अलङ्कारमणिहारः (भागः ३)/वक्रोक्त्यलङ्कारः (९६)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   


अथ वक्रोक्तिसरः (९६)


अन्याभिप्रायकान्योक्तमन्यथाऽन्येन योज्यते ।
श्लेषेण यदि काक्वा वा सा वक्रोक्तिरितीर्यते ॥

 यत्र अन्याभिप्रायकपुरुषान्तरोक्तस्यान्येनान्यथा यद्योजनं तदनुकूलोक्तिर्वक्रोक्तिरित्यर्थः । सा च द्विधा, श्लेषेण काक्वा वा अन्यथा योजनात् ॥

 तत्र श्लेषेण यथा--

 न क्रोधः कार्योऽम्बुधिसुते त्वया नाहमम्बुधिः कस्मात् । नक्रमधः कुर्यामिति गिरा हरिं जयति मोहयन्ती श्रीः ॥ १९२२ ॥

 अत्र क्रोधो न कार्य इत्यभिप्रायेणोक्तस्य भगवद्वाक्यस्य नक्रः अधःकार्य इति भगवत्या श्रिया श्लेषेणार्थान्तरं कल्पितम् ॥

 यथावा--

 नयनाब्जं न्यस्येर्मयि न नयाम्यब्जं स एष तव हस्ते । इति वचसा निजदयितं विमोहयन्ती रमा तनोतु शुभम् ॥ १९२३ ॥

 अत्र नयनाब्जं मयि न्यस्येः कटाक्षं निक्षिपेरिति भगवतोऽभ्यर्थनवचनस्य नय न अब्जमिति पदच्छेदन न नयाम्यब्जं किन्तु स एषः अब्जः शङ्खः तव हस्त एवास्त इत्यर्थान्तरपरिकल्पनम् ॥

 यथावा--(युग्मं)

 किं चिरयसि संलपितुं किंचिदुदञ्चय कुतूहलं ललने । तैलिकहालिकनिकटे कुतूर्हलं चापि लभ्यते नात्र ॥ १९२४ ॥

 कुप्यसि कस्माद्वनिते प्रसीद रूप्याकृते मयि प्रणते । कुप्येत्किं रूप्याकृतिरिति परिहसति स्म दयितमब्धिसुत ॥ १९२५ ॥

 अत्राद्यश्लोके किञ्चित्कुतूहलमाश्लेषादावुदञ्चयेति भगवतोक्तस्य कुतूः कृत्तिस्नेहपात्रं हलं लाङ्गलं चेत्यनयोस्समाहारः कुतूहलमित्यर्थान्तरं परिकल्प्य यथाक्रमं तैलिकनिकटे कुतूः हालिकनिकटे हलं च लभ्यते नात्रेत्युत्तरम् । द्वितीये तु हे रूप्याकृते प्रशस्तरूपाकारे हे वनिते जनितात्यनुरागे ‘वनिता जनितात्यर्थानुरागायां च योषिति' इत्यमरः । प्रणते मयि कस्मात् कुप्यसि कोपं विधत्से इति भगवतोदितस्य आहतं रूपमस्य रूप्यं तस्येवाकृतिर्यस्या इत्याहतरूपहेमरूप्यान्यतरतुल्याकृतित्वरूपार्थान्तरम् । कुप्यसीत्यस्य कुप्यं कृताकृतहेमरूप्यभिन्नं ताम्रकांस्यादि तदिवाचरसीत्यर्थं च कल्पयित्वा रूप्याकृतिः कथं कुप्येदित्युत्तरं भगवत्या जगज्जनन्या वितीर्णम् । रूप्यशब्दः 'रूपादाहतप्रशंसयोर्यप्' इति रूपशब्दादाहतप्रशंसयोरर्थयोर्यप्प्रत्ययेन निष्पन्नः । 'स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते ।

ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद्द्वयमाहतम्' इत्यमरः ॥

 यथावा--

 उत्सृज्य मानकाटवमुदधिभवे मधुरमस्तु तव हृदयम् । न दधिभवाऽहं किंतूदधिजाता मस्तु मम कथं हृदयम् ॥ १९२६ ॥

