनः--आर्य! प्रसीद। किमत्र क्रोधेन?
अप्रियाणि करोत्येष वाचा शक्तो न कर्मणा।
हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ।। "

"भीमः---अरे, भरतकुलेन्दुकलङ्क!
अद्यैव किं न विसृजेयमहं भवन्तं
दुःशासनानुगमनाय कटुप्रलापिन्!
विघ्नं गुरुर्न कुरुते यदि मद्गदाग्र-
निर्भिद्यमानरणितास्थनि ते शरीरे ।। "

अन्यच्च रे मूढ!
"शोकं स्त्रीवन्नयनसलिलैर्यत्परित्याजितोऽसि
भ्रातुर्वक्षःस्थलविघटने यच्च साक्षीकृतोऽसि।
आसीदेतत्तव कुरुपते! कारणं जीवितस्य
क्रुद्धे युष्मत्कुलकमलिनीकुञ्जरे भीमसेन ।।

राजा---दुरात्मन्! भरतकुलापसद! पाण्डवपशो! नाहं भवानिव विकत्थ-
नाप्रगल्भः। किन्तु,
द्रक्ष्यन्ति न चिरात्सुप्तं बान्धवास्त्वां रणाङ्गणे।
मद्गदाभिन्नवक्षोऽस्थिवेणिकाभीमभूषणम् ।। "

प्ररोचना सिद्धवद्यद्भाव्यर्थकथनं यथा ।। ५६ ।।

"बन्दी--- देव
आस्ते द्वारि वधूर्विधातृरचनावैदुष्यविक्रान्ति भू-
र्भूरेतस्य बलादहारि भवता भीता नतारातिना।
किं नामापरमत्र कार्यमधुना साध्यं समाशास्यते
तत्पाणिग्रहमङ्गलाय मनुजाधीशास्तु यत्नो महान् ।। "

विकत्थनाद्विचलनमामनन्ति बुधा यथा।
"कैरवः--
ननु तव नयहीने नापराधं स्मरेयं
मनसि विसृज भीतिं मत्क्रुधो नाऽसि पात्रम्।
भुवनमखिलमेको भुग्नयैव भ्रुवाऽहं
नियमयितुमधीशो नीरजाक्षप्रभावात् ।। "

कार्यस्य सङ्ग्रहो यत्स्यात्तदादानं मतं यथा ।। ५७ ।।

"कैरवः--- (स्वगतम्) अस्तु नामैतां कुट्टिनीं देवकुलाग्रस्थापितदीपस्थम्भोपरि
निधाय गमिष्यामि"
व्यवसायादानशक्तित्रयमावश्यकं त्विह।
बीजवन्तो मुखाद्यर्था विप्रकीर्णा यथायथम् ।। ५८ ।।

एकार्थ्यमुपनीयन्ते यत्र निर्वहणं हि तत्।
सन्धिर्विरोधो ग्रथनं निर्णयः परिभाषणम् ।। ५९ ।।

प्रसादानन्दसमया कृतिर्भाषोपगुम्भने।
पूर्वभावोपसंहारौ प्रशस्तिश्च चतुर्दश ।। ६० ।।

मुखसूचितबीजार्थप्राप्तिः सन्धिर्मता यथा।
"कैरवः---
आदावघटितं कार्यं मध्ये सुघटितं मम।
भूयो विघटितं भूयो भूयाद्धटयितुं प्रभुः ।। "

मार्गणं तस्य कार्यस्य विरोधः कथ्यते यथा ।। ६१ ।।

"सौरभः---
सा त्वयैवमवमानिता सती
कुट्टिनी कुपितपन्नगीनिभा।
मारयेत्किमु महीशतर्जिता
मानयेत्किमुत मन्दविग्रहा ।। "

ग्रथनं तस्य कार्यस्य तूपक्षेपो मतो यथा।
"कैरवः---वयस्य! नात्र सन्देहः।
शान्तिमेति सकलोऽपि भूभुजां
सन्निधौ सहजवैरितर्जितः।
तामसा अपि तरक्षवो मृगैः
सञ्चरन्ति हि समं तपोवने ।। "

