अलङ्कारसङ्ग्रहः/परिच्छेदः ६

विकिस्रोतः तः
Jump to navigation Jump to search
← परिच्छेदः ५ अलङ्कारसङ्ग्रहः
परिच्छेदः ६
अमृतानन्दयोगीन्द्र:
परिच्छेदः ७ →

अथ दोषाः प्रकीर्त्यन्ते पदानां प्रथमं क्रमात्।
श्रुतिकट्वसमर्थं च च्युतसंस्कृत्यवाचकम् ।। १ ।।

निरर्थकं चाप्रयुक्तमश्लीलं ग्राम्यमेव च ।
नेयार्थानुचितार्थे च सन्दिग्धं क्लिष्टमेव च ।। २ ।।

अविमृष्टविधेयांशं विरुद्धमतिकृत्तिथा।
अप्रतीतमथैतेषां क्रमाल्लक्षणमुच्यते ।। ३ ।।

परुषाक्षरविन्यासं श्रुतिकट्विष्यते यथा।
"अनङ्गमङ्गलगृहापाङ्गभङ्गितरङ्गितैः।
आलिङ्गितः स तन्वङ्ग्या कार्तार्थ्यं लभते कदा ।। "

अत्र कार्तार्थ्यमिति यत्पदं श्रुतिकटूच्यते ।। ४ ।।

असमर्थमभिप्रेतं यद्वक्तुं न क्षमं यथा।
"तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतिः।
सुरस्रोतस्विनीमेष हन्ति सम्प्रति सादरम् ।। "

हन्तीति हिंसागत्यर्थोऽप्यसमर्थो गताविह ।। ५ ।।

शास्त्रोक्तलक्षणापेतं च्युतसंस्कृति तद्यथा।
"एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डर-
प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते।
तत्पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना
दीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः ।। "

न याच्नार्थे नाथते स्यादाशिष्येवात्मने पदम् ।। ६ ।।

अवाचकं न यत्रार्थे प्रयुक्तं वक्ति तद्यथा।
"अवन्ध्यकोपस्य निहन्तुरापदां
भवन्ति वश्याः स्वयमेव देहिनः।
अमर्षशून्येन जनस्य जन्तुना
न जातहार्देन न विद्विषादरः ।। "

जीवसाधारणं जन्तुपदं नो दातृवाचकम् ।। ७ ।।

निरर्थकं भवेत्पादपूरणैकफलं यथा।
"बिभर्ति यश्च देहार्धे प्रियामिन्दुं हि मूर्धनि।
स वै देवः खलु त्वां तु पुनातु मदनान्तकः ।। "

च वै हीत्यादि शब्दानामर्थस्यार्थो न विद्यते ।। ८ ।।

आम्नातमप्यप्रयुक्तं कविभिर्नादृतं यथा ।।

"यथाऽयं दारुणाचारः सर्वथैव विभाव्यते।
तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽपि वा ।। "

पुंसि दैवतशब्दोऽयं कविभिर्न प्रयुज्यते ।। ९ ।।

येनासभ्यः पदेनार्थो द्योत्यतेऽश्लीलमीरितम्।
जुगुप्साऽमङ्गलव्रीडाव्यञ्जकत्वात्त्रिधा यथा ।। १० ।।

"लीलातामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः
कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः।
मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तस्य सा
भ्रान्त्या धूर्ततयाथवा नतिमृते तेनानिशं चुम्बिता ।। "

अत्राननेन ददती वायुं सेति जुगुप्सितम्।
"मृदुपवनविभिन्नो मत्प्रियाया विनाशात्
घनरुचिरकलापो निस्सपत्नोद्य जातः।
रतिविगलितबन्धे केशपाशे सुकेश्याः
सतिकुसुमसनाथे कं हरेदेष बर्ही ।। "

मत्प्रियाया विनाशादित्येतत्पदममङ्गलम् ।। ११ ।।

"साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते।
तस्य धीशालिनः कोऽन्यः सहेतारालितां भ्रुवम् ।। "

अत्र साधनशब्दोऽयं व्रीडोत्पत्तिकरो मतः।
ग्रामीणयोग्यं यद्ग्राम्यं निन्द्यं नागरिकैर्यथा ।। १२ ।।

"राकाविभावरीकान्तसङ्क्रान्तद्युति ते मुखम्।
तपनीयशिलाशोभा कटिश्च हरते मनः ।। "

कटिशब्दोऽत्र गोप्याङ्गवाचकत्वेन गर्ह्यते।
नेयार्थं यदसामर्थ्याद्दूरार्थद्योतकं यथा ।। १३ ।।

"शरत्कालसमुल्लासिपूर्णिमाशर्वरीप्रियम्।
करोति ते मुखं तन्वि चपेटापातनातिथिम् ।।

चपेटशब्दः सामर्थ्यान्नाभिधत्ते जयं त्विह।
तदेवानुचितार्थं स्याद्यस्यार्थोऽनुचितो यथा ।। १४ ।।

"तपस्विभिर्या सुचिरेण लभ्यते
प्रयत्नतः सत्रिभिरिष्यते च या।
प्रयान्ति तामाशु गतिं मनस्विनो
रणाश्वमेधे पशुतामुपागताः ।। "

व्यनक्तयुक्तं पशुपदं शूरे कातरतामिह।
विवक्षितार्थादन्यच्च सन्दिग्धं द्योतयेद्यथा ।। १५ ।।

"आलिङ्गितस्तत्र भवान् सांपराये जयश्रियम्।
आशीः परम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु ।। "

अत्र वन्द्यामिति पदं बन्दीकृतनमस्ययोः।
क्लिष्टं व्यवहितार्थस्य द्योतकं स्यात्पदं यथा ।। १६ ।।

