अलङ्कारमणिहारः (भागः ४)/आभासालङ्काराः (१२४)
अथ पुनरुक्तवदाभासः.
पुनरुक्तवदाभाति यत्रार्थो न तु वस्तुतः ।
पुनरुक्तवदाभासस्स नामाख्यातगोचरः ॥
यत्रार्थः पुनरुक्तवदाभाति ईषद्भाति अनन्वितमिव आमुखेऽवभासते । वस्तुतः परमार्थतस्तु अन्वयवेलायामन्यधैव भवति स पुनरुक्तवदाभासो नामालंकारः । अयं च नामावलम्बी अख्यातावलम्बी चेति द्विविधः । अर्थालंकारत्वेऽप्यस्य शब्दपौनरुक्त्यावलम्बितया शब्दालङ्कारप्रस्तावे लक्षणोक्तिः । तत्र नामाश्रथो यथा--
फणिधरणिभृदचलस्थितिघृणिमन्मित्रप्रभाकरमुदारम् । मणिरत्नघनोरस्कं प्रणिदध्यां किमपि दैवतं सततम् ॥ २३०८ ॥
फणिधरणिभृत् भुजगराजः स चासौ अचलो गिरिः तस्मिन् स्थितिः यस्य तत् घृणिमान् भानुः तस्य मित्रं तत्तुल्या या प्रभा तस्याः आकरम् । मणिरत्नं मणिश्रेष्ठः ‘रत्नं स्वजातिश्रेष्ठेऽपि' इत्यमरः । तेन घनोरस्कम् । अत्र धरणिभृदादीनां अचलादिपर्यायपदप्रयोगेण आमुखे अवभासमानस्य पौनरुक्त्यस्य उक्तप्रकारेणान्वयावसरे अन्यधापर्यवसानात्पुनरुक्तवदाभासोऽयं नामाश्रयः ॥
आख्याताश्रयो यथा--
दीव्यति भाति विराजति दिननाथसदृकूप्रकाश
ते कमला । भवतीष्टे प्रभवति ननु भगवन्नहिनगवसुंधराभरण ॥ २३०९ ॥
दिननाथसदृक्प्रकाश अहिनगवसुंधराभरण ननु हे भगवन् ! ते तव कमला ते इति ‘लक्ष्मीपते तेऽङ्घ्रियुगम्’ इत्यत्रेव विभक्तिप्रतिरूपकमव्ययम् । न तु युष्मच्छब्दस्य ‘ते मयौ’ इति विहितस्ते इत्यादेशः दिननाथसदृक्प्रकाशेत्यामन्त्रितस्य ‘आमन्त्रितं पूर्वमविद्यमानवत्' इत्यविद्यमानवद्भावेन पादादित्वात् तस्य चादेशस्य ‘पदस्य पदात्’ । अनुदात्तं सर्वमपादादौ’ इत्यपादादावेव विधानात् ते कमलेत्यनेन ‘सदा तवैवोचितया तव श्रिया’ इत्यत्रेव 'विष्णोः श्रीरनपायिनी' इत्यादिप्रसिद्धं नित्यव्यवस्थितपतिपारार्थ्यं प्रतिष्ठाप्यते । दीव्यति क्रीडां विदधाने भाति प्रकाशमाने प्रभवति प्रभविष्णौ इष्टे प्रिये भवति त्वयि विराजति भासते । अत्र दीव्यति भाति विराजति प्रकाशते इत्येतेषां ईष्टे प्रभवतीत्यनयोश्च आमुखे एकार्थकाख्यातवदाभासमानतया पौनरुक्त्यस्य उपपादितरीत्यान्वयसमयेऽन्यथा पर्यवसितत्वेनाख्याताश्रयोऽयं पुनरुक्तवदाभास इति बोध्यम् । काव्यप्रकाशकारमते तु--
शब्दैकनिष्ठश्शब्दार्थद्वयस्थश्चेत्यसौ द्विधा ।
सभङ्गाभङ्गभेदेन द्विधा शब्दैकसंश्रयः ॥
असौ पुनरुक्तवदाभासः शब्दमात्रसमाश्रयः शब्दार्थोभयसमाश्रयश्चेति द्विविधः । तत्राद्यश्शब्दमात्राश्रयस्तु सभङ्गः अभङ्ग इति द्विविधः । तत्र सभङ्गः पुनरुक्तवदाभासश्शब्दैकगोचरो यथा--
