सामग्री पर जाएँ

अलङ्कारमणिहारः (भागः ३)/मीलितालङ्कारः (८२)

विकिस्रोतः तः

अथ मीलितसरः (८२)


 न दृश्यते भेद एव सादृश्याद्यदि मीलितम् ।

 सदृशयोर्वस्तुनोस्सादृश्याद्भेदानभिव्यक्तौ मीलितं नामालंकारः ॥

 यथा--

 काञ्चन्यनुलेपनमिह काञ्चनगौरे मुहुस्तव कपोले । विदधानं तददर्शनखिन्नं स्विन्नं पतिं हससि पद्मे ॥ १८३६ ॥

 हे पद्मे ! काञ्चनी हरिद्रा 'निशाख्या काञ्चनी पीता हरिद्रा' इत्यमरः । तच्चूर्णमिति यावत् । तस्याः अनुलेपनं परिणयोत्सवादाविति भावः । काञ्चनगौरे तव कपोले मुहुः विदधानं तस्यानुलेपनस्यादर्शनेन सावर्ण्याद्विविच्याग्रहणेन खिन्नं वृथैव मम प्रयासोऽजनीति खेदशालिनं अतएव स्विन्नं पतिं हससि । अत्र कमलाकपोलफलकहरिद्राचूर्णानुलेपनयोर्गौरगुणसाम्याद्भेदानध्यवसायः ॥

 यथावा--

 श्यामलविकसितकुवलयकोमलरूपे निसर्गसुरभिणि ते । अलिके मुरहर मृगमदतिलकमिदं केन नाम जानीयाम् ॥ १८३७ ॥

 अत्र श्यामलिमसौरभाभ्यां श्रीनिवासफालमृगमदतिलकयोस्साम्याद्भेदानध्यवसायः ॥

 प्राचां मते त्वेवं लक्षणम्--

 वस्तुतुल्येन लिङ्गेन निजेनागन्तुकेन वा । पिधीयते वस्तुना चेन्मीलितं तदुदाहृतम् ॥

 यत्र प्रबलेन केनचिद्वस्तुना स्वाभाविकेनागन्तुकेन वा स्वनिगूह्यवस्त्वन्तरसाधारणेन स्वगतेन तुल्येन लिङ्गेन चिह्लेन वस्त्वन्तरं पिधीयते निगूह्यते तत्रोभयत्रापि मीलितं नामालंकारः । वस्तुद्वयस्य लक्षणसाम्यात्तयोः केनचिद्बलीयसा तदन्यस्य स्वरूपतिरोधानं मीलितमिति निष्कर्षः । न चात्र ‘ताटङ्कवज्ररुचिभर’ इत्यादिवक्ष्यमाणात्सामान्यान्न वैलक्षण्यमिति वाच्यं, यत्र वस्तुद्वयस्य लिङ्गसाम्ये सति तयोर्मध्ये केनचिद्वलिना तदन्यस्वरूपमेव तिरोधीयते तत्र मीलितं; यत्र तु स्वरूपप्रतीतावपि गुणसाम्याद्भेदतिरोधानं तत्र सामान्यमिति वैलक्षण्यात् ॥

 यथा--

 काकुत्स्थस्य निसर्गादरुणिमकान्ते विलोचनयुगान्ते । क्रोधोदयं नदीनां नाथो नाविददतश्चिरं स्तब्धः ॥ १८३८ ॥

 यथावा--

 लक्ष्म्याः कपोलफलके निसर्गगौरे हिरण्यवर्णायाः । प्रणयाद्रोषो योऽजन्यथोक्षजेनापि स किल नाज्ञायि ॥ १८३९ ॥

 यथावा--

 स्मितललितं तव वदनं स्वत एव विकासि-

तामरसनयनम् । कृतपदमप्यम्ब त्वयि कुत एव नतेष्वनुग्रहं विद्याम् ॥ १८४० ॥

 अतएव स्तब्धः स्वात्मानमप्रदर्शयन्नवस्थित इत्यर्थः । अत्राद्ये काकुत्स्थदृगन्तेन स्वस्य नैसर्गिकेण स्वनिगूह्यक्रोधोदयसाधारणेन चारुणिमरूपेण लिङ्गेन क्रोधोदय आगन्तुको निगूह्यते । द्वितीये तु श्रीकपोलफलकेन स्वस्य स्वतस्सिद्धेन स्वगोपनीयरोषसाधारणेनारुण्येन लिङ्गेनागन्तुको रोषो निगूह्यते । तृतीये तु श्रियो वदनेन स्वस्य स्वाभाविकेन स्वनिगूहितव्यानुग्रहसाधारणेन स्मितललितत्वादिना लिङ्गेन स्वाभाविकोऽनुग्रहो निगूह्यत इति विशेषः ॥

 यथावा--

 धनुषि रवावुषसि हरिं वृषशिखरिण्यञ्चतां सरोमाञ्चम् । भक्तिः कृतास्पदाऽपि व्यक्तिं नोपैति हृदि सकम्पानाम् ॥ १८४१ ॥

 अत्रागन्तुकहेमन्तसमयजनितपुलककम्पलक्षणनिगूहितव्यसाधारणधर्मरूपेण लिङ्गेन भक्तिः स्वरूपत एव तिरोधीयते ॥

इत्यलंकारमणिहारे मीलितसरो द्व्यशीतितमः.


अथ सामान्यालंकारसरः (८३)


 न गृह्यते । विशेषश्चेत्साम्यात्सामान्यमीरितम् ॥

 अनेकस्य वस्तुनस्साम्येन यत् व्यावर्तकधर्मानुपलम्भः तत्सामान्यं नामालंकारः ॥