अलङ्कारमणिहारः (भागः ४)/स्वरादिचित्रालङ्काराः (१२५)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   

अथ स्वरस्थानव्यञ्जनादिनियमचित्रम्

स्वरस्थानव्यञ्जनानां नियमो दुष्करो हि यः ।
प्रोक्तश्चतुःप्रभृत्येष दर्श्यते सुकरः परः ॥

 दुष्करचित्रेषु मध्ये स्वरस्थानव्यञ्जनानां स्वराः अकारादयः अचः स्थानानि 'अकुहविसर्जनीयानां कण्ठः' इत्याद्युक्तानि कण्ठादिस्थानानि । व्यञ्जनानि हल्वर्णाः तेषां नियमः प्राक्तनैर्यो दुष्करतया प्रोक्तः एषः चतुःप्रभृति दर्श्यते । चतुःप्रभृतीत्यनेन चतुस्त्रिद्व्येकरूपतया चत्वारो भेदाः प्रदर्श्यन्त इत्युक्तं भवति । परः अन्यस्तु पञ्चादिः सुकरः अनतिप्रयाससाध्यत्वात् । अतस्तदुदाहरणं यथायथमूह्यम् ॥

 तत्र प्रथमं चतुस्स्वरनियमचित्रमुदाह्रियते । यथा--

 कामो मोहो लोभोऽप्यतिमात्रं गळति तव पदध्यानात् । भोगो वा योगो वा मोक्षो वाऽब्जाक्ष तव कटाक्षात्स्यात् ॥ २३२८ ॥

 अत्र अकार आकार इकार ओकारश्चेति चत्वार एव स्वरा निबद्धाः ॥


 यथावा--

 सौभाग्यकैरवग्लौः पद्मास्थैर्यप्रभावताराद्यौः । अनपायभवार्णवनौरनघा भद्राय भासतामवनौ ॥ २३२९ ॥

 ग्लौः चन्द्रमाः । स्थैर्यं च प्रभावाश्च त एव ताराः तारकाः तासां द्यौः । पद्मा लक्ष्मीः । अत्र अकार आकार ऐकार औकारश्चेत्येते चत्वार एव स्वरा निबद्धाः ॥

 त्रिस्वरनियमो यथा--

 या नागाद्र्यावासा सा पायान्मां सदा भवापायात् । श्रीः ह्रीधीश्रीकीर्तीः प्रीतीर्दधती हरन्तीतीः ॥ २३३० ॥

 नागाद्र्यावासा शेषाद्रिनिवासा । हीः अकार्ये लज्जा । धीः प्रज्ञा श्रीः प्रभा । कीर्तिः यशः । प्रीतिः आश्रितेषु प्रेमा । तस्याः विषयभेदाद्बहुत्वम् । दधती पुष्णती । ईतीः उपप्लवान् । 'ईतिर्डिम्बप्रवासयोः' इत्यमरः । हरन्ती श्रीः लक्ष्मीः भवापायात् संसाररूपादपायात् पायात् इति योजना । अत्र अकार आकार ईकार इत्येते त्रय एव स्वराः ॥

 यथावा--

 विनुतस्सततं मुनिभिर्मुमुक्षुभिर्ननु बुभुक्षुभिरपि त्वम् । तत्तदभिलषितमखिलं वितरसि मुचुकुन्दवरद मुरमथन ॥ २३३१ ॥

अत्र अकार इकार उकार इति त्रय एवैते स्वरा ग्रथिताः ॥

 द्विस्वरनियमो यथा--

 वेदेवेदे वेद्ये ध्येयेऽमेये प्रियेऽक्रियेऽक्षेये । गेयेऽजेये देवे देवेशेड्येऽक्षि मे रेमे ॥ २३३२ ॥

 वेदेवेदे प्रतिवेदं वेद्ये ज्ञेये । ध्येये ध्यातव्ये । अमेये ‘यतो वाचो निवर्तन्ते' इत्याद्युक्तरीत्या वागाद्यपरिच्छेद्ये परिच्छेदत्रितयागोचरे वा । प्रिये निरतिशयप्रीतिविषये अक्रिये ‘निष्क्रियं निष्कलम्’ इत्याद्युक्तरीत्या अकर्मवश्ये । क्षेतुं योग्यः क्षेयः स न भवतीत्यक्षेयः तस्मिन् इदं ‘क्षय्यजय्यौ' इत्यस्य प्रत्युदाहरणम् । उपलक्षणमेतन्सर्वभावविकाराणां राहित्यस्य । गेये गातुं योग्ये । जेतुं योग्यो जेयः स न भवतीत्यजेयः तस्मिन् । इदमप्युदाहृतसूत्रप्रत्युदाहरणमेव । देवेशैः ब्रह्मादिभिः ईड्ये स्तुत्ये । देवे भगवति श्रीनिवासे मे मम अक्षि लोचनं रेमे अरमत तन्निध्यानैकतानमभवदिति भावः । अत्र रेमे इति लिट्प्रयोगस्स्वस्य प्रमोदपारवश्यप्रयुक्तपारोक्ष्यं सूचयति । अत्र इकार एकार इत्येतयोर्द्वयोरेव स्वरयोर्यन्त्रणम् ॥

 एकस्वरनियमचित्रं यथा--

 त्वच्चरणशरणवरणक्षतसकलमलस्य कमलनयन मम । भवदवपथसंचरणश्रममपनय वरद परदरक्षपण ॥ २३३३ ॥

 परेभ्यः कामादिवैरिभ्यः यः दर: भयं तस्य क्षपणः ध्वंसकः तस्य संबुद्धिः । अत्र ह्रस्वाकारस्यैकस्यैव स्वरस्य निबन्धः ॥


 अथ स्थाननियमः । तत्र चतुस्स्थाननियमो यथा--

 दृष्टिश्रुतिभूभृद्विभुनुतिसृतिभृभृद्भुवि विभीस्सुधीवृत्ती । नीतिविनीतिद्युतिधृतिविभूतिभूमिश्श्रुतिस्मृतिस्थितिवित् ॥ २३३४ ॥