स्नेहेन हरे त्वय्यव लिप्तोऽहंकृतमतिश्चिरादभवम् । बहुधा महितं तेऽज स्थानं मे स्यात्कथं नु दुष्प्रापम् ॥ २३१० ॥
हे हरे! अव रक्ष । त्वयि विषये स्नेहेन प्रेम्णैन तैलादिरसद्रव्येण लिप्तः दिग्धः चिरात् बहोः कालात् अभवम् । बहुधा महितं ते अजेति छेदः । हे अज! भगवन् बहुधा बहुप्रकारेण महितं पूजितं ते तव स्थानं परमं व्योम कथं नु दुष्प्रापम् एवं त्वयि संजातानुरागस्य सुप्रापमेव स्यादित्यर्थः । अत्रावलितोऽहंकृत इत्यत्र बहुधामहितं तेजस्थानमित्यत्र च अवलिप्ताहंकृतशब्दयोः धामतेजश्शब्दयोश्चैकार्थतया भासमानयोरनयोरुक्तरीत्या पदभङ्गेन भिन्नार्थयोर्निबन्धनात्सभङ्गः पुनरुक्तवदाभासः ॥
अभङ्गो यथा--
वाक्पतिगुरुसौम्यबुधश्लाघ्योऽच्युत भौममङ्गळनिधानम् । भानुसुतमन्दतावहपरमौदार्यश्चकास्ति भवदीयः ॥ २३११ ॥
हे अच्युत! भवदीयः भवदनुग्रहगोचरो मनुजः वाक्पतयः वावदूकाः गुरवः श्रेष्ठाः सौम्यः अरौद्राश्च ये बुधाः विपश्चितः तैः श्लाघ्यः । भूमेरिदं भौमं यत् मङ्गळं कल्याणं तस्य निधानं आधारः । भानुसुतस्य कर्णस्य मन्दतावहं अल्पत्वसंपादकं ततोऽप्यतिशयितमित्यर्थः । तादृशं परमौदार्यं यस्य तथोक्तः चकास्ति । अत्र वाक्पतिगुरुशब्दयोः सौम्यबुधशब्दयोः भौममङ्गळशब्दयोः भानुसुतमन्दशब्दयोश्च बृहस्पतिरौहिणेयाङ्गारकशनैश्चररूपैकार्थतावभास उक्तरीत्या अभङ्गपदाश्रय इति ध्येयम् ॥शब्दार्थोभयाश्रयो यथा--
तपनीयसुवर्णाङ्गां घनजलदसनाभिरुचिरकचबन्धाम् । लक्ष्मीं प्रभामुदारां महतीं श्रीवास वासय कुले मे ॥ २३१२ ॥
तपनीयं काञ्चनमिव सुवर्णं शोभनवर्णं अङ्गं यस्यास्तां 'हिरण्यवर्णाम्' इति श्रुतेः । घनः सान्द्रः यः जलदः तस्य सनाभिः सगोत्रः तत्सदृश इति यावत् । रुचिरः कचबन्धो यस्यास्तां उदारां वदान्यां ‘देवजुष्टामुदाराम्' इति श्रुतेः । ‘उदारो दातृमहतोः' इत्यमरः महतीं पूज्यां मह्यते पूज्यत इति व्युत्पत्तेः । प्रभां प्रकृष्टा भा दीप्तिर्यस्यास्तां लक्ष्मीं हे श्रीनिवास ! इदं तन्निवासनौपयिकताभिप्रायगर्भम् । मे कुले संताने गृहे च वासय । अनेन 'श्रियं वासय मे कुले' इति श्रुतिः प्रत्यभिज्ञाप्यते । अत्र सुवर्णघनप्रभोदाराशब्दानां पर्यायासहिष्णुतया शब्दाश्रयत्वम् । तपनीयजलदलक्ष्मीमहतीशब्दानां गाङ्गेयमुदिरकमलापूज्यादिपदान्तरसहिष्णुतयाऽर्थाश्रयत्वमित्युभयाश्रितत्वं पुनरुक्तवदाभासस्येति विज्ञेयम् ॥
अथापशब्दवदाभासः
निवर्तते साधुभावज्ञानाद्यत्रापशब्दधीः ।
अपशब्दवदाभासस्सोऽलंकारो निगद्यते ॥