"अत्रिलोचनसम्भूतज्योतिरुद्गमभासिभिः।
सदृशं शोभतेऽत्यर्थं भूपाल तव चेष्टितम् ।। "

अत्रिलोचनसम्भूतश्चन्द्रस्तज्ज्योतिरुद्गमात्।
भासीनिकुमुदानीति क्लिष्टत्वं व्यवधानतः ।। १७ ।।

अभिमृष्टविधेयांशं प्राधान्याद्येन तद्यथा।
स्रस्तं नितम्बादवलम्बमानां
मुहुर्मुहुः केसरदामकाञ्चीम्।
न्यासीकृतां स्थानविदा स्मरेण
मौर्वीद्वितीयामिव कार्मुकस्य ।। "

प्राधान्येनात्र निर्दिष्टो विधेयांशो द्वितीयया ।। १८ ।।

इष्टान्यदुष्टधीकारी विरुद्धमतिकृद्यथा ।।

"सुधाकरकराकारविशारदविचेष्टितः।
अकार्यमित्रमेकोऽसौ तस्य किं वर्णयामहे ।। "

प्रयोजनं विना मित्रमित्यत्रार्थे विवक्षिते ।। १९ ।।

अकार्ये मित्रमित्यन्यो विरुद्धार्थः प्रतीयते।
शास्त्रमात्रप्रसिद्धार्थमप्रतीतं मतं यथा ।। २० ।।

"सम्यञ्ज्ञानमहाज्योतिर्दलिताशयताजुषः।
विधीयमानमप्येतन्न भवेत् कर्मबन्धनम् ।। "

अत्राशयपदं वासनार्थमागमसिद्धिमत्।
दोषान् पदैकदेशेषु यथायोग्यं वदाम्यहम् ।। २१ ।।

"अलमतिचपलत्वात् स्वप्नमायोपमत्वा-
त्परिणतिविरसत्वात्सङ्गमेनाङ्गनायाः।
वयमिति शतकृत्वः तत्त्वमालोचयाम-
स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ।। "

त्वप्रत्ययस्य बाहुल्यादिह श्रुतिकटूच्यते।
"आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिलोल्लासित-
प्रोत्सर्पद्विरहानलेन च ततः सन्तापितानां दृशाम्।
सम्प्रत्येव निषेकमश्रुपयसा देवस्य चेतोभुवो
भिल्लानामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ।। "

निरर्थकं बहुत्वं स्याद्दृशामित्येकयोषितः ।। २२ ।।

फलस्याकर्तृगामित्वाद् कृञश्चाप्यात्मने पदम् ।।

"यः पूयते सुरसरिन्मुखतीर्थसार्ध-
स्नानेन शास्त्रपरिशीलनकीर्तनेन।
सौजन्यमान्यजनिरूर्जितमार्जितानां
सोऽयं दृशोः पतति कस्यचिदेव पुंसः ।। "

पूयेत्यत्र जुगुप्सार्थमश्लीलमवगम्यते ।। २३ ।।

"अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि।
सर्वविघ्नच्छिदे तस्मै गणाधिपतये नमः ।। "

प्रेतेत्यत्रामङ्गलाश्लीलमत्र श्लोकेऽवगम्यते।
"कस्मिन्कर्मणि सामर्थ्यमस्य नोत्तपते तराम्।
अयं साधुचरस्तस्मादञ्जलिर्बध्यतामिह ।। "

भूतपूर्वे चरट्त्वत्र साधुचारीति संशयः ।।

"किमुच्यतेऽस्य भूपालमौलिमालामहामणेः।
सुदुर्लभं वचोबाणैस्तेजो यस्य विभाव्यते ।। "

वचः शब्देन गीः शब्दो लक्ष्यतेऽत्रेत्यवाचकम् ।। २४ ।।

प्रतिकूलवर्णमुपहतलुप्तविसर्गं विसन्धिहतवृत्तम्।
न्यूनाधिककथितपदं पतत्प्रकर्षं समाप्तपुनरात्तम् ।। २५।
अर्थान्तरैकवाचकमभवन्मतयोगमनभिहितवाच्यम्।
अपदस्थपदसमासं सङ्कीर्णं गर्भितं प्रसिद्धिहतम् ।। २६ ।।

भग्नप्रक्रममक्रमममतपदार्थं रसच्युतं च तथा।
अप्रस्तुतार्थमित्यपि भवन्ति वाक्येष्वमी दोषाः ।।

प्रतिकूलवर्णमेतद्रसानुकूलाक्षरं न यद्धि तथा ।। २७ ।।

"अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि! माम्।
कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्थिमुद्धर ।। "

शृङ्गारे टादीनां कठिनानां नानुकूल्यमस्तीह।
उत्वौत्वे यत्र कृते लुप्तो वा स्याद्विसर्जनीयश्च।
उपहतलुप्तविसर्गं दुष्टं तद्वाक्यमामनन्ति यथा ।। २८ ।।

"धीरो विनीतो निपुणो वराकारो नृपोऽत्रसः।
यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रभाविताः ।। "

उपहततामाद्यार्धे याति विसर्गः परेण लुप्तत्वम्।
वैरूप्यं विश्लेषोऽश्लीलत्वं कष्टता च सन्धेः स्युः ।। २९ ।।

दोषास्तत्तद्वाक्यं विसन्धि विबुधाः क्रमाद्वदन्ति यथा।
"राजन् विभान्ति भवतश्चरितानि तानि
इन्दोर्द्युतिं दधति यानि रसातलेऽन्तः।
धीदोर्बले अतितते उचितानुवृत्ती
आतन्वती विजयसम्पदमेत्य भातः ।। "