अनुभूतार्थकथनं निर्णयोऽभिहितो यथा ।। ६२ ।।

सौरभः---वयस्य! मैवं मन्तव्यम् ।
स देवतावेश्मनि सत्यसङ्गरः
सतां समक्षं समुदीरितं तथा।
वचः स्वकीयं वसुधेश्वरः कथं
मुहूर्तमात्रेण मृषा करिष्यति ।। "

अन्योन्यपरिवादोऽयं परिभाषाऽत्र सा यथा।
"मकरदंष्ट्रा-- (सरोषं ) अले दुब्बह्मण! पहववेदिणो पुरदो एव्वं पुणो वि
विभणसि।
(अरे दुर्ब्राह्मण! प्रभववेदिनः पुरतः पुनरप्येवं भणसि।)
"सौरभः---
धूर्ते! दुरन्तविपदर्णवमध्यमग्नौ
दीनाववेक्ष्य कृपया दिननाथवंश्यः।
आवामपारमनयन्नयनात्तदीयात्
ज्ञातौ जहाति न कदाऽपि सुतौ नरेन्द्रः ।।

अतस्ते तर्जनान्नाभिभवः।"
प्रसीदेत्याद्यनुनयः प्रसादोऽभिमतो यथा ।। ६३ ।।

"मदसारः---(किञ्चिद्विहस्य)भो! क्षमस्व ममापराधम्।"
वाञ्छितार्थस्य या प्राप्तिरानन्दः स मतो यथा।
"पुरोधाः-- राज्ञः करेण रमण्याः करं ग्राहयति
राजा--- (सहर्षं गृह्णाति)"
चिरारूढस्य दुःखस्य निर्गमः समयो यथा ।। ६४ ।।

"राजा---(तरुणीं कथमपि कटाक्षेण निर्वर्ण्य)
(अपवार्य) वयस्य!
"सामिफुल्लसरसीरुहनिर्य-
द्भृङ्गसन्ततिसमाननिकायाः।
अञ्जनाविमलबाष्पलवा मे
क्षालयन्ति चिरखेदममुष्याः ।। "

स्थिरीकरणमर्थस्य लब्धस्य तु कृतिर्यथा।
"पुरोधाः---ततः सप्तपदान्याक्रामय्य
कलितानि पदानि सप्त साक्षी-
ण्यनले वामुभयोरतोऽस्तु सख्यम्।
शिवयोरिव शाश्वतैकरस्यं
चरतो यावदशीतशीतभानू ।। "

मानार्थकामालाम्भो हि भाषणं कथितं यथा ।। ६५ ।।

"कैरवः---
तवात्मजा तामरसायताक्षी
मह्यं स सम्मानमियं करोति।
दत्ता दयावारिधिना त्वया त-
द्गुरूपदेशाद्गुरुमत्त्वमुक्तम् ।। "

उपगुम्भनमाश्चर्यप्राप्तिरित्युच्यते यथा।
"पुरोधाः---(साश्चर्यम्) मनोरथसिद्ध! ममाप्येतदेव विवक्षितम्। अहो!
दैवादावयोर्मतिसंवादः।"
कार्यस्य दर्शनं पूर्वभावः सङ्कीर्त्यते यथा ।। ६६ ।।

मनोरथसिद्धः-- अन्यच्च ममाशास्यमस्ति। तदिदं - मालवनाथः
सम्भावनीयः। यथा प्रीयते देवी।
सर्वः स्वजनसम्मानात्सन्तोषमुपयाति हि।
यतो वकुलसेकेन विकसेन्मुकुलावली ।। "

स स्यात्कार्यस्य संहारः प्रियः प्रियतरो यथा।
पुरोधाः---
पुण्यैस्तस्य पुरातनैः क्षितिपतेः प्रख्यातवत्सान्वयः
क्षीराम्भोनिधिचन्द्रमाः सकलभूलोकाभिनन्द्योदयः।
स्वैरं गर्वितपूर्वराजचरितैः पूतैर्निजैर्वर्तनैः
जामाताऽसि जनाधिनाथ! विदिशां हंसावलीं चाप्नुयाः ।। "