 दृष्टिश्रुतिः चक्षुश्श्रवाः स चासौ भूभृत् शेषगिरिरित्यर्थः । तस्य विभुः श्रीनिवास: तस्य नुतिसृतिभृत् स्तुतिसरणिभर्ता स्तोतेत्यर्थः । ईदृशो जनः भुवि धीश्च वृत्तं चरित्रं तच्च धीवृत्ते शोभने च ते सुधीवृत्ते च ते अस्य स्त इति सुधीवृत्ती मत्वर्थीय इनिः । शोभनबुद्धिश्शोभनाचारश्चेत्यर्थः । नीतिः नयः विनीतिर्विनयः द्युतिः तेजः धृतिः धैर्यं विभूतिरैश्वर्यं तासां भूमिः आश्रयः श्रुतिर्वेदः स्मृतिर्धर्मशास्त्रं एतयोः स्थिति: मर्यादा तां वेत्तीति श्रुतिस्मृतिस्थितिवित् 'मर्यादा धारणा स्थितिः' इत्यमरः । भवतीति शेषः । अत्र केवलतालव्यमूर्धन्यदन्त्योष्ठ्यैरेव वर्णैर्घटना ‘आनुनासिक्यमेषामधिको गुणः’ इति भाषणात्प्रकृते नकारस्य दन्त्यत्वमात्रविवक्षया न स्थाननियमभङ्ग इति ध्येयम् । इदं निष्कण्ठ्यवर्णाचित्रमपि । किंचात्र इकार ईकार उकार ऊकार ऋकार इत्येते पञ्चैव स्वरा न्यबध्यन्त । यद्यपि पञ्चस्वरैरेव घटनं नातिप्रयाससाध्यमित्यनाश्चर्यमित्यवोचाम । तथापि वर्णस्थाननियमे स्वरनियमस्याप्यानुषङ्गिकत्वे तदप्याश्चर्यावहमेवेति ध्येयम् ॥

 स्फीते मुनिभिर्ध्याते श्रीसिन्धुसुतेऽद्भुते द्युसिन्धुयुते । शेषे शेषिणि शैलेऽभ्येषि प्रीतिं प्रियेणोच्चैः ॥ २३३५ ॥

 हे मुनिभिर्ध्याते हे श्रीसिन्धुसुते हे शेषिणि स्फीते अभिवृद्धे अद्भुते विचित्रे द्युसिन्धुयुते आकाशगङ्गान्विते शेषे शैले शेषाद्रौ प्रियेण श्रीनिवासेन सह उच्चैः निरतिशयां प्रीतिं मुदं अभ्येषीति योजना । अयं श्लोकः निष्कण्ठ्यवर्णग्रथितः । निषेध्यः कण्ठ्यश्चात्र केवलकण्ठ्यः, तेन कण्ठतालुस्थानकयोः एकारैकारयोः कण्ठोष्ठस्थानकस्य ओकारस्य सत्त्वेऽपि न दोषः ॥

 रक्षोगणसुक्षोभणदक्षोल्बणबाणतूणबाणासः । स्वक्षो नतपक्षोन्नतिरक्षोऽवतु मां रमानाथः ॥

 शोभने अक्षिणी यस्य सः स्वक्षः ‘बहुव्रीहौ सक्थ्यक्ष्णोः’ इति समासान्तष्टच् । ‘न पूजनात्’ इति निषेधस्तु, बहुव्रीहौ सक्थ्यक्ष्णोः' इत्यतः प्रागेव इति नियमितमाकरे । अत्र निस्तालव्यैरेव वर्णैर्न्निबन्धः, स्वरपञ्चकनियमोप्यानुषङ्गिकः ॥

 किञ्चिदचञ्चलविभवं कञ्चुकिनाथाचलाञ्चलोदञ्चि । त्वञ्चापलं विमुञ्चत्पञ्चायुधमञ्च दैवतं चेतः ॥ २३३७

 अत्र कण्ठ्यतालव्यदन्त्यौष्ठ्यवर्णान्येव निबद्धानि । इदमेव निर्मूर्धन्यमिति व्यवह्रियते ॥

 शिखरविशङ्कटवेङ्कटगिरिकटकविहारि हारिहाररुचि । अयि किमपि वैभवं भवभवभयभरहरणमेव परिचर गीः ॥ २३३८ ॥

 शिखरैः विशंकटः विशालः यो वेंकटगिरिः तस्य कटके विहरतीति तथोक्तं हारिणी मनोहरा हाररुचिः यस्य तत् । भवभव

भयभरहरणं भवात् भवः उत्पन्नः यो भयभरः तस्य हरणं हर्तृ किमपि वैभवमेव वैभवत्वेनाध्यवसितं परं ब्रह्मैव अयि गीः हे वाणि ! परिचर तद्गुणानेवानुवर्णयेत्यर्थः । अत्र कण्ठ्यतालव्यमूर्धन्यौष्ठ्यवर्णैरेव निबन्धः । इदमेव निर्दन्त्यचित्रम् । अत्र केवलदन्त्यस्यैव निषेधः, तेन दन्तोष्ठस्थानकवकारसद्भावेऽप्यदोष इति ध्येयम् ॥

 यथावा--

 फणिशेखरशिखरिशिखामरगणपरिबृढमणीशमञ्जुरुचिम् । रमणीरमणीयोरश्शरणं शरणं कमप्यये शरणम् ॥ २३३९ ॥

 शरणं रक्षितारं रमणीरमणीयं उरश्शरणं हृदयगृहं यस्य तं कमपि पुमांसं शरणमये उपायत्वे स्वीकरोमीत्यर्थः ॥

उपाये गृहरक्षित्रोश्शब्दश्शरणमित्ययम् ।
वर्तते सांप्रतं चैष उपायार्थैकवाचकः ॥

इत्यहिर्बुध्न्यसंहितोक्तेः । इदं सर्वधा निर्दन्त्यम् ॥

 ममैव प्रपन्नानन्दस्तुतौ--

 जगदीशहृदयनिलया जगताञ्जननी जनार्तिहरणचणा । जलजदलायतनयना जलनिधितनया जयान्कलयतान्नः ॥ २३४० ॥

 अत्र कण्ठ्यतालव्यमूर्धन्यदन्त्यवर्णानामेव निबन्धः । इदमेव निरोष्ठ्यमित्युच्यते । अत्र अकार आकार इकार ईकार ऋकारश्चेत्येते पञ्चैव स्वरा निबद्धा इति विच्छित्तिविशेषः ॥