 अत्र रोषकाटवमुत्सृज्य तव हृदयं प्रियं भवत्वित्यर्थकस्य उत्सृज्य मानकाटवं मधुरमस्विति वाक्यस्य उत्सृज्यमानं काटवं येन तत्तथाविधं मधुरं मस्तु दधिमण्डमित्यर्थान्तरं परिकल्प्य न दधिभवाऽहमित्यादिना उत्तरम् ॥

 यथावा--

 अत्र पुमासं परमं विद्धि स्थितमब्जदलविशालाक्षि । मांसं या त्रपु विद्यात्तां प्रत्युपदेश एष सफलस्स्यात् ॥ १९२७ ॥

 अत्र त्वदग्रे स्थितं मां परमपुरुषं विद्धीत्यर्थकस्य अत्र पुमांसमित्यादिभगवद्वाक्यस्य या मुग्धा मांसं त्रपु विद्यात् तां प्रति मांसं अत्रपु इत्युपदेशस्य साफल्यमित्यर्थान्तरकल्पनेन श्रिया उत्तरम् ॥

 यथावा--

 तव नायकेन तन्वि प्रतिहारे स्थीयतां कियत्कालम् । ननु नायकेन हारे हारे स्थातव्यमेव सततमपि ॥ १९२८ ॥

 द्वारे तव प्रियेण कियदवधि स्थातव्यमित्यर्थकस्य तव नायकेनेत्यादिभगवद्वाक्यस्य नायकमणिना प्रतिमुक्ताहारमपि

स्थेयमेवेत्यर्थान्तरविधानेन लक्ष्म्या उत्तरम् । हारेहारे प्रतिहारे इत्यव्ययीभावः । 'तृतीयासप्तम्योर्बहुलम्' इत्यमूभावाभावः ॥

 यथावा--

 सहजमरुदधिप एष त्वय्यतितृष्णस्सुधापयोधिसुते । सहजं मरौ दधि पिबन्नतितृष्ण इतीदमतितरां चित्रम् ॥ १९२९ ॥

 अत्र सहोदरो मघवा यस्य स उपेन्द्रः त्वय्यतिमात्रस्पृह इत्यर्थकस्य सहजमरुदधिप इति भगवद्वाक्यस्य सहजं यथा स्यात्तथा मरुदेशे दधि पिबन् अतिवेलपिपास इत्यर्थान्तरकरणेन श्रिय उत्तरम् । इमानि 'न कोधः कार्योऽम्बुधि’ इत्यादीनि पद्यानि प्रणयकलहे श्रीश्रीवल्लभयोरुक्तिप्रत्युक्तिरूपाणि ॥

 यथावा--

 व्रजसुमुखि न तिष्ठामि व्रजामि भो नन्दगोपवंशमणे । व्रजसि यदि त्वं नन्देत्कथमयमिति शौरिरग्रहीद्गोपीम् ॥ १९३० ॥

 अत्र व्रजसुमुखीति गोपललनां प्रत्यभिमुखीकरणाय सम्बुद्ध्यन्ततया भगवता प्रयुक्तस्य समस्तपदस्य समुखितया व्रजसुमुख्या हे सुमुखि व्रज गच्छेति श्लेषेणार्थान्तरं परिकल्प्य न तिष्ठामि व्रजामि भो नन्दगोपवंशमणे इति भगवन्तं प्रति वक्रोत्तरं व्यतारि । तेनापि तया संबुद्ध्यन्ततया प्रयुक्तस्य नन्दगोपवंशमणे इत्यस्य समस्तस्य पदस्य हे गोपवंशमणे नन्द मोदस्व इति छेदेनार्थान्तरं प्रकल्प्य त्वं व्रजसि यदि

एवं वदन्तं मामुपेक्ष्य गच्छसिचेत् अयं त्वत्परिष्वङ्गमभिलष

माणः कथं नन्देदिति वक्रोक्त्यैव स्वाभीप्सितं भगवता प्रकाशितमिति वक्रोक्त्युज्जीविता वक्रोक्तिरियम् ॥

 यथावा--

 मन्ये त्वं च्युतधीर्यन्न संलपन्त्या मयाऽऽळि संलपसि । अच्युतधियं वृथा मां च्युतधियमात्थाळि सत्यमच्युतधीः ॥ १९३१ ॥