प्रशस्तिः प्रोच्यते सा तु यच्छुभाशंसनं यथा ।। ६७ ।।

"साहित्यभानुरयतामुदयं नृपाणां
कीर्त्यम्बुजानि विकसन्तु सितानि सन्तु।
नाशं प्रयातु घनदुर्जनवाक्तमिस्रं
भूरस्तु सन्ततमहोत्सवशालिनीयम् ।। "

अङ्गान्यवश्यमेतानि वाच्यानीह चतुर्दश।
उक्ताङ्गानां चतुष्षष्टेः षोढा चैषां प्रयोजनम् ।। ६८ ।।

इष्टस्यार्थस्य रचना गोप्यगुप्तिः प्रकाशनम्।
रागप्रयोगस्याश्चर्यं वृतान्तस्यानुपक्षयः ।। ६९ ।।

पुनस्त्रेधा विभागः स्यात्सर्वस्याप्युक्तवस्तुनः।
सूच्यमेव भवेत्किञ्चिदृश्यं श्राव्यमथापरम् ।। ७० ।।

नीरसोऽनुचितस्तत्र संसूच्यो वस्तुविस्तरः।
दृश्यस्तु मधुरोदात्तरसभावनिरन्तरः ।। ७१ ।।

अर्थोपक्षेपकैः सूच्यं पञ्चभिः प्रतिपादयेत्।
विष्कम्भचूलिकाङ्कास्याङ्कावतारप्रवेशकैः ।। ७२ ।।

वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः।
सङ्क्षेपार्थस्तु विष्कम्भो मध्यपात्रप्रयोजितः ।। ७३ ।।

प्रयोजितो भवेच्छुद्धः सङ्कीर्णो नीचमध्यमैः।
अन्तर्यवनिकासंस्थैश्चूलिकार्थस्य सूचना ।। ७४ ।।

अङ्कान्तपात्रैरङ्कास्यमत्तराङ्कार्थसूचना।
अङ्कावतारस्त्वङ्कान्ते वान्तेऽङ्कस्याविभागतः ।। ७५ ।।

भूतभाविकथांशानां सूचको नीचभाषया।
नीचपात्रैः प्रयुक्तोऽङ्कद्वयस्यान्तः प्रवेशकः ।। ७६ ।।

एभिः संसूचयेत्सूच्यं दृश्यमङ्कैः प्रदर्शयेत्।
दृश्यस्तु मधुरोदात्तरसभावनिरन्तरः ।। ७७ ।।

नाट्यधर्ममवेक्ष्यैव श्राव्यं वस्तु त्रिधा मतम्।
सर्वश्राव्यं च नियतश्राव्यमश्राव्यमेव च ।। ७८ ।।

सर्वश्राव्यं प्रकाशं स्यादश्राव्यं स्वगतं मतम्।
द्विविधं नियतश्राव्यं जनान्तमपवारितम् ।। ७९ ।।

त्रिपताकाकरेणान्यानपवार्यान्तरा कथा
अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् ।। ८० ।।

रहस्यं कथ्यतेऽन्यस्य परावृत्त्यापवारितम्
किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत्।
श्रुत्वेवानुक्तमप्येतत्तत्स्यादाकाशभाषितम् ।। ८१ ।।

सर्वाङ्गसङ्गतमनेकविधार्थसार्थं
सद्वृत्तनायकविशेषसमग्रशोभम्।
राज्यं त्वदीयमिव रूपकवस्तुरम्यं
मन्मक्षितीश! महतां मुदमातनोति ।। ८२ ।।

इत्यमृतानन्दयोगीन्द्रविरचितेऽलङ्‌कारसङ्ग्रहे सन्ध्यङ्गनिरूपणं
नाम सप्तमः परिच्छेदः ।।