अलङ्कारमणिहारः (भागः ४)/लक्षणश्लोकाः
श्रीः
अलङ्कारमणिहार लक्षणश्लोकाः.
जयतु श्रीवृषाद्रिस्थं जगत्त्रितयरक्षणम् । |
(१) उपमा.
उद्भूता भाति साम्यश्रीरुभयोर्यत्र सोपमा । |
प्राचां मते विभागोऽस्या उपमायाः प्रपञ्च्यते । |
क्वचिल्लुप्ता वाचकोपमेयाभ्यामपि संमता । (२) उपमेयोपमा उपमेयोपमा सा स्यादुपमानोपमेययोः । (३) अनन्वयः. अनन्वयो यदेकस्यैवोपमानोपमेयता ॥ (४) असमः उपमायास्सर्वथैव निषेधोऽसम उच्यते । (५) उदाहरणम्. सामान्योक्तसुबोधाय तदेकांशनिरूपणात् । (६) प्रतीपम्. प्रतीपमुपमानस्य वर्ण्या चेदुपमेयता । |
लाभाद्वर्ण्योपमेयस्य स्यादन्यानादरश्च तत् । |
(७) रूपकं.
यत्स्याद्विषयिरूपेण विषयस्योपरञ्जनम् । |
निरङ्गं तद्विदुर्यत्स्यादङ्गिमात्रस्य रूपणम् । (८) परिणामः विषयी स्वात्मना यत्र प्रकृतानुपयोगतः । (९) उल्लेखः ग्रहीतृभिरनैकैर्यदेकस्यानेकधा ग्रहः । (१०) स्मृतिः या सादृश्यपरिज्ञानोद्बुद्धसंस्कारतस्स्मृतिः । (११) भ्रान्तिः. चमत्कृतिमती भ्रान्तिर्यस्मिन् सादृश्यहेतुका । (१२) सन्देहः. सम्भावनानिश्चयान्यतरभिन्ना मनोरमा । |
(१३) अपह्नुतिः. आहार्याभेदबुद्धेश्चेन्निषेधोऽङ्ग्यङ्गमेव वा ॥ (१४) उत्प्रेक्षा. यदन्यधर्मसंबन्धादन्यस्यान्यत्वतर्कणम् । (१५) अतिशयोक्तिः. निगीर्य विषयं यत्र विषय्येवाध्यवस्यते । |
योगेऽप्ययोगोऽसंबन्धातिशयोक्तिरुदीर्यते । (१६) तुल्ययोगिता वर्ण्यानामेव वाऽन्येषामेव वा धर्म एककः । (१७) दीपकम् तद्दीपकं स्याद्यद्वर्ण्यावर्ण्ययोरेकधर्मता ॥ (१८) आवृत्तिदीपकम्. समस्तयोर्व्यस्तयोर्वाऽऽवृत्तौ पदतदर्थयोः । (१९) प्रतिवस्तूपमा सादृश्यावसिते वाक्यद्वये चेद्धर्म एककः । (२०) दृष्टान्तः बिम्बत्वप्रतिबिम्बत्वापन्नधर्मादिकं द्वयोः । |
(२१) निदर्शना उपात्तयोरर्थयोश्चेदार्थाभेदः प्रकीर्त्यते । (२२) व्यतिरेकः उक्तः कश्चिद्विशेषश्चेदुपदुपमानोपमेययोः । (२३) सहोक्तिः गुणप्रधानताभाजोरर्थयोरुभयोर्यदा । (२४) विनोक्तिः किंचिद्विना प्रस्तुतस्य रम्यताऽरम्यताऽपि वा । (२५) समासोक्तिः साम्याद्भेदकमात्रस्य गम्यमप्रस्तुतं यदि । (२६) परिकरः साभिप्राये परिकरोऽलंकारस्स्याद्विशेषणे । |
(२७) परिकराङ्कुरः विशेष्यं यदि साकूतं भवेत्परिकराङ्कुंरः. ॥ (२८) श्लेषः वर्ण्यावर्ण्योभयालम्बी श्लेषोऽनेकार्थसंश्रयः । (२९) अप्रस्तुतप्रशंसा स्यात्प्रस्तुतस्य गमकं यत्राप्रस्तुतवर्णनम् । |
(३०) प्रस्तुताङ्कुरः प्रस्तुतस्य प्रस्तुतेन व्यञ्जने प्रस्तुताङ्कुरः ॥ (३१) पर्यायोक्तम् पर्यायोक्तं त्वन्यभङ्ग्या कथितं चेद्विवक्षितम् । (३२) व्याजस्तुतिः स्तुत्याऽभिव्यज्यते निन्दा निन्दया वा स्तुतिर्यदि । (३३) व्याजनिन्दा व्याजनिन्दा तु निन्दाया निन्दया व्यङ्ग्यता यदि ॥ (३४) आक्षेपः स आक्षेपो भवेत्स्वोक्तिनिषेधो यो विमर्शतः । (३५) विरोधः स विरोधोऽविरोधेऽपि विरोधाभासता यदि । |
