सामग्री पर जाएँ

अलङ्कारमणिहारः (भागः ३)/चित्रप्रश्नालङ्कारः (८७)

विकिस्रोतः तः
               




   


वृक्षधूपोऽपि श्रीवेष्टसरळद्रवौ' इत्यमरः । तृतीये श्रीवासः लक्ष्म्या अंशुकमित्यर्थः । एवंजातीयका अन्ये बहवः प्रभेदा बुद्धिमद्भिरूहनीयाः । अयं पद्यबहिर्वर्त्युत्तररूपप्रथमप्रभेद उत्तराभिन्नोत्तररूपप्रभेद एव संभवति । न तु प्रश्नाभिन्नोत्तररूपप्रथमप्रभेदे, प्रश्नेनैवोत्तरस्यापि निबद्धतया पद्याद्बहिष्ठताया असंभवात् ॥

इत्यलंकारमणिहारे उत्तरसरष्षडशीतितमः.


अथ चित्रप्रश्नालंकारसरः (८७)


प्रश्नः प्रश्नान्तराभिन्नो यदिवाऽन्यार्थगर्भितः ।
निबध्यते तं कतिचिच्चित्रप्रश्नाख्यमूचिरे ॥

 प्रश्नस्य प्रश्नान्तराभिन्नत्वे वा अर्थान्तरगर्भत्वे वा चित्रप्रश्नाख्यमलंकारं कतिचिदाहुः । अयं कौस्तुभकृदुपक्रमम् ॥

 यथावा--

 का कारुण्यनिधिर्ननु काकोदरशैलपतिहृदयवृत्तिः । शारदरविकरविकसितनीरजरुचिरा पदोर्युगी चास्य ॥ १८७७ ॥

 अत्र काकोदरशैलपतेः हृदयवृत्तिः चित्तवृत्तिरित्युत्तरस्य

शारदेत्याद्युत्तरस्य च काकारुण्यनिधिरिति प्रश्नान्तराभिन्न एकएव प्रश्नः । का कारुण्यनिधिः दयानिधिरिति प्राथमिक्यप्रश्नस्यार्थः । का का आरुण्यनिधिः शोणिमाश्रय इति द्वितीयस्य । काकेति प्रशंसायां वीप्सेत्यवोचाम कङ्कमिति पद्ये ॥

 यथावा--

 तापत्रयातुराणां भवेन्नराणां भुवीह काराका । असतां संगतिरेका सारविदां संगतिस्सतामन्या ॥ १८७८ ॥

 अत्र उत्तरार्धप्रतिपादितयोरुत्तरयोः काराकेति प्रश्नान्तराभिन्न एक एव प्रश्नः । कारा बन्धनालयः तद्वदतिशयितदुःखहेतुः केति प्रथमप्रश्नस्यार्थः । का राका पूर्णनिशाकरा पूर्णिमा तद्वत्तापहर्त्री केति द्वितीयप्रश्नस्यार्थः ॥

 यथावा--

 कालीका वृषगिरिपतितनुरथ तद्विमुखवदनवीक्षा च । काशङ्का न्यक्चक्रे तत्कीर्तिस्तत्परत्वविषया च ॥ १८७९ ॥

 अत्र पूर्वार्धे वृषगिरिपतितनुः तद्विमुखवदनवीक्षा चेत्युत्तरद्वयस्य कालिकेत्येक एव प्रश्नः । काळी श्यामला का इत्येकस्य प्रश्नस्यार्थः । का अलीका अप्रियेत्यन्यस्य । उत्तरार्धे तु तत्कीर्तिः तत्परत्वविषया चेत्युत्तरद्वयस्य काशङ्का न्यक्चक्रे इत्येक एव प्रश्नः । काशं काशकुसुमं का न्यक्चक्रे इति प्रथमप्रश्नस्य । द्वितीयस्य का शङ्का संशयः न्यक्चक्रे तिरस्कृता इत्यर्थः । भगवत्कीर्तिः काशं न्यक्करोति स्म । भगवत्परत्वविषया शङ्का अवधीरिताऽस्माभिरित्युत्तरयोरभिप्रायः । चक्रे इति प्रथमे प्रश्ने

कर्तरि लिट् । द्वितीये तु कर्मणि इति ध्येयम् । पूर्वत्र प्रश्नान्तराभिन्नः प्रश्न एकः । अत्र तु द्वौ प्रश्नावितिविशेषः ॥