सकृदेवहितेऽत्र दोषे विहितेऽप्यसकृच्च भवति वैरूप्यम् ।। ३० ।।

"तत उदित उदारहारि -
द्युतिरुच्चैरुदयाचलादिवेन्दुः।
निजवंश उदात्तकान्तकान्ति-
र्बत! मुक्तामणिवच्चकास्त्यनर्घः ।। "

अत्र विहितेऽपि दोषो विश्लेषस्त्वसकृदेव विज्ञेयः।
"विद्यामभ्यसतो रात्रावेति या भवतः प्रिया।
वनिता गुह्यकेशानां कथं ते पेलवं वनम् ।। "

सन्धावश्लीलत्वं दोषोऽत्र विवेकशालिभिर्ज्ञेयः ।। ३१ ।।

"उर्व्यसावत्र तर्वाली सर्वर्तौ चार्ववस्थितिः।
नात्र प्रयुज्यते गन्तुं शिरो नमय तन्मनाक् ।। "

इह कष्टत्वं सन्धेः क्लिष्टतया कथ्यते सकृद्दोषः।
अयथात्वं गुरुलघ्वोः वर्णानां यत्र हीनताधिक्ये ।। ३२ ।।

भग्नच्छन्दोवाक्यं हतवृत्तं चेति तद्वदन्ति यथा।
"कामेन पञ्चापि बाणा विमुक्ता
मृगेक्षणास्वित्ययथागुरुत्वम्।
मदनबाणाः निशिताः पतन्ति
वामेक्षणास्वित्ययथालघुत्वम् ।। "

इन्दुपादाः शिशिराः स्पृशन्तीत्यूनवर्णता।
स कारस्य किसलयान्न्यार्द्राणीत्याधिकाक्षरम् ।। ३३ ।।

पादान्ते मध्ये वा यतिर्विरामोऽस्य भग्नतात्र यथा।
"आदित्यस्य महति वंशे जातो नृपतिरेष धनकीर्तिः।
भूरिदयालङ्कारः प्रभूतगुणवत्सलो जयत्यवनौ ।। "

येन विना यद्वाक्यं न्यूनं तन्न्यूनपदमुशन्ति यथा ।। ३४ ।।

"तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालनया
वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः।
विराटस्यावासे स्थितमनुचितारम्भनिभृतं
गुरु खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ।। "

अस्माभिरिति विशेष्याभावादिह वाक्यमभिहितं न्यूनम्।
यदभावादपि पूर्णं वाक्यं तेनाधिकपदमत्र यथा ।। ३५ ।।

"स्फुटिकाकृतिनिर्मलः प्रकामं
प्रतिसङ्क्रान्तनिशातशास्त्रतत्त्वः।
अविरुद्धसमन्वितोक्तियुक्तिः।
प्रतिमल्लास्तमयोदयः स कोऽपि ।। "

आकृतिपदेन वाक्यं विनापि सम्पूर्णमेव भवतीह।
कथितपदं यद्यस्मिन् पदस्य कथितस्य कथनमेव यथा ।। ३६ ।।

"अधिकतरलतल्पं कल्पितस्वापलीला
परिमिलननिमीलत्पाण्डिमा गण्डपाली।
सुतनु! कथय कस्य व्यञ्जयत्यञ्जसैव
स्मरनरपतिलीलायौवराज्याभिषेकम् ।। "

लीलेति पूर्वकथितं पुनरपि लीलेति कथितमेतस्मिन्।
यस्मिन्नधः प्रकृष्टं पतत्प्रकर्षं तदामनन्ति यथा ।। ३७ ।।

"कः कः कुत्र नर्घुर्घुरायितघुरी घोरो घुरेत्सूकरः
कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः।
के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः
सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ।। "

अत्र करिणः प्रकृष्टान्महिषाणामुपरिकीर्तनं कुरुते।
पुनरपि समाप्य कथितं समाप्तपुनरात्तमिति वदन्ति यथा ।। ३८ ।।

"क्रेङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकानां रवः
झङ्कारो रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनिः।
तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कण
क्वाणः प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः ।। "

अत्र समाप्तोऽप्यर्थः पुनरप्यादीयतेऽन्त्यपादान्त्ये।
अर्थान्तरैकवाचकमपरार्थगतैकवाचकं तु यथा ।। ३९ ।।

"मसृणचरणपातं गम्यतां भूः सदर्भा
विरचय सिचयान्तं मूर्ध्नि धर्मः कठोरः।
तदिति जनकपुत्री लोचनैरश्रुपूर्णैः
पथि पथिकवधूभिर्वीक्षिता शिक्षिता च ।। "

इह तच्छब्दो हेतुः सिचयान्तं मूर्ध्नि विरचयेत्यत्र।
अभवन्मतयोगं तद्यत्र समासे पदं गुणीभूतम् ।। ४० ।।

नान्यैः प्रधानभूतैर्लभते योगं प्रयोजनाय यथा।
"?Bचत्वारो वयमृत्विजः स भगवान् कर्मोपदेष्टा हरिः
सङ्ग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता।
कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं
राजन्योपनिमन्त्रणाय रसति स्फीतं यशो दुन्दुभिः ।। "

सङ्ग्रामाध्वरशब्दः समासगो दोषभावमेत्यत्र ।। ४१ ।।

अनभिहितवाच्यमेतद्यत्र न वक्तव्यमभ्यधायि यथा।
"त्वयि निसर्गरतेः प्रियवादिनः
प्रणयभङ्गपराङ्मुखचेतसः।
कमपराधलवं मम पश्यसि
त्यजसि मानिनि! दासजनं यतः ।। "

