अलङ्कारमणिहारः (भागः ३)/सामान्यालङ्कारः (८३)

विकिस्रोतः तः
Jump to navigation Jump to search
               




   


तामरसनयनम् । कृतपदमप्यम्ब त्वयि कुत एव नतेष्वनुग्रहं विद्याम् ॥ १८४० ॥

 अतएव स्तब्धः स्वात्मानमप्रदर्शयन्नवस्थित इत्यर्थः । अत्राद्ये काकुत्स्थदृगन्तेन स्वस्य नैसर्गिकेण स्वनिगूह्यक्रोधोदयसाधारणेन चारुणिमरूपेण लिङ्गेन क्रोधोदय आगन्तुको निगूह्यते । द्वितीये तु श्रीकपोलफलकेन स्वस्य स्वतस्सिद्धेन स्वगोपनीयरोषसाधारणेनारुण्येन लिङ्गेनागन्तुको रोषो निगूह्यते । तृतीये तु श्रियो वदनेन स्वस्य स्वाभाविकेन स्वनिगूहितव्यानुग्रहसाधारणेन स्मितललितत्वादिना लिङ्गेन स्वाभाविकोऽनुग्रहो निगूह्यत इति विशेषः ॥

 यथावा--

 धनुषि रवावुषसि हरिं वृषशिखरिण्यञ्चतां सरोमाञ्चम् । भक्तिः कृतास्पदाऽपि व्यक्तिं नोपैति हृदि सकम्पानाम् ॥ १८४१ ॥

 अत्रागन्तुकहेमन्तसमयजनितपुलककम्पलक्षणनिगूहितव्यसाधारणधर्मरूपेण लिङ्गेन भक्तिः स्वरूपत एव तिरोधीयते ॥

इत्यलंकारमणिहारे मीलितसरो द्व्यशीतितमः.


अथ सामान्यालंकारसरः (८३)


 न गृह्यते । विशेषश्चेत्साम्यात्सामान्यमीरितम् ॥

 अनेकस्य वस्तुनस्साम्येन यत् व्यावर्तकधर्मानुपलम्भः तत्सामान्यं नामालंकारः ॥

 यथावा--

 वर्षावनविहृतौ घनवलये त्वां वृषगिरीश जलधिसुता । तां च न काञ्चनवर्णां विद्युत्सु भवान्विविच्य नागृह्णात् ॥ १८४२ ॥

 मीलितालंकारे सर्वात्मना भेदस्यैव सामान्यधर्मनिबन्धनस्य तत्तद्व्यक्तित्वादिविशेषनिबन्धनस्य चानुपलम्भः, सामान्ये तु व्यक्तीनां परस्परभेदावबोधेऽपि परस्परव्यावर्तकधर्मानुफलम्भमात्रं सादृश्यादुपनिबध्यत इति भिदा । मीलितालंकारोदाहरणे हि निसर्गगौराल्लक्ष्मीकपोलफलकादेर्वस्त्वन्तरत्वेनागन्तुकं हरिद्रानुलेपनगौरत्वादिकं न भासते । सामान्योदाहरणे तु भगवल्लक्ष्म्योर्घनविद्युतोश्च व्यक्त्यन्तरत्वेन भानमस्त्येव । किंतु अयं भगवान् अयं घनः इयं लक्ष्मीः इयं विद्युदिति विशेषस्तु नोपलक्ष्यते । अतएव भेदतिरोधानान्मीलितं तदतिरोधानेऽपि साम्येन व्यावर्तकानवभासे सामान्यमित्युभयोरप्यन्वर्थता ॥

 यथावा--

 मधुमथन श्लथमलिके तवालकं तिलकमपि जनो भिन्नम् । अतिमात्रभिदायामपि सहसा बहुवर्णसाम्यतो नावैत् ॥ १८४३ ॥

 हे भगवन्! जनः तव अलिके ललाटे श्लथः अलकं तिलकं मृगमदतिलकं च अतिमात्रभिदायां सत्यामपि अतिवेलभेदे सत्यपि पक्षे अवर्णतिवर्णाभ्यां भेदे सत्यपीत्यर्थः । बहु यत् वर्णस्य नीलवर्णस्य साम्यं तस्मात् पक्षे बहूनां लकारादीनां वर्णानां साम्यात् भिन्नं विशेषवत् नावैत् । अत्रालकतिलकयोर्भिन्नयोरेव सतोर्वर्णसाम्यान्न विशेषग्रहणम् । चमत्कारान्तरं तु पूर्वस्माद्विशेषः ॥

 यथावा--

 नैल्यं घनेऽस्ति माधव तौल्यं तस्यास्ति विग्रहे भवतः । नैतौ विशेषभाजौ ज्ञातौ तावन्ततस्सदृशवर्णौ ॥ १८४४ ॥

