अलङ्कारमणिहारः (भागः ३)/व्याजोक्त्यलङ्कारः (९०)

विकिस्रोतः तः
               




   


इत्युदाहरणयोर्लक्षणसत्तामुपपादयन्तः पिहितनामानमलंकारान्तरं नानुमेनिरे । युक्तं चैतत्--अलंकारान्तरकल्पनावैचित्र्यहेतोस्साकूतचेष्टितविन्यसनस्य भेदाभावे आशयवृत्तान्तरूपप्रकाश्यभेदमात्रेण भेदानुपपत्तेरिति वदन्ति । अत्र 'यत्सूक्ष्मस्यार्थस्य संलक्षणमात्रं प्रकाशनमात्रं वाऽप्ययमेवालंकारः' इत्यलंकारभाष्यकाराशयं व्यवृणुत विमर्शिनीकारः । तदेदमुदाहरणम्--

 लीलासदनकवाटे लोलेऽपाङ्गे पयोधिबालायाः । वल्लभमात्रसहाया यथा रमा स्यात्तथाऽभवन् सख्यः ॥ १८८९ ॥

 अत्र सखीभिः श्रियो वल्लभोपभोगौत्सुक्यं संलक्षितं केळीगृहकवाटे कटाक्षविसारणेन प्रकाशितं चेत्युभयार्थसहितत्वम् । तदेवमादौ सुक्ष्मालंकार एव वाच्यः, सूक्ष्मस्यैवार्थस्य संलक्ष्यमाणत्वादिनाऽवस्थानात् । यद्यपि संलक्षितमात्रमपि लक्ष्म्या औत्सुक्यं सखीभिर्विविक्ततया बहिर्निर्गमनेन चेष्टितेन प्रकाशितम् । तथाऽपि सखीनां तदौत्सुक्यसंलक्षणमात्रमेवात्र चमत्कारि । न तु सखीबहिर्निर्गमनचेष्टितमित्यस्यालंकारतोल्लासः ॥

इत्यलंकारमणिहारे पिहितसर एकोननवतितमः.


अथ व्याजोक्त्यलङ्कारसरः (९०)


हेत्व तरोक्त्या व्याजोक्तिर्यदाकारस्य गूहनम् ॥

 निगूढस्य वस्तुनः केनचित्प्रकटतां गतस्य हेत्वन्तरोक्त्या यद्गोपनं तत् व्याजोक्तिर्नामालंकारः ॥

 यथा--

 प्रतिवातविलुलितं मम धम्मिल्लमिमं समीकुरुष्व सखि । इति यमुनातटकुञ्जादेत्य सखीं काऽपि गोपिकाऽलापीत् ॥ १८९० ॥

 अत्र नन्दनन्दनकृतस्वैरोपभोगविलुलितस्य धम्मिल्लस्य प्रतिवातविलुलितत्वव्याजोक्त्या गोपनम् । "छेकापह्नुतेरस्याश्चायं विशेषः-- तस्यां वचनस्यान्यधानयनेनापह्नवः, अस्यामाकारस्य हेत्वन्तरवर्णनेन गोपनमिति । लक्षणे लक्ष्यनाम्नि चोक्तिग्रहणमाकारस्य गोपनार्थं हेत्वन्तरप्रत्यायकव्यापारमात्रोपलक्षणम् । ततश्च--

आयान्तमालोक्य हरिं प्रतोळ्यामाळ्याः पुरस्तादनुरागमेका ।
रोमाञ्चकम्पादिभिरुच्यमानं भामा जुगूहे प्रणमन्त्यथैनम् ॥

 इत्यत्रापि व्याजोक्तिरेव । अत्र ह्यनुरागकृतस्य रोमाञ्चाद्याकारस्य भक्तिरूपहेत्वन्तरप्रत्यायकेन प्रणामेन गोपनं कृतम्” इति कुवलयानन्दे दीक्षिताः । ततश्च--

 यमुनातटकुञ्जाद्व्रजमुपयान्ती केतकीस्तबकहस्ता । न्ववपुषि शौरिनखक्षतमगूहत स्वैरकेळिजं गोपी ॥ १८९१ ॥

