अलङ्कारमणिहारः (भागः ३)/उदात्तालङ्कारः (९९))

विकिस्रोतः तः
Jump to navigation Jump to search

 सर्वमिदं भूतविषयसाक्षात्कारवर्णनम् । भविष्यद्विषयसाक्षात्कारवर्णनं यथा--

 अनुदिनमनुसंधानादर्चिर्मुखसरणिभाविसंमानाः । अद्यैव वसन्ति दृशोः पद्यायां श्रीनिवास तव कृपया ॥ १९५४ ॥

 अत्र बन्धावस्थायामशक्यदर्शनत्वेनाद्भुतानामर्चिरादिमार्गसंमानानां भाविनां साक्षात्कारवर्णनम् ॥

इत्यलङ्कारमणिहारे भाविकसरोऽष्टनवतितमः.


अथोदात्तसरः (९९)


तदुदात्तं वस्तु यत्र वर्ण्यते सुसमृद्धिमत् ।
अन्योपलक्षकं श्लाघ्यचरित्रं वा निबध्यते ॥

 यत्र संपत्समृद्धिमद्वस्तु वर्ण्यते, यत्र च महापुरुषसंबन्धिश्लाघ्यचरितं ‘यत्रायं सारसस्स देवदत्तकेदारः' इतिवदुपलक्षकतया वा निबध्यते तत्रोदात्तालङ्कारः । उपलक्षकं ज्ञापकम् । स्वभावोक्तौ भाविके च यथावद्वस्तुवर्णनम् । तद्विपक्षत्वेनारोपितवस्त्वात्मनः प्रथमोदात्तस्यावसरः । तत्रासंभाव्यमानविभूतियुक्तस्य वस्तुनो वर्णनं कविप्रतिभोत्थापितमैश्वर्यलक्षणमुदात्तं प्रथमम् । द्वितीयं तु महापुरुषाणामुदात्तचरितानामङ्गिभूतवस्त्वन्तराङ्गभावेनोपनिबध्यमानं चरितम्, महापुरुषचरितस्योदात्तत्वात् ॥

 यथा--

 वज्रशिलावालाञ्चितमरकतकलतारुणाश्मपल्लविते । सह महिला विहरन्ते गृहनिवहे त्वत्कटाक्षिताश्शौरे ॥ १९५५ ॥

 इदं समृद्ध्युदाहरणम् । अत्रासंभाव्यमानविभूतियुक्तानां भगवत्कटाक्षितानां वर्णनाल्लक्षणसंगतिः । संभाव्यमानविभूतियुक्तस्य वर्णने तु नायमलंकारः ॥

 यथा--

 परिखचितवज्ररेखास्फुरितमहानीलजालचारुतमाः । सतटिज्जलदभ्रमदा वृषशिखरिणि भान्ति ते विहारगृहाः ॥ १९५६ ॥

 अत्र हि महाविभूतेर्भगवतो विहारगृहाणां वस्तुत एव संभवतीदृशविशेषः । अत एवास्य कविप्रतिभोत्थापितत्वमुक्तम् । एवंचास्य नामापि सार्थकमिति विमर्शिनीकारः ॥

 श्लाघ्यचरितस्योपलक्षकत्वे यथा--

 जयतु स शैलो यत्र त्यक्तास्त्रं केनचिन्निमित्तेन । श्रीवासमब्जचक्रे यतिराजो ग्राहयामास ॥

 यतिराज भगवद्रामानुजाचार्यः । केनचिन्निमित्तेन तोण्डमान्नृपाय रिपुविजयकृते वितीर्णयोश्शङ्खचक्रयोः पुनस्तद्वरदानावसरे अर्चारूपेऽस्मिन्पुनश्शङ्खचक्रधारणरूपतत्प्रार्थनलक्षणेन

निमित्तेन त्यक्तास्त्रं त्यक्तशङ्खचक्रं भगवन्तं श्रीनिवासं शङ्खचक्रे ग्राहयामास । ‘अजग्रहत्तं जनको धनुस्तत्' इतिवद्द्विकर्मकता । अत्र-

मा भैषीः पुत्र भद्रं ते शङ्खचक्रौ ददामि ते ।
ताभ्यां गच्छ पुरीं दिव्यां तौ ते शत्रून् हनिष्यतः ॥
इत्युक्त्वा प्रददौ तस्मै ताभ्यां सह जगाम सः ।
तौ च शत्रून्निहत्याशु कृत्वा राज्यमकण्टकम् ॥
आजग्मतुः क्षितिभृता साकं देवस्य संनिधिम् ।
राजा देवं ववन्देऽथ स्तुत्वा स्तोत्रैरनेकशः ॥
वरं वरय भद्रेति देवो राजानमब्रवीत् ।
राजा--ममायुधप्रदानस्य ख्यात्यै देवोत्तम प्रभो ॥
अर्चाबिम्बे शिलाबिम्बे चक्रशङ्खे न धारय ।
इति संप्रार्थितो देवो न दधार पुनश्च तौ ॥
अदृश्यौ तिष्ठतश्चोभौ पार्श्वतश्शार्ङ्गधन्वनः ॥

इत्यादिवेंकटाद्रिमाहात्म्यान्तर्गतब्राह्मपुराणकथाभगवद्भाष्यकारका रितश्रीनिवासशङ्खचक्रपरिग्रहकथा चेहानुसंधेया । अत्र श्लाघ्यस्य भगवद्रामानुजाचार्यकारितश्रीनिवासशङ्खचक्रधारणरूपमहापुरुषचरित्रस्य वर्णनीयं वेंकटाद्रिं प्रत्युपलक्षकत्वम् ॥