 इदं कयोश्चिद्व्रजसुभ्रुवोरुक्तिप्रत्युक्तिरूपं पद्यम् । अत्र मन्ये इत्यादि पूर्वार्धं किमपि ध्यायन्तीं कांचित्सखीं प्रति कस्याश्चित्सख्या उक्तिरूपम् । च्युतधीः गळितमतिः निश्चेतनेत्यर्थः । उत्तरार्धे अच्युतधियमित्यादि आत्थेत्यन्तं अन्यस्यास्तां प्रत्युक्तिः । आळीत्याद्यवशिष्टवाक्यं पुनस्तां प्रति वदन्तीं प्रत्याद्याया उक्तिः । अत्र ऋजुबुद्ध्या कमपि वृत्तान्तं प्रत्सुवत्या कयाचित्प्रतिवाचमददानां सखीं वीक्ष्य नूनं त्वं निश्चेतनाऽसीत्युक्तम् । तया च नाहं निश्चेतनेत्यभिप्रायेण अच्युतधियं मां वृथैव च्युतधियं ब्रवीषीति प्रत्युक्तम् । पुनस्तया सखि सत्यं त्वं अच्युतधीः कृष्णानुषक्तहृदयैवासि अन्यथा संलपन्तीं मां कथं न संलपसीत्यर्थान्तरं कल्पितम् ॥

 यथावा--

 सारसनाभाश्लेषं सखि घटय ममेति मुग्धया गदिते । घटयितुमेवोद्योगो ममेति सस्मितमुवाच सैरन्ध्री ॥ १९३२ ॥

 अत्र मुग्धया कयाचिद्गोपबालिकया प्रसाधयित्रीं शिल्पकारिकां प्रति ऋजुबुद्ध्या सारसनस्य मेखलायाः आभायाः

प्रभायाः आश्लेषं संबन्धं मम घटयेत्यभिप्रायेण प्रयुक्तस्य सारसनाभाश्लेषमित्यादिवाक्यस्य सारसनाभस्य पद्मनाभस्य श्रीकृष्णस्य आश्लेषं उपगूहनं घटयेति श्लेषेणार्थान्तरं प्रकल्प्य घटयितुमेवायं परिष्कारोद्योग इत्युत्तरं प्रौढया सैरन्ध्र्या दत्तम् ॥

 यथावा--

 गोपालिके विलोकय किंचिदितः किं विलोकयाम्यलिके । गोपेत्यामन्त्रयसे गोपीं मां मुग्ध गोप एव त्वम् ॥ १९३३ ॥

 अत्रात्मानं प्रति कटाक्षप्रसारं प्रार्थयमानेन हे गोपालिके गोपि इतः किंचिद्विलोकयेति भगवता श्रीनन्दनन्दनेनोक्तस्य गोपालिके विलोकयेति वाक्यस्य हे गोप अलिके ललाटे किंचिद्विलोकयेति श्लेषेण प्रकल्प्यान्यमर्थं किं विलोकयाम्यलिके इत्याद्युत्तरं वितीर्णं विदग्धया व्रजवरारोहया । हे मुग्ध मूढ सुन्दरेत्याकूतं त्वमेव गोप इत्यन्वयः । नाहं गोपः किंतु गोपी । एवं स्त्रीपुंसभेदस्याप्यनवगमेन स्त्रियं पुंवाचकशब्देनामन्त्रयमाणस्त्वमेव पशुपाल इति भावः । यद्वा यथाश्रुतमेवान्वयः । एवं वदन् त्वं गोप एव । यदि नागरक एव भवेः कथमेवं ब्रूया इति भावः । गोपालकस्य स्त्री गोपालिका । पुंयोगलक्षणङीषः ‘पालकान्तान्न' इति निषेधः । टापि ‘प्रत्ययस्थात्' इतीत्वम् ॥

 यथावा--

 कबळयितुं खलु शक्यो मया शुनासीर एव किमुतान्यः । नेष्टे ग्रसितुं सीरं श्वेति मुरं प्रति

