अलङ्कारमणिहारः (भागः ३)/उत्तरालङ्कारः (८६)

विकिस्रोतः तः
Jump to navigation Jump to search

अथोत्तरालंकारसरः (८६)


उन्नीतप्रश्नमथवा निबद्धप्रश्नमुत्तरम् ।
साकूतमुच्यते यत्र तत्रोत्तरमुदीरितम् ॥

 यत्र उत्तरात्साकूतान्निबध्यमानात्प्रश्न उन्नीयते तत्रेदमुत्तरम् । न चेदमनुमानं, पक्षधर्मत्वादिनिर्देशविरहात् । असकृत्प्रश्नप्रतिपादनपूर्वकं साकूतमुत्तरं द्वितीयम् । इदमेव गूढोत्तरमिति व्यवह्रियते । यथा लक्षितं कुवलयानन्दे-—‘किंचिदाकूतसहितं स्याद्गूढोत्तरमुत्तरम्’ इति । नेयं परिसंख्या, तद्वदत्र व्यवच्छेद्यव्यवच्छेदकभावस्याविवक्षितत्वात् ॥

 तत्राद्यं यथा--

 तत इत इह संभ्रमतः कुत इव विचिनोषि नन्दसुत गां त्वम् । काळिन्दीतटकुञ्जे कामं दीव्यति हि तत्र सुलभैषा ॥ १८५१ ॥

 इदं स्वयूधाच्च्युतां गां विचिन्वन्तं भगवन्तं नन्दनन्दनं प्रति तं कामयमानाया गोपकामिन्या उत्तरं कलिन्दीतीरनिकुञ्जेऽस्तु स्वाच्छन्द्यमावयोरित्याकूतगर्भम् । गोपप्रश्नोऽत्रोन्नीतः । गामपृष्टाया गवावस्थानकथनस्यायोगात् ॥

 द्वितीयं यथा--

 किं चिन्तयसे भद्रे किं त्वयि कथनेन शाम्यति ममैतत् । ब्रूहि तथाऽपिच शृणुयामविदन्निव कृष्ण पृच्छसि विचित्रम् ॥ १८५२ ॥

 किं चिन्तयसे भद्रे इति कांचिद्गोपललनां प्रति भगवतः कृष्णस्य प्रश्नः । किं त्वयीत्यादि तस्या उत्तरम् । अत्राद्यस्य प्रश्नस्य चिन्ताहेतुं चेद्वदसि तदा प्रतिकरिष्यामीति व्यङ्ग्यम् । उत्तरस्य तु उपभोगेन विना केवलप्रश्नोत्तराभ्यां कः प्रतीकारस्स्यादिति । द्वितीयस्य तु प्रश्नस्य ज्ञात एव त्वदभिप्रायः । अथापि त्वद्वदनात्तं शुश्रूषेयेत्यभिसंध्युद्घाटनम् । उत्तरस्य तु ज्ञात एव त्वया मदभिप्रायः किं पुनःपुनः प्रश्नकालयापनेनेति । उन्नीतप्रश्ने सकृदुत्तरस्य चारुत्वं, निबद्धप्रश्ने तु प्रश्नोत्तरयोरसकृदुपन्यासे तत् । अयं चोत्तरालंकारो द्विविधोऽपि प्रश्नोत्तरयोरन्यतरस्योभयोरपि साभिप्रायत्वेन निरभिप्रायत्वेन च चतुर्विध इत्यष्टधेति प्राञ्चः । तत्र प्राथमिके ‘तत इतः' इति पद्ये उन्नीतः प्रश्नः किं गौस्त्वया मदीया दृष्टेत्याकारकश्चतुरसार्वभौमेण भगवता कृष्णेन वक्त्रा वैशिष्ट्यात्संभोगरूपेणाभिप्रायेण गर्भितः । उत्तरमपि तेनैवाभिप्रायेण गर्भितम् । एवं निबद्धप्रश्ने ‘किं चिन्तयसे' इति पद्येऽपि प्रश्नोत्तरयोरुभयोरपि साभिप्रायत्वम् । एवमन्यतरसाभिप्रायप्रभेदा अप्युदाहार्याः ॥

