अलङ्कारमणिहारः (भागः ४)/ग्रन्थोपसंहारः
असमग्रं गार्हस्थ्ये स्वेन कृतां कृतिमिमां यतिवरेण्यः । श्रीशमुदे समपूरि श्रीकृष्णब्रह्मतन्त्रपरकालः ॥ २३७८ ॥
अपूरि अपूरयत् ‘दीपजनबुधपूरि’ इति पूरयतेः कर्तरि लुङि चिण् ॥
मानातिगनानागमगानार्हयशाः फणीशशिखरीशः । प्रीणातु श्रीनाथस्स्वेनानेनारचय्य कृतिमेनाम् ॥ २३७९ ॥
कवनं मम तव नाथ स्तवनायानर्हमिति विदित्वाऽपि । यदभवमिह साहसिकस्तदखिलमपि बालकृतमिति सहेथाः ॥ २३८० ॥
श्रुतयोभृशमप्रतिहतगतयोऽपि यतस्स्वतो निवर्तन्ते । मितमतिरपि तस्य तव स्तुतिमतनवमिति तु चपलतोल्लासः ॥ २३८१ ॥
सुकुमाराकृतिवर्णा सालंकरणा च सुरुचिकरचरणा । कविताश्रीरेत्य त्वां कमितारं नाथ मदुदितोल्लसतात् ॥ २३८२ ॥
सुकुमाराकृतयो वर्णाः अक्षराणि यस्यां सा सानुस्वारकोमलवर्णघटितेत्यर्थः । पक्षे सुकुमारौ आकृतिवर्णौ यस्यास्सेति । सुरुचिकराः आस्वाद्यतमाः चरणाः श्लोकपादाः यस्या सा । अन्यत्र सुरुचि शोभनच्छवि करचरणं पाणिपादं यस्यास्सेति । मदुदिता मया उदीरिता मत्तो जातेति च कविताश्रीः कवनलक्ष्मीः उल्लसतात् प्रकाशतां प्रमोदतां च ॥
धन्या मम कवितेव क्वान्या भवतेह मृग्यतां जगति । कन्यामिवोदधेर्यां मान्यां हृद्यां तनोति फणिगिरिराट् ॥ २३८३ ॥
मान्यां पूज्यां उदधेः कन्यामिव यां मान्यां मायाः श्रियः अन्यां तस्याः द्वितीयां सतीं हृद्यां वक्षस्स्थां हृदयप्रियां च तनोतीति योजना ॥
नन्दतु वा निन्दतु वा मन्दमनीषो निशम्य कृतिमेताम् । हर्षं वाऽमर्षं वा सर्षपमात्रमपि नैव विन्देम ॥ २३८४ ॥
प्रौढतरो हि निबन्धो मूढमतेर्दुर्निरीक्ष एव भवेत् । दीपोऽतिमात्रमुज्ज्वलरूपो नेत्रातुरस्येव ॥प्रगुणामलसुगुणावलिमसृणितमाद्यन्तमेकरूपतया । सुवसनमिव सुकवनमिह न मन्दभाग्योऽनु विन्दते क्वापि ॥ २३८६ ॥
कोमलधीरस्मादपि कोमलमेकमपि योऽभिनन्देच्छ्लोकम् । इह यस्तु कोपकारी कवयेऽस्मै भवति कोऽपकारी तस्मात् ॥ २३८७ ॥
कोमलं न तु कठिनं एकमपि न तु पञ्चषान् द्वित्रान्वा, श्लोकं अभिनन्दति यः अस्मात्पुंसः एतदपेक्षया कः पुमान् अमलधीः असूयादिकालुष्यविधुरतया स्वच्छधीः अस्ति । इह अस्मिन्नेकस्मिन्नपि श्लोके यस्तु कोपकारी असूयाकृदिति यावत् तस्मात्पुंसोऽपि अस्मै ग्रन्थकृते कवये अपकारी कस्स्यात् । असूयापेक्षया कोन्योऽपकार इति भावः ॥
दुष्प्रेक्षो यो भविता दुष्प्रेक्षस्तेन हि प्रबन्धोऽयम् । सुप्रेक्षस्तु भवेद्यस्सुप्रेक्षस्तेन नात्र संदेहः ॥