(३६) विभावना कारणव्यतिरेकेऽपि कार्योत्पत्तिर्विभावना । (३७) विशेषोक्तिः विशेषोक्तिः पुष्कलेऽपि हेतौ कार्यं न चेद्भवेत् ॥ (३८) असंभवः असंभाव्यत्वकथनमर्थासिद्धेरसंभवः ॥ (३९) असंगतिः भिन्नाधिकरणत्वं यद्विरुद्धं हेतुकार्ययोः । (४०) विषमम् अनानुरूप्यभाजोर्यद्धटनं विषमं हि तत् । (४१) समम् यत्रानुरूपघटनं वर्ण्यते तत्समं विदुः । |
यत्किञ्चिदिष्टसिद्ध्यर्थं य उद्योगो वितन्यते । (४२) विचित्रम् इष्टैषिणेष्टसिद्ध्यै तद्विपरीतं क्रियेत चेत् । (४३) अधिकम् आधेयाधिक्यकथनमाधारान्महतोऽधिकम् । (४४) अल्पम् आधारसौक्ष्म्यमाधेयात्सूक्ष्मादल्पं तदुच्यते । (४५) अन्योन्यम् विशेषाधानमन्योन्यमन्योन्यालंकृतिं विदुः । (४६) विशेषः विशेषस्स्याद्विनाऽऽधारादाधेयं वर्ण्यते यदि ॥ (४७) व्याघातः तत्कार्यसाधनं वस्तु तद्विरुद्धस्य साधनम् । |
सौकर्यतो निबद्धा चेद्व्याघातस्सोपि कथ्यते ॥ (४८) कारणमाला पूर्वपूर्वैर्वस्तुभिस्स्यादुत्तरोत्तरकारणैः । (४९) एकावळी उत्तरस्योत्तरस्य स्यात्पूर्वं पूर्वं विशेषणम् । (५०) मालादीपकम् मालादीपकमेतत्स्याद्दीपकैकावळीयुतेः । (५१) सारः सैवोत्तरोत्तरोत्कर्षे सार इत्युच्यते बुधैः । (५२) यथासंख्यम्. उद्देशक्रमतोऽर्थानां संबन्धो यत्र कथ्यते । (५३) पर्यायः आधेयस्य क्रमादेकस्यानेकाधारसंश्रयः । (५४) परिवृत्तिः निमयः परिवृत्तिस्स्यादर्थानां स्यात्समासमैः । |
(५५) परिसंख्या एकस्यानेकसंप्राप्तौ यदेकत्र नियन्त्रणम् । (५६) विकल्पः विकल्पः पाक्षिकप्राप्तिर्वर्ण्यते चेद्विरुद्धयोः । (५७) समुच्चयः यौगपद्यात्पदार्थानामन्वयस्स्यात्समुच्चयः । (५८) कारकदीपकम् क्रमिकाणां क्रियाणां चेदेककारकगामिनाम् । (५९) समाधिः कारणान्तरसान्निध्यवशात्कार्यस्य कस्यचित् । (६०) प्रत्यनीकम् बलिनि प्रतिपक्षे वा तत्पक्षे वा तिरस्कृतिः । (६१) काव्यार्थापत्तिः दण्डापूपिकया यत्रार्थान्तरापतनं भवेत् । |
(६२) काव्यलिङ्गम् यत्सामान्यविशेषत्वानालीढं स्यात्समर्थनम् । (६३) अर्थान्तरन्यासः समर्थनं विशेषस्य सामान्येनास्य तेन वा । (६४) विकस्वरः सामान्येन विशेषस्य क्रियते यत्समर्थनम् । (६५) प्रौढोक्तिः यदुत्कर्षानिमित्तस्य तन्निमित्तत्वकल्पनम् । (६६) सम्भावना सम्भावनं स्याद्यद्येवं स्यादित्यूहोऽन्यसिद्धये ॥ (६७) मिथ्याध्यवसितिः मिथ्यार्थोऽन्यः कल्प्यते चेत्किञ्चिन्मिथ्यात्वसिद्धये । (६८) ललितम् धर्मिणि प्रस्तुते वर्ण्यवृत्तान्तोल्लेखनं विना । (६९) प्रहर्षणम् विना यत्नादभीष्टार्थसिद्धिस्स्याच्चेत्प्रहर्षणम् । |