 यथावा--

 स शिलोच्चयो विजयतां यत्रामृतदोऽप्यशेषविबुधानाम् । कंचन विबुधं तातेत्यामन्त्र्यायाचतामृतं जगज्जनकः ॥ १९५८ ॥

 अनेकेषां विबुधानां देवानां विदुषां वा अमृतदः सुधाप्रदः निश्श्रेयसप्रदो वा जगज्जनकः श्रीनिवासः कंचन विबुधं श्रीशैलपूर्णनामानं महात्मानं विपश्चितं तातेति आमन्त्र्य संबोध्य अमृतं सुधां निश्श्रेयसं वा । वारीति तु तत्त्वम् । अयाचत दवीयस्तरात्तुम्बुरुतीर्थादनुदिनं स्वाराधनकृते तीर्थानयनकैंकर्य

मारचयत्यमुष्मिन् कृपया तादृशसार्वकालिकश्रमं तस्य परिजिहीर्षुश्शबरवेषधरो भगवान् श्रीनिवासस्तादृशभूमिकया श्रिया सह मध्येमार्गमभ्येत्य तं तत्तीर्थं ययाचे । स च तं शबरमेव मत्वा न व्यतारीद्भगवदर्हणायानीयमानं तीर्थम् । अददाने च तस्मिंस्तत्तीर्थं भगवांस्तदुत्तमाङ्गधृतं तदुदकुम्भं निर्भिद्य तत्प्रस्रुतां वारिधारामास्येनागृह्णात्सह जायया । भगवदर्हणार्थमानीयमानं तीर्थं शबरेण दूषितमिति तदवशिष्टमखिलमपि तीर्थं तत्रैव परिहृत्य पुनस्तरां तदानयनाय तुम्बुरुतीर्थं प्रति प्रस्थिते च तस्मिन् भगवान् कृपया स्वमैश्वरं रूपं प्रदर्श्य नेतःपरमनुदिनं तुम्बुरुतीर्थाद्दवीयसो मदर्हणायाहरणीयं पानीयं, अलमेतावतैव कैंकर्येण तुष्टोऽस्मीत्यभिधाय--

 यस्तातेति मयाऽऽहूतस्स तात इति गीयते ।

इति वरं वितीर्यान्तरधात् । इत्यैतिह्यम् । अत्र ‘तातेत्यामन्त्र्य कंचिद्वनभुवि तृषितस्तोयबिन्दुं ययाचे’ इति श्लोकपादार्थोऽनुकूलः । अत्राप्युक्तप्रकारेण महापुरुषचरितं शेषाचलाङ्गतया वर्णितम् ॥

 अङ्गिभूतस्य वस्तुन उत्कर्षप्रतिपिपादयिषया अङ्गित्वेनोपनिबध्यमानं महापुरुषचरितमेव तदलंकाराङ्गम् । न तूपलक्षणमात्रपरतयोपात्तमित्याहुः । तेन--

 नयनायनगोचरतामयते द्विसहस्रनयनगिरिराजः । वित्रासिनीं रिपूणां यत्राऽदत्ताद्भुतां गुहश्शक्तिम् ॥ १९५९ ॥

 इत्यादौ नायमलंकारः । अत्र हि षाण्मातुरचरितमुपलक्षणमात्रं विवक्षितं न तु तेन गिरेः कोऽप्युत्कर्षो विवक्षितः ॥

 यथावा--

 कोऽपि स पुमान्विजयतां यद्घण्टा श्रुतिशिरोगुरुर्भूत्वा । उदजीवयदुक्त्यमृतैर्दुर्मतकथकविषमूर्छितं भुवनम् ॥ १९६० ॥

 यस्य श्रीनिवासस्य घण्टा कर्त्री श्रुतिशिरोगुरुर्भूत्वा--

वित्रासिनी विबुधवैरिवरूथिनीनां
पद्मासनेन परिचारविधौ प्रयुक्ता ।
उत्प्रेक्ष्यते भुवि जनैरुपपत्तिभूम्ना
घण्टा हरेस्समज्जनिष्ट यदात्मनेति ॥

 इत्युक्तरीत्या निगमान्तमहादेशिकत्वेनावतीर्येत्यर्थः । शिष्टं स्पष्टम् । अत्राङ्गिभूतस्य श्रीनिवासस्य महोत्कर्षप्रतिपिपादयिषया तद्धण्टावतारस्य भगवतो निगमान्तदेशिकस्य चरितमङ्गतया निबद्धम् ॥

इत्यलङ्कारमणिहारे उदात्तालङ्कारसर एकोननवतितमः.


अथात्युक्तिसरः (१००)


 अद्भुतातथ्यशौर्यादिवर्णनाऽत्युक्तिरिष्यते ।

 अद्भुतस्यासत्यस्य असंभावितस्य शौर्यादेर्वर्णनमत्युक्तिर्नामालङ्कारः । आदिशब्देनौदार्यकीर्त्यादेर्ग्रहणम् ॥

 यथा--

 बहिरन्तर्ज्वलता श्रीनाथ त्वत्तेजसाऽद्भुततमेन । ब्रह्माण्डमूषिकायां रविरुचिरावर्त्य कनकगिरिररचि ॥ १९६१ ॥