 इयं घनागमे वने विहरन्तं भगवन्तं श्रीनिवासं प्रति कस्यचिदुक्तिः । हे माधव! घने मेघे नैल्यं श्यामलिमा अस्ति अत एव तस्य घनस्य तौल्यं भवतः तव विग्रहे वपुषि अस्ति अत एव सदृशवर्णौ तुल्यवर्णौ तावेतौ घनभगवद्विग्रहौ अन्ततः दूरं पर्यालोचने इति यावत् । विशेषभाजौ वैलक्षण्यभाजौ न न भवतः द्वयोरपि नीलत्वादिति भावः । पक्षे तावेतौ नैल्यं तौल्यमिति शब्दौ तावेताविति पुल्लिङ्गनिर्देशो विशेष्यकटाक्षेण । अन्ततः अन्ते सदृशः वर्णः ल्यमित्याकारकवर्णः ययोस्तौ । नै तौ इति वर्णाभ्यां विशेषभाजौ वैलक्षण्ययुजौ ज्ञातौ इत्यर्थः । नैल्यतौल्यशब्दयोस्ताभ्यामेव विशेषदर्शनादित्यर्थोऽपि चमत्कारी । अत्रापि पूर्ववदेव ॥

 प्राचां मते त्वेवं लक्षणम्--

 गुणतौल्यविवक्षातः परस्य प्रस्तुतेन यत् । ऐकात्म्यमुच्यते योगात्सामान्यं तदुदीरितम् ॥

 यत्र वस्तुतः प्रस्तुतात् भिन्नमस्य प्रस्तुतं गुणसाम्यविवक्षया प्रस्तुतात्पृथगप्रतीयमानतया निबध्यते तत्र योगात् समानगुणसंबन्धरूपात् सामान्यं नामालंकारः । वस्तुद्वयस्य पृथक् स्वरूपप्रतीतावपि गुणसाम्याद्भेदतिरोधानं सामान्यमिति निष्कर्षः । अस्य च मीलिताद्वैलक्षण्यं तत्रैव निरूपितम् । तद्गुणे

तु स्वगुणपरित्यागपूर्वकोऽन्यगुणपरिग्रहः । इह तु स्वगुणमपरित्यज्यैव तुल्यगुणादन्यस्मात् पृथगविभाव्यमानतेति ततो भिदा ॥

 यथा--

 केयूरयुगळखचिता मायूररुचिर्हरिन्मणीश्रेणी । हरिदिव्यविग्रहरुचा लब्धाद्वैता विविच्य नाग्राहि ॥ १८४५ ॥

 यथावा--

 ताटङ्कवज्ररुचिभरकबळितरूपा तवाम्ब रदनाळी । निपुणनिरूपणकुशलैरपि नैव पृथक्तया जनैर्जज्ञे ॥ १८४६ ॥

 अत्राद्ये उदाहरणे प्रस्तुतभगवद्दिव्यविग्रहरुच्यपेक्षया हरितगुणसाम्यादप्रस्तुतगारुत्मतमणीश्रेण्याः पृथगविभाव्यमानतोक्ता । द्वितीये तु अप्रस्तुतात्ताटङ्कवज्ररुचिभरात् धवलगुणसाम्यात्प्रस्तुताया लक्ष्मीरदनावळ्याः पृथगप्रतीयमानता निबद्धेति भेदः । एवंच एतन्मते ‘पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम्’ इत्यन्यदीये पद्ये ‘वर्षावनविहृतौ' इत्यास्माकीने पद्ये च मुखपद्मादीनां भेदावभासेऽपि व्यावर्तकास्फुरणादलंकारान्तरेण भाव्यम् । स्वरूपातिरोधानेन मीलितासंभवात् भेदातिरोधानेन

सामान्यस्याप्यसंभवात् । यद्वा गुणसाम्याद्विशेषाग्रह इति सामान्यालंकारसामान्यलक्षणम् । विशेषाग्रहश्च क्वचिद्भेदे गृह्यमाणे क्वचिच्चागृह्यमाणे इति कल्पयित्वा तदवान्तरभेदेन भाव्यम् । प्राथमिके 'न दृश्यते भेद एव सादृश्याद्यदि मीलितम्' इति मते-

अपाङ्गतरळे दृशौ तरळवक्रवर्णा गीरो
विलासभरमन्थरा गतिरतीव कान्तं मुखम् ।
इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया
तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥

इति प्राचीनपद्ये तन्मीलितोदाहरणे 'धनुषि रवावुषसि हरिम्’ इत्यास्माकीने पद्ये च स्वरूपतिरोधानस्थले स्वरूपतो ज्ञायमाने वस्तुद्वये सादृश्याद्भेदाग्रहणे मीलितमिति लक्षणे अभ्युपगम्यमाने अलंकारान्तरेण भाव्यम् । सादृश्याद्भेदाग्रहणमित्येतावन्मात्रं मीलितमिति लक्षणाङ्गीकारे मीलितावान्तरभेदेन भाव्यमिति ध्येयम् । सर्वमिदं कुवलयानन्दे स्पष्टम् ॥

इत्यलंकारमणिहारे सामान्यसरस्त्र्यशीतितमः.



अथोन्मीलितसरः (८४)


स्फूता समानगुणयोर्भेदस्योन्मीलितं विदुः ।

 गुणसाम्येन भेदानध्यवसाये प्राप्ते केनापि निमित्तेन भेदस्फूर्तौ मीलितप्रतिद्वंद्वि उन्मीलितम् ॥

 यथा--

 तीरे विहृतिजुषस्तव पूरे गात्रद्युतेस्सरति शौरेः । तन्मिलितां द्युमणिसुतां शैशिर्येणैव जानते गोप्यः ॥ १८४७ ॥