अलङ्कारमणिहारः (भागः ४)/पद्मादिचित्रालङ्काराः (१२६)
अथ पद्मादिचित्राणि.
पद्माद्याकारमापन्ना वणाश्चित्रमुदाहृतम् ॥
ननु कथमस्य शब्दालंकारता, पद्माद्याकारताया रेखोपरेखानिष्ठत्वादिति चेत्सत्यम् । वर्णानुमापकरेखानिष्ठानामेवाकाराणामनुमेयनिष्ठत्वाध्यवसायादौपचारिकीयं शब्दालंकारतावाचोयुक्तिरित्याहुः ॥
तत्र षोडशदलपद्मम्.
एकं यदि भवेत्सर्वमेकान्तरितमक्षरम् ।
तत्पद्मं षोडशदलं कर्णिकाश्लिष्टवर्णकम् ॥
एकाकारमेव वर्णमेकवर्णान्तरितं यदि निबध्यते कर्णिकायां श्लिष्टं एकवर्णं यस्य तत् षोडशदलपद्मं नाम चित्रं भवेत् ॥
यथा--
तारागौराकारा श्री रायो राति राद्धरास्स्मेरा । सा राजाराध्याऽऽरात्स्फाराऽहीराधराकराधारा ॥
तारा तरका सेव गौराकृतिगौरवर्णा । राद्धः सिद्धः राः विभवो यस्यास्सा । स्मेरा स्मयमानमुखीत्यर्थः । राजभिराराध्या । स्फारः विशालः अहीराधरश्शेषभूभृत् स एवाकरः श्रेष्ठः आविर्भावस्थानभूतो वा आधारः अधिकरणं यस्यास्सा । ‘इरा भूवाक्सुराप्सु स्यात्’ इत्यमरः । 'आकरो निवहोत्पत्तिस्थानश्रेष्ठेषु कथ्यते' इति मेदिनी । सा प्रसिद्धा श्रीः लक्ष्मीः आरात् क्षिप्रमिति यावत् । रायः धनानि राति ददाति ‘रा दाने' । अयमेव द्विचतुष्कबन्धो गोमूत्रिका च भवति । तल्लक्षणं तु--
बहिरन्तर्मण्डलस्थं तावत्कोष्ठविहारि यत् ।
कोणाष्टकयुतं तच्च द्विचतुष्कं विदुर्बुधाः ॥
तत्रायुग्माक्षरैः श्लिष्टा यदि युग्माक्षरैस्तु वा ।
गोमूत्रिकेति विख्यातिमिदमेव भजेत्तदा ॥
इति । एतदुक्तं भवति--दिङ्मुखकोणकं विदिङ्मुखकोणकं च द्वे चतुररचक्रे व्यतिकृते विलिख्य तस्य बहिरन्तश्च मण्डलरेखायुगं विलिख्य तत्प्रत्येकमष्टकोष्ठघटितं विधाय बहिर्मण्डले पूर्वार्धस्याश्लिष्टाक्षराणि अन्तर्मण्डले उत्तरार्धस्याश्लिष्टाक्षराणि विलिख्यार्धद्वयस्य श्लिष्टमक्षराष्टकं मण्डलद्वयमध्याष्टकोणेषु विलिखेत् । एवंच द्विचतुष्कोणविशिष्टत्वाद्द्विचतुष्कसंज्ञाऽस्य । इयं युग्माक्षरश्लिष्टानुलोमगोमूत्रिका । अत्र कोणस्पर्शपूर्वको मण्डलस्पर्शः । एवमयुग्माक्षरश्लिष्टत्वेऽपि गोमूत्रिका भविष्यति । तत्र कोणस्पर्शो मण्डलस्पर्शपूर्वक इति विशेषो बोध्यः ॥
गोमूत्रिकाबन्धः.
ता | रा | गौ | रा | का | रा | श्री | रा | यो | रा | ति | रा | द्ध | रा | स्स्मे | रा |
सा | रा | जा | रा | ध्या | रा | त्स्फा | राऽ | ही | रा | ध | रा | क | रा | धा | रा |
षोडशदलपद्मबन्धः.