अत्रावश्यं वाच्यं पश्यस्यपराधलवमपीति पदम् ।। ४२ ।।

अस्थानस्थपदं तद्यत्रास्थाने स्थितं पदं हि यथा।
"लग्नः केलिकचग्रहश्लथजटालम्बेन निद्रान्तरे
मुद्राङ्कः शितिकन्धरेन्दुशकलेनान्तः कपोलस्थलम्।
पार्वत्या नखलक्ष्मशङ्कितसखीनर्मस्मितह्रीतया
प्रोन्मृष्टः करपल्लवेन कुटिला ताम्रच्छविः पातु वः ।। "

कुटिलाताम्रच्छविरिति नखलक्ष्मेत्यादितः पुरा वाच्यम् ।। ४३ ।।

अस्थानस्थसमासं यत्रास्थाने समासशालि यथा।
"अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि
स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः।
प्रोद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात्
फुल्लत्कैरवकोशनिस्सरदलिश्रेणीकृपाणं शशि ।। "

क्रुद्धोक्तावत्र कृतो न समासः किन्तु कविवचस्येव ।। ४४ ।।

सङ्कीर्णं यत्रेतरवाक्यपदानीतरत्र सन्ति यथा।
"किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणेमम्।
ननु मुञ्च हृदयनाथं कण्ठे मनसस्तमोरूपम् ।। "

अधिकस्पुटमितरेतरवाक्यपदानां मिथः प्रवेशोऽत्र ।। ४५ ।।

क्लिष्टत्वमेकवाक्ये वाक्यबहुत्वे तु भवति सङ्कीर्णम्।
गर्भितमितरद्वाक्यं वाक्यस्यैकस्य यत्र मध्येऽस्ति ।। ४६ ।।

"परापकारनिरतैर्दुर्जनैः सह सङ्गतिः।
वदामि भवतस्तत्त्वं न विधेया कदाचन ।। "

वाक्यमिदमितरवाक्ये स्थितमिह भवतो वदामि तत्त्वमिति।
यत्र प्रसिद्धिहीनं प्रसिद्धियुतमुच्यते पदं तु यथा ।। ४७ ।।

"महाप्रलयमारुतक्षुभितपुष्कलावर्तक-
प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः।
रवः श्रवणभैरवः स्थगितरोदसीकन्दरः
कृतोऽद्य समरोदधेरयमभूतपूर्वक्रमः ।। "

रव इति शब्दविशेषणं शब्दमात्रे प्रसिद्धिभाग्भवति।
भग्नप्रक्रममुक्तं यत्र प्रक्रान्तरूपभङ्गः स्यात् ।। ४८ ।।

तदनेकधा विभेदैः प्रकृतिप्रत्ययमुखैः क्रमेण यथा।
"नाथे निशाया नियतेर्नियोगा-
दस्तं गते हन्त निशापि याता।
कुलाङ्गनानां हि दशानुरूपं
नातः परं भद्रतरं किमस्ति ।। "

गत इति तु प्रक्रान्ते यातेति प्रकृतिरत्र भङ्गवती ।। ४९ ।।

"यशोऽधिगन्तुं सुखलिप्सया वा
मनुष्यसङ्ख्यामतिवर्तितुं वा।
निरुत्सुकानामभियोगभाजां
समुत्सुकेवाङ्कमुपैति सिद्धिः ।। "

अत्र सुखलिप्सयेति प्रत्ययभङ्गो विविच्य विज्ञेयः।
अन्येऽप्यत्र ज्ञेयाः प्रत्ययभङ्गा न तु प्रपञ्च्यन्ते ।। ५० ।।

यत्र विहितः क्रमः स्यादक्रममिति वाक्यमामनन्ति यथा।
"निर्माणस्थितिसंहारहेतवो जगतां मताः।
विष्णुस्त्रिलोचनाम्भोजयोनयः पालयन्तु वः ।। "

परमेष्ठिहरिहरा इति वाच्ये भग्रः क्रमो भवत्यत्र ।। ५१ ।।

अमतपदार्थं यत्र प्रकृतविरुद्धार्थकथनमेव यथा।
"राममन्मथशरेण ताडिता
दुस्सहेन हृदये निशाचरी।
गन्धवद्रुधिरचन्दनोक्षिता
जीवितेशवसतिं जगाम सा ।। "

प्रकृतरसेऽत्र विरुद्धं शृङ्गाररसस्य वर्णनं विहितम् ।। ५२ ।।

यत्र रसोऽस्ति न वाक्ये रसच्युतं तदिति कीर्तयन्ति यथा।
"एकपुच्छश्चतुष्पादः ककुद्मान् लम्बकम्बलः।
गोरपत्यं बलीवर्दो घासमत्ति सुखेन सः ।। "

जातिरपि नीरसत्त्वान्नालङ्कारोऽस्य किं तु दोषत्वम् ।। ५३ ।।

अप्रस्तुतार्थमेतद्यत्नाप्रस्तुतनुतिः करोति यथा।
"तमालश्यामलं क्षारमत्यच्छमतिफेनिलम्।
पादेन लङ्घयामास हनूमानेष सागरम् ।। "

नात्र श्यामलतादेः कथनं तत्रोपयोगि स्यात् ।। ५४ ।।

अर्थोऽपुष्टः कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः।
सन्दिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च ।। ५५ ।।

व्यर्थीकृतः सनियमा नियमविशेषाविशेषपरिवृत्ताः।
साकाङ्क्षोक्तविरुद्धोद्धत्यपुनः स्वीकृतोऽश्लीलः ।।