यथा--
हरिणो यस्य यशोभिर्व्याप्तो लोकः पयोनिधीयति तम् । शरणं व्रजेयमीशं स्वयंभुवं शंभुवं
रमाधिभुवम् ॥ २३१३ ॥यस्य यशोभिः व्याप्तो लोकः हरिणः पाण्डुरस्सन् पयोनिधीयति आत्मानं क्षीराब्धिमिवाचरति । पयोनिधिशब्दात् 'उपमानादाचारे' इति क्यच् । तं स्वयंभुवं अनितरकारणकं शंभुवं सुखभूमिं ईशं सर्वेश्वरं रमाधिभुवं श्रीवल्लभं शरणं व्रजेयमिति योजना । अत्र हरिण इति प्रथमान्तस्य यस्येति षष्ठ्यन्तपदसमभिव्याहारात् करिण इतिवत् षष्ठ्यन्ततया पयोनिधीयतीत्यत्र पय इति च्छेदेन निधीयतीति निपूर्वकाद्धाञः कर्मणि परस्मैपदितया व्रजेयमित्यत्र व्रजे अयमिति च्छेदेन व्रजतेरात्मनेपदितया शंभुवमित्यत्र समभिव्याहृतस्वयंभुवमितिवत् उवङादेशवत्तया चापशब्दत्वेनावभासादपशब्दवदाभासत्वम् ॥
यथावा--
श्रीनाथोर्थिजनानामभीष्टदानाय कल्पति वृषाद्रौ । प्रत्यर्थिजनानामप्यनिष्टदानाय कल्पति नितान्तम् ॥ २३१४ ॥
पूर्वार्धे कल्पति कल्पतरुरिवाचरति । उत्तरार्धे कल्पति कल्पः प्रलय इवाचरतीत्यर्थः । ‘कल्पस्तु प्रलये न्याये शास्त्रे ब्रह्मदिने विधौ । सुरद्रुमे विकल्पे च प्रत्ययश्चेत्समार्थता' इति रत्नमाला । अत्र कल्पतीति क्लृपधातोः परस्मैपदवदवभासादपशब्दाभासत्वं, तस्य नित्यमात्मनेपदित्वात् ॥
अथाव्ययाभासः
पदानां सुप्तिङन्तानामन्यार्थानां निगुम्भने ।
यथाऽव्ययवदाभासश्चित्रं तन्नाम तद्विदुः ॥
यथा--
सद्वारेनोहन्ता बहुधाभूयस्स्वधामवन्नामा । दोषातीतस्सुदिवाऽऽसमयासमयावनोद्यतः प्रापि ॥
सद्वारेनोहन्ता द्वारा सह वर्तत इति सद्वाः' रेफान्तोऽयं शब्दः । यत् एन: अघं ‘कलुषं वृजिनैनोघम्' इत्यमरः । अविद्यारागद्वेषादिकारणकं पापमित्यर्थः । तस्य हन्ता निरासकः । स्वोपासकसमूलपूर्वोत्तराघनिराकरणधुरीण इत्यर्थः । तत्र हेतुमभिप्रयन्नाह--बह्विति । बहु चेतनाचेतनात्मना बहुप्रकारं विश्वं दधाति धारयति पुष्णाति चेति बहुधाः । आदन्तोऽयं विश्वपा इतिवत् । भूयः अतिशयेन बहु स्वधाम स्वाभाविकः प्रभावः । ‘गृहदेहत्विट्प्रभावा धामानि' इत्यमरः । तदस्यास्तीति तद्वत् नाम अभिधानं यस्य स तथोक्तः । धारकत्वात्पोषकत्वान्महामहिमनामवत्त्वाच्चास्य
