अलङ्कारमणिहारः (भागः ३)/अत्युक्त्यलङ्कारः (१००)

विकिस्रोतः तः
               




   


 यथावा--

 कोऽपि स पुमान्विजयतां यद्घण्टा श्रुतिशिरोगुरुर्भूत्वा । उदजीवयदुक्त्यमृतैर्दुर्मतकथकविषमूर्छितं भुवनम् ॥ १९६० ॥

 यस्य श्रीनिवासस्य घण्टा कर्त्री श्रुतिशिरोगुरुर्भूत्वा--

वित्रासिनी विबुधवैरिवरूथिनीनां
पद्मासनेन परिचारविधौ प्रयुक्ता ।
उत्प्रेक्ष्यते भुवि जनैरुपपत्तिभूम्ना
घण्टा हरेस्समज्जनिष्ट यदात्मनेति ॥

 इत्युक्तरीत्या निगमान्तमहादेशिकत्वेनावतीर्येत्यर्थः । शिष्टं स्पष्टम् । अत्राङ्गिभूतस्य श्रीनिवासस्य महोत्कर्षप्रतिपिपादयिषया तद्धण्टावतारस्य भगवतो निगमान्तदेशिकस्य चरितमङ्गतया निबद्धम् ॥

इत्यलङ्कारमणिहारे उदात्तालङ्कारसर एकोननवतितमः.


अथात्युक्तिसरः (१००)


 अद्भुतातथ्यशौर्यादिवर्णनाऽत्युक्तिरिष्यते ।

 अद्भुतस्यासत्यस्य असंभावितस्य शौर्यादेर्वर्णनमत्युक्तिर्नामालङ्कारः । आदिशब्देनौदार्यकीर्त्यादेर्ग्रहणम् ॥

 यथा--

 बहिरन्तर्ज्वलता श्रीनाथ त्वत्तेजसाऽद्भुततमेन । ब्रह्माण्डमूषिकायां रविरुचिरावर्त्य कनकगिरिररचि ॥ १९६१ ॥

 हे श्रीनाथ! बहिः अन्तश्च ज्वलता अद्भुततमेन मूषानिहितकनकरजःकणादिविलापनमात्रकारिणः प्रसिद्धादग्नेरपि वक्ष्यमणरविकिरणद्रवीकरणघनीभावोभयकल्पकतया विलक्षणेनेति भावः । तव तेजसा प्रतापेनैव अग्निना । मूषैव मूषिका तैजसद्रव्यविलापनी 'तैजसावर्तनी मूषा' इत्यमरः । तस्यां रवेः रुचिः जात्यभिप्रायकमेकवचनं, किरणा इत्यर्थः। आवर्त्य विलाप्य कनकगिरिः अरचि । आवर्तिताः प्रभाकरकरा एव घनीभावनया सुमेरुत्वेन निष्पादिता इति भावः ॥

 यथावा--

 ब्रह्माण्डान्तरसृष्ट्यै परितो ज्वलता तव प्रतापेन । जगदण्डमूषिकायामस्यामावर्त्यते सुवर्णगिरिः ॥ १९६२ ॥

 ब्रह्माण्डान्तरस्य 'तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्' इत्युक्तप्रकारस्यान्यस्य ब्रह्माण्डस्थ सृष्ट्यै सृष्टिं कर्तुं ‘क्रियार्थ' इत्यादिना चतुर्थी । परितः समन्ततः ज्वलता तव प्रतापेन अस्यां विद्यमानायां जगदण्डमेव मूषिका तस्यां सुवर्णगिरिः हेमाद्रिः आवर्त्यते विलाप्यते । ब्रह्माण्डमूषिकायां सुवर्णगिरिद्रवीकरणोक्त्या प्रतापे अग्नित्वं गम्यते ॥

 यथावा--

 परतस्त्रिपाद्विभूतेः परितस्स्फुरता ककुत्स्थकुलभानो । अत्यर्कानलदीप्तिर्नित्यं त्वद्योधतेजसाऽरचि सा ॥ १९६३ ॥

 त्रिपाद्विभूतेः ‘त्रिपादस्यामृतं दिवि’ इति श्रुतायाः नित्यविभूतेः परतः परितः स्फुरता ज्वलता त्वद्योधानां सुग्रीवहनुमदादीनां तेजसा प्रतापेन । सा त्रिपाद्विभूतिः अत्यर्कानलदीप्तिः अतिक्रान्तभानुवह्निज्योतिः व्यरचि । अत्र--

ब्रह्मणस्सदनात्तस्य परं स्थानं प्रकाशते ।
देवा हि यन्न पश्यन्ति दिव्यं तेजोमयं परम् ॥
अत्यर्कानलदीप्तं तत् स्थानं विष्णोर्महात्मनः ।

इति प्रमाणमिहानुसंधेयम् । इयं शौर्यात्युक्तिः ॥

 औदार्यात्युक्तिर्यथा--

 स्वकटाक्षलब्धनिरवधिविभवानां दानमनवधि नराणाम् । वीक्ष्य स्वयमर्थितया तद्गृहमभ्येत्य चलति न ततश्श्रीः ॥ १९६४ ॥