 इत्यत्रापि तन्मते व्याजोक्तिरेव । अत्र हि स्वैरकेळिप्राप्तस्य भगवन्नखविलेखनरूपाकारस्य कण्टकप्रचुरकेतकीनिकुञ्जप्रवेशरूपहेत्वन्तरप्रत्यायकेन तत्कुसुमस्तबकग्रहणेन गूहनं कृतम् । वस्तुतस्तु अत्र युक्त्यलंकार एवेति युक्त्यलंकारनिरूपणावसरे वक्ष्यते । सूक्ष्मपिहितालंकरयोरपि चेष्टितग्रहणमुक्तिसाधारणव्यापारमात्रोपलक्षणम् । ततश्च-

 "नलिनीदले बलाका मरकतपात्र इव दृश्यते शुक्तिः । इति मम संकेतभुवि ज्ञात्वा भावं तदाऽब्रवीदाळीम्” ॥

 इति प्राचीनपद्य इव--

 पश्यात्र निश्चलतमा मराळमालाऽमलाब्जमालेव । इत्याळीं काऽप्यवदच्छौरेस्संकेतभावमधिगम्य ॥ १८९२ ॥

 इत्यादिष्वस्मदीयपद्येष्वपि सूक्ष्मालंकार: प्रसरति । अत्र पद्ये तावत् आवयोः किं संकेतस्थानं भविष्यतीति प्रश्नाशयं सूचयति भगवति नन्दनन्दने तदभिज्ञया विदग्धया व्रजसुन्दर्या सखीं प्रति साकूतमुक्तमिति भवति सूक्ष्मालंकारः । यतोऽत्र हंसमालाया निश्चलतमपुण्डरीकमालिकोपमया तस्यास्तत्र निस्पन्दतया साश्वासत्वं तेन तस्य प्रदेशस्यातिमात्रविविक्तत्वं तेन तदेवावयोस्संकेतस्थानमिति तं प्रति सूचनं लक्ष्यते । न चात्र ध्वनिराशङ्कनीयः व्यङ्ग्यपरंपरया व्यज्यमानस्यापि संकेतस्थानप्रश्नोत्तरस्य स्वोक्त्यैवाविष्कृतत्वात् । एवं हि पिहितालंकारेऽप्युदाहार्यम् ॥

 इदं चान्यदत्रावधेयम्—-"तत इत इह संभ्रमतः । किं चिन्तयसे भद्रे । का त्वं का वा किं तव । पुरतो नन्दकिशोरे । स्वकरधृतं लिखिति नखैः” इत्यादिप्रागुपदर्शितगूढोत्तरसूक्ष्माद्यलंकारोदाहरणेषु भावो न स्वोक्त्याऽऽविष्कृतः । किंतु वस्तुसौन्दर्यबलाद्वक्तृबोद्धव्यविशेषविशेषिताद्गम्यः । तत्रैव वस्तुतो नालंकारत्वं, ध्वनिभावास्पदत्वात् । प्राक्तनैस्स्वोक्त्याऽऽविष्करणे सत्यलंकारास्पदताऽस्तीत्युदाहृतानि “यत्रासौ वेतसी पान्थ" इत्यादीनीति तदनुसारिभिरस्माभिरपि तथाविधान्युदाहृतानि

पद्यानि । शक्यं ह्येषामुदाहरणानामुत्तरश्लोककल्पनया भावाविष्करणम् ॥

 यथा--

 तत इत इह संभ्रमतः कुत इव विचिनोषि नन्दसुत गां त्वम् । काळिन्दीतटकुञ्जे कामं दीव्यति हि तत्र सुलभैषा ॥ १८९३ ॥

 इति काचिद्व्रजललना गां निजयूधच्युतां विचिन्वानम् । पृच्छन्तं नन्दसुतं कामयमाना जगाद साकूतम् ॥ १८९४ ॥

 इति । तस्मादस्माभिः प्रागुदाहृतेषु 'परतरुणीहारिद्रच्छुरितकपोलम्' इत्यादिषु येषु भावाविष्करणमस्ति तेष्वेव तत्तदलंकार इति ॥

इत्यलंकारमणिहारे व्याजोक्तिसरो नवतितमः


अथ गूढोक्तिसरः (९१)


 गूढोक्तिरितरोद्देश्यमन्यं प्रत्युच्यते यदि ॥

 यं प्रति किंचिद्गदितव्यं तन्माज्ञासिषुस्तटस्था इति तदितरं यंकंचित्प्रति यत् श्लेषणोच्यते तत् गूढोक्तिर्नामालंकारो दीक्षितोपक्रमम् ॥