दुष्टा अविवेकासूयादिदोषदूषिता प्रेक्षा मतिः यस्य सः 'प्रेक्षोपलब्धिश्चित्संवित्' इत्यमरः । दुःखेन प्रेक्ष्यत इति दुष्प्रेक्षः प्रेक्षितुमशक्य इत्यर्थः । ईक्षतेः ‘ईषद्दुस्सुषु कृछ्राकृछ्रार्थेषु खल्' इति खल् । एवमग्रे सुप्रेक्ष इत्यत्रापि ॥
अनधिगतकाव्यपरिमळलेशाः कतिचन गभीरभावाढ्ये । कविवचने मा जात्वपि गुणदोषविवेकचापलं यान्तु ॥ २३८९ ॥सरसकविवचनपरिमळमभिजानन्ति हि बुधा न जात्वन्ये । प्रतिपर्वतशिखरस्थैर्न ह्युपलैर्गृह्यते सूची ॥ २३९० ॥
सरसकवितासर्वस्वज्ञैश्शिरस्पदलालिता कृतिरतितरां तद्गन्धास्वादनेऽतिदवीयसः । धुरि न पदमाधत्तां मृद्वी नवा सुममालिका शिरसि सुदृशां लाल्या हस्ते कपेरिव जात्वपि ॥ २३९१ ॥
अन्तर्बहिरपि रसलवदवीयसीं रसविदग्रणीः को वा । सिकतामिव दुष्कवितां चर्वितुमीहेत सर्वतः कठिनाम् ॥ २३९२ ॥
आपाततोऽतिकठिनाऽप्यास्वाद्यत एव रसघनावयवा । कविता प्रौढकवीनां भविता ननु खण्डशर्करातुलिता ॥ २३९३ ॥
अविवेचितमपि मधुरं विवेचितं त्वन्तरतिरसघनत्वात् । कदलीफलमिव सत्कविकवनं रसिकस्य भाति मधुरतमम् ॥ २३९४ ॥
अविवेचितं—-अविचारितं अपृथक्कृतोपरित्वक्च । विवेचितं विचारितं पृथक्कृतत्वक्च । रसघनत्वात् केवलरसमयत्वात् । अन्यत्सुगमम् ॥सम्यग्विवेचनेन स्वच्छीभूतं व्यनक्ति गुणजातम् । तूलमिव काव्यजालं न यदि तथा जातु न गुणलेशमपि ॥ २३९५ ॥
विवेचनेन विचारणेन । पक्षे बीजतः पृथक्करणेन । स्वच्छीभूतं निर्मलीभूतं सम्यग्गृहीतार्थमिति च । तूलमिव--कार्पास तूलमिव काव्यजालं गुणजातं सौशब्द्यादिगुणनिवहं तन्तुसन्तानं च व्यनक्ति ॥
अनुगुणविवरणमसृणं ससितं नवनीतमिव रसज्ञानाम् । भव्यतमं काव्यमिदं नव्यमतिस्वाद्यतां प्रपद्येत ॥ २३९६ ॥
ससितं--सशर्करं 'शर्करा सिता’ इत्यमरः । रसज्ञानां रसिकानां रसनानां च ॥
भूयोगुणे प्रबन्धे प्रायो दोषं न गणयति रसज्ञः । मधुरमधुरसनरसिकस्सरघोद्गीर्णमिति चिन्तयति किं तत् ॥ २३९७ ॥
गुणगणयिता कृताविह निरस्यति तरामनीषदपि दोषम् । दूरं त्वचं निरस्यति रसं रसयिता नरो रसालस्य ॥ २३९८ ॥
सरसकविवचननलिनं समदकुतार्किकलुलायवदमृद्गन् । अपरुषविमर्शतः कविरामोदं मन्दपवन इव विन्देत् ॥ २३९९ ॥
अपरुषविमर्शतः-- सरळतमविचारेण कोमलस्पर्शेन च । आमोदं-- हर्षं परिमळं च ॥
न प्राचीनत्वं वा नव्यत्वं वाऽपि रम्यताहेतुः । गुण एवैको ग्रन्थं गुणिनो निर्मत्सरा इममुपाध्वम् ॥
उपाध्वं उपासीढ्वमित्यर्थः । उपपूर्वकादासेर्लोट् मध्यमबहुवचनम् । 'धि च' इति सलोपः ॥