 यथावा--

 कनकनगकटकतटकनदगगहनग गगनसदनसततनत । जगदनघजयद घनदय जय गजदरदहनजलद नरकहर ॥ २३४१ ॥

 कनकनगस्य वृषाद्रेः कटकस्थ तटे कनतां लसतां अगानां तरूणां गहनं काननं गच्छतीति गहनगः तस्य संबुद्धिः गगनसदनैः दिविषद्भिः सततनत । जगतां अनघं दुःखासंभिन्नं जयं ददातीति जगदनघजयदः तस्य संबुद्धिः । गजदरदहनजलद गजस्य दरः भयमेव दहनः पावकः तस्य जलद । नरकहर नरकारे जय उत्कर्षं प्राप्नुहि । अत्रापि कण्ठ्यतालव्यमूर्धन्यवर्णा एव ग्रथिताः । इदं निरोऽष्ठ्यमेकस्वरं सर्वलघु चेति विच्छित्तिविशेषः पूर्वस्मात् ॥

 शेषाचलभूषा शुभवेषा भाषापतिस्तुतिसतोषा । योषाहृदयविभूषा शेषाशेषाऽऽदिदेवता सैषा ॥

 योषा लक्ष्मीः हृदयविभूषा यस्यास्सा सैषा आदिदेवता । शेषाः शेषभूताः अशेषाः सर्वे यस्यास्सा । अत्र श्रीनिवासमुद्दिश्य अशेषशेषित्वं विधीयते । इदं निर्नासिक्यवर्णं चित्रम् ॥

 एवं चतुस्स्थानवर्णनियमो दर्शितः । अथ त्रिस्थानवर्णनियम उदाह्रियते--

 यथा--

 कान्त्यानन्त्यात्कान्ता शान्त्या चात्यन्तया दयाजलधिः । कनकनगनाथदायिता कनति कनत्काञ्चिकाञ्चिता जगति ॥ २३४३ ॥


 कान्तेः आनन्त्यात् अत्यन्तया शान्त्या च कान्ता मनोज्ञा दयाजलधिः कनन्त्या प्रकाशमानया कनककाञ्चिकया अञ्चिता कनकनगनाथदयिता जगति जयतीति योजना । इदं कण्ठ्यतालव्यदन्त्यवर्णैरेव निबद्धमिति निरोष्ठ्यमूर्धन्यचित्रम् । अत्रापि ‘दृष्टिशृतिभूभृद्विभु’ इति प्रागुदाहृतनिष्कण्ठ्यचित्रपद्य इव नकार ईकारयोर्दन्त्यतालव्यत्वमात्रविवक्षया न स्थाननियमभङ्ग इति ध्येयम् । अन्यथा चतुस्स्थानवर्णनियमस्यैवोदाहरणं भवेत् । अत्र अकार आकार इकार इति त्रिस्वरनियमोप्यभ्युच्चीयते ॥

 यथावा--

 सकलेहितदाय जयश्शकलितदैत्याय सकलशशियशसे । सजलजलदालिलालितदीधितये स्तात्खगाचलेशाय ॥ २३४४ ॥

 सकलशशियशसे पूर्णचन्द्रसदृशकीर्तये । खगाचलेशाय श्रीनिवासाय जयः स्तात् । इति योजना । ‘जितं ते पुण्डरीकाक्ष' इतिवदत्र भगवतो जयाशासनम् । इदं तु शुद्धत्रिस्थानवर्णनियमोदाहरणं नासिक्यासंवलितत्वादिति पूर्वस्माद्विशेषः ॥

 द्विस्थानवर्णनियमो यथा--

 भामाभामापोहो भोगाभोगाभबाहुभागघहा । भूभागमखभुगगभाङ्मामकपापापहो महाभूमा ॥

 भामायाः सत्यभामायाः भामः कोपः 'भाम क्रोधे’ इत्यस्माद्भावे घञ् । 'भामः क्रोधे रवौ दीप्तौ' इति मेदिनी । सः अपोह्यते अपनीयतेऽनेनेति भामाभामापोह:। भोगस्य अहिकायस्य आभोग: परिपूर्णतेवाभोगो यस्यास्सा तथोक्ता आभा ययोस्तौ

बाहू भजत इति भोगाभोगाभबाहुभाक् । भूभागमखभुगगभाक् । भूभागं भूमिप्रदेशं मखभुगगं स्वर्द्रुमं भाजयति सेवयतीति तथा । भजतेर्ण्यन्तात् क्विप् । कल्पतरुं भुवं नीतवानित्यर्थः । यद्वा ‘भज विश्राणने’ इत्यस्माच्चौरादिकात् क्विप् । कल्पतरुं भूलोकाय विश्राणितवानित्यर्थः । अतएव भामाभामापोह इत्युक्तम् । अतएव महाभूमा विपुलमहिमा अघहा अघासुरहन्ता भगवान्यदुनन्दनः मामकपापापहः मदीयदुरितहरः भवतीति शेषः । अत्र कण्ठ्यौष्ठ्यवर्णैरेव निबन्धनमिति निस्तालव्यमूर्धन्यदन्त्यचित्रमिदम् । अत्रापि मकारङकारयोः कण्ठ्यौष्ठ्यमात्रत्वं पूर्ववत् अकार आकार उकार ऊकार आकारश्चेति पञ्चैव स्वरा इति स्वरनियमोऽप्यभ्युच्चीयते ॥

 एकस्थानवर्णनियमो यथा--

 काकाघहाऽङ्कगाङ्कः खगाङ्कगागागगाहकः खगगः । अङ्कागाङ्काङ्काङ्कगकङ्कककङ्काकहा खगाङ्काङ्कः ॥ २३४६ ॥

 काकाघहा काकस्य ऐन्द्रेर्वायसस्य अघं दुःखं हन्तीति तथोक्तः । अङ्कगाङ्कः अङ्कं श्रीवत्साख्यं लक्षणं गच्छतीत्यङ्कगः अङ्कः क्रोडं यस्य सः श्रीवत्सवक्षा इत्यर्थः । कोशस्त्वनन्तरमेवोदाहरिष्यते । खगाङ्कगागागगाहकः--खगाः द्युसदः अङ्कगाः समीपगाः यस्य सः अत्युन्नत इति यावत् । तथोक्तः अगागः फणिगिरिः 'अगो नगश्च भुजगे नाभौ भूरुहि भूधरे’ इति रत्नमाला ।

'अगस्स्यान्नगवत्तरौ । शैले सरीसृपे भानौ’ इति हेमचन्द्रश्च । खगाङ्कगश्चासावगागश्च खगङ्कगागागः तस्य गाहकः उन्नततमं शेषाचलं प्रविष्ट इत्यर्थः । गाहतेर्ण्वुल् । खगं खगेन वा गच्छ