विध्यनुवादनिवृत्तः सहचरभिन्नोऽर्थदोषाः स्युः ।। ५६ ।।

विशेषणानामुक्तानां फलं यत्र न विद्यते।
विशेष्यपोषकत्वेन सोऽपुष्टार्थो मतो यथा ।। ५७ ।।

"अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः।
मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति ।। "

विमुक्तविश्रमानन्दौ पुष्यतो न रवेर्जयम्।
कष्टः कृच्छ्रेण विज्ञेयः शब्दसङ्क्षेपतो यथा ।। ५८ ।।

"कलशे निजहेतुदण्डजः
किमु चक्रभ्रमकारिता गुणः।
स तदुच्चकुचौ भवन् प्रभा-
झरचक्रभ्रममातनोति यत् ।। "

अत्यन्तव्यवधानेन ज्ञायतेऽर्थोऽत्र नो हठात्।
अनादृतस्यैवोत्कर्षो वाक्ये स्याद्व्याहतो यथा ।। ५९ ।।

"जगति जयिनस्ते ते भावा नवेन्दुकलादयः
प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये।
मम तु यदियं याता लोके विलोचनचन्द्रिका
नयनविषयं जन्मन्येकः स एव महोत्सवः ।। "

अनादृत्येन्दुरेखाद्यं श्लाघ्यते चन्द्रिकात्विह।
एक एव द्विरुक्तोऽर्थः पुनरुक्तो मतो यथा ।। ६० ।।

"अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे
सेनानाथे स्थितेऽस्मिन् मम पितरि गुरौ सर्वधन्वीश्वराणाम्।
कर्णालं सम्भ्रमेण! व्रज कृप! समरं मुञ्च हार्दिक्यशङ्कां
ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः ।। "

पौनरुक्त्यमिहार्थस्य प्रसिद्धं समपादयोः।
वक्तव्ययोरर्थयोर्यो व्युत्क्रमो दुष्क्रमो यथा ।। ६१ ।।

"भूपालरत्न! निर्दैन्यप्रदानप्रथितोत्सव !।
विश्राणय तुरङ्गं मे मातङ्गं वा मदालसम् ।। "

मातङ्गस्यात्र निर्देशो न्याय्यः प्रागेव बुध्यताम्।
निर्लज्जैः कथितो योऽर्थो ग्राम्योसावुच्यते यथा ।। ६२ ।।

"सपङ्कतलविन्यस्तसारङ्गखुरसन्निभम्।
आरोमशं मृगाक्षीणां वन्दे मदनमन्दिरम् ।। "

इह ग्राम्यत्वमर्थस्य प्रसिद्धमवगम्यते।
द्वेधा प्रतीयमानोऽर्थः सन्दिग्धोऽनिर्णयाद्यथा ।। ६३ ।।

"मात्सर्यमुत्सार्य विचार्य कार्य-
मार्याः समर्यादमिदं वदन्तु।
सेव्या नितम्बाः किमु भूधराणा-
मुत स्मरस्मेरविलासिनीनाम् ।। "

विरक्तो वात्र रक्तो वा वक्ता चेन्निर्णयो भवेत्।
निर्हेतुको विना हेतुं कार्यं यत्रोच्यते यथा ।। ६४ ।।

"गृहीतं येनासीः परीभवभयान्नोचितमपि
प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः।
परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया-
द्विमोक्ष्ये शस्त्र! त्वामहमपि यतः स्वस्ति भवते ।। "

विमोक्ष्येऽहमपीत्यत्र न हेतुः शस्त्रमोचने!
स प्रसिद्धिविरुद्धो यो लोकैरविदितो यथा ।। ६५ ।।

"इदं ते केनोक्तं कथय कमलातङ्कवदने
यदेतस्मिन् हेम्नः कटिकमिति धत्से खलु धियम्।
इदं तद्दुस्साधाक्रमणपरमास्त्रं स्मृतिभुवा
तव प्रीत्या चक्रं करकमलमूले विनिहितम् ।। "

चक्रं मनोभवस्यास्त्रमप्रसिद्धमिहोच्यते।
विद्याविरुद्धः स्मृत्यादिविरोधात्कथितो यथा ।। ६६ ।।

"सदा स्नात्वा निशीथिन्यां सकलं वासरं बुधः।
नानाविधानि शास्त्राणि व्याचष्टे च श्रुणोति च ।।

उपरागं विना रात्रौ स्नानं तु श्रुतिगर्हितम्।
व्यर्थीकृतो यच्छ्‌लाघ्यानां व्यर्थत्वापादनं यथा ।। ६७ ।।

"प्राप्ताः श्रियः सकलकामदुघास्ततः किं
न्यस्तं पदं शिरसि विद्विषतां ततः किम्।
सन्तर्पिताः प्रणयिनो विभवैस्ततः किं
कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ।। "

अत्र व्यर्थत्वमेवोक्तमर्थानां न प्रयोजनम्।
नियमोऽनुचितेऽर्थे यः स स्यात्सनियमो यथा ।। ६८ ।।

"कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र।
अपसरणमेव शरणं मौनं वा राजहंसस्य ।। "

अत्रापसरणे युक्तो नियमेनैवकारतः
मौनं वेत्यन्यपक्षस्य सम्भवाद्दूषणं हि यत् ।। ६९ ।।

नियमे सति वक्तव्ये तत्त्यागोऽनियमो यथा।
"चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।
हतान्येकेन रामेण मानुषेण पदातिना ।। "

एकेनैवेति वक्तव्ये नैवात्र नियमः कृतः ।। ७० ।।

वाच्ये विशेषे सामान्याद्विशेषव्यत्ययो यथा।
"श्यामां श्यामलिमानमानयत भोः सान्द्रैर्मषीकूर्चकै-
र्मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां श्रियम्।
चन्द्रं चूर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके
येन द्रष्टुमहं क्षमे दशदिशस्तद्वक्त्रमुद्राङ्किताः ।। "