 प्रश्नोत्तरयोरुभयोरपि निरभिप्रायत्वे उन्नीतप्रश्नमुत्तरं यथा--

 इह वाऽमुष्मिन्वा त्वं बहुसुखमधिगम्य वस्तुमिच्छसिचेत् । वृजिनपथं विजहदिमं भुजगगिरीन्दुं भजस्व निश्शङ्कम् ॥ १८५३ ॥

 वृजिनपथं कुटिलमार्गं दुरितसरणिं वा । अत्र कस्यचिद्धितैषिणः पुरुषस्य कंचित्पुमांसं प्रत्युत्तरेण तत्कर्तृकस्वहितानुशासनप्रश्न उन्नीयते । तादृशप्रश्नमन्तरेण हितानुशासनायो

गात् । अत्र प्रश्नोत्तरयोरुभयोरपि निरभिप्रायता, यथाऽवस्थितार्थज्ञाननिवेदनपरत्वात् ॥

 यथावा--

 भगवद्भागवतार्चनहेतोस्तृणमपि न जातु वितरेयम् । इति यदि कृतः परः पण एष हि कृपणः कदर्यपर्यायः ॥ १८५४ ॥

 इति परः अतिशयितः पणः कृतो यदि येनैवं प्रतिज्ञा कृतेत्यर्थः । एष हि अयमेव कृपणः इतोऽप्यन्यः कः कृपण इति भावः । अमुमेव विशिनष्टि--कदर्येति । अर्यो वैश्यः ‘अर्यस्स्वामिवैश्ययोः' इति निपातितोऽयम् । कुत्सितश्चासावर्यश्च कदर्यः 'कोः कत्तत्पुरुषेऽचि’ इति कोः कदादेशः । तस्य पर्यायः स एवायं रूपान्तरमापन्न इति भावः । वैश्य एव निसर्गतः कृपणः तत्रापि कुत्सितत्वे तस्य कार्पण्यं किमु वक्तव्यमिति भावः । पक्षे पणः पणशब्दः कृतः कृवर्णात् आद्यादित्वात्पञ्चम्यास्तसिः । पर: अनन्तरभावी यदि एष एव कृपणः कृपणशब्दः कदर्यपर्यायः कदर्यशब्दपर्यायतया पठितः । ‘कदर्ये कृपणक्षुद्रकिंपचानमितंपचाः' इति । अत्र कः कृपण इति प्रश्न उन्नेयः । प्रश्नोत्तरयोर्द्वयोरप्यनाकूतत्वं च पूर्ववदेव । उपदर्शितचमत्कारस्तु विशेषः ॥

 तत्रैव निबद्धप्रश्नमुत्तरं यथा--

 गन्तव्यः कोऽहिगिरिर्मन्तव्यं किं वृषाद्रिपतिचरितम् । नन्तव्यः कोऽब्जाक्षो रन्तव्यं क्वैतदभिमते देशे ॥ १८५५ ॥

 यथावा--

 ध्येयं किं ब्रह्म परं ज्ञेयं किं तत्स्वरूपरूपगुणम् । गेयं किं तस्य यशः पेयं किं तदभिधाननिभममृतम् ॥ १८५६ ॥

 स्वरूपरूपगुणमिति समाहारद्वंद्वः । अभिधानमिति निभो व्याजो यस्य तत् । अत्र सर्वे प्रश्ना निबद्धाः । प्रश्नोत्तरयोरुभयोरपि पूर्ववन्निरभिप्रायतैव ॥

 का त्वं का वा किं तव गच्छस्येकाकिनीति पृच्छामि । त्वं किल बहुसाह्यकरः पृच्छसि गोविन्द वेद्मि तव वचनम् ॥ १८५७ ॥