तीति खगगः तार्क्ष्यवाहन इत्यर्थः । 'अन्यत्रापि दृश्यत इति वक्तव्यम्’ इति’ वार्तिकात् गमेर्डः । यद्वा खगं भानुं गच्छतीति खगगः सवितृमण्डलान्तर्वर्तीत्यर्थः 'य एषोऽन्तरादित्ये' इत्यादिश्रुतिभ्यः । अङ्कागाङ्काङ्काङ्कगकङ्कककङ्काकहा—अङ्कं संख्यां न गच्छतीत्यङ्कागः असंख्याक इत्यर्थः । यद्वा अङ्कं कलङ्कं न गच्छतीत्यङ्कागः निष्कलङ्क इत्यर्थः । योऽङ्कः चित्रयुद्धं तस्य अङ्कः स्थानं तस्य अङ्कं समीपं गच्छतीत्यङ्काङ्कगः । यद्वा अङ्कः अपराधः तं न गच्छतीत्यङ्कागः निरपराध इत्यर्थः । तथोक्तश्चासावङ्काङ्कगश्चेति विशेषणोभयपदः कर्मधारयः । तादृशो यः कङ्ककः गृध्रः जटायुरित्यर्थः । तस्य कङ्काकहा कङ्कः यमः तत्कृतं यत् अकं दुःखं तद्धन्तीति तथोक्तः । हन्तेः क्विप् 'या गतिर्यज्ञशीलानाम्' इत्यादि वदता भगवता तस्य दिव्यस्थानप्रदानेन यमविषयगमनदुःखस्य गळहस्तितत्वादिति भावः ।

अकं दुःखाघयोरङ्को भूषारूपकलक्ष्मसु ।
चित्राजौ नाटकाद्यंशे स्थाने क्रोडेऽन्तिकागसोः ॥

 इति हेमचन्द्रः । खगाङ्काङ्कः खं परमव्योम गच्छतीति खगः यः अङ्कः ‘दिव्यं स्थानमजरं चाप्रमेयम्’ इत्याद्युक्तः श्रीवैकुण्ठाख्यस्थानविशेषः । तस्य अङ्कः आभरणभूत इत्यर्थः । अत्र भगवांस्तार्क्ष्यवाहनः परमव्योमनिलयश्श्रीवत्सवक्षा एव रामात्मनाऽवतीर्य काकासुरविपदपनयनो जटायुनिश्श्रेयसविश्राणयिता च भूत्वाऽर्चात्मना शेषाद्रौ निवसतीति निर्गळितोऽभिप्रायः । परमव्योमनिलयत्वादिना परत्वं विभवरूपावस्थानेन सौलभ्यं अर्चात्मनाऽवस्थानेन तस्यैव निरतिशयत्वं च व्यञ्जितम् । अत्र कण्ठ्यैरेव स्वरैर्व्यञ्जनैश्च पद्यरचना । दुष्करमिदं चित्रमित्याहुः ॥



अथ वर्णनियमः.

 तत्रापञ्चवर्गीणचित्रं यथा, ममैव प्रपन्नानन्दस्तुतौ--

 सरसिरुहालयवासा या सा शिशिरांशुहारिलवहासा । वरसारसशालिशया सरसा सा श्रीर्विशिश्रिये शिरसा ॥ २३४७ ॥

 लवहासो मितहसनम् । सा श्रीः शिरसा विशिश्रिये आश्रिता । अत्र कचटतपवर्गीयवर्णवैधुर्येण यकारादिवर्णा एव न्यबध्यन्त । इदमेवास्पर्शवर्णचित्रम् ॥

 यथावा--

 वासवसवहर सवहरवरवश्यासुरवरासशौर्य हरे । वल्लववलयसहाय स्वयं श्रिया सह विहारशीलाव्याः ॥ २३४८ ॥

 वासवसवस्य इन्द्रयागस्य हर । सवहरवरस्य शम्भुदत्तवरस्य वश्यः यः असुरवरः बाणासुरः तं अस्यति निरस्यतीति तथोक्तं शौर्यं यस्य तस्य संबुद्धिः । वल्लववलयस्य गोपोलजालस्य सहाय श्रिया सह विहारशील हरे ! स्वयं मत्कृतकिंचित्कारमनपेक्ष्य अव्याः रक्ष । इदमपि पूर्ववदपञ्चवर्गीयचित्रम् ॥

 अनन्तस्थोष्मवर्णचित्रं यथा--

 कनककनदनघधामा घनभूमा काऽपि जगदधिपभामा । दत्तां मम मतिमत्तामतिमत्तानां पदान्तिकं मा गाम् ॥ २३४९ ॥


 घनभूमा सान्द्रमहिमा जगदधिपभामा सर्वेश्वरदयिता श्रीः मम मतिमत्तां दत्ताम् । अतिमत्तानां सुराणां नराणां वा पदान्तिकं चरणनिकटं स्थानसविधं वा मा गाम् । यथा दुर्दान्तेश्वरम्मन्यान्तिकं न गच्छेयं तथा मम मतिमत्तां संपादयत्विति भावः । अत्र कादिमावसानास्स्पर्शा एव वर्णा निबद्धाः । न तु यादयोऽन्तस्थाश्शादय ऊष्माणश्चेति व्यञ्जननियमः । अकार आकार इकार इति त्रय एव निबद्धा इति स्वरनियमोऽप्यनुसंधेयः ॥

 एकवर्गीयवर्णनियमो यथा--

 धानादानाधीने दीनानाथाधिधूनननिदाने । नानानन्दनिधाने नाथेऽनधुनातने नतिं नाथे ॥

 धानानां पृथुकतण्डुलानां दानेन अधीने आयत्ते कुचेलस्येति भावः । दीनानां अनाथानां शरण्यान्तरविरहिणां आधेः मनोव्यथायाः धूननस्य निदाने आदिकारणे । नानानन्दानां शतगुणितोत्तरक्रमेणाभ्यस्यमानानामानन्दानां निधाने निधौ अनधुनातने नाथे पुराणपुरुषे भगवति नतिं शरणागतिं नाथे आशासे 'आशिषि नाथः' इत्यात्मनेपदम् । अत्र तवर्गीयवर्णैरेव निबन्धः ॥

 यथावा--

 नाथोऽनाथानां नो नेताऽनन्तोऽधुना धुनातु तथा । तां दीनतां ततो नो धिनोतु धीदानतो नतानेतान् ॥ २३५१ ॥

