अलङ्कारमणिहारः (भागः ३)/पिहितालङ्कारः (८९)

विकिस्रोतः तः
Jump to navigation Jump to search

 यथावा--

 स्वकरधृतं लिखिति नखैर्लिकुचफलं नन्दनन्दने पुरतः । वल्लवललना मौक्तिकवल्लीमामल्लते स्म धम्मिल्ले ॥ १८८५ ॥

 इदमपि भगवतश्श्रीकृष्णस्य स्वैरविहारसङ्केतसमयानुयोगभावं जानानायाः व्रजललनायाश्चेष्टितं तमसि तारकोल्लासे सङ्केतसमय इत्याकूतगर्भम् ॥

 यथावा--

 व्यालाचलशैलेन्दौ नीलाकुचकलशयुगळलोलदृशि । सा रमणी स्मेरमुखी श्रीरमणोरःप्रसारिनयनाऽऽसीत् ॥ १८८६ ॥

 अत्र स्वकुचयुगलनिरीक्षणभगवच्चेष्टितेन स्वोपभोगौत्सुक्यरूपं तदाकूतं जानानाया नीलायाः श्रीनिवासवक्षस्स्थलवीक्षणरूपं चेष्टितं तत्र श्रीसांनिध्यरूपप्रतिबन्धकसद्भावप्रदर्शनाकूतगर्भम् ॥

इत्यलङ्कारमणिहारे सूक्ष्मसरोऽष्टाशीतितमः.


अथ पिहितालंकारसरः (८९)


 परवृत्तज्ञसाकूतचेष्टितं पिहितं मतम् ॥

 परकीयव्यापारवेत्तुस्साकूतचेष्टितं पिहितं नामालंकारः ॥

 यथा--

 स्विन्नाननमायातं प्रातर्निजसद्म वीक्ष्य नन्दसुतम् । लघुलयललितं व्यजनं करकिसलयतोऽग्रहीद्द्रुतं राधा ॥ १८८७ ॥

 लघुलयं लामज्जकम् । सर्वरात्रं नायिकान्तरसंभोगेन श्रान्तोऽसीति वीजयामीति लामज्जकतालवृन्तप्रहणाकूतम् ॥

 यथावा--

 परतरुणीहारिद्रच्छुरितकपोलं निरीक्ष्य यदुबालम् । पिहिताकारा भैष्मी पाणौ मणिदर्पणं ददौ तस्य ॥ १८८८ ॥

 अत्र हरिकपोले हरिद्राचूर्णलेपनेनानुमितं रजन्यां तव सपत्नीसदने स्वैरविहारं जानाम्यहमित्याकूतगर्भं तत्करकमले रुक्मिण्या दर्पणदानरूपं चेष्टितं निबद्धम् । पिहिताकारेत्यनेन सूचनीयालंकारनामसूचनरूपमुद्रालंकारोपस्कृतत्वं पूर्वस्माद्विशेषः ॥

 इदं कुवलयानन्दानुरोधेन । सर्वर्स्वकारादयस्तु–-'संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम्’ इति स्थूलमतिभिरसंलक्षणीयः कुशाग्रमतिभिस्संलक्ष्यते यस्सूक्ष्मार्थः तस्य विदग्धं प्रकाशनमिति सूक्ष्मार्थत्वेन पराशयवृत्तान्तयोः क्रोडीकारेण लक्षयित्वा--

संकेतकालमनसं विटं ज्ञात्वा विदग्धया ।
आसीन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥
वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्दैर्दृष्ट्वा भिन्नं कुङ्कुमं काऽपि कण्ठे ।
पुंस्त्वं तन्व्या व्यञ्जयन्तीव तस्यास्स्मित्वा पाणौ खड्गलेखां लिलेख ॥


इत्युदाहरणयोर्लक्षणसत्तामुपपादयन्तः पिहितनामानमलंकारान्तरं नानुमेनिरे । युक्तं चैतत्--अलंकारान्तरकल्पनावैचित्र्यहेतोस्साकूतचेष्टितविन्यसनस्य भेदाभावे आशयवृत्तान्तरूपप्रकाश्यभेदमात्रेण भेदानुपपत्तेरिति वदन्ति । अत्र 'यत्सूक्ष्मस्यार्थस्य संलक्षणमात्रं प्रकाशनमात्रं वाऽप्ययमेवालंकारः' इत्यलंकारभाष्यकाराशयं व्यवृणुत विमर्शिनीकारः । तदेदमुदाहरणम्--

 लीलासदनकवाटे लोलेऽपाङ्गे पयोधिबालायाः । वल्लभमात्रसहाया यथा रमा स्यात्तथाऽभवन् सख्यः ॥ १८८९ ॥

 अत्र सखीभिः श्रियो वल्लभोपभोगौत्सुक्यं संलक्षितं केळीगृहकवाटे कटाक्षविसारणेन प्रकाशितं चेत्युभयार्थसहितत्वम् । तदेवमादौ सुक्ष्मालंकार एव वाच्यः, सूक्ष्मस्यैवार्थस्य संलक्ष्यमाणत्वादिनाऽवस्थानात् । यद्यपि संलक्षितमात्रमपि लक्ष्म्या औत्सुक्यं सखीभिर्विविक्ततया बहिर्निर्गमनेन चेष्टितेन प्रकाशितम् । तथाऽपि सखीनां तदौत्सुक्यसंलक्षणमात्रमेवात्र चमत्कारि । न तु सखीबहिर्निर्गमनचेष्टितमित्यस्यालंकारतोल्लासः ॥

इत्यलंकारमणिहारे पिहितसर एकोननवतितमः.


अथ व्याजोक्त्यलङ्कारसरः (९०)


हेत्व तरोक्त्या व्याजोक्तिर्यदाकारस्य गूहनम् ॥

 निगूढस्य वस्तुनः केनचित्प्रकटतां गतस्य हेत्वन्तरोक्त्या यद्गोपनं तत् व्याजोक्तिर्नामालंकारः ॥