 अत्र का त्वमिति कृष्णस्य प्रश्नस्स्वोपभोगार्हताभिप्रायगर्भः । का वा किं तवेति गोपकामिन्या उत्तरं किं वृथाप्रश्नमात्रेणेत्यभिप्रायगर्भम् । गच्छस्येकाकिनीति पृच्छामीति पुनः कृष्णस्य प्रश्नस्तु स्वाच्छन्द्यसौकर्याभिप्रायकः । त्वं किलेत्यादिसोपालम्भाोत्तरं तु त्वं केवलवाङ्मात्रचपलः न तु स्वैरविहारसाहसिक इत्यभिप्रायगर्भम् । इदं च पद्यं चतुर्णामपि निबद्धप्रश्नभेदानामुदाहरणतामर्हति वक्तृवैदग्ध्यावैदग्ध्यव्यवस्थयेति ॥

 अत्र जगन्नाथः— अलंकारे ह्यस्मिन् प्रश्नोत्तरगतमसकृदुपनिबद्धत्वं जीवातुः, तथैव चमत्कारोदयात् । तेन सकृत्प्रश्नस्य सकृदुत्तरं नालङ्कारभूमिः । न चोन्नीतप्रश्नोत्तरे अव्याप्तिः । उन्नीतस्य प्रश्नस्यैकत्वादनुपनिबन्धाच्चोत्तरस्याप्येकत्वादिति वाच्यम्।

प्रक्षगतमुन्नीतत्वमत्रोत्तरेणाक्षिप्तत्वं न विवक्षितम् । किंतु प्रश्नोत्तरपरंपरायां प्राचीनोत्तरश्रवणजन्यत्वमात्रमित्यभाणीत् ॥

 यथा--

 क्व गमिष्यस्यहिशैलं किं तत्रास्त्यद्भुतं परं तत्त्वम् । तत्कीदृक् सश्रीकं का श्रीर्यस्या विभूतिरखिलमिदम् ॥ १८५८ ॥

 अत्रः किं तत्रास्तीति प्रश्नः अहिशैलमित्युत्तरश्रवणादुद्गत इत्युन्नीत उच्यते । आद्यः प्रश्नत्स्वनुन्नीतोऽपि उत्तरोत्थापनार्थं निबद्ध इति । एवंचास्मिन्मते प्राग्दर्शितान्युन्नीतप्रश्नोदाहरणान्यनुदाहरणान्येव । अलंकारस्यास्य द्वैविध्यमपि न प्रश्नस्योन्नीतत्वनिबद्धत्वाभ्यां, किंतून्नीतत्वानुन्नीतत्वाभ्यां ज्ञेयम् । वस्तुतस्तु प्रश्नोत्तरयोराकूतगर्भत्वे तावतैव चमत्कारान्नासकृदुपादानापेक्षा । आकूतविरहे तु असकृदुपादानकृतश्चमत्कारोऽपेक्ष्यते निबद्धप्रश्ने । आक्षिप्तप्रश्ने तु प्रश्नाक्षेपकृतं चमत्कारं यदि मन्यन्ते सहृदयाः तदा सकृदुपादानेऽप्यलंकारत्वमस्तु ॥

 तत्र निबद्धप्रश्ने प्रश्नस्य साकूतत्वे सकृदुपादानेऽपि चमत्कारो यथा--

 सल्लपसि चेत्सुमुखि ते वदनात्किं मौक्तिकानि विगळन्ति । सल्लापं नागरकं वल्लव्यो वयमिमाः क्व विद्मोऽङ्ग ॥ १८५९ ॥

 अत्र सल्लपसि चेदित्यादिप्रश्नः भगवता नन्दनन्दनेन कृतस्संभोगाभिमुख्यसंपादनाकूतगर्भः । सल्लापं नागरकमित्यादिकमुत्तरं तु ऋजुबुद्ध्या वल्लव्या दत्ततया निराकूतमेव । वदनात्किं मौक्तिकानि विगळन्तीति लोकोक्तिः ॥

