अलङ्कारमणिहारः (भागः ३)/भाविकालङ्कारः (९८)

विकिस्रोतः तः
Jump to navigation Jump to search

 मितसितहसितविकस्वरकपोलफलकं कुरङ्गमदतिलकम् । वृषशिखरिनित्यभोग्यं वृणीमहे मनसि किमपि सौभाग्यम् ॥ १९४८ ॥

 अनयोः पद्ययोर्द्रव्यस्वभाववर्णनम् ॥

इत्यलङ्कारमणिहारे स्वभावोक्तिसरस्सप्तनवतितमः.


अथ भाविकसरः (९८)


वर्णनादद्भुतार्थस्य वस्तुनी भूतभाविनी ।
प्रत्यक्षे इव दृश्येते यत्र तद्भाविकं मतम् ॥

 यत्रात्यद्भुतचरितोपवर्णनादतीतानागतयोर्वस्तुनोः प्रत्यक्षायमाणत्वं भवति स भाविकालङ्कारः । न चातीतानागतयोः प्रत्यक्षवदवभासो विरुद्धः, अत्यद्भुतवस्तुवर्णनेन भाविकानां हृदि भावनोदयात् । तथाच भावनायाः प्रकर्षेण घटत एव प्रत्यक्षायमाणत्वं भूतभाविनोरप्यर्थयोः । यथा--

वृक्षेवृक्षे च पश्यामि चीरकृष्णाजिनाम्बरम् ।
असीनस्संविशंस्तिष्ठन् भुञ्जानः पर्यटन् पिबन् ।
चिन्तयानो हृषीकेशमपश्यत्तन्मयं जगत् ॥

 इत्यादौ । न चेयं स्वभावोक्तिः, तत्र हि वस्तुस्वभावस्य यथावद्वर्णनेन प्रत्यक्षायमाणता । इह तु अद्भुंतत्वेन । नापि रसवदाद्यलङ्कारः, यत्तत्र विभावानुभावाद्यनुसंधानेनैव रसादेर्भा

व्यत्वं न त्वद्भुतत्वेन । न चोत्प्रेक्षा, अतीतानागतयोः प्रत्यक्षत्वेन संभावनाभावात् । नापि भ्रान्तिमान्, भावानाया अभ्रान्तिकृतत्वात् । तस्मात्सर्वोत्तीर्णौ विलक्षण एवायमलंकार इति वदन्ति ॥

 यथा--

 विकटोद्भटाट्टहासं विदलयतो दितिसुतेन्द्रहृदयतटीम् । अद्यापि सिंहशिखरिणि नरसिंहस्यार्भटी स्फुटीभवति ॥ १९४९ ॥

 सिंहशिखरिणि शेषाद्रौ तदेकदेशभूते अहोबिले इति यावत् । अत्र हिरण्यकशिपुवक्षोऽन्तरविक्षोभणदक्षोल्बणसंरम्भस्य श्रीनृसिंहस्य भगवतः अत्यद्भुतातीतमहार्भटीवर्णनेन तथाविधभावनया तादृशप्रत्यक्षायमाणता । भीषणत्वोद्भावनमिदम् ॥

 यथावा--

 जनयन्ति मोदमक्ष्णोस्सनकसनन्दनसनत्कुमाराद्याः । अद्याप्यधिभुजगाचलमाद्या मुनयो हरिं भजन्तो नः ॥ १९५० ॥

 स्थानमाहात्म्योद्भावनमिदम् ॥

 यथावा--

 पत्रीश्वरमधिरूढे यात्रोत्सवकौतुकादहिगिरीन्दौ । ग्राहगृहीतगजावनसंभ्रममद्याप्यमुष्य पश्यामः ॥ १९५१ ॥

 यथावा--

 सम्मर्दकुपितबलपतिवेत्रहतित्रुटितकोटिकोटीरान् । अद्यापि पद्मजाद्यांस्त्वद्द्वारीक्षामहे वृषाद्रिमणे ॥ १९५२ ॥