 नाथः जगदीश्वरः अनाथानां रक्षकान्तरविधुराणां नः अस्माकं नेता अनन्तः भगवान् तां अनिर्वचनीयां दीनतां दैन्यं अधुना सांप्रतमेव तथा धुनातु अपुनरुन्मेषमुन्मूलयत्वित्यर्थः ।


ततः नतान् एतान् नः अस्मान् धीदानतः ‘ददामि बुद्धियोगं तम्’ इत्युक्तबुद्धियोगवितरणेन धिनोतु प्रीणयतु । अत्रापि केवलतवर्गीयवर्णनियमः ॥

 यथावा--

 भाभाम्ब ममाबाभा भूभूपापाभिभूभामे । पापाम्बुपपीबिम्बोपमभूमेऽभीमभाभूमे ॥ २३५२ ॥

 भुवि भवति जायत इति भूभूः यः पापः पापिष्ठः भीपुत्रो नरकः । यद्वा भूभुवः भुवि कृतजन्मानः पापाः प्रलम्ब बकचाणूर कंस शिशुपालादयः तं तान्वा अभिभवतीति भूभूपापाभिभूः भगवान्वासुदेवः । तस्य भामे ललने । पापाम्बूनि अम्बतुल्यानि लोकपापानि तेषां पपीबिम्बं सूर्यमण्डलं उपमा यस्य सः तादृशो भूमा महिमा यस्यास्सा तस्यास्संबुद्धिः अनेन वल्लभसाधर्म्यं सूचितम् । ‘नित्यं तद्धर्मधर्मिणी' इति ह्युच्यते । 'डाबुभाभ्यामन्यतरस्याम्' इति डाप् । पातीति पपीः 'यापोः किद्द्वे च' इति पातेरीप्रत्ययो द्वित्वं च । ‘पपीस्सूर्यः’ इति शाब्दिकाः । भीमा दुरात्मनामत्युग्रा या भाः प्रभावः ‘भाः प्रभावे च दीप्तौ च' इति मेदिनी । तस्याः भूमिः आधारभूता । तस्यास्संबुद्धिः ‘सीतायास्तेजसा दग्धां । न तदग्निशिखा कुर्यात्' इत्यादिप्रसिद्धरिपुजनभयंकरदिव्यप्रभावाश्रयभूतामिति भावः । यद्वा अभीमेति छेदः । अभिमा अनुग्रा ‘शीतो भव

हनूमतः । न कश्चिन्नापराध्यति’ इत्याद्युक्तरीत्या आश्रितविषये सौम्या भाः प्रभावः तस्याः भूमिरित्यर्थः । हे अम्ब ! त्वमिति शेषः । मम भाभा भस्य नक्षत्रस्य आभेवाभा यस्यास्तथाभूता सती अबाभाः भृशमदीप्यथा इत्यर्थः । भातेर्यङ्लुगन्ताल्लङ् । अत्र पवर्गीयैरेव वर्णैर्निबन्धः ॥

 द्विव्यञ्जनं यथा--

 नामाननानि नामामनानि मामानिनीननामानि । नूनमनुन्नमनमना नमामि नानाननानमनमेनम् ॥ २३५३ ॥

 नामाननानि नाम आमनानि मामानिनीननामानि नूनं अनुन्नमनमनाः नमामि नाना अननानमनं एनं इति पदच्छेदः । अविद्यमानं माननं येषां तानि तथोक्तानि न भवन्तीति नामाननानि अतिमात्रमाननीयानीत्यर्थः । मा लक्ष्मीरिति मानिनी तस्याः इनः स्वामी श्रीनिवास इत्यर्थः । तस्य नामानि नूनं निश्चयेन आमनानि अभ्यस्यानि । आङ्पूर्वकात् म्नाधातोः ‘पाघ्राध्मा’ इत्यादिना मनादेशः । लोडुत्तमः । पुनःपुनश्श्रीनिवासनामानि कीर्तयेयमिति भावः । उन्नमनमुन्नतिः अनुन्नमनं मनो यस्य सः अनुन्नमनमनाः अनुद्धत इत्यर्थः । अतएव ‘मानश्चित्तसमन्नतिः' इत्यमरः । अननानमनं अननं प्राणयितृ उज्जीवकमित्यर्थः । ईदृशं आनमनं प्रणामो यस्य तम् ।

एकोऽपि कृष्णे सुकृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥

 इत्यादिप्रमाणात् एनं श्रीनिवासं नाना अनेकं यथास्यात्तथा नमामि । नूनं नात्र किंचिदपि संशेतव्यमिति भावः । इदमनुनासिकद्विव्यञ्जननिबद्धम् ॥

 यथावा--

 नानामौनीनानननामामननामुमामनोमानाम् ।

मामानमामि नूनं मानामामाममाननामेमि ॥

 नाना अनेके ये मौनीनाः मुनिश्रेष्ठाः तेषां अननं प्राणयितृ नामामननं नामधेयानुकीर्तनाभ्यासः यस्यास्तां । उमायाः गौर्याः मनसा मान्यत इति माना तां ‘अकर्तरि च कारके संज्ञायाम्' इति कर्मणि घञ् । ‘संज्ञायाम्' इति प्रायिकमित्याहुः । घञन्तोऽप्ययं भेद्यलिङ्गः, ‘कर्मादौ तु घञाद्यन्तमपि विशेष्यलिङ्गम्’ इति लिङ्गानुशासनात् । यद्वा मानो माननं भावे घञ् उमामनोमानोऽस्या अस्तीति तथोक्ता तां मां श्रियं आनमामि शरणं प्रपद्ये । अमाननां पूजाविधुरां अमां अलक्ष्मीं नूनं मा नाम एमि न प्राप्नोमि । लक्ष्मीशरणवरणानन्तरमलक्ष्मीर्नश्यत्येवेति भावः । 'तां पद्मनेमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे' इति श्रुत्यर्थोऽत्रानुसंहितः । इदमपि पूर्ववत् द्विव्यञ्जनमेव ॥

 यथावा--

 तान्तिं ततां नतानां तनुतां नत तनोत तने- तान् । नेता नाऽतनुतातऽनोतोन्नन्तून्नतान्ततऽ नन्तः ॥ २३५५ ॥

 तान्तिं ततां नतानां तनुतां नेता तनोतु तान् एतान् नेता नः अतनुतातः अनीतीन् नन्तॄन् नितान्ततः अनन्तः ।