अत्र ज्योत्स्नामिति श्यामा विशेषोक्तिर्हि युज्यते ।। ७१ ।।

सामान्योक्तौ विशेषोक्तिः सामान्यव्यत्ययो यथा।
"कल्लोलवेल्लितदृषत्परुषप्रहारै
रत्नान्यमूनि मकरालय! मावमंस्थाः!
किं कौस्तुभेन विहितो भवतो न नाम
याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ।। "

रत्नसामान्यतो नाम सिन्धोरत्र न कौस्तुभात् ।। ७२ ।।

यत्र बाह्यार्थसापेक्षः साकाङ्क्षो गीयते यथा।
"द्वारं द्वारमिता वृष्टिः शीतवातादिदुःसहा।
दिशो नीरन्ध्रतिमिरनिगीर्णा इव निष्प्रभाः ।। "

आकाङ्क्षतेऽत्र बाह्यार्थं त्वरयोत्पाट्यतामिति ।। ७३ ।।

स स्यादुक्तिविरुद्धोऽर्थो विरोधस्त्वर्थयोर्यथा।
"न स्वर्गो नापि नरको धर्माधर्मौ न तत्फले ।
धन्योऽसि यस्त्वं सर्वस्वं ब्राह्मणेभ्यः प्रयच्छसि ।। "

परलोकाद्यभावोक्तेर्विरुद्धं दानकीर्तनम् ।। ७४ ।।

त्यक्तेऽपि पुनरुपात्तस्त्यक्तपुनः स्वीकृतो मतः स यथा।
"अरे! रामाहस्ताभरण! भसलश्रेणिशरण!
स्मरक्रीडाव्रीडाशमन! विरहिप्राणदमन!।
सरोहंसोत्तंस! प्रचलदलनीलोत्पलसखे!
सखेदोऽहं मोहं श्लथय कथय क्वेन्दुवदना ।। "

विरहिदमनेति मुक्त्वा स्वीकुरुते सखिपदेन पुनरेव ।। ७५ ।।

अश्लीलो मुख्यार्थादन्यो व्रीडाकरो मतः स यथा।
"हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः।
यथाऽस्य जायते पातो न तथा पुनरुन्नतिः ।। "

अत्र ध्वन्यो मुख्यादन्यार्थो ज्ञायते हि लज्जायै ।। ७६ ।।

विध्यनुवादविवृत्तो विध्यनुवादौ विवर्तितौ स यथा।
"प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा
मकेशवमपाण्डवं भुवनमद्य निस्सोमकम्।
इयं परिसमाप्यते रणकथाद्य दोःशालिना-
मपैतु रिपुकाननातिगुरुरद्य भारो भुवः ।। "

शयितः परिबोध्य स इति वक्तव्यमिहानुवादविधियुगलम् ।। ७७ ।।

सहोत्कृष्टैर्निकृष्टोक्तिर्भिन्नं सहचरैर्यथा।
"श्रुतेन बुद्धिर्व्यसनेन मूर्खता
मदेन नारी सलिलेन निम्नगा।
निशा शशाङ्केन धृतिः समाधिना
नयेन चालङ्क्रियते नरेन्द्रता ।। "

उत्कृष्टेभ्यः श्रुतादिभ्यो भिन्ने व्यसनमूर्खते ।। ७८ ।।

दोषा एव गुणीभावं प्राप्नुवन्ति क्वचित्क्वचित्।
"सोऽध्यैष्ट वेदांस्त्रिदशानयष्ट
पितॄनतार्ष्सीत्सममंस्त बन्धून्।
व्यजेष्ट षड्वर्गमरंस्त नीतौ
समूलघातं न्यवधीदरींश्च ।। "

उदाहरणकाव्यत्वान्न दुष्टं श्रुतिकट्वपि ।। ७९ ।।

प्रहेलिकाद्व्यर्थिबन्धैकाक्षरद्व्यक्षरादिषु।
क्लिष्टासमर्थनेयार्था वाचकद्या न दूषकाः ।। ८० ।।

"देवराजो मया दृष्टो वारिवारणमस्तके।
अदन्नर्कं च सोमं च विषं पीत्वा क्षयं गतः ।। "

वारिवारणशब्दोऽत्र नेयार्थोऽपि न दुष्यति।
असमर्थावपि विषक्षयौ स्वार्थे न दुष्यतः ।। ८१ ।।

अन्यदप्येवमेवोह्यमुदाहरणदर्शने।
"बल्यरिक्रत्वरी पातां साम्बुव्यम्बुघनोपमौ।
सदृशौ बककाकाभ्यां च वै तु हि च वै तु हि ।। "

निरर्थकं न दुष्टं स्याद्धास्येच्छान्दसभाषिते ।। ८२ ।।

बल्यरिक्रत्वरीत्यत्र कष्टसन्ध्यप्यदूषणम्।
"कण्डूतेरप्रतीकारादन्तर्लिङ्गविमर्दनात्।
न द्रवन्ति न तृप्यन्ति योषितो नीचमेहने ।। "

अत्र व्रीडाऽश्लीलमपि कामतन्त्रे न दूषणम् ।। ८३ ।।

"उत्तानोच्छूनमण्डूकपाटितोदरसन्निभे!।
क्लेदने स्रीव्रणे सक्तिरक्रिमेः कस्य जायते ।। "

जुगुप्साश्लीलमप्यत्र विरक्तोक्तौ न दूषणम्।
"पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव!।
विलसत्करेणुगहनं सम्प्रति सममावयोः सदनम् ।। "