 यथावा--

 भवता वालिदशास्यौ भग्नौ रघुवीर दृष्टवन्तं पूर्वम् । अहहा इत्यधुनाऽपि च सहस्रनयनं सहास्रनयनं वीक्षे ॥ १९५३ ॥

 अहह आ इति छेदः। एतौ द्वावपि निपातौ यथाक्रमं वालिस्मरणजनितखेदे रावणस्मरणाद्भुते च वर्तेते । आ इतीत्यत्र 'निपात एकाजनाङ्’ इति प्रकृतिभावः । अङिदेवायं निपातः, स्मरणार्थकत्वात् । अनुशिष्यते हि ‘वाक्यस्मरणयोरङित्’ इति । अहह आ इति अयं दुःखाश्चर्यद्योतको वागारम्भसंभवोऽनुभाव: । अहह आ इति अद्यापि अस्रेण शोकानन्दजन्येनास्रेण सह वर्तन्ते इति सहास्राणि ‘वोपसर्जनस्य' इत्यस्य वैकल्पिकत्वान्न सहशब्दस्य सभावः । तादृशानि नयनानि यस्य तं तथाविधं अद्यापि वालिवधजनितशोकाश्रुनयनं रावणवधजनितप्रमोदाश्रुनयनं च वीक्षे इति भावः । पक्षे सहस्रनयनशब्दं अहहाः अविद्यमानः हः हकारो येन सः अहः अहः हाः हा इति वर्णः यस्य तथोक्तः हकारच्यावनेन तत्रैव

हाकारेण घटित इत्यर्थः । इति हेतोः सहास्रनयनं वीक्षे उक्तरीत्या सहस्रनयनशब्दस्य तथाभूतत्वादिति भावः । इदमपि भूतविषयसाक्षात्कारवर्णनमेव । चमत्कारान्तरं तु पूर्वेभ्यो विशेषः ॥

 सर्वमिदं भूतविषयसाक्षात्कारवर्णनम् । भविष्यद्विषयसाक्षात्कारवर्णनं यथा--

 अनुदिनमनुसंधानादर्चिर्मुखसरणिभाविसंमानाः । अद्यैव वसन्ति दृशोः पद्यायां श्रीनिवास तव कृपया ॥ १९५४ ॥

 अत्र बन्धावस्थायामशक्यदर्शनत्वेनाद्भुतानामर्चिरादिमार्गसंमानानां भाविनां साक्षात्कारवर्णनम् ॥

इत्यलङ्कारमणिहारे भाविकसरोऽष्टनवतितमः.


अथोदात्तसरः (९९)


तदुदात्तं वस्तु यत्र वर्ण्यते सुसमृद्धिमत् ।
अन्योपलक्षकं श्लाघ्यचरित्रं वा निबध्यते ॥

 यत्र संपत्समृद्धिमद्वस्तु वर्ण्यते, यत्र च महापुरुषसंबन्धिश्लाघ्यचरितं ‘यत्रायं सारसस्स देवदत्तकेदारः' इतिवदुपलक्षकतया वा निबध्यते तत्रोदात्तालङ्कारः । उपलक्षकं ज्ञापकम् । स्वभावोक्तौ भाविके च यथावद्वस्तुवर्णनम् । तद्विपक्षत्वेनारोपितवस्त्वात्मनः प्रथमोदात्तस्यावसरः । तत्रासंभाव्यमानविभूतियुक्तस्य वस्तुनो वर्णनं कविप्रतिभोत्थापितमैश्वर्यलक्षणमुदात्तं प्रथमम् । द्वितीयं तु महापुरुषाणामुदात्तचरितानामङ्गिभूतवस्त्वन्तराङ्गभावेनोपनिबध्यमानं चरितम्, महापुरुषचरितस्योदात्तत्वात् ॥