इतिच्छेदः । ततां विस्तृतां नतानां तान्तिं ग्लानिं तनुतां कृशतां नेता प्रापयिता । नयतेस्तृन् । अतएव न कृद्योगषष्ठी । अतनोः प्रद्युम्नस्य तातः जनकः नेता स्वामी अनन्तः भगवान् नन्तॄन् शरणागतान् तानेतान् नः ‘ते वयं भवता रक्ष्याः' इत्युक्तरीत्या त्वदीयानस्मानित्यर्थः । अनीतीन् ईतिः पीडा अविद्यमाना येषां तान् निवृत्ताविद्यासंवलनबाधानिति यावत् । तनोतु

कुरुताम् । अत्रैकवर्गीययोरेव व्यञ्जनयोर्द्वयोर्घटनादिदं द्विव्यञ्जनचित्रं पूर्वोदाहरणतो वैलक्षण्यशालि ॥

 यथावा--

 धाराधरधाराधरधराधरधराधराधारः । राधाधरधाराधा धीरोधिधुरंधरोऽराधि ॥ २२५६ ॥

 धाराधराणां जलधराणां धाराः जलासाराः तासां धरः अनारतघनाघनवर्षधारास्तिमिततया शीतल इति दिव्यप्रबन्धप्रथित इति भावः । यः धराधरः शेषः स चासौ धराधरो गिरिः स एवाधारोऽधिकरणं यस्य सः उक्तविशेषणविशिष्टशेषाद्रिनिवासीत्यर्थः । राधायाः अधरस्य अधररसस्येति यावत् याः धाराः ताः धयति पिबतीति राधाधरधाराधाः ‘धेट् पाने' अस्मात् क्विप् । धीरः 'धैर्येण हिमवानिव’ इत्युक्तरीत्या धैर्यशाली, धीरोधिनां विषयेभ्यो नियन्त्रितमतीनां योगिनामित्यर्थः 'योगश्चित्तवृत्तिनिरोधः' इति हि पातञ्जलं सूत्रम् । धुरंधरः तद्रक्षाभरस्वीकर्तेत्यर्थः । ‘योगो योगविदां नेता' इति हि तन्नामसु पठ्यते । यद्वा 'व्यक्तमेष महायोगी परमात्मा सनातनः' इत्याद्युक्तरीत्या योगिनामीश्वर इत्यर्थः । अराधि अपूजि । अस्माभिरिति शेषः । राधेः कर्मणि लुङि चिण् । अत्रापि पूर्ववद्व्यञ्जनद्वयेनैव घटना, पूर्वार्धे यमकविशेषोऽपीति वैलक्षण्यम् ॥

 यथावा--

 दुररिदरदारिदरदोरुरोऽररोदारदार दारिद्री । रौद्रारिदुर्दरोदरदरदारदुरोदरादरादारि ॥ २३५७ ॥

 दुररिदरदारिदरदोः उरोऽररोदारदार दारिद्री रौद्रारिदुर्दरोदरदरदारदुरोदरादर अदारि । इति छेदः । रौद्रः

उग्रः यः अरिः वैरी हिरण्यकशिपुः तस्य दुर्दरः दरीतुं दलयितुमशक्यः यः उदरदरः जठरश्वभ्रं 'दरोऽस्त्रियां भये श्वभ्रे' इत्यमरः । तस्य दारः दारणमेव दुरोदरः द्यूतं पणो वा तस्मिन् आदरो यस्य सः तस्मिन् अदरः निर्भयः इति वा । यद्वा रौद्रारिदुर्दरोदरदरदारे दुरोदरः द्यूतकारः साहसिक इति यावत् । तस्य संबुद्धिः । दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्’ इत्यमरः'। उरः वक्षः अररं कवाटमिव उरोऽररं तस्मिन् उदाराः ‘श्रियं लोके देवजुष्टामुदाराम्’ इति श्रुत्युक्तौदार्याः दाराः यस्य तस्य संबुद्धिः । कवाटविस्तीर्णवक्षस्स्थलविहरमाणश्रीक इत्यर्थः । दुष्टाः अरयः शात्रवाः तेषां दरं भयं दत्त इति दुररिदरदौ अरिदरौ चक्रशङ्खौ ययोः तथोक्तौ दोषौ बाहू यस्य तस्य संबुद्धिः 'भुजबाहू प्रवेष्टो दोः' इत्यमरः । हे शङ्खचक्रधर ! भगवन्नित्यर्थः । दारिद्री दारिद्र्यं ब्राह्मणादेराकृतिगणत्वात् ष्यञि षित्त्वात् ‘षिद्गौरादिभ्यः' इति ङीष् । अदारि । श्रीनिवासं त्वामाश्रयतो मम भक्तिविरक्तिज्ञानसंपदादिसर्वविधदुर्विधत्वं विदीर्णमिति भावः । अदारि स्वयमेव व्यदीर्यतेति वा । दृणातेर्विदारणार्थकात्कर्मणि कर्मकर्तरि वा लुङि चिण् ॥

 यथावा--

 गगनगनगानुगानां गानानुगनाग गोऽननानागः । नानानगनागानननागनगेनानिनो नु नो ननु गाः ॥ २३५८ ॥

 गगनगनग अनुगानां गानानुगनाग गोऽनन अनागः नानानगनागानननागनगेन आनिनः नु नः ननु गाः इति छेदः । अनुगानां अनुचराणां आश्रितानामित्यर्थः । गगनगनग कल्पशाखिन्

गानानुगाः स्वप्रवर्तितमुरळीगानानुसारिणः नागाः फणिनः यस्य तस्य संबुद्धिः । 'शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गानरसं फणी' इत्युक्तेस्तथोक्तिः । गवां धेनूनां अनन प्राणन । अनागः अपहतपाप्मन् 'पापापराधयोरागः' इत्यमरः । नन्विति सुकुमारामन्त्रणे । नाना बहुविधाः नगा तरवः नागाः गजाश्च तेषां अननः प्राणयिता यो नागनगः शेषाद्रिः तस्य इन स्वामिन् श्रीनिवासेत्यर्थः । नः अस्माकं गाः स्तुतिरूपाः वाचः आनिनः 'योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां संजीवयत्यखिलशक्तिधरस्स्वधाम्ना' इत्युक्तप्रक्रियया प्राणयः प्राणितवानित्यर्थः । अनितेर्णिजन्ताल्लुङि चङि मध्यमपुरुषैकवचनम् । नु इत्यवधारणे । उदाहृतपद्यत्रये विभिन्नवर्गीयव्यञ्जनद्वयं निबद्धमिति विशेषः ॥