सन्दिग्धमप्यत्रादुष्टं वक्तृबोद्धव्यभेदतः ।। ८४ ।।

"ग्रहैस्ततः पञ्चभिरुच्चसंस्थितै-
रसूर्यगैः सूचितभाग्यसम्पदम्।
असूत पुत्रं समये शचीसमा
त्रिसाधना शक्तिरिवार्थमक्षयम् ।। "

अप्रतीतमपि ज्योतिःप्रसङ्गेऽत्र न दुष्यति।
"म्रियतां म्रियतां तन्वि! किं वा जीविकयानया।
जीवितं सखि मानाय नैव चेज्जीवितेन किम् ।। "

अस्मिन्विषण्णवचने पौनरुक्त्यं गुणो मतः ।। ८५ ।।

"गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्गमा
सान्द्रस्रेहरसातिरेकविगलत्काञ्चीनितम्बाम्बरा।
मा मा मानद! मातिमामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनलि मे लीना विलीना नु किम्"
मामेत्यादि न्यूनपदं पारवश्ये न दूषणम्।
"यद्वच्च नाहितमतिर्बहुचाटुगर्भं
कार्योन्मुखः खलजनः कृतकं ब्रवीति।
तत्साधवो न न विदन्ति विदन्ति किं तु
कर्तुं वृथा प्रणयमस्य न पारयन्ति ।। "

गुणोऽन्ययोगव्यावृत्त्यै विदन्तीत्यधिकं पदम् ।। ८६ ।।

विषादे विस्मये हर्षे कोपे दैन्येऽवधारणे।
प्रसादनेऽनुकम्पायां द्विस्त्रिरुक्तं न दुष्यति ।। ८७ ।।

"अहो! सत्यमहो! धैर्यमहो! दानमहो! क्षमा।
अहो! शीलमहो! पुण्यं हरिश्चन्द्रस्य भूपतेः ।। "

अहोपदानामत्रोक्तिर्बहुधा विस्मये गुणः।
"सोऽयं मन्मथसर्वस्वं मन्मनोगृहदेवता।
लावण्याम्भोधिलहरी दृश्यतां दृश्यतां सखे ।। "

हृष्टस्य वाक्यफणितौ द्विरुक्तिरिह भूषणम् ।। ८८ ।।

"अस्तु नीरक्षसा पृथ्वी निःशल्यास्तु जगत्रयी।
तिष्ठ तिष्ठ क्षणं सङ्ख्ये हन्मि त्वां दशकन्धर! ।।

क्रुद्धस्य वचनेऽप्यत्र द्विरुक्तिर्नैव दुष्यति।
"देहि देहीति वदते देही देहीति यो वदेत्
देही देहान्तरं प्राप्य पुनर्देहीति नो वदेत् ।। "

दैन्येऽपि तद्वदेवात्र पुनरुक्तिर्न दूषणम् ।। ८९ ।।

"धन्विनां मृधुवनेषु गच्छता
रूपकोटिकथनेऽधिका क्षतिः।
स्विद्यते किमधिकं प्रयोजना
देकदानरवधः कृतः कृतः ।। "

अत्रावधारणे तद्वत्पुनरुक्तिर्न दूषणम्।
"प्रसीद कोपमुन्मुञ्च प्रसीद कलभाषिणि!।
तव तन्वि ! पदोपान्ते लुठत्यसमयं प्रियः ।। "

उक्तस्यैवात्र कथनं गुण एव प्रसादने ।। ९० ।।

हन्यते सा वरारोहा स्मरेणाकाण्डवैरिणा।
हन्यते चारुसर्वाङ्गी हन्यते मञ्जुभाषिणी ।। "

गुण एवानुकम्पायामत्रापि पुनरुक्तता।
"दिङ्मातङ्गघाटाविभक्तचतुराघाटा मही साध्यते
सिद्धा सा च वदन्त एव हि वयं रोमाञ्चिताः पश्यत।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो
यस्मादाविरभूत्तदद्भुतमिदं तत्रैव चास्तं गतम् ।। "

अद्भुते गर्भितमपि वदन्तेत्याद्यदूषणम् ।। ९१ ।।

"नेयं निशा दिवस एव भवेत्कथं मे
निद्रान्यथा नयनयोर्युगलं न याति।
नायं शशी तपन एव तनोति ताप-
मुत्पात एव यदि मास्तु विभान्ति ताराः ।। "

दिवसत्वरवित्वोक्तिर्विरहे रात्रिचन्द्रयोः।
सा प्रत्यक्षविरुद्धापि गुणोऽत्र न तु दूषणम् ।। ९२ ।।

"मा भवन्तमनलः पवनो वा
वारणो मदकलः परशुर्वा।
वाहिनीजलभरः कुलिशं वा
स्वस्ति तेऽस्तु लतया सह वृक्ष! ।। "

प्रसिद्धकारणैर्नेयो नाशयत्वित्यदूषणम्।
"चन्द्रं गता पद्मगुणान्न भुङ्क्ते
पद्माश्रिता चान्द्रमसीमभिख्याम्।
उमामुखं तु प्रतिपद्म लोला
द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ।। "

दिवा न द्योतते चन्द्रः पद्मं नो जृम्भते निशि ।। ९३ ।।

प्रसिद्धत्वादिहानुक्तौ निर्हेतुवचनं गुणः।
हासस्य यशसः शौक्ल्यं लौहित्यं क्रोधरागयोः ।। ९४ ।।

ज्योत्स्नापानं चकोराणां कार्ष्ण्यं पापायशोदिवाम्।
चन्द्रचन्दनकर्पूरवनवाततटित्त्वताम् ।। ९५ ।।