 तत्रैवोत्तरस्य साकूतत्वे सकृदुपादाने चमत्कृतिर्यथा--

 लभ्येत किमङ्ग सुमं द्युमणितनूजातटद्रुकुञ्जेषु । सुलभतमं तत्र सुमं भवादृशां मृगदृशामपि नताङ्गि ॥ १८६० ॥

 अत्र लभ्येत किमङ्गेत्यादिप्रश्नः कयाचिद्व्रजललनया ऋजुबुद्ध्या भगवन्तं यशोदानन्दनं प्रति कृतो निराकूतः । सुलभतममित्यादि भगवत उत्तरं तु तत्र संभोगस्वाच्छन्द्याकूतगर्भम् । आकूतविरहे असकृदुपादानकृतश्चमत्कारः क्व गमिष्यसीत्यत्र गदित एव । प्रकारान्तरेणाप्यस्य भेदास्संभवन्ति । पद्यान्तर्वर्तित्वेन पद्यबहिर्वर्तित्वेन तावद्द्वैविध्यम् । तत्राद्यस्याभिन्नवाक्योद्गीर्णत्वभिन्नवाक्योद्गीर्णत्वाभ्यां पुनर्द्वैविध्यम् । पद्यान्तर्वर्तिपद्यबहिर्वर्तिनोर्द्वयोरप्युत्तरयोस्सकृच्छब्दश्रुतिपर्यायत्वेन शब्दावृत्तिपर्यायत्वेनानेकेषां प्रश्नानामेकपदनिवेदितोत्तरत्वेन प्रकारान्तरैश्च बहुप्रभेदत्वमित्यालंकारिकशेखरो रसगङ्गाधरकारः । अयमेव प्रभेदश्चित्रोत्तरमिति दीक्षितैः पृथगुक्तः ॥

चित्रोत्तरमलंकारः प्रश्नाभिन्नोत्तरं भवेत् ।
यच्चोत्तरान्तराभिन्नमुत्तरं तदुपीष्यते ॥

 प्रश्नाभिन्नमुत्तरं उत्तरान्तराभिन्नमुत्तरं च चित्रोत्तरमित्युच्यते ॥

 यथा--

 कङ्कमनैषीद्भगवान् संकल्पेनैव शाश्वतैश्वर्यम् । इति पृच्छते तदेवोत्तरमिति कस्मैचिदाह कविरेकः ॥ १८६१ ॥

 भगवान् संकल्पमात्रेणैव कङ्कं चेतनं, विस्मये वीप्सा । तथाचोक्तं--

प्रतिज्ञायां प्रशंसायां प्रलापे तर्जनेऽपि च ।
भये च विस्मये चैव पौनःपुन्यमलंकृतिः ॥

इति । शाश्वतैश्वर्यमनैषीदिति प्रश्नः कङ्कं गृध्रविशेषं जटायुषमनैषीदित्युत्तरं प्रश्नाभिन्नं निबद्धम् । कङ्कमित्यत्र ‘वा पदान्तस्य' इति वैकल्पिकः परसवर्णः ॥

 यथावा--

 मृद्वी का परिभूता मृद्व्या स्वाद्व्या मुकुन्दवाचेति । पृच्छामेवोत्तरतामनयत कस्यापि कोऽपि कविराजः ॥ १८६२ ॥

 अत्र मृद्वी मृदुः का परिभूतेति प्रश्नस्य मृद्वीका द्राक्षा परिभूतेति तदभिन्नमुत्तरम् ॥

 यथावा--

 कमलं करोति हस्ते कमला कमलालया परिष्कारम् । इत्यनुयुक्ता काचन सख्या चित्रोत्तरं तदेवाह ॥ १८६३ ॥

 कमलालया पद्मगेहा कमला श्रीः हस्ते अलं कं परिष्कारं अलंकारं करोतीति प्रश्नः । कमलं पद्मं करोतीति तदभिन्नमुत्तरं पद्मं परिष्कारं करोतीत्यर्थः । चित्रोत्तरमित्यलंकारस्य सूच्यस्य सूचनान्मुद्रालंकारस्त्वत्र विशेषः ॥