सकलदुरितानां समूलघातं हन्तृत्वमिति भावः । अतएव दोषातीतः दोषान् अतीतः ‘द्वितीया श्रितातीत’ इत्यादिना समासः अपहतपाप्मा ‘स एष सर्वेभ्यः पाप्मभ्य उदितः' इत्यादिश्रुत्यर्थोत्रानुसंधेयः । यद्वा भूयांसि स्वधामवन्ति तत्तच्छरीरवन्ति तत्तद्रूपवन्ति वा नामानि देवमनुष्यादिनामानि यस्य बहुधा इत्यनेनात्मत्वं अनेन तु नामरूपव्याकरणपूर्वकतत्तच्छरीरप्रवेशप्रयुक्ततत्तन्नामरूपभाक्त्वं च दर्शितम् । सुष्ठ दीव्यतीति सुदिवा । स्वाभाविकज्ञानानन्दादिकल्याणगुणवत्तया प्रकाशमान इत्यर्थः । तत्तद्देवादिशरीरानुप्रविष्टत्वेऽपि तत्कृततदीयदोषासंस्पृष्टत्वमनेन द्योतितम् । यत्सूत्रितं ‘संभोगप्राप्तिरिति चेन्न वैशेष्यात्' इति । मया श्रिया । अत्र य इत्यध्याहार्यमुत्तरत्र स इति दर्शनात् । आस दिदीपे । दीप्त्यर्थकादसेर्लिट् । स्वाभाविकनिरवधिकदीप्तियुक्त एव यो भगवान् हेम्नेव मणिश्श्रिया विशेषतो दीप्यत इति भावः । अवने रक्षणे उद्यतः उद्युक्तः ‘न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् । इत्युक्तेः । सः पूर्वोक्तगुणशाली भगवान् मया शेषभूतेनेति भावः । प्रापि प्रापद्यत प्रपूर्वकादाप्नोतेः कर्मणि लुङि चिण् ॥
अत्र पद्ये सत् वा रे नो हन्त आ बहुथा भूयः स्वधा आम वत् न अमा दोषा अति इतः सु दिवा समयासमया अव न उत् यत: प्र अपि इत्यव्ययपरंपराया आभासः । समयासमयेति द्विरुक्ताव्ययस्याभास इति द्रष्टव्यम् ॥
अथ तिङन्तवदाभासः
यत्राभासस्तिङन्तानां स्यादर्थान्तरगैः पदैः ।
तत्तिङन्तवदाभासचित्रं चित्रज्ञसम्मतम् ॥
यथावा--
भवतापहर जयावह पापानि भवे दवेस्स्य परिलुठतः । प्रेमोदधे प्रभविता भवतो वातीतरो न चेतस्तः ॥ २३१६ ॥
भवतापस्य हरः तस्य संबुद्धिः । जयावह आश्रितोत्कर्षदायिन् प्रेमा प्रियत्वं तस्य उदधे निरतिशयप्रियेत्यर्थः। ‘प्रियोहि ज्ञानिनोऽत्यर्थमहम्’ इति हि तेन गीयते । भवे संसारे एव दवे वनानले कान्तारे वा व्यस्तरूपकं परिलुठतः ममेति शेषः । पापानि अस्य निराकुरु । अस्यतेर्दैवादिकाल्लोण्मध्यमैकवचनम् । कुतो मामेव निर्बध्नासीत्यत आह--प्रभवितेत्यादि । भवतः त्वत्तोऽपि इतर: अन्यः प्रभविता पापहरणकर्मणि प्रभुः समर्थ इत्यर्थः । ममेति शेषः । चेतस्तः चित्तं द्वितीयायास्सार्वविभक्तिकस्तसिः । न वाति न गच्छति । वातेर्गत्यर्थकादादादिकाल्लट् । त्वत्तोऽन्यः पापनिर्वापणधुरीणः मच्चित्तगोचरतां न यातीत्यर्थः । ‘हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः’ इत्यादिवचनादिति भावः । अतस्त्वमेव मे पापानि निराकुर्वित्यर्थः । अत्रान्यार्थकपदानुपूर्व्या तिङन्तानां पदानामाभासनात्तिङन्तवदाभासनामेदं चित्रमस्मदुपज्ञम् ॥
भवत आप हर जय आवह पापानि भवेत् अवेः स्य परिलुठतः प्रेमः दधे प्रभविता भवतः अव अतीतरः अन चेत स्तः ॥ इति छेदे एकोनविंशतिस्तिङन्तपदान्याभासन्ते इति सावधानं विभावनीयम् ॥