वदन् हरिर्जयति ॥ १९३४ ॥

 अत्र इन्द्रोऽपि मया ग्रसितुं शक्य इत्यभिप्रायेण मुरेणोक्तस्य कबळयितुमित्यादेः शुना शुनकसदृशेन त्वया सीरः अर्कः शुना शुनकेन हलं वा ग्रसितुं न शक्यमिति भगवता अर्थान्तरस्य कल्पनया प्रत्युत्तरं प्रतिपादितम् । 'सीरोऽर्कहलयोः पुंसि' इति मेदिनी । सर्वमिदमविकृतश्लेषवक्रोक्तेरुदाहरणम् ॥

 विकृतश्लेषवक्रोक्तिर्यथा--

 श्लेषस्याविकृतत्वं च समभिव्याहृताक्षरापरित्यागेनार्थवर्णनम् । विकृतत्वं च कस्यचिद्वर्णस्यावापोद्वापाभ्यां भवति ॥

 असमस्सुशोभमानो जगदीशो वामदेव एवायम् । असमस्सुशोभितश्चेत्स एव जगदीश्वरो न संदेहः ॥ १९३५ ॥

 इदं शैववैष्णवयोस्संवादरूपं पद्यम् । तत्र असमः असदृशः सुशोभमानः देदीप्यमानः अयं अस्मदुपास्यः वामदेवः विरूपाक्ष एव जगदीश इति शैवेनोक्तम् । वैष्णवेन तु-- वासुदेव एव जगदीश इत्यभिप्रायेण समः मकारसहितः स न भवतीत्यसमः सुशोभितः च्यावितमकारस्थानकेन सुकारेण शोभितश्चेत् स एव वामदेवो जगदीशो न संदेह इति । वामदेवशब्दे मकारोद्वापं तत्रैव सुकारावापं च विधायार्थान्तरं श्लेषेण परिकल्पितम् ॥

 यथावा--

 बाणासुरवरदायी काशीपुरवहनपटुरयं परमः । वेदं पठात्र परमः क इति तदा वेत्सि किंनु बहुजल्पैः ॥ १९३६ ॥

 अयमपि शैववैष्णवयोरेवोक्तिप्रत्युक्तिरूपः श्लोकः । काशीपुरस्य वहनं उद्धरणं रक्षणमिति यावत् । तस्मिन् पटुः वीणासुरवरदायी काशीपुरवहनपटुः अयं शिव एव परमः उत्कृष्ट इति शैवेनोक्तम् । वेदं पठ अत्र परमः क इति तदा वेत्सि 'तमीश्वराणां परमं महेश्वरं तं दैवतानां परमं च दैवतम् । अग्निरवमो देवतानां विष्णुः परमः' इति श्रुतिपठने परमः को वा स्यादिति त्वमेव जानासीति प्रतिवदता वैष्णवेन अत्र त्वदुक्तयोः बाणासुरवरदायी काशीपुरवहनपटुरिति पदयोः वे वकारस्थाने दं दकारं पठेति वकारोद्वापनेन तत्रैव दकारावापनेन च बाणासुरदरदायी काशीपुरदहनपटुरयं श्रीवासुदेव एव परम इत्यर्थस्य परिकल्पनादिदमपि विकृतश्लेषवक्रोक्त्युदाहरणमेव ॥

 यथावा--

 मीनेक्षणे त्यज रुषं कमनं पुरतस्स्थितं निरीक्षस्व । मन्दं जल्प शठात्रेत्यवनी श्रीशं तिरश्चकार रुषा ॥ १९३७ ॥

 इयं मानकलुषिताया भूदेव्याः प्रसादनाय भगवदुक्तौ तद्वक्रोक्तिः । मीनेक्षणे इत्यनेन निसर्गप्रसन्नलोचना त्वं नैव जात्वपि रोषाविललोचनेति द्योतितम् । पुरतः स्थितं प्रार्थनार्थमिति भावः । कमनं त्वां कामयितारं वल्लभं मां न तूदासीनतयाऽवस्थितमिति भावः । निरीक्षस्वेति भगवत्कर्तृकप्रसादनोक्तिः । मन्दं जल्प शठात्रेति भूदेव्याः प्रत्युक्तिः । हे शठ गूढविप्रियकारिन्

अत्र मम संनिकर्षे मन्दं जल्प न तूच्चैः, विधाय विप्रियमतिमात्रं निर्भरानुरागमेदुर इव स्वैरं मा वादीः जाने त्वामिति भावः ।