द्विचतुष्कबन्धः
प्रकारान्तरेण गोमूत्रिका.
ता | गौ | का | श्री | यो | ति | द्ध | स्स्से |
रा | रा | रा | रा | रा | रा | रा | रा |
सा | जा | ध्या | त्स्फा | ही | ध | क | धा |
यथावा--
व्यालाद्रीलादोलालीलालोलाचलाचलाबाला ।
श्रीलाऽवेलाम्मे लातीलामालाङ्खिलाखिलाश्लीला ॥ २३६९ ॥व्यालाद्रेः शेषगिरेः इलायां धरायां दोलालीलायां आंदोलनविहारे लोला आसक्ता । अचला स्थिरहृदया अचलाबाला भूसुता । इदं विशेष्यम् । श्रीला श्रीमती । सिध्मादित्वान्मत्वर्थीयो लच् । लक्ष्मीवान् लक्ष्मणश्श्रीलः' इत्यमरः । खिलानि ध्वस्तानि अखिलानि अश्लीलानि अमङ्गलानि यया सा । अवेलां मर्यादातीतां इलामालां वाणीस्रजं मालिकासदृशीं वाचमित्यर्थः । मे लाति दत्ते । इति योजना ॥
यथावा--
धाम व्योमश्यामङ्कामङ्क्षेमक्रमक्षमन्नाम१। प्रेमस्थेमश्रीमद्भूमक्ष्मामक्लमन्नमस्याम ॥ २३७० ॥
व्योमेव श्यामं नीलं कामं पर्याप्तं यथा स्यात्तथा । क्षेमस्य कुशलस्य क्रमः परिपाटिः तस्य क्षमं अर्हं क्षेमकरमिति यावत् । प्रेम्णः स्थेमा स्थैर्यं तस्य श्रीः संपत् तदस्यास्तीति प्रेमस्थेमश्रीमत् । भूम्नः विभुत्वस्य क्ष्मां आवासभूमिं अक्लमं श्रमरहितं इदमुपलक्षणमखिलहेयगुणदवीयस्त्वस्य । धाम तेजः श्रीनिवासमिति भावः । नमस्याम प्रणमाम । नामेत्यभुपगमे विस्मये स्मरणे वा । यद्वा व्योमश्यामं धाम तेजः श्रीनिवासं अक्लमं भवक्लमाभावाय ‘निष्प्रत्यूहमुपास्महे’ इत्यादाविव अर्थाभावेऽव्ययीभावः ‘नाव्ययीभावादतोम्त्वपञ्चम्याः’ इति चतुर्थ्या अम् । कामं पर्याप्तं यथातथा नमस्याम पूजयामेति योजना । ‘नमोवरिवश्चित्रङः क्यच्’ इति नमश्शब्दात्पूजायां क्यच् । तदन्ताद्धातोलोडुत्तमैकवचनम् । ‘नाम कोपेऽभ्युपगमे विस्मये स्मरणेऽपिच' इति मेदिनी । क्षेमक्रमक्षमन्धामेति पाठेऽपि न चित्रभङ्गः । तदा-- क्षेमक्रमस्य क्षमं पर्याप्तं धाम स्थानं
क्षेमंकरस्थानभूतमित्यर्थः । अत्र श्यामं काममित्यादौ सर्वत्रानुस्वारस्य ‘वा पदान्तस्य' इति परसवर्णो बोध्यः । अन्यथा विवक्षितचित्रभ्रंशापत्तिः । यद्यपि ‘सबिन्दुकाबिन्दुकयोस्सविसर्गाविसर्गयोः' इति चित्रादावभेदकल्पनाऽभ्युपगता कविभिः । तथाऽपि यावद्बुद्धिबलोदयं तादृशक्लेशानाश्रयणमेव ज्याय इति । ध्येयम् । अस्मिन्पद्यद्वयेऽपि तारागौरेति प्रागुदाहृतपद्यवदेव पद्मादिबन्धा द्रष्टव्याः ॥
अथ गामूत्रिका
एकान्तरं तु वर्णानामेकरूपत्वमर्धयोः ।
