अलङ्कारमणिहारः (भागः ३)/उन्मीलिताङ्कारः (८४)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   


अपाङ्गतरळे दृशौ तरळवक्रवर्णा गीरो
विलासभरमन्थरा गतिरतीव कान्तं मुखम् ।
इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया
तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥

इति प्राचीनपद्ये तन्मीलितोदाहरणे 'धनुषि रवावुषसि हरिम्’ इत्यास्माकीने पद्ये च स्वरूपतिरोधानस्थले स्वरूपतो ज्ञायमाने वस्तुद्वये सादृश्याद्भेदाग्रहणे मीलितमिति लक्षणे अभ्युपगम्यमाने अलंकारान्तरेण भाव्यम् । सादृश्याद्भेदाग्रहणमित्येतावन्मात्रं मीलितमिति लक्षणाङ्गीकारे मीलितावान्तरभेदेन भाव्यमिति ध्येयम् । सर्वमिदं कुवलयानन्दे स्पष्टम् ॥

इत्यलंकारमणिहारे सामान्यसरस्त्र्यशीतितमः.



अथोन्मीलितसरः (८४)


स्फूता समानगुणयोर्भेदस्योन्मीलितं विदुः ।

 गुणसाम्येन भेदानध्यवसाये प्राप्ते केनापि निमित्तेन भेदस्फूर्तौ मीलितप्रतिद्वंद्वि उन्मीलितम् ॥

 यथा--

 तीरे विहृतिजुषस्तव पूरे गात्रद्युतेस्सरति शौरेः । तन्मिलितां द्युमणिसुतां शैशिर्येणैव जानते गोप्यः ॥ १८४७ ॥

 अत्र नीलगुणसाम्येन भगवद्दिव्यविग्रहरुचिपूरभेदानध्यवसाये प्राप्ते शैशिर्येण निमित्तेन यमुनायास्ततो भेदस्फूर्तेरुन्मीलितम् ॥

 तद्गुणरीत्या भेदानध्यवसायप्राप्तावपीदं दृश्यते । यथावा--

 शीतद्युतिविद्योतैः श्वेतद्वीपति चराचरे निखिले । रासविलासे माधवमेणदृशो वेणुनादतोऽन्वबुधन् ॥ १८४८ ॥

 अत्र भगवतस्स्वनीलिमपरित्यागपूर्वकचन्द्रज्योत्स्नाविशदिमगुणग्रहणलक्षणतद्गुणालंकारप्रापितभेदानध्यवसायोपनतौ वेणुनादेन निमित्तेन भगवतस्ततो भेदस्फुरणम् । अन्वबुधन्नित्यत्र ‘बुधिर् बोधने’ इत्यस्माद्भौवादिकाल्लङ् । इदित्त्वात् च्लेरङ् । प्रयोगश्च–-'स च काकुत्स्थ नाबुधत्' इति ॥

इत्यलंकारमणिहारे उन्मीलितसरश्चतुरशीतितमः.


अथ विशेषकसरः (८५)


द्वयोर्त्वैधर्म्यसंस्फूर्तौ तुल्ययोस्स्याद्विशेषकः ।

 भेदतिरोधानाभावेऽपि सादृश्याद्विशेषास्फुरणे प्राप्ते केनचिन्निमित्तेन विशेषस्फूर्ती सामान्यप्रतिद्वंद्वी विशेषकः ॥

 यथावा--

 त्वत्कृपया मुक्तानां चतुर्भुजत्वादिलक्ष्मणि समाने । वक्षस्स्थितया लक्ष्म्या त्वां किल निश्चिन्वतेऽभिनवमुक्ताः ॥ १८४९ ॥