अलङ्कारमणिहारः (भागः ३)/स्वभावोक्त्यलङ्कारः (९७)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   


तत्प्रचुरा आजिः युद्धं तत्र पटीयांसं ‘तस्कराचरितो मार्गो नैष वीरनिषेवितः’ इत्युक्तरीत्या चौर्यसमरपटुतरं पामरमुख्यं 'विवर्णः पामर' इत्यमरः । सन्नशस्त्रं विशीर्णास्त्रमिति तदर्थः॥

 श्लेषकाकुभ्यां विना योजनाभेदेनार्थान्तरकल्पनेऽपीयं संभवति । यथा--

 न त्वय्यनुरक्तोऽहं नीलामनुरञ्जयेय ननु राधे । वेद्मि न मय्यनुरक्तं त्वां नीलां रञ्जयन्तमेव हरे ॥ १९४३ ॥

 अत्र त्वय्यनुरक्तोऽहं नीलां नानुरञ्जयेयेति भगवता विवक्षिताया योजनायाः यथाश्रुतमेव योजनेन राधयाऽर्थान्तरं कल्पितमिति भवति वक्रोक्तिः । यद्यप्येवंविधा वक्रोक्तिः प्राक्तनैरर्वाक्तनैर्वा न विवेचिता । तथाऽपि तादृशचमत्कृतिसद्भावाद्वक्रोक्तिरेवेयमित्यस्माभिर्व्यवेचि ॥

इत्यलङ्कारमणिहारे वक्रोक्तिसरष्षण्णवतितमः.


अथ स्वभावोक्तिसरः (९७)


 जात्यादिस्थस्वभावोक्तिस्स्वभावोक्तिरितीर्यते ॥

 जात्यादिनिष्ठस्वभाववर्णनं स्वभावोक्तिरित्यन्वर्थसंज्ञोऽलङ्कारः । आदिपदेन गुणक्रियाद्रव्याणि गृह्यन्ते ॥

 यथा--

 वत्सस्मरणप्रस्नुतसुपीवरोध्रीं विलोलतरसा-

स्नाम् । हुंभारवगम्भीरां गव्यां सायं निवर्तयति शौरिः ॥ १९४४ ॥

 गव्यां गवां समूहं ‘तस्य समूहः' इत्यधिकारे ‘खलगोरथात्' इति यत् । सुपीवराणि ऊधांसि आपीनानि यस्यास्तां तथोक्तां ‘ऊधस्तु क्लीबमापीनम्' इत्यमरः । ‘ऊधसोऽनङ्' इत्यनङि ‘बहुव्रीहेरूधसो जीष्'। स्फुटार्थकमन्यत् । अत्र गोजातिस्वभावस्य वर्णनम् ॥

 खञ्जितहरिनीलमदं मञ्जुलतापिञ्छपिञ्छसच्छायम् । अञ्जनयति मामकदृशमञ्जनगिरिकुञ्जधामहरिधाम ॥ १९४५ ॥

 अञ्जनगिरिकुञ्जधामा यो हरिः तस्य धाम रोचिः इदं कर्तृ । मामकदृशं अञ्जनयति अञ्जनवतीं करोति अञ्जनशब्दान्मतुबन्तात् णाविष्ठवद्भावेन ‘विन्मतोः’ इति मतुपो लुक् । अत्र गुणस्वभाववर्णनम् ॥

 इतरेतरांसघट्टनहृषिततनुरुहं विवाहवेदिगतम्। अन्योन्यप्रहिताहृतदृगन्तमाभातु दिव्यमिथुनं तत् ॥ १९४६ ॥

 अत्र क्रियास्वभाववर्णनम् ॥

 उरसि रमां निदधानं करयोश्चक्रं दरं च विदधानम् । कनकाम्बरं दधानं कनतान्मम मनसि

फणिगिरिनिधानम् ॥ १९४७ ॥

 मितसितहसितविकस्वरकपोलफलकं कुरङ्गमदतिलकम् । वृषशिखरिनित्यभोग्यं वृणीमहे मनसि किमपि सौभाग्यम् ॥ १९४८ ॥

 अनयोः पद्ययोर्द्रव्यस्वभाववर्णनम् ॥

इत्यलङ्कारमणिहारे स्वभावोक्तिसरस्सप्तनवतितमः.


अथ भाविकसरः (९८)


वर्णनादद्भुतार्थस्य वस्तुनी भूतभाविनी ।
प्रत्यक्षे इव दृश्येते यत्र तद्भाविकं मतम् ॥

 यत्रात्यद्भुतचरितोपवर्णनादतीतानागतयोर्वस्तुनोः प्रत्यक्षायमाणत्वं भवति स भाविकालङ्कारः । न चातीतानागतयोः प्रत्यक्षवदवभासो विरुद्धः, अत्यद्भुतवस्तुवर्णनेन भाविकानां हृदि भावनोदयात् । तथाच भावनायाः प्रकर्षेण घटत एव प्रत्यक्षायमाणत्वं भूतभाविनोरप्यर्थयोः । यथा--

वृक्षेवृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम् ।
असीनस्संविशंस्तिष्ठन् भुञ्जानः पर्यटन् पिबन् ।
चिन्तयानो हृषीकेशमपश्यत्तन्मयं जगत् ॥

 इत्यादौ । न चेयं स्वभावोक्तिः, तत्र हि वस्तुस्वभावस्य यथावद्वर्णनेन प्रत्यक्षायमाणता । इह तु अद्भुंतत्वेन । नापि रसवदाद्यलङ्कारः, यत्तत्र विभावानुभावाद्यनुसंधानेनैव रसादेर्भा