 यथावा--

 पुरुषः फणधरशिखरिणि कस्तूरीकृतललामको भाति । ब्रूहि सखे किं ब्रूयामुत्तरमत्रानुयोग एव स्यात् ॥ १८६४ ॥

 कः तु ऊरीकृतललामकः इति प्रश्नपक्षे छेदः । तुशब्दः प्रशंसायां भेदे वा । ‘तु पादपूरणे भेदे समुच्चयेऽवधारणे । पक्षान्तरे वियोगे च प्रशंसायां विनिग्रहे' इति मेदिनी । फणधरशिखरिणि एतेषु पुरुषेषु कः पुरुषः पुनः ऊरीकृतललामकः प्रशस्ततया भातीति प्रश्नः । कस्तूर्या कृतललामकः विरचितविशेषकः पुरुषो भगवान् श्रीनिवास एव भातीत्युत्तरं तदभिन्नं निबद्धम् । 'ललामं पुच्छपुण्ड्राश्वभूषाः प्राधान्यकेतुषु' इत्यमरः ॥

 यथावा--

 हरिणा द्विरसनकुलपतिगिरिधाम्नाऽनायि का निजं वक्षः। इति यः प्रश्नस्तस्य स्वयमुत्तरतां स एव बत धत्ते ॥ १८६५ ॥

 द्विरसनकुलपतिगिरिधाम्ना हरिणा निजं वक्षः का अनायीति प्रश्नः । नायिकाऽनायीत्युत्तरमभिन्नवाक्योद्गीर्णम् । नायिका दयिता श्रीः वक्षः अनायि प्राप्यतेत्यर्थः ॥

 यथावा--

 सत्यं ब्रूयात्पुरुषस्त्रिभुवनजननाय कः प्रगल्भेत । किंनु ब्रूयां पुरुषस्त्रिभुवनजननायकः प्रगल्भेत ॥ १८६६ ॥

 त्रिभुवनजननाय त्रिलोकीसर्जनाय कः पुरुषः पुमान् प्रगल्भेतेति प्रश्नः । किं नु ब्रूयामिति अजानत इवोत्तरम् । त्रिभुवनजनानां नायकः अधीशः पुरुषः ‘अथ पुरुषो ह वै नारायणोऽकामयत प्रजास्सृजेयेय’ इति श्रुतः भगवन्नारायणः प्रगल्भेतेत्युत्तरान्तरं च ॥

 यथावा--

 कान्ते प्रीतिं विदधात्वात्मन्ययमिति कृतां स्वदयितेन । पृच्छामेवोत्तरयद्विडम्बयन्तीव सस्मितं लक्ष्मीः ॥ १८६७ ॥

 अयं त्वद्वशवर्तीति साभिनयं स्वस्य निर्देशः । ते आत्मनि मनसि कां प्रीतिं विदधात्विति प्रश्नार्थः । कान्ते वल्लभे आत्मनि त्वयि विषये अयं त्वमिति भावः । प्रीतिं मम विदधातु इत्युत्तरार्थः । त्वद्विषयकप्रीत्या विना नान्या मम मनसि प्रीतिरपेक्षणीयेति भावः । अत्रापि प्रश्नोत्तरयोरभिन्नवाक्यनिबद्धत्वम् ॥

 यथावा ममैव रङ्गराजविलासे--

 मोदं वह सखि मे वद को दण्डधरो दशाननकुलस्य । इति काचिच्चतुरा निजपतिना पृष्टोत्तरं तदेवाह ॥ १८६८ ॥

 दशाननकुलस्य दण्डधरः क इति प्रश्नः कोदण्डधर इत्युत्तरं चाभिन्नवाक्यगतम् ॥

 यथावा--

 सौमित्रिणा दशास्यस्वसुर्मुखे ब्रूहि काऽसिना

लूना । जानासि पठ विलोमं पृच्छायां कासिनेति वर्णांस्त्वम् ॥ १८६९ ॥

 अत्र कासिनेति प्रश्नो विलोमपठित उत्तरतां प्रपद्यत इति वैचित्र्यं विशेषः । ईदृशान्युदाहरणानि ममैव श्रीनिवासविलासनृसिंहविलासादिषु प्रबन्धेषु भूयांसि द्रष्टव्यानि ॥

