अलङ्कारमणिहारः (भागः ३)/सूक्ष्मालङ्कारः (८८)

विकिस्रोतः तः
Jump to navigation Jump to search

कूतं व्यञ्जनामूलमेवेति, तर्हि तयोः श्लेषमूलकार्थान्तरगर्भत्वे चित्रप्रश्नविशेष एव नोत्तरालकार इत्येष्टव्यं, विच्छित्तिविशेषसद्भावात् । इहाप्युत्तरनिबन्धस्तु उत्तरालंकारे प्रश्ननिबन्धवच्चारुतातिशयहेतुरिति दिक् ॥

इत्यलंकारमणिहारे चित्रप्रश्नसरस्सप्ताशीतितमः.


अथ सूक्ष्मालङ्कारसरः (८८)


 अन्याशयज्ञसाकूतचेष्टितं सूक्ष्ममीर्यते ॥

 अन्याभिप्रायमिङ्गितादिना ज्ञातवतोऽन्यस्य साकूतस्तद्विषयको व्यापारस्सूक्ष्मं नामालंकारः ॥

 यथा--

 पुरतो नन्दकिशोरे करकलितमनोज्ञकन्दुके मिषति । सुन्दरमौक्तिकरदना मन्दं हसति स्म गोपशशिवदना ॥ १८८४ ॥

 अत्र गृहीतकन्दुकनन्दनन्दनसन्दर्शनलक्षणेनेङ्गितेन तदीयपयोधरग्रहाभिसंकेतसमयानुयोगाभिप्रायं विदितवत्या गोपसुदत्या तदानुकूल्येन प्रसरन्त्यां चन्द्रिकायां सङ्केतसमय इति तदुत्तर स्वहृदयगतं व्यञ्जयितुं मन्दहासव्यापारो व्यरचीति लक्षणानुगतिः ॥

 यथावा--

 स्वकरधृतं लिखिति नखैर्लिकुचफलं नन्दनन्दने पुरतः । वल्लवललना मौक्तिकवल्लीमामल्लते स्म धम्मिल्ले ॥ १८८५ ॥

 इदमपि भगवतश्श्रीकृष्णस्य स्वैरविहारसङ्केतसमयानुयोगभावं जानानायाः व्रजललनायाश्चेष्टितं तमसि तारकोल्लासे सङ्केतसमय इत्याकूतगर्भम् ॥

 यथावा--

 व्यालाचलशैलेन्दौ नीलाकुचकलशयुगळलोलदृशि । सा रमणी स्मेरमुखी श्रीरमणोरःप्रसारिनयनाऽऽसीत् ॥ १८८६ ॥

 अत्र स्वकुचयुगलनिरीक्षणभगवच्चेष्टितेन स्वोपभोगौत्सुक्यरूपं तदाकूतं जानानाया नीलायाः श्रीनिवासवक्षस्स्थलवीक्षणरूपं चेष्टितं तत्र श्रीसांनिध्यरूपप्रतिबन्धकसद्भावप्रदर्शनाकूतगर्भम् ॥

इत्यलङ्कारमणिहारे सूक्ष्मसरोऽष्टाशीतितमः.


अथ पिहितालंकारसरः (८९)


 परवृत्तज्ञसाकूतचेष्टितं पिहितं मतम् ॥

 परकीयव्यापारवेत्तुस्साकूतचेष्टितं पिहितं नामालंकारः ॥