उपायसिद्धये यत्ने क्रियमाणे यदृच्छया । (७०) विषादनम् यदभीष्टविरुद्धार्थलाभस्तत्स्याद्विषादनम् । (७१) उल्लासः यदन्यगुणदोषाभ्यामन्यस्य गुणदोषयोः । (७२) अवज्ञा न स्यातां यदि ते ताभ्यां साऽवज्ञालंकृतिर्भवेत् । (७३) अनुज्ञा अनुज्ञा सा गुणौत्सुक्याद्दोषस्याभ्यर्थना यदि । (७४) तिरस्कृतिः गुणस्य दोषसंबन्धाद्दोषश्चेत्सा तिरस्कृतिः । (७५) लेशः गुणो दोषतया दोषो गुणत्वेनाथवा यदि । (७६) मुद्रा प्रकृतार्थपरैश्शब्दैर्मुद्रा सूच्यार्थसूचनम् । (७७) रत्नावळी प्रसिद्धसहपाठानामर्थानां न्यसनं यदि । |
(७८) तद्गुणः स्वगुणस्य परित्यागात्तद्भणोऽन्यगुणग्रहः । (७९) पूर्वरूपम् स्वगुणस्य पुनः प्राप्तिः पूर्वरूपमितीर्यते ॥ (८०) अतद्गुणः अतद्गुणं सङ्गतान्यगुणानङ्गीकृतिं विदुः । (८१) अनुगुणः स्वसजातीयगुणवदन्यसान्निध्यतो यदि । (८२) मीलितम् न दृश्यते भेद एव सादृश्याद्यदि मीलितम् । (८३) सामान्यम् न गृह्यते विशेषश्चेत्साम्यात्सामान्यमीरितम् । (८४) उन्मीलितम् स्फूर्तौ समानगुणयोर्भेदस्योन्मीलितं विदुः । (८५) विशेषकम् द्वयोर्वैधर्म्यसंस्फूर्त्तौ तुल्ययोस्स्याद्विशेषकः । |
(८६) उत्तरम् उन्नतिप्रश्नमथवा निबद्धप्रश्नमुत्तरत् । (८७) चित्रप्रश्नः प्रश्नः प्रश्नान्तराभिन्नो यदि वान्यार्थगर्भितः । (८८) सूक्ष्मम् अन्याशयज्ञसाकूतचेष्टितं सूक्ष्ममीर्यते । (८९) पहितम् परवृत्तज्ञसाकूतचेष्टितं पिहितं मतम् ॥ (९०) व्याजोक्तिः हेत्वन्तरोक्त्या व्याजोक्तिर्यदाकारस्य गूहनम् । (९१) गूढोक्तिः गूढोक्तिरितरोद्देश्यमन्यं प्रत्युच्यते यदि ॥ (९२) विवृतोक्तिः विवृतोक्तिश्श्लेषगूढं विवृतं कविना यदि । (९३) युक्तिः युक्तिस्स्यान्मर्मणो गुप्त्यै क्रियया परवञ्चनम् ॥ (९४) लोकोक्तिः लोकोक्तिस्स्यादसौ लोकप्रवादानुकृतिर्यदि । |
(९५) छेकोक्तिः स्याच्चेल्लोकोक्तिरन्यार्थगर्भा छेकोक्तिरिष्यते ॥ (९६) वक्रेक्तिः अन्याभिप्रायकान्योक्तमन्यथाऽन्येन योज्यते । (९७) स्वभावोक्तिः जात्यादिस्थस्वभावोक्तिस्स्वभावोक्तिरितीर्यते । (९८) भाविकम् वर्णनादद्भुतार्थस्य वस्तुनी भूतभाविनी ॥ (९९) उदात्तम् तदुदात्तं वस्तु यत्र वर्ण्यते सुसमृद्धिमत् । (१००) अत्युक्तिः अद्भुतातथ्यशौर्यादिवर्णनाऽत्युक्तिरिष्यते । (१०१) निरुक्तिः सा निरुक्तिर्योगतो यन्नाम्नोऽर्थान्तरकल्पनम् ॥ (१०२) प्रतिषेधः प्रतिषेधः प्रतीतस्य प्रतिषेधस्य वर्णनम् ॥ (१०३) विधिः सा विध्यलकृतयत्र सिद्धमेव विधीयते ॥ |
(१०४) हेतुः साकं हेतुमता हेतुरुक्तश्चेद्धेतुरीरितः । (१०५) रसवान् रसे रसाङ्गे भावाङ्गेऽप्येष्वाहू रसवद्बुधाः । (१०६) प्रेयः यदि भावरसाङ्गत्वं भावस्य प्रेय इष्यते ॥ (१०७) ऊर्जस्वी भावाङ्गतां रसाभासो भावाभासोऽथवाऽश्नुते । (१०८) समाहितम् समाहितं भावशान्तेर्भावाङ्गत्वे त्वलंकृतिः । (१०९) भावोदयः भावोदयस्य भावाङ्गभावे भावोदयो मतः ॥ |