 अन्यार्थगर्भितप्रश्नरूपो द्वितीयश्चित्रप्रश्नो यथा--

 भामामणि व्यपनयन् कामाकुलतां मुदं तव विदध्याम् । कामपि गोपीमेवं पृच्छन् साकूतमवतु नन्दसुतः ॥ १८८० ॥

 अत्र आकुलतां व्यपनयन् तव कां मुदं विदध्यामिति प्रश्नः तव कामाकुलतां कन्दर्पव्याकुलत्वं व्यपनयन् मुदं विदध्यामित्यर्थान्तरगर्भः ॥

 यथावा--

 सुतराङ्गविभोऽगं त्वं स्वामिन् कमितः परं व्रजस्युच्चैः । मामेहीति सभावं माधवमब्रूत काऽपि गोपवधूः ॥ १८८१ ॥

 अत्र प्राथमिकार्थे-- सुतराङ्ग सुतर अङ्ग इति वा विभो अगं त्वं स्वामिन् कं इतः परं व्रजसि उच्चैः मा मा इहि इति छेदः । सुतराङ्ग हे शोभनगात्र सुन्दरेत्यर्थः । अथवा सुतर कल्याणतर । अङ्गेत्यव्ययं संबोधने । विभो व्यापनशील स्वामिन् ! इतःपरं अस्मात् शैलात् सुगमादिति भावः । अन्यं उच्चैः उन्नतं दुरारोहमिति भावः । कं अगं शैलं व्रजसि गच्छसि । मा मा इहीति योजना ।

मा मा स्म गमः मा मेतिवीप्सा सर्वात्मना निषेधार्था । अर्थान्तरे तु सुतरां गवि भोगं त्वं स्वामिन् कमितः परं व्रजसि उच्चैः मां एहि इति छेदः । हे गवि स्वामिन् गवामधीश । गोपलोत्यर्थः । ‘स्वामीश्वराधिपति' इत्यादिना स्वामिशब्दयोगात् गोशब्दस्य सप्तमी । हे कमितः हे कमन! कमेस्तृचि संबुद्धिः । आर्धधातुकत्वेन आयादेशस्य वैकल्पिकत्वादिह तदभावः । सुतरां अत्यन्तं परं श्रेष्ठं उच्चैः

निरवधिकं सुखं त्वं व्रजसि । तत्र हेतुमाह--मां एवमभिलषमाणां मां एहि प्राप्नुहि । अत्राप्युपपादितरीत्या प्रश्नस्यार्थान्तरगर्भता द्रष्टव्या । क्वचित्प्रश्नोत्तरयोरुभयोरप्यर्थान्तरगर्भत्वे चारुतातिशय इति तैरेव कौस्तुभकारैः प्रत्यपादि । तस्येदमुदाहरणम्--

 कान्तारमयेत्का मां तत्सरणिं वद यया सुखं यायाम् । इति पृच्छति नन्दसुते सुगमेयमिहेति काऽपि गोप्याह ॥ १८८२ ॥

 कान्तारं महावनं प्रति का सरणिः अयेत् गच्छेत् मां तत्सरणिं तां पदवीं वद 'चिञ्ब्रूञ्शासुजि’ इति द्विकर्मकता । यया सरण्या सुखं निर्बाधं यथा स्यात्तथा यायां गच्छेयं इति मार्गविषयकः प्रश्नः । का कान्ता मां रमयेत् तत्सरणिं तस्याः प्राप्त्युपायं वद । यया कान्तया उपायेन वा सुखं रतिसुखं यायामित्यर्थान्तरगर्भः । इयं सरणिः सुगमा सुखेन गम्येति मार्गप्रश्नस्योत्तरम् । अर्थान्तरस्य तु इयं यां त्वं मार्गं पृच्छसि सेयं अहमित्यर्थः । इह अत्रैव सुगमा सुखेन गम्या सती रमयति निश्शलाकत्वादस्य प्रदेशस्येति ॥

 यथावा--

 कान्तेऽनवरतसंपदमभीप्सितां कोमलङ्गि तनवानि । घनभाविरतं भाग्यं वितरसि मेऽभीप्सितं यदि कृतार्था ॥ १८८३ ॥

 अयं श्रीकृष्णगोपिकयोः प्रश्नोत्तररूपः श्लोकः । अत्र हे

कोमलाङ्गि! अभीप्सितां कां अनवरतसंपदं अविच्छिन्नां संप

त्तिं ते तव तनवानीति प्रश्नः, हे कान्ते! अभीप्सितां नवरतसंपदं ते तनवानीत्यर्थान्तरगर्भितः । हे घनभ! मेघाभ अविरतं सततं मे अभीप्सितं भाग्यं यदि वितरसि तर्हि कृतार्थेत्युत्तरम् । हे घन! मे अभीप्सितं चिरकालप्रार्थितं भावि भविष्यत् रतं सुरतरूपं भाग्यं यदि वितरसि तर्हि कृतार्था निर्वृत्ताभीप्सितप्रयोजनेत्यभिप्रायगर्भम् ॥