प्राचीनमेव कवनं मधुरं न नवीनमिति कृतिप्रवराः । भवतां हृदि मा भवतादभिनवमपि मधु कुतो न मधुरं स्यात् ॥ २४०१ ॥
प्रतनं वाऽस्तु नवं वा कवनं गुणवद्बुधैरुपादेयम् । द्वीपेऽन्यस्मिन्निह वाऽप्युदेतु रत्नं बुधा न नाददते ॥ २४०२ ॥
योऽलंकृतीरिमा मुहुरालम्ब्य धियं प्रसाधयेत निजाम् । सोऽलं कृतीतरकृतीः कूलंकषधीः कथं लुलोकिषते ॥ २४०३ ॥
यः कृती इमाः एतावता प्रबन्धेन निरूपिता अलंकृतीः अलंकारान् भूषणानीत्यपि । गम्यते आलम्ब्य प्राप्य निजां धियं स्ववल्लभामित्यपि व्यज्यते । प्रसाधयति अलंकरोति । अलं कूलंकषधीः प्रबन्धगतचमत्कृतिसर्वस्ववेदी उचितानुचितविमर्शकारीत्यपि व्यज्यते । सः कृती कुशल: इतरकृतीः अन्यानसारान् प्रबन्धान् इतरवधूरित्यपि व्यज्यते । कथं लुलोकिषते द्रष्टुमपि नेच्छति किमुत पश्येदिति । अत एवात्र समासोक्त्यलंकारः ॥
अभ्यस्तैकैकविद्याः क्वचन मम कृतिं वीक्ष्य हृष्यन्तु मा वा तत्तादृक्सर्वविद्यापरिचयनिपुणा हन्त हृष्यन्त्यवश्यम् । प्रायो मात्सर्यमेषां न खलु विधिवशाद्यद्यमीषामपि स्यात् किं कार्यं श्रीहयास्यो जयति गुणनिधिस्सर्वविद्यानिषद्या ॥
विद्याविहृतिनिषद्या हृद्या तुरगानना धुतावद्या । हृद्याहिता प्रसद्यादाद्या सा देवता बुधासाद्या ॥ २४०५ ॥
ब्रह्माणं प्रविधाय नाभिकमले वेदानपि प्राहिणोद्यत्तस्मै मधुकैटभोत्थविपदो यत्त्रायते स्माथ तान्। तद्धामावतु पाञ्चकालिकपथप्रस्थाननिष्ठैर्यतिश्रेष्ठश्रीनिगमान्तदेशिकमुखैर्दत्तार्हणं देशिकैः ॥
या वाण्या यतिराजराजवशगा चक्रेऽर्चिता या चिरात् प्राचार्यैर्निगमान्तदेशिकमणिश्रीब्रह्मतन्त्रादिमैः । याऽध्यास्ते परकालसंयमिवरास्थानीमिदानीमपि श्रेयस्संविदधातु सैन्धवमुखी सैषा परा देवता ॥ २४०७ ॥
श्रीमद्भाष्यं निशम्याद्भुतमिति शिरसा शारदा श्लाघमाना स्वार्चां यां स्वीयपीठे सह यतिपतये भाष्यकाराख्ययाऽदात् । सेयं वागीशमूर्तिर्यतिपतिकुरुकेशागमान्तार्यमुख्यैः क्लृप्तार्चा ब्रह्मतन्त्रोत्तमकलिमथनास्थानपूज्याऽधुनाऽऽस्ते ॥
ज्ञानानन्दामलात्मा कलिकलुषमहातूलवातूलनामा सीमातीतात्मभूमा मम हयवदना देवता धावितारिः । याता श्वेताब्जमध्यं प्रविमलकमलस्रग्धरा दुग्धराशिस्मेरा सा राजराजप्रभृतिनुतिपदं संपदं संप्रदत्ताम् ॥ २४०९ ॥
वन्दे तं देवमाद्यं नमदमरमहारत्नकोटीरकोटीवाटीनिर्यत्ननिर्यद्घृणिगणमसृणीभूतपादाम्बुजातम् ।
श्रीमद्रामानुजार्यश्रुतिशिखरगुरुब्रह्मतन्त्रस्वतन्त्रैः पूज्यं प्राज्यं सभाज्यं कलिरिपुगुरुभिश्शश्वदश्वोत्तमाङ्गम् ॥ २४१० ॥निरालोके लोके विमतकथकध्वान्तनिवहैः श्रियःपत्याऽऽज्ञप्तो धरणिमवतीर्यातिकृपया । व्यतानीद्योभाष्यद्युमणिमखिलाज्ञानहृतये स जीयाच्छ्रीरामानुजमुनिवरात्मा फणिपतिः ॥ २४११ ॥