गोमूत्रिकाख्यं चित्रं तदाहुश्चित्रविदो बुधाः ॥
अर्धयोः श्लोकस्य यथाक्रमं पूर्वोत्तरार्धयोः एकान्तरं एकाक्षरव्यवहितं यदेकरूपत्वं अभिन्नाकारत्वं तत् गच्छतो गोर्मूत्राकारकतया घटितत्वे गोमूत्रिकाख्यं चित्रमिति चित्रकाव्यविद आहुः । गोमूत्रमिव गोमूत्रिका । 'इवे प्रतिकृतौ’ इति कनि टापि ‘प्रत्ययस्थात्' इति इत्वम् ॥
यथा--
भोगीश्वरशैलक्षितिविलासलोलो ददातु नः कुशलम् । योगीश्वरजालस्तुतिकुलामलोऽसौ दधातु नो कुफलम् ॥ २३७१ ॥
भोगीश्वरशैलक्षितौ विलासे लोलः श्रीनिवास इत्यर्थः । नः कुशलं ददातु योगीश्वरजालस्य स्तुतिकुलैः स्तोत्रनिवहैः अमलः प्रसन्न इत्यर्थः । असौ श्रीनिवासः कुफलं कुत्सितफलं नो दधातुन पुष्णात्वित्यर्थः । इयं युग्माक्षरश्लिष्टगोमूत्रिका । उद्धारक्रमस्तु षोडशदलपद्मनिरूपणावसर एव प्रदर्शितः ॥
भो | गी | श्व | र | शै | ल | क्षि | ति | वि | ला | स | लो | लो | द | दा | तु | नः | कु | श | लं |
यो | गी | श्व | र | जा | ल | स्तु | ति | कु | ला | म | लो | सौ | द | धा | तु | नो | कु | फ | लं |
इदमेव पद्यं प्रागुपदर्शितरीत्या त्रिवीधिकगोमूत्रिकाकारोऽपि भवति । एवमुत्तरत्रापि ॥
यथावा--
फणिशैलशिरोधामा नवजलजविलोचनस्सदाऽपायात् । मणिलोलदुरोदामा भववलनविमोचनस्स मां पायात् ॥ २३७२ ॥
मणिना तरळरत्नेन लोलत् चलत् उरोदाम वक्षोहारो यस्य तथोक्तः सः भगवान् मां सदा अपायात् पायादिति योजना । इयमपि युग्माक्षरश्लिष्टगोमूत्रिकैव । अत्रापि प्रागुपदर्शितरीत्या बन्धलेखनप्रकारः ॥
यथावा--
माधव दूरे वचसां चरितं तव पापहारि दलितभवम् । मामव शौरेऽनुचरं चलितं भवतापतोऽरिकलितभयम् ॥ २३७३ ॥
भवतापतः संसारतापेन चलितं अनवस्थितचित्तं अरिभिः कामादिभिः कलितं भयं यस्य तं अरिषड्वर्गत्रस्तमित्यर्थः । अनुचरं तव किंकरं “कुरुष्व मामनुचरम्" इत्येतदनेन ज्ञाप्यते । मां अव रक्ष । इयमयुग्माक्षरश्लिष्टगोमूत्रिका ॥ उद्धारस्तु--
यथावा--
मनसिजसमानरूपे हृदयं लगतादशेषजगतीशे । महसि लसमानचापे सदये लघु तादृशेऽरिजयतीव्रे ॥ २३७४ ॥
अरिजयविषये तीव्रे तीक्ष्णे मनसिजसमानरूपे आनयतीत्यानं जगदुज्जीवयितृ रूपं मनसिजसमं आनरूपं यस्य तस्मिन्निति विग्रहः । यद्वा मान्यत इति मानं 'अकर्तरि च कारके' इति कर्मणि घञ् तादृशं च तत् रूपं च तेन सह वर्तत इति समानरूपं । मनसिज इव समानरूपमिति विग्रहः तस्मिन् कन्दर्पतुल्यमाननीयरूप इत्यर्थः । न तु समानं रूपं यस्येति विग्रहः । तथा सति 'ज्योतिर्जनपद' इत्यादिना समानशब्दस्य सभावापत्तेः । यद्वा समानशब्दात्प्रशंसायां रूपप्प्रत्ययः प्रशस्तं समानं समानरूपमिति विग्रहः । मनसिजस्य प्रशस्ते समाने इत्यर्थः । तत्तुल्यसौन्दर्ये इति