 अत्रेदमवधेयम्--प्राक्तनमतानुरोधेनास्मदुपदर्शितोत्तरालंकारप्रकारभेदेषु सत्स्वपि बहुषु चित्रोत्तरगूढोत्तररूपौ तदलंकारप्रकारप्रभेदौ द्वावेव कुवलयानन्दकारैरुपात्तौ । तन्मतानुरोधेनालंकारान्निबध्नद्भिः कौस्तुभकारैर्वेङ्कटार्यैस्तत्प्रतिद्वन्द्वितया चित्रप्रश्नप्रकारद्वयमभिनवं परिकल्पितम् । तदिदमस्माभिरपि प्रदर्शितम् । यदित्वत्र अन्यार्थगर्भप्रश्नरूपो द्वितीयः प्रकारो निबद्धसाभिप्रायनिरभिप्रायान्यतरोत्तरस्स्यात् तर्हि तत् प्रागुपदर्शिते प्राचां मते उत्तरालंकारोदाहरणमेव भवेत् । एवंच 'भामामणि व्यपनयन, सुतराङ्गविभोऽगं त्वम्’ इत्युपदर्शितयोः पद्ययोरुत्तरानुपनिबन्धात्प्रश्नमात्रस्य साभिप्रायत्वाच्च चित्रप्रश्नोदाहरणत्वमेव । अस्य प्राथमिकप्रभेदे प्रदर्शितेषु 'का कारुण्यनिधिः' इत्यादिपद्येषूत्तरोपनिबन्धमन्तरेण एकस्य प्रश्नस्य प्रश्नान्तराभिन्नप्रश्नताया दुर्विज्ञानतया तदुपनिबन्धावश्यंभावेऽपि प्रश्नमात्रस्यैव निराकूतत्वेऽपि श्लेषवशेन वैचित्र्यप्रकाशनात्प्राचीनोपदर्शितोत्तरालंकारव्यावृत्तश्चित्रप्रश्नालंकार एव । ‘कान्तारमयेत्कामाम्’ इत्यादिपद्यद्वये तु साभिप्राययोः प्रश्नोत्तरयोरुभयोरपिनिबद्धत्वादुत्तरालंकारप्रभेद एव । प्रथमतरं प्राचीनरीत्या प्रदर्शितेषूदाहरणेषु साभिप्रायत्वं व्यङ्ग्यमर्यादया, अनयोस्तु श्लेषमहिम्नेति वैलक्षण्यम् । अथ मतं-- उत्तरालंकारे प्रश्नोत्तरयोरा

कूतं व्यञ्जनामूलमेवेति, तर्हि तयोः श्लेषमूलकार्थान्तरगर्भत्वे चित्रप्रश्नविशेष एव नोत्तरालकार इत्येष्टव्यं, विच्छित्तिविशेषसद्भावात् । इहाप्युत्तरनिबन्धस्तु उत्तरालंकारे प्रश्ननिबन्धवच्चारुतातिशयहेतुरिति दिक् ॥

इत्यलंकारमणिहारे चित्रप्रश्नसरस्सप्ताशीतितमः.


अथ सूक्ष्मालङ्कारसरः (८८)


 अन्याशयज्ञसाकूतचेष्टितं सूक्ष्ममीर्यते ॥

 अन्याभिप्रायमिङ्गितादिना ज्ञातवतोऽन्यस्य साकूतस्तद्विषयको व्यापारस्सूक्ष्मं नामालंकारः ॥

 यथा--

 पुरतो नन्दकिशोरे करकलितमनोज्ञकन्दुके मिषति । सुन्दरमौक्तिकरदना मन्दं हसति स्म गोपशशिवदना ॥ १८८४ ॥

 अत्र गृहीतकन्दुकनन्दनन्दनसन्दर्शनलक्षणेनेङ्गितेन तदीयपयोधरग्रहाभिसंकेतसमयानुयोगाभिप्रायं विदितवत्या गोपसुदत्या तदानुकूल्येन प्रसरन्त्यां चन्द्रिकायां सङ्केतसमय इति तदुत्तर स्वहृदयगतं व्यञ्जयितुं मन्दहासव्यापारो व्यरचीति लक्षणानुगतिः ॥