टीकाकारस्सूत्रकारोऽपि यस्य व्यासाचार्यो भारतख्यातकीर्तिः । तच्छ्रीभाष्यं श्रीयतीन्द्रप्रणीतं भूयान्नित्यं भूयसे श्रेयसे नः ॥ २४१२ ॥
शेषाद्रीश्वरपादपद्मयुगळीकैंकर्यहेतोः पुरा या घण्टा किल भक्तिनम्रमनसा पद्मासनेनार्पिता । तत्तत्तन्त्रपिशाचधूननकृते संकल्पतः श्रीपतेः जातायै निगमान्तदेशिकनिभात्कस्यैचिदस्यै नमः ॥ २४१३
जिह्वासिंहासनाग्रस्फुटनटनतुरङ्गास्यमञ्जीरशिञ्जास्पर्धानिर्धार्यवाचानिचयनिचुलितप्रत्यनीकप्रचारः । श्रीमान्रामानुजार्यप्रथिततममतश्रीललामाऽर्कधामा नित्यं श्रुत्यन्तविद्यागुरुरिह जगतां भद्रवत्तां विधत्ताम् ॥ २४१४ ॥
संसाराटोपतापक्षपणनिपुणवाग्धोरणीसारणीश्रीः वाणीसंपूज्यपादादिमतुरगमहामन्दुराऽऽनन्दराशिः । संख्यातीतप्रबन्धप्रशमितविमतव्रातशङ्काकलङ्को मोदान्वेदान्तसूरिर्दिशतु गुरुवरस्सर्वतन्त्रस्वतन्त्रः ॥ २४१५ ॥
आदिश्रीवण्शठारिर्यतिपतिरभवद्यत्पदाब्जोपजीव्यः सोऽयं श्रीवत्सवंश्यो वरदगुरुरपि च्छात्रतां यत्र भेजे । द्वैतीयीकावतारो य इह यतिपतेर्ब्रह्म यश्च द्वितीयं छात्रो वेदान्तसूरेस्स खलु विजयतां ब्रह्मतन्त्रस्वतन्त्रः ॥ २४१६ ॥
यच्चक्राङ्कप्रभावाद्यदुनृपतिमुखाः प्राज्यसाम्राज्यगोपा भूपास्सर्वेऽपि खर्वेतरनिजयशसश्श्रीमहीशूरपुर्याम् । तेऽमी शेषाद्रिवासाश्श्रुतिमकुटगुरूत्तंससिद्धान्तसिद्धास्सर्वेऽप्युर्व्यां प्रथन्तां यतिकुलपतयो ब्रह्मतन्त्रस्वतन्त्राः ॥ २४१७ ॥
डिल्लीशानार्चिताङ्घ्रिर्यतिकुलनृपतेर्यस्तृतीयोऽवतारो दिव्ये देशे समग्रेऽकृत निगमशिरोदेशिकार्चाप्रतिष्ठाम् । यश्श्रीमद्ब्रह्मतन्त्रोत्तमयतितिलकास्थानलक्ष्मीनिधानं कुर्वन्नार्तप्रपत्तिं स्फुटनिजमहिमां न्यासविद्यामतानीत् ॥ २४१८ ॥यश्श्रीकर्णाटसिंहासनविदितमहीशूरराजाधिराजान् कृष्णाद्यान्वैष्णवाग्र्यानकृत समहिळाञ् शङ्खचक्राङ्कनाद्यैः । व्याख्यां भाष्यस्य तद्वत्परमुपनिषदां द्रामिडीनां च चक्रे विख्यातोदात्तभूमा स जयतु परकालाभिधानो यतीन्द्रः ॥ २४१९ ॥
श्रीश्रीनिवासनिगमान्तरमानिवासरामानुजाख्यपरकालमहायतीन्द्राः । व्यूहा इवात्तवपुषो जगतां हिताय चत्वार ऊर्जितसमग्रगुणा जयन्तु ॥
घण्टावतारनिगमान्तरमानिवासश्रीदेशिकेन्द्रयतिपुङ्गवरङ्गनाथाः । श्रीब्रह्मतन्त्रपरकालपदावतंसा जीयासुरुज्ज्वलगुणा गुरुसार्वभौमाः ॥ २४२१ ॥