 एकव्यञ्जनचित्रं यथा--

 नूनं नो नानेनानेना नेनेन नोनेन । नानैनोनुन्नानां नानैनेनाननी न नो ननु नौः ॥ २३५९ ॥

 नूनं नो न अनेन अनेनाः ना इनेन नोनेन नानैनोनुन्नानां नाना एनेन अननी न नः ननु नौः इति पदच्छेदः । न ऊनः नोनः तेन नोनेन । सर्वोत्तमेनेत्यर्थः । अनेन इनेन स्वामिना भगवता हेतुभूतेन ना कश्चिदपि पुमान् अविद्यमानं एनः पापं यस्य सः अनेनाः नो इति न । किंत्वनेना एव नूनमित्युक्तार्थस्यातिमात्रनिर्धारणे । नानाविधानि च तानि एनांसि पापानि तैः नुन्नानां क्षिप्तानां नः अस्माकं एनेन भगवता 'द्वितीया टौस्स्वेनः' इत्यन्वादेशे एनादेशः । नाना विना ‘पृथग्विना नानाभिः' इति तृतीया । ‘पृथग्विनाऽन्तरेणर्ते हिरुङ्नाना च वर्जने' इत्यमरः । अननी प्राणयित्री नौः उत्तरणसामग्रीति यावत् ।

न ननु नैव । ननुरवधारणे । यतोऽमुना श्रीनिवासेन भगवता सर्वोऽपि जनः पाप्मनो मोच्यते तत एनं विना नानाविधदुरिततिरस्कृतानामस्माकं भवार्णवोत्तारकोऽन्यो नैवेति भावः । अत्रैकेनैव नकारेण पद्यबन्धः ॥

 यथावा--

 लीलालोलेलालीलालीलालीललोऽलिलीलालाः। लोलोल्लोलेलालंलीलालालो ललाल लोलालः ॥ २३६० ॥

 लीलालोलेलालीलालीलालीललः लीलासु विलासेषु लोला आसक्ता या इला भूः सैव आली सखी तां लालयतीति लीलालोलेलालीलालिनी । स चासौ इलानां गिरां आली पङ्क्तिः 'पुंवत्कर्मधारय’ इति पुंवद्भावः । लीलालोलेलालीलालीलाली ।

तया ललतीति ललः 'लड विलासे' पचाद्यच् । लीलासक्तभूसखीलालयितृवाणीश्रेणीविलासीत्यर्थः । अलिलीलालाः अलेः भ्रमरस्य लीला विलासः तच्छायेति यावत् । तां लाति आददातीति तथोक्तः । 'त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः' इतिवत्तत्सदृशद्युतिरित्यर्थः । ‘ला आदाने' इत्यस्माद्धातोः क्विप् । लोलोल्लोलेलालंलीलालालः लोलाः चञ्चलाः उल्लोलाः महातरङ्गाः यस्यां सा लोलोल्लोला च सा इला च लोलोल्लोलेला । इला जलं भूगोवाचस्त्विडा इलाः' इत्यमरः । तस्यां प्रलयमहोदधिजले इति यावत् । अलं लीयत इत्यलंलीः ‘ली श्लेषणे’ दैवादिकादस्मात् क्विप् । सा चासौ इला भूः वेदवाणी वा तस्याः ला आदानं ‘लश्शक्रे ला तु दाने स्याद्ग्रहणेऽपि निगद्यते । ली श्लेषणे च चपले' इति मेदिनी । तस्यां अलतीत्यलः । पयार्प्त

इत्यर्थः । 'अल भूषणपर्याप्तिवारणेषु' इति धातोः पचाद्यच् । महोदधिनिमग्नाया भुवो वेदवाचो वा समुद्धर्तेत्यर्थः । ललाल विललास । ‘लल विलासे’ इत्यस्माल्लिट् । लोलालः लोला लक्ष्मीः ‘लोलस्स्याद्वाच्यलिङ्गकः । सतृष्णे चपले लोला जिह्वाकमलयोः स्त्रियाम्' इति मेदिनी ‘लोला तु रसनाश्रियोः' इति हेमश्च । तां अलति भूषयतीत्यलः उक्तधातोरेव पचाद्यच् । लोलायाः अलः लोलालः । यद्वा लोलां ललतीति लोलालः कर्मण्यण् । लोलायां लिनातीति वा लोलालः ‘ली श्लेषणे' अस्मात् क्रय्यादिकात् 'अन्येभ्योपि दृश्यते' इति डः । अथवा लिनातीति ला लोला ला यस्मिन् सः लोलालः सर्वथाऽपि श्रीवल्लभ इत्येवार्थः । ललालेत्यन्वयः । अत्र लकारेणैकेनैव पद्यबन्ध इत्यपञ्चवर्गीयवर्णमेकाक्षरचित्रमिदम् ॥

 सप्तस्वरनियमचित्रं यथा--

 मामानिनीसमागमनिस्समगरिमाऽरिदारिसारिगदम् । निगमापसारिदमदं पापानि ममाऽऽसदासधनि धाम ॥ २३६१ ॥

 मा लक्ष्मीरिति मानिनी वधूः तस्यास्समागमेन निस्समः असदृशः गरिमा गौरवं यस्य तत्तथोक्तं श्रीवल्लभत्वादेवास्येदृशं महत्त्वमिति भावः । अरीन् दारयतीत्यरिदारिणी अरिणा चक्रेण सह वर्तत इति सारिः सा चासौ गदा कौमोदकी यस्य तत्तथोक्तम् । निगमस्य वेदस्य अपसारिणः अपहर्तार मधुकैटभादयः तेषां दमं दण्डं ददातीति निगमापसारिदमदम् । धनमस्यास्तीति धनि दासैर्धनि दासधनि दासाभिन्नधनवदित्यर्थः । धनवदस्य दासास्संरक्षणीया इति भावः । धाम तेजः

परं ब्रह्मेत्यर्थः । मम पापानि आस निरास्थत् । ‘असु क्षेपणे अस्माद्दैवादिकाल्लिट् । अत्र सरिगमपधनीति संगीतशास्त्रप्रतीतसप्तस्वरावबोधकवर्णैरेव श्लोकरचनेतीदमपि चित्रम् । अत्र ऋषभषड्जयोः रिवर्णसकाराभ्यामिव धैवतस्य धकारेणेव दकारेणाप्युच्चारणं गायकगोष्ठीप्रसिद्धमिति दकारधकारयोरुभयोरपि ग्रथनमिति ध्येयम् ॥