 एवं प्रश्नाभिन्नोत्तररूपश्चित्रोत्तरालंकारो निरूपितः । उत्तरान्तराभिन्नमुत्तरं यथा--

 स्वाराज्ये कीदृक्षः पुनरस्थोपि श्रिया सहस्राक्षः । अथ पर्यभवन्दैत्यांस्तद्विमुखान्का निगद्यतां विपदः ॥ १८७० ॥

 अत्र प्रश्नद्वयस्यापि विपद इत्येकमेवोत्तरम् । विगतं पदं स्वाराज्यस्थानं यस्येत्येकवचनान्तविपदशब्देन प्रथमप्रश्ने इन्द्रविशेषणतया योजितेनोत्तरम् । द्वितीये तु विपदः आपदः इति बहुवचनान्तेन विपच्छब्देनोत्तरमिति ध्येयम् ॥

 अनिलात्मंभरिवरगिरिनिलयस्य चकास्ति कीदृशो विभवः । तत्तनुरुचिकालिम्ना नुत्तमदाः के निगद्यतामलयः ॥ १८७१ ॥

 अत्र श्रीनिवासस्य विभवः कीदृश इति तद्विग्रहश्यामलिम्ना निरस्तमदाः के इति च प्रश्नद्वयस्यापि अलय इति उत्तराभिन्नमुत्तरम् । आद्ये अलयः लयरहितः नित्य इत्यर्थः । द्वितीये अलयः भ्रमरा इत्यर्थः ॥

 यथावा--

 सिंहगिरिनाथवाहनरंहसि कीदृग्विभाति पवमानः । तद्दोर्दण्डविधूता वेपन्ते केऽभ्युदीर्यतामरयः ॥ १८७२ ॥

 अत्रापि प्रश्नद्वयस्योत्तरं अरय इत्यभिन्नमेव । अरयः वेगहीन इति प्रथमस्योत्तरेऽर्थः । अरयः शत्रव इति द्वितीयस्येति ध्येयम् ॥

 यथावा--

 श्रीवासस्याश्रयणाद्भवेयुरर्थार्थिनोऽत्र कीदृक्षाः । आर्तानां किं भविता ज्ञानी कीदृक्ततो भवेद्विभवः ॥ १८७३ ॥

 अत्र प्रश्नत्रयस्यापि विभव इत्येकमेवोत्तरमिति पूर्वेभ्यो विशेषः । अर्थार्थिनः अपूर्वैश्वर्यकामाः विभवः प्रभवः भवेयुरिति प्रथमस्य प्रश्नस्योत्तरम् । आर्तानां भ्रष्टैश्वर्यकामानां विभवः ऐश्वर्यं भवितेति द्वितीयस्य । ज्ञानी भगवन्तमेव परमप्राप्यं प्रापकं च मत्वा उपासीनः विभवः विगतसंसृतिर्भवतीति तृतीयस्येति बोध्यम् ॥

 यथावा--

 हरियशसा का विशदाः कीदृश्यस्तत्तनुत्विषस्ताभिः । वृषशैलः कीदृक्स्यात्कुतश्च निश्श्रेयसं भवेद्धरितः ॥ १८७४ ॥

 अत्र प्रश्नचतुष्टयस्यापि हरित इत्येकमेवोत्तरमिति पूर्वस्माद्वैलक्षण्यम् । हरियशसा का विशदा इति प्रथमस्य प्रश्नस्य