दुराधर्षश्रीमद्यतिपतिमतस्थापनपराः परात्यल्पप्रज्ञप्रथितकुहनापद्धतिहराः । हरौ लक्ष्मीनाथे निहितनिखिलस्वावनभरा धरायां जीयासुः प्रथितयशसोऽस्मद्गुरुवराः ॥ २४२२ ॥
श्रीवासब्रह्मतन्त्राग्रिमपदकलिजिद्देशिकेन्द्रानघाङ्घ्रिद्वन्द्वाब्जानुग्रहात्तप्रतिपदविविधग्रन्थनिर्मा-णशक्तिः । व्याधत्तैतद्वृषाद्रीश्वरसुगुणमणीहार्यलंकारशास्त्रं श्रीकृष्णब्रह्मतन्त्रादिमपदपरकालाभिधानोयतीन्द्रः ॥ २४२३ ॥
पञ्चसहस्रेष्वेकाधिकेषु (५००१) यातेषु कलियुगेऽब्देषु। अब्दे विकारिनामनि पूर्णोऽलंकारमणिहारः ॥ २४२४ ॥
अधिकण्ठं सोत्कण्ठं विधृतो यैरेष विश्रुतौज्ज्वल्यः । प्रथयति लक्ष्मीमेषां प्रायोऽलंकारमणिहारः ॥ २४२५ ॥
रसवत्प्रेयस्सुन्दरमूर्जस्विसमाहितप्रियंकरणम् । जयतु सनातनमिथुनं सालंकरणं मदीयकवनं च ॥
रसवत् शृङ्गारादिरसशालि । प्रेयः अन्योन्यप्रियतमं सुन्दरं । पक्षे रसवत्प्रेयोभ्यां तन्नामालंकाराभ्यां सुन्दरम् । ऊर्जस्वि बलवत् । समाहितानां समाहितमनस्कानां योगिनां प्रियंकरणम् । पक्षे ऊर्जस्विसमाहिताभ्यां तन्नामालंकाराभ्यां प्रियंकरणं । सनातनमिथुनं लक्ष्मीनारायणात्मकं द्वन्द्वं मदीयकवनं च जयतु ॥
भवतु गुणोऽन्यो मा वा भवदैकान्त्यं गुणो महानस्याः । पत्या सतीव तदियं प्रीत्याऽऽदृत्या त्वयाऽच्युत कृतिर्मे ॥ २४२७ ॥जयतु जगति नित्यं लक्ष्मणार्यस्य पक्षो जयतु निगमचूडादेशिकेन्द्रस्य सूक्तिः । जयतु हयमुखीयास्थानसंपत्समृद्धिः जयतु च वृषशैले श्रीनिवासस्थिरश्रीः ॥ २४२८ ॥
इति श्रीमद्वेदमार्गप्रतिष्ठापनाचार्य परमहंसपरिव्राजकाचार्य सर्वतन्त्रस्वतन्त्रोभयवेदान्ताचार्य श्रीमत्कविकथककण्ठीरवचरणनलिनयुगळ विन्यस्तसमस्तात्मभर श्रीमद्रामानुजसिद्धान्तनिर्धारणसार्वभौम श्रीमच्छ्रीनिवासब्रह्मतन्त्रपरकालसंयमिसार्वभौमकरुणाकटाक्षवीक्षिततत्कृपासमधिगतब्रह्मविद्यावैशद्यस्य तत्ताद्दश श्री श्रीनिवासदेशिकेन्द्रब्रह्मतन्त्रपरकालयतीन्द्र महादेशिक कृपासमुपार्जितरहस्यसंप्रदायस्य तच्चरणनलिनसमर्पितात्मरक्षाभरस्य तादृश
श्रीरङ्गनाथब्रह्मतन्त्रपरकालमुनिवरेण्यमहादेशिककृपासुधासारसं
प्राप्त तुरीयाश्रम ब्रह्मतन्त्रपरकालगुरुवरास्थानाभिषेकस्य श्री
कर्णाटदिव्यरत्नसिंहासनसाम्राज्याभिषिक्त श्रीमन्मही
शूरनगराधीश्वर श्रीकृष्णराजसार्वभौम संततिसंतत
देशिकस्य श्रीकृष्णब्रह्मतन्त्रपरकालयतीन्द्रस्य
कृतिषु अलंकारमणिहाराख्यमलंकार-
शास्त्रं संपूर्णम्.
श्री श्रीब्रह्मतन्त्रपरकालगुरुपरम्परायै नमः
समाप्तोयं प्रबन्धः