अत्र त्यज्जल्पितयोः मीनेक्षणे कमनमिति पदयोः स्थितं मं मकारं दं दकारं जल्प मकारं दकारतयोच्चारयेत्यर्थः । तदा दीनेक्षणे कदनमिति निष्पद्यते । त्वया वञ्चितां मां दीनेक्षणे इति संबोधय । कदनं मनोव्यथेति यावत् । पुरत एव स्थितं एवं वञ्चयति त्वयि स्पष्टमेवाग्रे स्थितं न तु मीमांसनीयमिति भावः । अत्र मकारच्यावनेन तत्रैव दकारविन्यसनेन च विकृतेन श्लेषेणार्थान्तरपरिकल्पनम् ॥

 यथावा--

 यश्शुक्लभासितरुचिर्येन वलक्षश्रियोदधारि ग्लौः । स वृषाकपिस्त्रिजगतां नाथोऽलं वद पुनस्स एव भवेत् ॥ १९३८ ॥

 अयमपि शैववैष्णवोक्तिप्रत्युक्तिरूप एव । यः शुक्ला शुभ्रा भासीती भसितसंबन्धिनी रुचिः यस्य स तथोक्तः धवळभस्मोद्धूळित इति यावत् । वलक्षश्रिया स्वतः पाण्डुरमूर्तिना येन ग्लौः शशाङ्कः उदधारि उच्छृतत्वेन धृतः शिरसा धृत इति यावत् । सः वृषाकपिः हरः त्रिजगतां नाथ इत्यभिप्रायवती शैवोक्तिः । वैष्णवेन पुनः--अलं पुनर्वद पर्याप्तं पुनर्ब्रूहि पर्यालोच्य ब्रूया इत्यर्थः । स एव त्वदुक्त एव त्रिजगतां नाथो भवेदित्यन्वारुह्य वद अलं लकाररहितं वदेत्यर्थान्तरगर्भीकारात्त्वदुक्तवाक्ये लकारलोपेन यः शुकभासितरुचिः येन वक्षश्श्रिया उदधारि गौरिति निष्पाद्य यः शुक इव भासिता रुचिर्यस्य स तथोक्तः मरकतश्यामल इति भावः । वक्षसि श्रीः यस्य वक्षश्श्रीः तथोक्तेन येन गौः भूः उदधारि उद्धृता ‘उद्धृ

ताऽसि वराहेण कृष्णेन शतबाहुना’ इति श्रुतेः । सः वृषाकपिः भगवान् विष्णुरेव ‘हरविष्णू वृषाकपी' इत्यमरः । त्रिजगतां नाथ इत्यभिप्रायपरतया योजिता । अत्र लकारस्योद्वापमात्रमिति विशेषः ॥

 यथावा--

 शिव एव हि लोकस्याधीश इति त्वं ब्रवीषि ननु विद्वन् । वाचालोच्युत एव स इति वद तत्त्वं त्वमेव जानासि ॥ १९३९ ॥

 वाचालः वाचाटः त्वं शिव एव हि लोकस्याधीश इति ब्रवीषि ननु अच्युत एव सः लोकस्याधीश इति वद । सः शिवः अच्युत एव अच्युतात्मक एव । अच्युत एव स इति वा योजना । अच्युत एव शिवो मङ्गळमूर्तिः ‘शाश्वतं शिवमच्युतम्’ इति श्रुतेः । अतएव लोकस्याधीश इति वद । पक्षे वाचेति भिन्नं पदम् । सः शिवः लोच्युत एव लोकारच्यवनं प्राप्त एव लोकस्याधीशः कस्याधीशः न कस्याप्यधीश इति वाचा वद । तत एव तत्त्वं जानासि सर्वेश्वरेश्वरे भगवति नारायणे जाग्रति कस्यायमधिपतिस्स्यादिति भावः । अत्रापि वक्रोक्तौ वर्णोद्वापमात्रम् ॥

 सर्वमिदं शब्दश्लेषमूलाया वक्रोक्तेरुदाहरणम् । अर्थश्लेषमूलाया यथा--

 गोपालः क्व पशूनां पतिः क्व वा क्वाद्य तन्वि गौश्चरति । तद्वेद वृषभवाहन इति नर्मवचोऽवतादुमारमयोः ॥ १९४० ॥

