अलङ्कारमणिहारः (भागः ३)/विशेषकालङ्कारः (८५)

विकिस्रोतः तः
Jump to navigation Jump to search

 अत्र नीलगुणसाम्येन भगवद्दिव्यविग्रहरुचिपूरभेदानध्यवसाये प्राप्ते शैशिर्येण निमित्तेन यमुनायास्ततो भेदस्फूर्तेरुन्मीलितम् ॥

 तद्गुणरीत्या भेदानध्यवसायप्राप्तावपीदं दृश्यते । यथावा--

 शीतद्युतिविद्योतैः श्वेतद्वीपति चराचरे निखिले । रासविलासे माधवमेणदृशो वेणुनादतोऽन्वबुधन् ॥ १८४८ ॥

 अत्र भगवतस्स्वनीलिमपरित्यागपूर्वकचन्द्रज्योत्स्नाविशदिमगुणग्रहणलक्षणतद्गुणालंकारप्रापितभेदानध्यवसायोपनतौ वेणुनादेन निमित्तेन भगवतस्ततो भेदस्फुरणम् । अन्वबुधन्नित्यत्र ‘बुधिर् बोधने’ इत्यस्माद्भौवादिकाल्लङ् । इदित्त्वात् च्लेरङ् । प्रयोगश्च–-'स च काकुत्स्थ नाबुधत्' इति ॥

इत्यलंकारमणिहारे उन्मीलितसरश्चतुरशीतितमः.


अथ विशेषकसरः (८५)


द्वयोर्त्वैधर्म्यसंस्फूर्तौ तुल्ययोस्स्याद्विशेषकः ।

 भेदतिरोधानाभावेऽपि सादृश्याद्विशेषास्फुरणे प्राप्ते केनचिन्निमित्तेन विशेषस्फूर्ती सामान्यप्रतिद्वंद्वी विशेषकः ॥

 यथावा--

 त्वत्कृपया मुक्तानां चतुर्भुजत्वादिलक्ष्मणि समाने । वक्षस्स्थितया लक्ष्म्या त्वां किल निश्चिन्वतेऽभिनवमुक्ताः ॥ १८४९ ॥

 अत्र मुक्तानां भगवतश्च भेदतिरोधानाभावेऽपि चतुर्भुजत्वेन सादृश्याद्विशेषास्फुरणे प्राप्ते लक्ष्मीस्फुरदुरस्कत्वेन भगवतो विशेषस्फूर्तेर्विशेषकः ॥

 यथावा--

 सममसितासु स्वरुचा कमलादिषु नाथ दिव्यमहिलासु । सरसिजसौरभविभवाभावे पद्मा त्वयाऽपि दुरवगमा ॥ १८५० ॥

 अत्र भगवत्याः पद्मायाः स्वगुणत्यागपूर्वकभगवच्छ्यामलिमग्रहणरूपतद्गुणालङ्काररीत्या दिव्यमहिलान्तरसाधारणे नीलिमनि तद्धृतकमलसौरभेण विशेषस्फूर्तिरिति पूर्वस्माद्विशेषः । इमौ द्वावप्यलंकारौ दीक्षितोपक्रमे एव ॥

 प्राञ्चस्तु-- “भेदवैषम्ययोः स्फूर्तौ नालंकारद्वयं कल्प्यं किंतूक्तालंकाराभावमात्रं, भेदवैजात्यस्फुरणयोः स्वतस्सिद्धतया कविप्रतिभागोचरतामूलकवैचित्र्यविरहात् । न च मीलितसामान्यरीतिभ्यां भेदविशेषस्फूर्तौ तदपवादवर्णनकृतवैचित्र्यसद्भावादलंकारान्तरकल्पनं युक्तमिति वाच्यं, तावता वैचित्र्याभावतादवस्थ्यात्” इत्याहुः । पण्डितराजस्तु इमामनुमानेऽन्तर्भावयति स्म ॥

इत्यलंकारमणिहारे विशेषकसरः पञ्चाशीततमः.