हरितः दिश इत्युत्तरम् । कीदृश्यः तत्तनुत्विषः हरिविग्रहरुच इति द्वितीयस्य हरितः हरिद्वर्णा इत्युत्तरम् । नीलहरिद्वर्णयोरभेदः कविसमयसिद्ध इत्यवोचाम वक्ष्यामश्च । ताभिः हरितनुरुचिभिः वृषशैलः कीदृक् स्यादिति तृतीयस्य हरितः हरितवर्ण इत्युत्तरम् । 'पालाशो हरितो हरित्' इत्यमरः । कुतः कस्माच्च निश्श्रेयसं भवेदिति तुरीयस्य हरितः हरेः इति सार्वविभक्तिकतस्यन्तपदेनोत्तरम् ॥

 यथावा--

 किं वितरति फणिगिरिपतिरङ्गद्युतिवैभवेन किं जयति । कं ध्वनयति रिपुविजये कंधरया कं धुनोति वद शंखम् ॥ १८७५ ॥

 किं वितरति फणिगिरिपतिरिति प्रश्नस्य शं सुखं इत्युत्तरम् । अङ्गद्युतिवैभवेन किं जयतीत्यस्य खं गगनं इति, कं ध्वनयति रिपुविजये इत्यस्य कंधरया कं धुनोतीत्यस्य च शङ्खमिति चोत्तरचतुष्टयं प्रश्नचतुष्टयादभिन्नम् । अत्राद्ययोः पदभेदेन अन्त्ययोस्तु तदभेदेनेति पूर्वतो भेदः ॥

 पद्यबहिर्वर्तिनो यथा--

 फणिशिखरिणि को निवसति को धूपो घ्राणतर्पणस्तस्य । किमहारि रहसि हरिणा विद्वन्नुत्तरमिहैकमेव वद ॥ १८७६ ॥

 अत्र प्रश्नत्रयस्याप्येकमेवोत्तरं श्रीवास इति पद्यबहिर्भूतम् । आद्ये प्रश्ने श्रीवासः श्रीनिवासो भगवानित्यर्थः । द्वितीये श्रीवासः देवदार्वादिनिर्यासविनिष्पादितो धूपविशेष इत्यर्थः । 'श्रीवासो

वृक्षधूपोऽपि श्रीवेष्टसरळद्रवौ' इत्यमरः । तृतीये श्रीवासः लक्ष्म्या अंशुकमित्यर्थः । एवंजातीयका अन्ये बहवः प्रभेदा बुद्धिमद्भिरूहनीयाः । अयं पद्यबहिर्वर्त्युत्तररूपप्रथमप्रभेद उत्तराभिन्नोत्तररूपप्रभेद एव संभवति । न तु प्रश्नाभिन्नोत्तररूपप्रथमप्रभेदे, प्रश्नेनैवोत्तरस्यापि निबद्धतया पद्याद्बहिष्ठताया असंभवात् ॥

इत्यलंकारमणिहारे उत्तरसरष्षडशीतितमः.


अथ चित्रप्रश्नालंकारसरः (८७)


प्रश्नः प्रश्नान्तराभिन्नो यदिवाऽन्यार्थगर्भितः ।
निबध्यते तं कतिचिच्चित्रप्रश्नाख्यमूचिरे ॥

 प्रश्नस्य प्रश्नान्तराभिन्नत्वे वा अर्थान्तरगर्भत्वे वा चित्रप्रश्नाख्यमलंकारं कतिचिदाहुः । अयं कौस्तुभकृदुपक्रमम् ॥

 यथावा--

 का कारुण्यनिधिर्ननु काकोदरशैलपतिहृदयवृत्तिः । शारदरविकरविकसितनीरजरुचिरा पदोर्युगी चास्य ॥ १८७७ ॥

 अत्र काकोदरशैलपतेः हृदयवृत्तिः चित्तवृत्तिरित्युत्तरस्य शारदेत्याद्युत्तरस्य च काकारुण्यनिधिरिति प्रश्नान्तराभिन्न एकएव प्रश्नः । का कारुण्यनिधिः दयानिधिरिति प्राथमिक्यप्रश्नस्यार्थः । का का आरुण्यनिधिः शोणिमाश्रय इति द्वितीयस्य । काकेति प्रशंसायां वीप्सेत्यवोचाम कङ्कमिति पद्ये ॥