 अत्र श्रीरपि स्वकटाक्षाधिगतविभवानां जनानां गृहमर्थित्वेनाभ्येत्य ततो न चलतीत्यनेन तद्भक्तानामौदार्यात्युक्तिः । ततो न चलतीत्यनेन तद्भक्तसंपदोऽक्षयत्वं व्यज्यते ॥

 यथावा--

 अर्थितया प्रतिहारं त्वदुदञ्चितसंपदां नृणामम्ब । गच्छतिचेद्भिक्षाको गच्छतु धनदोऽपि याति भिक्षायै ॥ १९६५ ॥

 कुबेरोऽपि त्वत्कटाक्षसमधिगतसंपदां जनानां गृहद्वारं

भिक्षार्थं गच्छतीत्यौदार्यात्युक्तिः । भिक्षाको महेश्वर इत्यर्थान्तरमपि प्रतीयते ॥

 कीर्त्यत्युक्तिर्यथा--

 त्वदुपाश्रितजनसमुदययशःपयोराशिवीचिविक्षुभिताः । ब्रह्माण्डालाबुगणा निमज्जनोन्मज्जनैः प्रविलुठन्ति ॥ १९६६ ॥

 इयं कीर्त्यत्युक्तिः । नन्वतिशयोक्तितोऽस्याः को भेद इति चेत् अतिशयोक्तावसदुक्तिमात्रं, अत्युक्तौ तु अतथ्यस्याद्भुतेति विशेषणादत्यन्तासदुक्तिरिति जानीहि । अतएव दण्डिना--

अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः ।
अवकाशो न पर्याप्तस्तव बाहुलतान्तरे ॥
इति संभाव्यमेवैतद्विशेषाख्यानसंस्कृतम् ।
कान्तं भवति सर्वस्य लोकयात्रानुवर्तिनः ॥

इति । स्तनयोरतिपीवरत्ववर्णनं लोकसिद्धमित्येतादृशविशेषाख्यानेन उत्कर्षकथनेन अलंकृततया कान्तं रमणीयमेव भवतीत्युक्त्वा--

लोकातीत इवात्यर्थमध्यारोप्य विवक्षितः ।
योऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे जनाः ॥

इत्यभिधाय--

अल्पं निर्मितमाकाशमनालोच्यैव वेधसा ।
इदमेवंविधं भावि भवत्यास्स्तनमण्डलम् ॥
इदमयुक्तिरित्युक्तमेतद्गौडोपलालितम् ।

इत्यत्युक्तेरतिशयोक्तितो वैलक्षण्यं दर्शितम् ॥

 ननु च । उदात्तालंकारादत्युक्तेः को भेदः ‘वज्रशिलावाल'

इत्यादिप्रागुपदर्शिततदुदाहरणे कविप्रतिभामात्रगोचरतया असंभावितायास्समृद्धेर्वर्णनेन वैलक्षण्याभावादितिचेत् अत्राहुः--'संप

दुत्कर्षात्युक्तावुदात्तं, शौर्यात्युक्तावत्युक्तिः' इति । अन्ये तु "अत्यद्भुतकविप्रतिभामात्रगोचरासंभावितार्थवर्णनमुदात्तमित्युदात्ता लंलकारं लक्षयित्वा तस्यार्थस्य संपच्छौर्यौदार्यादिनानाप्रकारतया तथाविधसंपच्छौर्यादार्याद्यत्युक्तीनां भेदे प्रमाणाभावान्नात्युक्तिः पृथक् लक्षणीया” इत्याहुः । दीक्षितानां तु तथ्यत्वातथ्यत्वाभ्यामनयोर्भेद इत्यभिप्रायमवर्णयद्वैद्यनाथः ॥

इत्यलङ्कारमणिहारे अत्युक्तिसरश्शततमः.


अथ निरुक्तिसरः (१०१)


 सा निरुक्तिर्योगतो यन्नाम्नोऽर्थान्तरकल्पनम् ॥

 योगवशान्नाम्नोऽर्थविशेषाभिधायिनोऽर्थान्तरोपवर्णनं निरुक्तिर्नामालङ्कारः । यद्यप्ययं प्राचीनैर्नालंकारतया लक्षितः, तथाऽपि जयदेवीये चन्द्रालोके तृतीयमयूखे--

निरुक्तं स्यान्निर्वचनं नाम्नस्सत्यं तथाऽनृतम् ।
ईदृशैश्चरितैर्जाने सत्यं दोषाकरो भवान् ॥

 इति काव्यलक्षणतया प्रतिपादितं निरुक्तमेव किंचिद्वैलक्षण्येन दीक्षितैरर्थालंकारतया पर्यगण्यतेति तदनुरोधेनास्माभिरप्ययमलंकारो लक्षितः । नाम्नः प्रसिद्ध्यनुरोधेन कृतं निर्वचनं सत्यं, अनृतं निर्वचनं त्वन्यथा कलितम् ॥

 यथा--

 अर्दयसि जनानेतान्निर्दय इव भवदुरन्तकान्तारे । जगदीश तदिह सत्यं जनार्दनोऽसीति कोऽत्रं सन्देहः ॥ १९६७ ॥