 यथावा ममैव रङ्गराजविलासे--

 मा माधा मम धामनि पदमास सदा गदारिदध सा सा । पापा निगदपदं परिगद मां मा मदरिमानिनीदास ॥ २३६२ ॥

 इदं पद्यं भगवन्तं रङ्गराजमाखेटकविहारोत्सवानन्तरमुपागतमन्यवधूसंगतमाशङ्कमानाया लक्ष्म्या उक्तिरूपं वीणयाऽनूदितम् । तथाहि--दधातीति दधः । गदारिणोः कौमोदकीसुदर्शनयोः दध गदाचक्रधारिन्नित्यर्थः । तस्य संबुद्धिः । मम धामनि गृहे पदं मा माधाः मा स्म निदधाः रोषसंभ्रमान्मा मेति द्विरुक्तिः । आङ्पूर्वकाद्धाञो लुङि ‘न माङ्योगे’ इत्यट्प्रतिषेधः । कुत ईदृशः कोप इत्यत्राह--आसेत्यादिना । सा सा पापा मम सपत्नीति भावः । असहनात्तन्नामाग्रहणम् । निगदस्य त्वद्वचसः पदं पात्रं आस । तत्सल्लाप एव तव हृद्यः । मां मा परिगदमया सह मा संभाषिष्ठा इति भावः । मा शब्दोऽयं न तु माङ् । अतो न लुङ् । त्वमेव खलु मम प्रेयसीति चाटुभिरयं मामनुनेष्यतीत्याशङ्क्य रोषातिभूम्ना संबोधयति— मदरिमानिनीदासेति । मत्प्रत्यर्थिललनाकिंकरोति तदर्थः । अत्रापि पूर्ववत् सरिगमपधनीति सप्तस्वरवर्णा एव निबद्धाः ॥


 अनन्तरपद्यमिदं--

 इति कुपितया श्रियोक्तं निरासवचनं किलानुकुर्वाणा । वीणा स्वरसमुदायैरतोषयद्रङ्गराजमतिरम्यैः ॥ २३६३ ॥


अपुनरुक्तव्यञ्जनचित्रम्

व्यञ्जनानां कखादीनां यत्रावृत्तिर्न दृश्यते ।
चित्रमेतद्विजानीयात्तदनावृत्तवर्णकम् ॥

 यथा--

 अथ ऋषभाचलकूटापीडेऽतिघृणाझरीबाढे । ओजःखच्छाये शठ मन इहि गोऽवे सदा ऋद्धे ॥

 अथेति मङ्गळार्थकम् । "मङ्गळानन्तरारम्भप्रश्नकार्त्स्न्योष्वथो अथ" इत्यमरः । इदमव्ययं चादौ स्वरादौ च पठ्यते । तेन मङ्गळवाचकस्य सत्त्वार्थकत्वेऽप्यव्ययत्वं सिध्यति । अतएव श्रीहर्षः--

उदस्य कुम्भीरथ शातकुम्भजाः
चतुष्कचारुत्विषि वेदिकोदरे ।
यथाकुलाचारमथावनीन्द्रजां
पुरन्ध्रिवर्गस्स्नपयांबभूव ताम् ॥

 इति । अत्र हि अथ स्नपयांबभूवेत्यस्य मङ्गळस्नपनं चकारेत्यर्थः । निपातस्तु स्वरूपेणैव मङ्गळो मृदङ्गध्वनिवत् । न चात्र श्रीहर्षपद्ये अथेत्यस्यानन्तर्यमेवार्थः कुतो न स्यादिति वाच्यं,

अथशब्दयोर्द्वयोश्श्रवणात् । पूर्वार्धगतस्याथशब्दस्यानन्तर्यार्थकत्वेन उत्तरार्धगतस्याथशब्दस्य मङ्गळार्थकताया एवावश्यवक्तव्यत्वात् । अन्यथा पौनरुक्त्यस्य दुर्वारत्वादित्यास्तां तावत् । अथ मङ्गळः यः ऋषभाचलः वृषाद्रिः तस्य यत् कूटं शिखरं तस्य आपीडे शेखरभूते भगवतीत्यर्थः । इदं विशेष्यम् । अतिशयिता च सा घृणा च अतिघृणा निरतिशयकरुणा । सैव झरी प्रवाहः तेन बाढे प्रशस्ते ‘भृशप्रशस्तयोर्बाढम्' इत्यमरः । गोऽवे अवतीत्यवः गवां धेनूनां वेदवाचां वा गोः भुवः दिवश्च वा अवः रक्षिता तस्मिन् । सदा ऋद्धे समृद्धिमति । ओजःखच्छाये ओजसि तेजसि विषये खं व्योम छाया प्रतिमा यस्य तथोक्ते गगनतलश्यामले इत्यर्थः ‘छाया त्वनातपे कान्तौ प्रतिबिम्बार्कयोषितोः' इति विश्वः । ‘छाया पङ्क्तौ प्रतिमायाम्’ इति हेमचन्द्रश्च । शठ धूर्त हे मनः ! इहि गच्छ । कर्मणोऽधिकरणत्वविवक्षया सप्तमी । श्रीनिवासं शरणं व्रजेत्यर्थः । अत्रोक्तं व्यञ्जनं पुनर्नोक्तमित्यपुनरुक्तव्यञ्जनं नाम चित्रम् । अचां पौनरुक्त्येऽपि न व्यञ्जनपौनरुक्त्यमित्यवधेयम् ॥


अथ समसंस्कृतप्राकृतचित्रम्.

 फणधरवरगिरिगेहं लवणिमपरिवाहधीकलनबाहम् । वरगुणमणिसंदोहं वन्देऽहं सुन्दरं विसन्देहम् ॥ २३६५ ॥

 यथावा--

 हरिधरणिधरविहारं हारिमहाकिरणभारमणि

हारम् । हेयगुणविसरदूरं गेयगुणं चिन्तये सपरिवारम् ॥ २३६६ ॥

 कुन्दसुममन्दहासं कुवलयदलकोमलावयवभासम् । कुण्डलिभूधरवासं कलये कमलाविलाससविकासम् ॥ २३६७ ॥

 एषु त्रिषु पद्येष्वपि शब्दानां संस्कृतप्राकुतभाषयोस्तुल्यरूपतेति समसंस्कृतप्राकृतमिदम् ॥