 अत्र गोपाल इत्यादि गौरीपरिहासवाक्यं कृष्णाभिप्रायगर्भं पशूनांपतिः क्व वेत्यादिना महेश्वरवृत्तान्ताविष्करणाभिप्रायपरतया श्रिया योजितम् ॥

 काक्वा यथा--

 वेगादागाः किं वा चिकीर्षसे कृष्ण ननु न जानेऽहम् । न विजानासि नतभ्रूरित्याश्लिष्यन् हरिर्जयति गोपीम् ॥ १९४१ ॥

 अत्र कस्य कार्यस्य चिकीर्षया तव वेगादागमनमिति न वेद्मीति ऋजुमतितयाऽनुयुञ्जानां व्रजललानां प्रति न विजानानासीति काक्वा अर्थान्तरकल्पनम् ॥

 काकुविकृतश्लेषाभ्यां मिळिताभ्यामपीयं भवति । यथा--

 प्रचुराजिपटीयांसं दाशरथे विप्रवर्णमुख्यं माम् । विद्धि प्रसन्नशस्त्रं बहुमन्ये भृगुज साधु विप्रं त्वाम् ॥ १९४२ ॥

 अयं भार्गवराघवयोस्संवादरूपश्लोकः । तत्र प्रचुरसमरपटुतरं ब्रह्मवर्णप्रमुखं निर्मलास्त्रं मां विद्धीति स्वस्य दुर्जयत्वमहीयस्त्वाद्यभिप्रायेण भार्गवोक्तस्य चरणत्रयस्य हे भृगुज ! साधु विप्रं त्वां बहुमन्ये इति काक्वा अहो तव ब्राह्मण्यमित्याकूतगर्भयाऽन्यधा योजनं भगवता राघवेण कृतम् । अत्रैव हे भृगुज ! त्वां साधु सम्यक् बहु बहुलं च विप्रं विगतप्रवर्णं मन्ये इति प्रवर्णोद्धारेणार्थान्तरकल्पनं च । तथा सति चुराजिपटीयांसं विवर्णमुख्यं सन्नशस्त्रमिति च निष्पद्यते । चुरा चौर्यं

तत्प्रचुरा आजिः युद्धं तत्र पटीयांसं ‘तस्कराचरितो मार्गो नैष वीरनिषेवितः’ इत्युक्तरीत्या चौर्यसमरपटुतरं पामरमुख्यं 'विवर्णः पामर' इत्यमरः । सन्नशस्त्रं विशीर्णास्त्रमिति तदर्थः॥

 श्लेषकाकुभ्यां विना योजनाभेदेनार्थान्तरकल्पनेऽपीयं संभवति । यथा--

 न त्वय्यनुरक्तोऽहं नीलामनुरञ्जयेय ननु राधे । वेद्मि न मय्यनुरक्तं त्वां नीलां रञ्जयन्तमेव हरे ॥ १९४३ ॥

 अत्र त्वय्यनुरक्तोऽहं नीलां नानुरञ्जयेयेति भगवता विवक्षिताया योजनायाः यथाश्रुतमेव योजनेन राधयाऽर्थान्तरं कल्पितमिति भवति वक्रोक्तिः । यद्यप्येवंविधा वक्रोक्तिः प्राक्तनैरर्वाक्तनैर्वा न विवेचिता । तथाऽपि तादृशचमत्कृतिसद्भावाद्वक्रोक्तिरेवेयमित्यस्माभिर्व्यवेचि ॥

इत्यलङ्कारमणिहारे वक्रोक्तिसरष्षण्णवतितमः.


अथ स्वभावोक्तिसरः (९७)


 जात्यादिस्थस्वभावोक्तिस्स्वभावोक्तिरितीर्यते ॥

 जात्यादिनिष्ठस्वभाववर्णनं स्वभावोक्तिरित्यन्वर्थसंज्ञोऽलङ्कारः । आदिपदेन गुणक्रियाद्रव्याणि गृह्यन्ते ॥

 यथा--

 वत्सस्मरणप्रस्नुतसुपीवरोध्रीं विलोलतरसा-