भावः । लसमानं लसनशीलं चापं यस्य तस्मिन् । लसतेश्चानश् । 'लसमाननवांशुकः इति माघः । लघु क्षिप्रं हृदयं लगतादिति योजना । इदमपि पद्यं अयुग्माक्षरश्लिष्टगोमूत्रिकारूपम् ॥हारबन्धो यथा--
श्रीलक्ष्मीलक्ष्मालङ्क्रियं घनाघनघनश्रियश्श्रयभयदम् । पूतध्यातञ्चेतश्शेषधराधरधरामणिङ्गुणिभणितम् ॥ २३७५ ॥
श्रीः लक्ष्मीः लक्ष्म श्रीवत्सश्च अलङ्क्रिये अलंकारौ यस्य तम् । घनाघनघनश्रियः प्रावृषेण्यजलदसान्द्ररुचः भयदं तातोऽपि नीलमिति यावत्। पूतैः शुद्धान्तःकरणैः मुनिभिः ध्यातं उपासितम् । गुणी अनन्तकल्याणगुणाकर इति भणितं श्रुतिभिः प्रतिपादितं शेषधराधरधरायाः मणिं रत्नभूतं श्रीनिवासं हे चेतः हृदय श्रय आश्रयस्व ॥ उद्धारस्तु-कविनामाङ्कितगवाक्षबन्धो यथा--
कृत्तोष्णाभविनिर्यद्रुचिमदविकसनमणिं कलये । विनतजनादरणकृतं फणिगिरितिलकं हरिं ध्येयम् ॥
उष्णाभात् भानोः विनिर्यन्त्याः रुचेः प्रभायाः यो मदः तस्य विकसनं उन्मेषः तत् कृत्तं छिन्नं येन स तथोक्तः मणिः कौस्तुभो यस्य तं दिनमणिघृणिमदक्षपणनिपुणमणिवरोरस्कमित्यर्थः । विनतजनानां आदरणकृतं फणिगिरितिलकं हरिं ध्येयं कलये ध्यायामीत्यर्थः । लक्षणं तु--
उपर्युपरि कोष्ठानि भवेयुर्नव मध्यतः ।
तिर्यक्कोष्ठान्यपि तथा भवेयुर्मध्यतो नव ॥
उभयोरनयोः पार्श्वद्वये कोष्ठान्यनुक्रमात् ।
सप्त पञ्च तथा त्रीणि निष्पद्येरन्यथा तथा ॥
तुल्यप्रमाणा विलिखेत्तिर्यगूर्ध्वं च रेखिकाः ।
मध्यवीधीशिरःकोष्ठादारभ्य विलिखेद्बुधः ॥
एकं त्रीन्पञ्च सप्ताथ नव सप्त च पञ्च च ।
त्रीनेकं चेति पद्यस्य वर्णांस्तिर्यगनुक्रमात् ॥
ऊर्ध्वमध्यमवीधीस्थवर्णैः प्रमिळितैः क्रमात् ।
स्वोद्देश्यकविकाव्यादिनाम्नामुद्धृतिरिष्यते ॥
गवाक्षो नाम बन्धोऽयं सरलः कविसम्मतः ।
अत्र ऊर्ध्वमध्यमविध्यां ‘कृष्णार्यकविकृतिरियम्’ इति कविनामादिकमुद्धृतम् । इममेव रथबन्ध इत्यप्याहुः ॥
अमलं जगतां कारणमुदाररत्नावभासितोरस्कम् । महनीयं विनुमः फणिगिरिराजविहारि किन्नरोद्गेयम् ॥ २३७७ ॥
अत्र ऊर्ध्वमध्यमवीध्यां 'अलंकारमणिहारोऽयम्' इति काव्यनामोद्धारः
इत्यलंकारमणिहारे शब्दालंकारसरो द्वाविंशोत्तरशततमः.