मुक्ताहारस्रगादीनां दाहकत्वं वियोगिषु।
वेधकत्वं कटाक्षस्य पानं रूपस्य दृष्टिभिः ।। ९६ ।।

इन्दीवरारविन्दादेः सरिदर्णवयोरपि।
कुसुमभ्रमराकाण्डधनुर्ज्याश्च मनोभुवः ।। ९७ ।।

तच्छराणां मनो लक्ष्यं वसन्तः सुहृदिष्यते।
एवमादिकृतं काव्येष्वसदेव प्रसिद्धिमत् ।। ९८ ।।

कर्णावतंसकं शिरःशेखरं कर्णकुण्डलम्।
सन्निधानादिबोधार्थमेषु कर्णादिकीर्तनम् ।। ९९ ।।

मुक्तहारपदं त्वन्यरत्नयोगनिवृत्तये।
आरूढत्वप्रतीत्यर्थं धनुर्ज्यापदमुच्यते ।। १०० ।।

पुष्पमालेति सुरभिपुष्पनिर्मितताधिये।
कलभे करिशब्दोक्तिस्तन्मात्रत्वप्रतीयते ।। १०१ ।।

इत्यादिषु परिज्ञेयं स्थितेष्वेव समर्थनम्।
आभासो रसभावानां स्वशब्दग्रहणं तथा ।। १०२ ।।

कष्टकल्पनया व्यक्तिरनुभावविभावयोः।
प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः ।। १०३ ।।

अकाण्डे प्रथनच्छेदावङ्गस्याप्यतिविस्तृतिः।
अङ्गिनोऽननुसन्धानं प्रकृतीनां विपर्ययः ।। १०४ ।।

अनङ्गस्याभिधानं च रसे दोषाः स्युरीदृशाः।
आभासत्वं रसस्य स्यादनौचित्याद्द्विधा यथा ।। १०५ ।।

"स्तुमः कं वामाक्षि! क्षणमपि विना यं न रमसे
विलेभे कः प्राणान् रणमखमुखे यं मृगयसे।
सुलभ्ये! को जातः शशिमुखि! यमालिङ्गसि बला-
त्तपः श्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ।। "

अनेककामो विषयस्त्वभिलाषोऽत्र लक्ष्यते।
"दष्टमुक्तमधरोष्टमम्बिका
वेदनाविधुतपाणिपल्लवा।
शीतलेन निरवापयत् क्षणात्
मौलिचन्द्रशकलेन शूलिनः ।। "

पित्रोरिवात्र शिवयोर्नार्हं सम्भोगवर्णनम् ।। १०६ ।।

भावानामनौचित्यादाभासत्वं मतं यथा।
"राकासुधाकरमुखी तरलायताक्षी
सा स्मेरयौवनतरङ्गितविभ्रमाढ्या।
तत्किं करोमि विदधे कथमत्र मैत्री
तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ।। "

अनिच्छन्त्यामिवामुत्र चिन्तनौचित्यगर्हिता ।। १०७ ।।

रसभावान्तरेष्वेवमाभासत्वमवेद्यताम्।
दोषो रसानां भावानां स्वशब्दग्रहणाद्यथा ।। १०८ ।।

"आलोक्य कोमलकपोलतलाभिषिक्त
व्यक्तानुरागसुभगामभिराममूर्तिम्।
पश्यैष बाल्यमतिवृत्य विवर्तमानः
श्रृङ्गारसीमनि तरङ्गितमातनोति ।। "

अत्र स्वशब्दग्रहणं शृङ्गारेति हि दुष्यति।
"सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे
सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यान्दिनि।
सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे
पार्वत्या नवसङ्गमप्रणयिनी दृष्टिः शिवायास्तु वः ।। "

व्रीडादिभिः पदैर्दोषो ग्रहणं व्यभिचारिणाम् ।। १०९ ।।

"सम्प्रहारे प्रहरणैः प्रहाराणां परस्परम्।
झणत्कारैः श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ।। "

उत्साहस्य स्थायिनौऽत्र दोषस्तच्छब्दकीर्तनम्।
"परिहरति रतिं मतिं लुनीते
स्खलति भृषं परिवर्तते च भूयः।
इति बत! विषमा दशास्य ! देहं
परिभवति प्रसभं किमत्र कुर्मः ।। "

रत्यादिपरिहारादेः करुणेऽपि च सम्भवात्।
विप्रलम्भेऽनुभावानामत्र स्यात्कष्टकल्पना ।। ११० ।।

"प्रसादे वर्तस्व प्रकटय मुदं सन्त्यज रुषं
प्रिये! शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः।
निदानं सौख्यानां क्षणमभिमुखं स्थापय मुखं
न मुग्धे ! प्रत्येतुं प्रभवति गतः कालहरिणः ।। "

शान्तेऽनुभावः कालस्यानित्यत्वपरिकीर्तनम्।
शृङ्गारे प्रतिकूलं तत् प्रतिकूलग्रहस्त्विह ।। १११ ।।

दीप्त्यादिरसदोषाणां प्रबन्धविषयत्वतः।
प्रबन्धेष्वेव लक्ष्याणि ज्ञेयानि रसकोविदैः ।। ११२ ।।

सर्वदोषरहितं सगुणं यत्
काव्यमव्यययशस्करमुर्व्याम्।
त्वच्चरित्रमिह साधुनिषेव्यं
गर्वितारियमगण्डरगण्ड! ।। ११३ ।।

इत्यमृतानन्दयोगीन्द्रविरचतेऽलङ्कारसङ्ग्रहे दोषनिर्णयो नाम षष्ठः परिच्छेदः ।।