(११०) भावसन्धिः भावाङ्गत्वे भावसन्धेर्भावसन्धिरलंकृतिः । (१११) भावशबलता भावाङ्गे भाबशाबल्ये भावशाबल्यमुच्यते ॥ (११२) प्रत्यक्षम् अर्थानामिन्द्रियाणां च सन्निकर्षेण यद्भवेत् । (११३) अनुमानम् अनुमानं लिङ्गजन्यलिङ्गिज्ञानमुदाहृतम् । (११४) उपमानम् संज्ञायास्संज्ञिनश्चापि संबन्धप्रत्ययो हि यः । (११५) शब्दप्रमाणम् स शब्दो यत्तु शब्दस्य प्रमाणत्वेन कीर्तनम् । (११६) अर्थापत्तिः अन्यथाऽनुपपत्त्या यत्किञ्चिदर्थस्य कल्प्यते । (११७) अनुपलब्धिः यद्योग्यानुपलब्धेस्स्यादभावस्यावधारणम् । |
(११८) संभवः सम्भवोऽधिकसद्भावान्न्यूनस्थित्यवधारणम् । (११९) ऐतिह्यम् यत्रेतिहोचुरित्याद्यमनिर्दिष्टप्रवक्तृकम् । (१२०) संसृष्टिः अलंकृतीनां सर्वासां यथासंभवमेळने । (१२१) सङ्करः यत्रान्योन्यमलंकाराः क्षीरनीरनयादमी । |
अङ्गाङ्गिभावसङ्करः अप्रधानालंक्रियया प्रधानालंक्रिया यदि । समप्राधान्यसंकरः अन्यालंकारगर्भैवोन्नह्यते काऽप्यलंकृतिः । संदेहसंकरः साधकं बाधकं वाऽपि यत्रान्यतरसङ्ग्रहे । एकवाचकानुप्रवेशसङ्करः अभिन्नपदबोध्यास्स्युर्नानालंकृतयो यदि । (१२२) शब्दालङ्कारः इत्थमर्थालंकृतयो यथामति निरूपिताः । |
छेकानुप्रासः छेकानुप्रासमाहुर्यत्साम्यं व्यञ्जनयोस्सकृत् । वृत्त्यनुप्रासः उल्लङ्घ्य सङ्ख्यानियमं पौनरुक्त्यं भवेद्यदि । लाटानुप्रासः तात्पर्यमात्रभिन्ना या शब्दार्थपुनरुक्तता । यमकम् अनर्थका वा भिन्नार्थास्सार्थकानर्थकाश्च वा । |
भवेयुश्चेत्तदाऽपि स्युरेवमेव भिदा दश ॥ पुनरुक्तवदाभासः पुनरुक्तवदाभाति यत्रार्थो न तु वस्तुतः । अपशब्दवदाभासः निवर्तते साधुभावज्ञानाद्यत्रापशब्दधीः । अव्ययाभासः पदानां सुप्तिङन्तानामन्यार्थानां निगुम्भने । तिङन्तवदाभासः यत्राभासस्तिङन्तानां स्यादर्थान्तरगैः पदैः। |
गूढपादचित्रम् अन्यपादगता वर्णा गूढाः पादान्तरेषु चेत् । क्रियावञ्चनचित्रम् क्रियादिकं विद्यमानमपि सन्दर्भकौशलात् । सप्तविभक्तिवञ्चनचित्रम् यत्रैकस्यैव शब्दश्य गुप्तास्सप्त विभक्तयः । स्वरस्थानव्यञ्जनादिनियमचित्रम्. स्वरस्थानव्यञ्जनानां नियमो दुष्करो हि यः । अपुनरुक्तव्यञ्जनचित्रम् व्यञ्जनानां कखादीनां यत्रावृत्तिर्न दृश्यते । पद्मादिचित्राणि पद्माद्याकारमापन्ना वर्णाश्चित्रमुदाहृतम् ॥ षोडशदलपद्मम् एकं यदि भवेत्सर्वमेकान्तरितमक्षरम् । |
द्विचतुष्कम् बहिरन्तर्मण्डलस्थं तावत्कोष्ठविहारि यत् ॥ गोमूत्रिका तत्रायुग्माक्षरैश्श्लिष्टा यदि युग्माक्षरैस्तु वा । गवाक्षबन्धः उपर्युपरि कोष्ठानि भवेयुर्नव मध्यतः । समाप्ता अलंकारमणिहारलक्षणश्लोकाः. |